पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

41-2414 १९० सटीकामरकोशस्य [ क्षत्रियवर्गः अन्दुको निगडोऽस्त्री स्याङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ।। दूँष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे || प्रवेण्यास्तरणं वर्णः परिस्तोमः कुंथो दयोः ॥ ४२ ॥ वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी ॥ घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥ वाजिवाहार्वगन्धर्वहयसैन्धवसतयः ।। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ १४ ॥

शङ्खलं अन्दुकः अन्यतेऽनेन । “अदि बन्धने" । निगड : त्रीणि शृङ्खलस्य । “शृङ्खला पुंस्कटीवस्त्रबन्धे च निगडे त्रिषु” इति मेदिनी । अन्दूरित्यप्यन्यत्र । “अन्दू' स्त्रियां स्यानिगडे प्रभेदे भूषणस्य च " इति मेदिनी । अकुशः सृणि: “ताल- व्यादिरपि । शूणिरङ्कुशवाची च काचच तुणवाचक इति सभेद: । द्वेअड्ड- शस्य | सृणिः स्त्रियाम् । आरक्षमनमवपत्य सृणि शिताग्रमिति तु माघस्य प्रमादः " ॥ ४१ ॥ दूष्या “चूष्येति मुकुट: कक्ष्या वरत्रा त्रयं मध्यबन्ध- नोपयोगिन्याश्रर्मरज्ज्वाः । कक्षायां मध्यदेशे भवा कक्ष्या । कल्पना सज्जना द्वे नायकारोहणार्थ गजसञ्जीकरणे । प्रवेणी आस्तरणं वर्णः परिस्तोम कुथः पञ्च गजपृष्ठवर्तिनः आस्तरणस्य । हत्तीची झूल इति लौकिकभाषायां प्रसिद्धम् । स्त्रियां तु कृथा । “ स्त्री प्रवेणी कुथं त्रिषु” इति बोपालितः । प्रवेणी स्त्रियाम् । “प्रवेणी स्त्री कुथावेण्योः” इति मेदिनी ॥ ४२ ॥ असारं युद्धाद्यक्षमं इस्त्यचं हस्ती चाश्वश्च तद्वीतमुच्यते । सेनाङ्गत्वात्समाहारः । गजबन्धनी गजालानभूः वारी स्यात् । वार्यतेऽनया वारी एकं गज बन्धनस्था- नस्य गजशाला इति ख्यातस्य । घोटकः घोट इत्यपि | "घोटसैन्धवगन्धर्वा हयवाजितुरङ्गमाः" इति रमसः । वीतिः पीतिरित्यपि । “पीतिर्नाश्वे त्रियां पाने” इति मेदिनी । “पीतिः पाने तुरङ्गे च " इति विश्वप्रकाशः । तुरगः तुरङ्गः अश्वः तुरनमः ॥ ४३ ॥ वाजी वाह: अर्वा गन्धर्वः इयः सैन्धवः सप्तिः त्रयोदश घोटकस्य । वीतिरिदन्तः । अर्वा नकारान्तः । अर्वन्तौ । बाजिनौ । ये कुलीनाः प्रशस्तजातिभवा अश्वास्ते आजानेयाः एकम् । आजेन क्षेपेणानेयाः प्रापणीया आजानेयाः । अश्वशास्त्रं तु । “ शक्तिभि मिनदया: स्खलन्तश्च पदे पदे । आज़ानंति यतः संज्ञामाजानेयास्ततः स्मृताः” Diglized by Google