पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8] तृतीयं काण्डम्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽअतः ॥ ७ ॥ स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट खमा || किञ्चिदीषन्मनागल्पे भेत्यामुत्र भवान्तरे ॥ ८ ॥ व वा यथा तथेवैवं साम्येऽहो ही च विस्मये || मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥ दिष्ट्या समुपजोषं चेत्यानन्देऽयान्तरेऽन्तरा || अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ।। १० ।। F-16 66 ध्यति "पर्वतस्य हिरुक् नदी " । सहसेत्येकमतर्किते । यथा । “दिव: प्रसूनं सहसा पपात | सहसा विदधीत न क्रियाम्" | पुरः पुरतः अग्रतः त्रयमत्रे इत्यर्थे । यथा । “पुरः पश्यसि किं बाले । पुरतः स्थाप्य सर्वेशम् | लेख: प्रत्यर्थिनोऽग्रतः” ॥ ७ ॥ स्वाहा औौषट् वौषट् चषद् स्वधा देवेभ्यो हविर्दानविशेषे प्रयुज्यन्ते । तत्र पितृदाने खधाशब्दः प्रसिद्धः । किश्चित् ईषत् मनाक् त्रयमल्पे | यथा । "किंचिद्विकसितं सुमम् । ईषदुष्णं पयः पिब । मनाक् विहस्य संतुष्टः " । प्रेत्य अमुत्र द्वयं जन्मान्तरे । “यथा । प्रेत्य खर्गे महीयते । इह चासुत्र च फलम् " ॥ ८ ॥ व वा यथा तथा इब एवं पद् साम्ये । तत्र बशब्दो यथा । शात्रवं व वपुर्यशः । “मणी वो लम्बेते प्रियौ वत्सतरौ मम" इत्यत्र इवार्थे वशब्दो वाशब्दो वा बोध्य इति कौमुद्यामुक्तम् । यथा बुढश्चितस्यानं तथैवार्तस्य चौषधम् । इन्दुरिन्दुरिव श्रीमान् । अभिरेवं द्विजः । "वं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्” इति मेदिन्यादिः । अतो “ब वा यथा तथा " इत्यादिमनोरमोक्तः पाठः साधुः " । न तु बहायथेत्यादिः । अपत्यादि- पर्यायमध्येऽफिञादीनामनुक्तेश्च । अहो ही द्वे विस | यथा । अहो रूपमहो सत्त्वम् । “ही विसयविषादयोः” इति विश्वः | तूष्णीं तूष्णीकाम् | यथा । "तूष्णीं खित्वा क्षणं भूयः | तूष्णी जलमध्यगः" । सद्यः सपदि द्वे तत्काले । यथा । “सद्यो इतः समुत्तस्यौ । शत्रुं जवान सपदि ” ॥ ९ ॥ दिध्या समुपजोषं द्वे आनन्दे । यथा । दिष्टया ते दर्शनं कान्ते । समुपजोषं भूयात् । अन्तरे अन्तरा अन्तरेण त्रीणि मध्ये स्युः । यथा । जनयोरन्तरे तिष्ठ । त्वां मां चान्तरा अन्तरेण वा कमण्डलुः । प्रसोत्येकं इठार्थकम् ।। १० ।। 46 Digitized by Google