कंचुकी--अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे--जुज्जइ[१] । [युज्यते]
(नेपथ्ये )
एदु एदु भवं । [ एतु एतु भवान् ]
कंचुकी--( कर्णं दत्वा ) अये, इत एवाभिवर्तते देवः स्वकर्मानुष्ठीयताम् ।
उभे--तह । ( इति निष्क्रान्तं ) [ तथा ]
( ततः [२]प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च )
कंचु[३]की –( राजानमवलोक्य ) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एव[४]मुत्सुकोऽपि प्रियदर्शनो देवः । तथा[५]हि ।
अस्मात्कारणात्प्रभवतः समर्थात् । अधिकादित्यर्थः । वैमनस्यादुद्वेगात् ! युज्यते । 'प्रविश्यापटीक्षेपेण' इत्याद्येतदन्तेन द्युतिनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके-– 'तर्जनोद्वेजने द्युतिः' इति । एतु एतु भवान् । तह इति तथेति । प्रतीहारीलक्षणमुक्तं प्राक् । अहो आश्चर्ये । सर्वावस्थास्वित्यर्थान्तरन्यास एवमित्यादेरुत्तरवाक्यार्थस्य समर्थकः । सर्वासु यदा यादृश्यो या उपास्थितास्तासु ताद्रूप्येण रमणीयत्वमित्यर्थः । उत्सुक उत्कण्ठितः । विरह्यपीत्यर्थः । एतदवस्थाया अन्यत्र प्रियदर्शनत्वमपिशब्दद्योत्यम् । अत एवार्थान्तरन्यासे विशेषपदम् । तथाहीत्युभयपरामर्शः । स एव पद्ये वाच्येन पूर्वांशस्य व्यङ्गे ( ङ्ग्ये ) नोत्तरांश
प्रभोः उत्सवः प्रत्याख्यातः निराकृतः अनेन छलनं नाम सन्ध्यंगमुक्तम् । "छलनं चावमाननम्" अवमाननं नाम प्रत्याख्यानम् । अत्रोत्सवप्रत्याख्यानमत्रमाननम् ।