पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] तृतीयं काण्डम् ॥ ॥ १ ॥ चिरायचिररात्रायचिरस्याद्याविरार्थकाः मुहुः पुनः पुनः शश्वदमीक्ष्णमसकृत्समाः साक् झटित्यअसाहाय द्राङ् महू सपदि हुते || बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥ पृथग्विनान्तरेणर्ते हिरुकू नाना च वर्जने ॥ ३४९ कालः । अहहा दीर्घान्तमपि । अत्र किए । “अहहेत्यद्भुते खेदे परिलेशप्रक- र्षयोः । संबोधनेऽपि” इति मेदिनी | हेतौ कारणे हि । यथा । अभिरत्रास्त्रि धूमो हि दृश्यते । अवधारणे निश्रये यथा । चन्द्रो हि शीतः । “हि पादपूरणे हेतौ विशेषेऽप्यवधारणे । प्रने हेत्वपदेशे च संभ्रमासूययोरपि" इति मेदिनी । दीर्घान्तपाठोऽप्यस्ति । ही दुःखहेतावाख्यातो विषादे विस्मयेऽपि चेति ।। इति नानार्थवर्गः ॥ ३ ॥ चिराय चिररात्राय चिरस्य एते निपाता आद्या येषां ते तथा । आद्यशब्दाविरेण चिरात् चिरं इति पद् चिरार्थकाः । दीर्घका- लस्य बाचका इत्यर्थः । “क्रमेणोदाहरणानि । यथा । चिराय संतर्प्य समि- द्भिरभिम् । चिररात्राय संचितम् । चिरस्य दृष्टैव मृतोत्थितेव । चिरेण नाभि प्रथमोदविन्दवः । चिरात्सुतस्पर्शरसज्ञतां ययौ । स चिरं तपसि स्वितः" । मुहुः पुनःपुनः शश्वत् अभीक्ष्णं असकृत् एते पश्च समा: अर्थतस्तुल्या: । यथा । मुहुः पश्यसि कौन्तेय | आगच्छति पुनः पुनः । बन्यवृत्तिमिमां शश्वत् । अमीक्ष्णमक्षुण्णतयाऽतिदुर्गमम् । असकृजलपानाच सकत्ताम्बूलचर्वणात् । अजयस्तु | अभीक्ष्णशब्दमनव्ययमप्याह । “अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते” इत्यनव्ययप्रकरणे पाठात् ॥ १ ॥ साक् झटिति अअसा अह्नाय द्राक् मञ्जु सपदि एते सप्त द्रुते शीघे । यथा । साग्र नयो याति देहिनाम् । वृक्षं झटित्यारुरोह । अञ्जसा याति तुरगः । अह्नाय सूर्येण तमो निरस्तम् । द्राक् भविष्यति सुखं तव प्रिये । मञ्जु झपादि सरितः पटलैरलीनाम् | बच- सस्तस्य सपदि क्रिया केवलमुत्तरम् | बलबत् सुष्टु किसुत सु अति अतीन पद् निर्भरे अतिशये | यथा | पुनर्वशित्वा बलवभिगृह | सुष्टु पीतं मया घृतम् । किमुताबर्द्धत क्षेत्रम् । अतिवृष्टिः । अतीव शोभते राजा ॥ २ ॥ पृथक् विना अन्तरेण ऋते हिरुक् नाना एते बद् वर्जने । यथा । किंचित् पृथक क्रिया | क्षणमप्युत्सहते न मां विना | अन्तरेण सुतं नास्ति सुखं संसा- Digitized by Google