तथा च गर्गः ।
त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः ।
प्रायेणोत्तरभार्गं तु सेवन्ते नित्यमेव ते ॥
लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।
नामतः कौङ्कुमा ज्ञेया राज्ञां संग्रामकारकाः ॥
बुधात्मजानाहाथर्वमुनिः ।
एकपञ्चाशतो ज्ञेयास्तस्कराः सूक्ष्मरश्मयः ।
बौधाः कमलगर्भाभाः किञ्चित्पाण्डुरतेजसः ॥
गर्गश्च ।
अरुन्धतीसमा रुक्षाः किञ्चिदव्यक्ततारकाः ।
सपाण्डुवर्णाः श्वेताभाः सूक्ष्मरश्मिभिरावृताः ॥
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।
एकाधिकास्तु पञ्चाशद्यथोत्पथचरा ग्रहाः ॥
यथोत्पथचरा यथेष्टदिकचराः ।
तथा च वराहसंहितायाम् ।
नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिकप्रभवाः ।
बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥
बृहस्पतिपुत्रानाहाथर्वमुनिः ।
मुक्तानिकरगौराभास्त्यजन्त इव चार्चिषः ।
स्फुरन्त इव चाकाशे विकचा रश्मिभिर्वृताः ॥
प्रायशो दक्षिणे मार्गे नीचैर्विख्यातमण्डलाः ।
विकचाः पञ्चषष्टिस्ते बृहस्पतिसुताः स्मृताः ॥
गर्गस्तु ।
शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।
एकतारा वपष्मन्तो क्किचा रश्मिभिर्वृताः ॥