पञ्चमी ।
यो नः सोम नृशंसिनों दुःशंस आदिदेशति ।
वीणास्य मुखें जहि स संपिंटो अपयति ॥ २ ॥
यः । नः । सोम। सुऽशंसिनः । दुःऽशंसः । आऽदिदेशति ।
वर्गेण। अस्य । मुखें । जहि । सः । सम्ऽपैिटः। अप । अयति ॥ २ ॥
हे सोम यो दुःशंसः दुष्टाभिशंसनः दुष्टाभिप्रायः शत्रुः सुशंसिनः शो भनाशंसान् नः अस्मान् आदिदेशति आदिशति निष्टुरभाषणेन न्यकरो- आङ्पूर्वा दिशेः परस्य विकरणस्य व्यत्ययेन लः । पुनश्च शप् ४ । अस्य शत्रोर्मुखे वज़ेण वर्जकेन आयुधेन जहि ताडय । स ‘शत्रः संपिष्टः वजाघातेन चूर्णीभूतः सन अपायति अपगच्छतु
॥
यो नः सोमाभिदासति संनभिर्यश्च निष्टयः ।
अप तस्य बलं तिर म्हीव द्यौर्वधुमन ॥ ३॥
यः । ः। सोम। अभिऽदासति । सऽनभिः । यः। च । निष्ट्यः ।
अप् । तस्य । बलंम । तिर। मुहीऽईव । द्यौः। वधंसन ॥ ३ ॥
हे सोम यः शत्रुः सनाभिः समानजन्मा दायादः नः अस्मान् अ- भिदासति उपपयति ! यश्च निष्ट्यः निकृष्टः शत्रुः अस्मान् बाधते । तस्य बलम् अप तिर अपजहि । ‘तत्र दृष्टान्तः महीवेति । यथा मही महती द्यौः वधमना वधः हन्यन्ते अनेन जना इति अशनिर्वधः। ‘‘ह- नश्च वधः” इति अप तत्संनियोगेन वधादेशश्च । ६६ मननंष्वाड्यादेरात्म नः ’’ इति आत्मन आकारलोपः ॐ । वधामना अशनिरूपेण आ- बुधेन निहन्ति । तथा वीण तस्य बलं वृश्न्यर्थः ।
[ इति ] तृतीयं सूक्तम् ॥
All on' ]S. and Vaidika: सुसंशिनों. with syn२ So P PJ K Cr.
1 S' वधा हन्यंते for वधः हन्यन्ते.