पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] द्वितीय काण्डम्. २३३ पाँदस्तुरीयो भागः स्यादंशभागौ तु वण्टके ।। ८९ ।। द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु || हिरण्यं द्रविणं धुनमर्थरैविभवा अपि ॥ १० ॥ स्यात्कोशच हिरण्यं च हेमरूप्ये कृताकृते ॥ ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तइयमाहतम् ॥ ११ ॥ गारुमतं मरकतमस्मगर्भो हरिन्मणिः ॥ शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ १२ ॥ मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् || भवेद्रोणो द्विद्रोणः शूर्प उच्यते । “सार्धशूर्पा भवेत्खारी द्विशूर्पा द्रोण्युदाहृता । तामेव भारं जानीयाद्वाहो भारचतुष्टयम्” इति । अन्यच्च । “अष्टमुष्टिर्भवेत्कुञ्चिः कुचयोऽष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः । चतुराढको भवेड्रोणः" इत्येतन्मानलक्षणमित्युक्तम् । अत्र पलादित्रयं अभि- नम् । तत्तद्देशभेदात्संख्यान्यथात्वं च यथा मगधदेशे । “द्रोणस्तु खार्याः खलु षोडशांशः स्यादाढको द्रोणचतुर्थभागः" इत्यादि । रूपकादेश्चतुर्थभागः पाद इत्युच्यते एकं “पावली इत्यादि ख्यातस्य" । अंशः भागः वण्टक: त्रीणि भागमात्रस्य "वांटा इति ख्यातस्य" ॥ ८९ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थं ऋर्थ धनं हिरण्यं द्रविणं युनं अर्थ: रा: विभवः त्रयोदश धनस्य | तत्र अर्थादित्रयं पुंसि । “रा द्वयोर्विभवे स्वर्णे" इति रुद्रः | रायौ रायः ।। ९० ।। कोशः हिरण्यं द्वे अपि घटिताषटितयोर्हेमरूप्ययोः । कोशस्तालव्यान्तो मुर्द्ध- न्यान्तो वा । ताभ्यां हेमरूप्याभ्यां यदन्यताम्रादिकं तत्कुष्यं स्यात् । एकम् । कुप्यं इस्खादि । गुपेरादेः कत्वं च संज्ञायामित्यनेने गकारस्य ककारः । अर्था द्धिरभ्यं रूप्यं चाकुप्यं । तद्वयं कुप्यमकुप्यं च आहतं " मुद्रितं चेत् " रूप्यं "एक नार्णे इति ख्यातस्य " | रूपमाहन्यतेऽस्य रूप्यम् । " रूपादाहत" इति यप् । “रूप्यं स्यादाहतस्वर्णरजतं रजतेऽपि च " इति विश्वः ।। ९१ ।। गारुत्मतं मरकत अश्मगर्भ: हरिन्मणिः चत्वारि पाच इति प्रसिद्धस्य मणेः । शोण- र लोहितकः पद्मराग: त्रीणि पद्मरागस्य "माणीक इति ख्यातस्य" । 89-92 १ अस्मिन्पावेऽक्षराणि नव भवन्तीति चिन्त्यमिदम् || २ इत्यनेनेति । इदमयुक्तम् । "राजसूयसूर्य” (३।१।१४४ ) इति सूत्रेण गुपेः क्यप् गुपेरादेः कृत्वं च संज्ञायां नि पात्यते इति तु युक्तं वक्तव्यम् || Diglized by Google