पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| १० ] द्वितीयं काण्डम्. ऑस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ वृक्षादनी वृक्षभेदी टङ्क: पाषाणदारणः ॥ ३४ ॥ क्रको स्त्री करपत्रमारा चर्मप्रभेदिका || सूम स्थूणाज्य प्रतिमा शिल्पं कर्म कलादिकम् ॥ ३५ ॥ प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।। ३६ ॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सहशः सदृक् || साधारणः समानश्च स्युरुत्तरपदे त्वमी ॥ ३७ ॥ 33-37 44 || ३३ || आस्फोटनी लास्फोटनी । “वेधनी तु लास्फोटन्यां स्फोटनी वृषदेशिका " इति वाचस्पतिः वेधनिका द्वे मण्यादेर्वेघोपयुक्तस्य शस्त्रभेदस्य 'सामता इति ख्यातस्य " कृपाणी कर्तरी द्वे स्वर्णपात्रादि विच्छिते येन तस्य कातर इति ख्यातस्य । वृक्षादनी वृक्षभेदी द्वे वृक्षभेदनार्थस्य शस्त्रभेदस्य “वांकस, तासणी इति ख्यातस्य" । टङ्कः “तक इत्यपि " पाषाणदारणः द्वे पाषाणदारणार्थस्य घनभेदस्य " टांकी इति प्रसिद्धस्य " ॥ ३४ ॥ क्रकचः करपत्रं द्वे काष्ठादिविदारणार्थस्य करवत इति ख्यातस्य । आरा चर्मप्रभेदिका द्वे चर्मखण्डनार्थस्य शस्त्रभेदस्य आरी इति ख्यातस्य | सूर्मी "सूर्मिरिति वा " स्थूणा अयःप्रतिमा त्रयं लोहप्रतिमायाः । कला गीतनुत्यादिकं यत्कर्म तच्छिल्पम् । आदिना रथकारादिकर्म ॥ ३५ ॥ प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया प्रतिकृतिः अर्चा प्रतिनिधिः अष्टौ प्रतिमायाः । “प्रतिकृत्य मीयतेऽनेन प्रतिमानम् । माङ् माने " । प्रतिनिधिः पुंसि । उपमा उपमानं द्वे उपमितकरणस्य | "भावे करणे च । येनोपमीयते या चोपमि- तिस्तयोरे ते नामनी इत्यर्थः । केचित्तु पूर्वान्विते इत्याहुः " ॥ ३६ ॥ समा- दिसप्तकं समान्तरस्य । “सह मानेन वर्तते समानं मानमस्येति वा समानः । एते वाच्यलिङ्गाः ” । सहक् शान्तः । अमी निभसंकाशादयः उत्तरपदे स्थिताः सदृशपर्याया वाच्यलिङ्गाय स्युः ॥ ३७ ॥ यथा पितृनिभः पुत्रः नित्यसमासोऽयं पित्रा सदृश इत्यर्थः । मातृनिभा कन्या मातुः सदृशीत्यर्थः । आदिना भूतरूपकल्पादिग्रहः । “यथा पितृभूतः पितृरूपः । पितृकल्पः " । Dightizad by Google