पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। तृतीयं काण्डम्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ निकृष्टप्रतिकृष्टार्वरेफॅयाप्यावमाघमाः कुप्यकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥ || मलीमसं तु मलिनं कच्चरं मलदूषितम् || पूतं पवित्रं मेध्यं च वीघ्रं तु विमलार्थकम् ।। ५५ ।। निर्णितं शोधितं मृष्टं निःशोष्यमनवस्करम् || असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ।। क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ॥ मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥ परार्ध्याग्रप्राग्रहरप्राग्र्याम्याग्रीयमग्रियम् ।। २६५ 53-57 44 46 44 यावत् तदासेचनकं स्यात् । “असेचनकमित्यपि” । अभीष्टं अभीप्सितं हृद्यं दयितं वल्लभं प्रियं षडभीष्टस्य । “अभ्यालुमिष्यते स अभीप्सितम्" ॥ ५३ ॥ निकृष्टः प्रतिकृष्टः अर्वा । “अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गके” इति कोशान्तरे | रेफः रेपः । “ रेप: स्यानिन्दिते क्रूरे” इति विश्वः । याप्य:- अवमः अघमः कुपूयः “कपूय इत्यपि | पृषोदरादित्वादत्वम्" । कृत्सितः अवद्यः खेट: गर्हाः अणक: 'आणक इत्यपि" त्रयोदशावमस्य । “खेटति त्रासयति खेट: " । अर्वा नान्तः । अर्वन्तौ ॥ ५४ ॥ मलीमस मलिन कचरं मलदूषितं चत्वार्यनुज्ज्वलस्य । “कुत्सितं घरति कन्वरम् " । पूतं पवित्रं मेध्यं त्रीणि । वीघ्रमित्येकं विमलार्थकं स्वभावनिर्मलस्येत्यर्थः । 'विमला- त्मकमित्यपि पाठः " ॥ ५५ ॥ निर्णिक्तादिपञ्चकमपनीतमलस्य । असारं फल्गु द्वे निर्बलस्य | शून्यं “शुन्यमित्यपि । शुनः संप्रसारण वा च दीर्घत्व- मिति यत्" । वशिकं तुच्छे रिक्तकं चत्वारि “रिक्तस्य " ॥ ५६ ॥ प्रधान प्रमुखः प्रवेकः अनुत्तमः उत्तम: मुख्यः वर्ग: वरेण्यः प्रवई: अनवरार्ध्यः ॥ ५७ ॥ परार्ध्यः अग्रः प्राग्रहरः प्राभ्यः अन्यः अग्रीयः अप्रियः सप्तदश प्रधानस्य | सुखमिव मुख्य: । अवरसिभ मवः अवरार्ध्यः न अव- रार्ध्यः अनवरार्ध्यः । तत्र प्रधानं नित्यं लीये । पूर्वोचरशन्दास्तुल्यार्थी इति बता ज्ञापितम् । श्रेयान् श्रेष्ठः पुष्कलः सत्तमः अतिशोभनः पश्चात्यन्त- Digitized by Google