पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३.] तृतीयं काण्डम् नगरे पुरम् || पुरोऽधिकमुपर्यप्राण्यगारे मन्दिरं चाय राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १८३ ॥ दरोऽस्त्रियां भये व वज्रोऽस्त्री हीरके पवौ || तत्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे || १८४ ॥ औशीरचामरे दण्डेऽप्यौशीरं शयनासने || पुष्करं करिहस्तात्रे वाद्यभाण्डमुखे जले | व्योनि खङ्गफले पद्मे तीर्थोषघिविशेषयोः ॥ १८५ ।। अन्तरमवकाशावधिपरिघानान्तर्षिभेदतादर्थ्ये ।। 182--185. अगहनेष्वपि " इति विश्वः । रहो विजनम् । अन्तिकं समीपम् । द्वे उपहरसंझे ॥ १८२ || पुर इत्यादीनि त्रीणि अग्रशब्दवाच्यानि । तत्र पुरः पुरस्तात् । यथा । अग्रगामी । अधिकं यथा । सायं शतम् । उपरि यथा । वृक्षाग्रम् | "अप्रै पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यात्र- पुंसकम् । अधिके च प्रधाने च प्रथमे चामिघेयवत्" इति मेदिनी | पुरं मन्दिरं चेति द्वयमगारे गृहे नगरे च वर्तते । “गृहोपरिगृहं पुरम्” इति धरणिः । “पुरं शरीरे नगरे गृहपाटलिपुत्रयोः” इति हैमः । “मन्दिरं नगरे क्लीषम्” इति मेदिनी । विषये जनपदे उपद्रवे मरणादौ च राष्ट्रः । “स च पुनपुंसक ः " ॥ १८३ ॥ भ्रे गर्ते । हीरके मणिभेदे | पवौ भिदुरे । प्रधाने यथा । स्वतन्त्रः । सिद्धान्ते यथा । तान्त्रिकः । सूत्रवायपरिच्छदयोथ तत्रशब्दः । “त कुटुम्बकत्ये स्वात्सिद्धान्ते चौषधोत्तमे । प्रधाने सन्तुवाये च शास्त्रभेदे परिच्छदे ॥ श्रुति- शाखान्तरे हेतावुभयार्थप्रयोजने । इतिकर्तव्यतायां च" इति मेदिनी ॥ १८४ ॥ चामर इति दण्डविशेषणम् । चमरस्यायं चामरस्तत्र | शयनासनयोः समुदित- मोरौशीरसंज्ञेति स्वामी । सुभूतिस्तु पृथगेव व्याख्यत् । गजशुण्डाग्रादिष्वष्टसु पुष्करम् | बाद्यमाण्डं वादनीयपात्रं तन्मुखे । खत्रफले खड्गमध्ये | पद्मे नलिने । तीर्थविशेषे कुष्ठाल्यौषधिविशेषे च । “पुष्करं द्वीपतीर्थाहिखगराजौषधान्तरे । तूर्यास्येऽसिफले काण्डे झुण्डाग्रे खे जलेऽम्बुजे" इति हैमः ॥ १८५ ॥ अवका- शादिषु त्रयोदशसु अन्तरशब्दः । अबकाशे यथा । अन्तरे हिमम् । अवधौ । ४२ Dighlized by Google