पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] तृतीयं काण्डम् २९९ ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ॥ ४९ ॥ हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या || त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः ॥ ५० ॥ तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे || वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी ॥ ५१ ॥ करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् || शरणं गृहरक्षित्रोः श्रीपर्ण कमलेऽपि च ॥ ५२ ॥ विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु || प्रमाणं हेतुमर्यादाशास्त्रेयत्तात्रमातृषु ॥ ५३ ॥ 49-53 णीर्मोगिके पत्यो प्रधाने नापितेऽपि च " इति विश्वप्रकाशः । ग्रामं नय- तीति ग्रामणीः । “अग्रग्रामाभ्याम्” इति णत्वम् । “भेषलोम्नि भ्रुवोरन्तरावर्ते च ऊर्जा " आदिना शशोष्ट्रादीनां च लोम सा ऊर्जा । सोर्णा चक्रवर्त्या- दीनां महायोगिना च महापुरुषलक्षणभूता मृणालतन्तुसूक्ष्मा शुभ्रायता प्रश- स्ताबर्ता प्रायेण भवति ।। ४९ || हेनः सुवर्णस्य प्रतिमा या च हरिता हरि- द्वर्णा । “हरिण हरिताया॑ च नामितभेदयोः । सुवर्णप्रतिमायां च” इति मेदिनी | पाण्डौ पाण्डरवर्णे चकारान्मृगभेदे | वेश्मनो गृहस्य स्तम्मे स्थूणा । अपिशब्दाल्लोहस्य मायाम् ॥ ५० ॥ स्पृहा वाञ्छा । पिपासा पानेच्छा | "जुगुप्सा निन्दा करुणा च घृणेत्युच्यते" । वणिक्पथे पण्यवीभ्यां आपणे पण्ये च विपणिः । सुरा मद्यम् । प्रत्यक् प्रतीची दिक् । उभे वारुण्यौ । गण्डदूर्नापि वारुणी । “वारुणी गण्डदूर्वायां प्रतीची सुरयोः खियाम्” इति कोशान्तरात् ॥ ५१ ॥ इभ्यां हस्तियां करेणु: त्रीलिङ्गा | इमे इस्तिनि करेणुन पुंलिङ्गः । बलं पराक्रमः गृहे रक्षितरि शरणम् । “वभरक्षणयो- रपि शरणम् " । चकारादग्निमन्थे च श्रीपर्णम् ॥ ५२ ॥ अभिमरो युद्धम् । खरे तिम्मे । “तीक्ष्ण सामुद्रलवणे विषलोहाजिमुष्कके । लीवं यवाग्रजे पुंसि तिग्मात्मत्यागिनोलिषु” इति मेदिनी । हेतुर्भूमादिः मर्यादा सीमा । इमचा परिच्छेदः । प्रमाता ज्ञाता एष्वर्येषु प्रमाणशन्दो वर्तते । "प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां व हेतौ च क्लीबैकत्वे प्रमातरि" इति मेदिनी ॥ ५३ ॥ साधकतमं क्रियासिद्धौ प्रकृष्टो हेतुः । साधकतमं करण- Digized by Google