पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1} ७] द्वितीयं काण्डम्. १७५ वाल्मीकवाथ गाधेयो विश्वामित्रश्च कौशिकः ॥ १ ॥ व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः " ) ( १ ) आनुपूर्वी स्त्रियां वाऽऽवृत्परिपाटी अनुक्रमः || पर्यायवातिपातस्तु स्यात्पर्यय उपात्ययः ॥ ३७ ॥ नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् || औपवस्त तूपवासो विवेकः पृथगात्मता ॥ ३८ ॥ स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ पाठे ब्रह्माञ्जलिः पाठे विश्रुषो ब्रह्मबिन्दवः ॥ ३९ ॥ 36-34 काविति त्रिकाण्डशेषः । वल्मिक इति शब्दरत्नावल्याम् ।” गाधेयादित्रयं विश्वामित्रस्य । “तत्र कौषिक इत्यपि " ॥ १ ॥ व्यासादिचतुष्कं व्यासस्य । आनुपूर्वी आवृत् परिपाटि: "परिपाटीति ङीषन्तापि अनुक्रमः पर्याय: पञ्चकमनुक्रमस्य | आनुपूर्व्यमिति पाठो वा “आनुपूर्वमिति च । स्त्रियां वेति पक्षे क्लीनता ।" आवृतः परिपाटेच स्त्रीत्वम् । “परिपाटी अनुक्रम इत्यत्र द्विवचनत्वात्प्रगृझसंज्ञायां न यण्” । अतिपातः पर्ययः उपात्ययः श्रीण्यतिक्रमस्य || ३७ || नियमः व्रतं द्वे व्रतमात्रस्य । तच्च व्रतं उपवासचा- न्द्रायणादि यत्पुण्यकं तज्ज्ञेयम् । “अथवा उपवास आदिर्यस्य कृच्छ्रचान्द्राय- णप्राजापत्यनक्तभोजनादेस्तदुपवासादि व्रतं पुण्यमित्येकमिति " । औपवस्तं उपवस्तमित्यपि । कचिदौपवस्त्रमिति पाठः । तत्र तृच्प्रत्ययान्तादुपवस्तु- रिदं कर्मेत्यर्थे "तस्येदम्" इत्यण् । उपोषणं उपोषितमित्यपि । भावे क्तः । उपवासः द्वे उपवासस्य । “भाषान्मधुमसूरांत्र वर्जयेदौपवस्तकः” इति प्रयोगः । पृथगात्मता पृथक्खरूपत्वं विवेकः स्यात् एकम् । यथा चिजडयोर्विवेक इति ॥ ३८ ॥ वृत्तं सदाचारपालनं अध्ययनं वेदाभ्यासः तयोरृद्धिः संपत्तिः ब्रह्मवर्चसं एकम् | ब्रह्मणः तपःस्वाध्यायादेवर्चस्तेजो ब्रह्मवर्चसमिति स्वामी । पाठे वेदपठने योsञ्जलिः स ब्रह्माज्ञ्जलिः । अध्ययनस्यादौ हस्तयोईि प्रण- वोच्चारपूर्वकमञ्जलिः क्रियते एकम् । वेदपाठे विप्रुषो मुखात् निर्गतजलकणा ब्रह्मबिन्दवः स्युः । “विठुष इत्यपि पाठः एकम् ॥ ३९ ॥ ध्यानयोगयो- इवं साधे पद्यं तालपत्र पुस्तकेऽपि नास्ति । " Digitized by Google