पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I 241-2143 [ नानार्थवर्ग सटीकामरकोशस्य सकृत्सहैकवारे चाप्याराडूरसमीपयोः ॥ २४१ ॥ प्रतीच्यां चरमे पश्चाताप्यर्थविकल्पयोः ॥ पुनःसहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्पयोः ॥ २४२ ॥ खेदानुकम्पासंतोषविस्मयामश्रणे बंत || हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २४३ ॥ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः || तथैव पादपूरणे" इति मेदिनी | भेदावधारणयोस्तुशब्दो यथा । क्षीरान्मांस तु पुष्टिकृत् । शिष्टैर्मतं तु तयुक्तम् । “तु पादपूरणे भेदे समुययेऽवचारणे । पक्षान्तरे नियोग च प्रशंसायां विनिग्रहे” इति मेदिनी । सहार्थे एकबारे प सकृत् यथा । सकृधान्ति । सकृदपि कुर्याद्गयाथाद्धम् । दूरे "आरात् " यथा । आराच्छोः सदा वसेत् । समीपे तु सखायं स्थापयेदारात् ॥ २४१ ॥ प्रती- च्यां पश्चिमदिशि । चरमेऽन्त्ये च पश्चात् । गथा । “पत्रादस्तङ्गतो रविः । पश्चिमे वयसि नैमिषं वशी" | अपिशब्दस्यार्थः समुच्चयस्तत्र विकल्पे चोत- शब्दो यथा । उत भीम उतार्जुनः । विष्णुरुत शिषः सेव्य: । “उत प्रश्नषि- तर्कयोः ः । समुचये विकल्पे च" इति हैमः। अजयस्तु "उतापी द्रौ च पाढार्था- विति" | पुनरर्थे पौनःपुन्ये सहार्थे च शश्वत् । यथा शवद्विष्णुं मरेत् । शिष्यैः शश्वद्द्रतो गुरुः । “शश्वत्स्यादात्मप्रश्ने च मङ्गले । पुराकल्पे सदार्थे च पुनरर्थे च दृश्यते” इति मेदिनी । अजयस्तु “शश्वत्सहसदार्थयोः” इत्याह । "शश्वत्सह पुनर्नित्यः" इति हैमथ । प्रत्यक्षे तुल्ये च साक्षात् । यथा । साक्षात् दृष्टो मया हरिः । साक्षाल्लक्ष्मीरियं वधूः ॥ २४२ ॥ खेदाद्यर्थपथके नत । गथा । अहो बत महत्कष्टमिति / बत निःखोऽसि । बत पतिरालिङ्गितः । अहो बतायं ध्रुव आप देवम् । एहि बत सखे । “बतेत्यम्पयं दन्त्योष्ठ्यादि " इत्यजयः । हर्षादिचतुष्के इन्तशब्दः । “हर्षे यथा । हन्त लामः शतगुणः । अनुकम्पाय यथा । हन्त दीनो रक्षितव्यः" । बाक्यारम्भे यथा । हन्त ते कथवि ष्यामि | विषादे यथा । "इन्त जातमजातारे: प्रथमेन त्वयाऽरिणा। हन्त दाने - नुकम्पायां वाक्यारम्भविषादयोः । निश्चये च प्रमोदे च" इति हैमः ॥ २४३ । मो मुख्येन सदृशः प्रतिनिधिस्तत्र प्रतिशब्दो यथा । अभिमन्युं प्रति परीक्षित् । वीप्सा व्यातुमिच्छा तत्र यथा | तीर्थ तीर्थं प्रति गच्छति | लक्षणायां यथा । वृक्षत्राणां प्रति विधोतते विद्युत् । आदिना इत्थंभूताख्यानादौ । प्रयोगत इति शिष्टप्रयोगानु- Digitized by Google !