पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fa सटीकामरकोशस्य [ शूद्रवर्गः कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः || तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥ रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधावकः ।। पादूकुचर्मकारः स्यायोकारो लोहकारकः ॥ ७ ॥ नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः ।। स्याच्छाङ्क्षिकः काम्बविकः शौल्बिकस्ताग्रकुट्टकः ॥ ८॥ तक्षा तु वर्द्धकिस्त्वष्टा रथकारस्तु काष्ठतद् || ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥ 66 द्धस्य " । पुष्पमाला पण्यमस्य मालिकः ॥ ५ ॥ कुम्भकार: कुलाल: " द्वे कुंभार इति ख्यातस्य । पलगण्डः लेपकः द्वे गृहादौ लेपकारस्य "गंवडी इत्यादि ख्यातस्य " । तन्तुवाय: “तत्रवायः तन्द्रवायः तत्रवाप इति ओष्ठ्या- न्तोऽपि ” । कुविन्दः “कुपिन्द इत्यपि । कुप क्रोघे" । द्वे पटानां निर्मातरि कोष्ठी इति ख्याते ” । तुनवायः सौचिकः द्वे कञ्चुक्यादेर्निर्मातरि "शिंपी इति ख्याते " । सूच्या वानं शिल्पमस्य सौचिकः ॥ ६ ॥ रङ्गाजीवः चित्र- कर: द्वे “चितारी, रंगारी इत्यादि ख्यातस्य " । रङ्गं श्वेतपीतरक्तादिक- माजीवति रङ्गाजीवः । शस्त्रमार्जः असिधावकः द्वे शस्त्रघर्षणोपजीविनः “शिकलगार इति ख्यातस्य " । पादूकृत् चर्मकारः द्वे "चांभार इति ख्यातस्य " । पादू: पादत्राणि करोति पादूकृत् तान्तः । व्योकारः लोह- कारकः द्वे लोहार इति ख्यातस्य । व्यो इत्यव्ययं लोहबीजवाचीति श्रीभोजः ॥ ७ ॥ नाडिन्धमः स्वर्णकारः कलादः रुक्मकारकः चत्वारि स्वर्णकारस्य " सोनार इति ख्यातस्य " । शाशिकः काम्बविकः द्वे शङ्खचल- यादेः कर्तरि कंकणकार, “कांसार " इति ख्याते । शौल्बिकः ताम्रकुट्टक: द्वे "तांबट इति ख्यातस्य " शुल्नं ताम्रं तद्धटनं शिल्पमस्य शौबिकः ॥ ८ ॥ तक्षा वर्द्धकिः त्वष्टा रथकारः काष्ठत पत्रवर्द्धके: “सुतार इति ख्यातस्य " | वर्द्धयति छिनति काष्ठं वर्द्धकिः । तक्षाणौ | त्वष्टारौ । काष्ठं तक्ष्णोति तनू- करोति काष्ठतद् । काष्ठतक्षौ । ग्रामाधीनो यस्तक्षा स ग्रामतक्ष इत्येकं “गांवचा सुतार इति ख्यातस्य " । “ग्रामकौटाभ्यां च तक्ष्णः " इति टच् । अनधीनकः स्वाधीनो यस्तक्षा स कौटतक्षः स्यात् । एकम् ॥ ९ ॥ क्षुरी Dighized by Google 1