पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ विशेष्यनिनवर्गः २५६ सटीकामरकोशस्य परतन्त्रः पराधीनः परवान्नाथवानपि ॥ अधीनो निम्न आयत्तोऽखच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥ खलपूः स्याडहुकरो दीर्घसूत्रश्चिरक्रियः ॥ जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥१७॥ कर्मक्षमोऽलङ्कमणः क्रियावान्कर्मसूद्यतः ॥ स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥ भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः ॥ अपस्नातो मृतस्रात आमिषाशी तु शौष्कुलः ॥ १९ ॥ वान्” । परवन्तौ । अधीनः निघ्न आयतः अस्वच्छन्दः गृह्णकः पञ्चकमधीन- मात्रे ! इनमधिगतः अधीनः अघि उपरि इनो यस्येति वा । न स्वच्छन्दो- ऽस्याखच्छन्दः" । नवानामेकार्थत्वमित्येके || १६ || खलपू: बहुकरः द्वे संमा- र्जनादिकारिणः । खलं चत्वरं पुनाति मार्जयति खलपूः खलप्वौ । दीर्घसूत्रः चिरक्रियः द्वे यः स्वल्पकालसाध्यं चिरेण करोति तस्यालसविशेषस्य | दीर्घे सूत्रं व्यवस्था यस्य दीर्घसूत्रः । “सूत्रं तन्तुव्यवस्थयोः" इति विश्वः । चिरेण क्रियाऽस्य चिरक्रियः । जाल्मः असमीक्ष्यकारी द्वे यो गुणदोषानविसृश्य करोति तस्य | यः क्रियासु मन्दोऽलसो मृढो वा स कुण्ठ इत्येकम् ॥ १७ ॥ कर्मक्षमः अलङ्कमण: द्वे कर्मणि शक्तस्य । “कर्मणे क्रियायै अलं समर्थः अलकर्मीणः” । कर्मसु य उयुक्तः स क्रियावान् एकम् । कार्मः कर्मशीलः द्वे नित्यं कर्मण्येव प्रवृत्तस्य । स्त्रियां तु कार्मी । कर्मशूर: कर्मठ: द्वे प्रयत्नेन य आरब्धं कर्म परिसमापयति तस्य । “कर्मणि घटते कर्मठः” । “कर्मणि घटो- उठच्” इति पाणिनिः ॥ १८ ॥ भरण्यभुक् भरण्यं वेतनं भुङ्गे “कर्मण्यभुगि- त्यपि " कर्मकरः द्वे वेतनं गृहीत्वा कर्म करोति तस्य । तत्कर्मैव क्रिया यस्य स तत्क्रियः । वेतनं विनापि क्रियावान् स कर्मकार इत्येकम् । अपस्नातः मृतस्त्रातः द्वे मृतमुद्दिश्य स्नातस्य । आमिषाशी शौष्कुलः द्वे मत्स्यमांसमक्ष- कस्य । “शौष्कल इति वा पाठः ” । शुष्कलः । "शुष्कलः शुष्कमांसल पणिके पिशिताशिनि " हैमः ॥ १९ ॥ बुभुक्षितः भुषितः जिषत्सुः अश- नायितः चत्वारि बुभुक्षितस्य । अत्तुमिच्छु: जिषत्सुः । सनन्तादुः । “अशनस Digized by Google