पद्मिनीपरिणयः/चतुर्थोऽङ्कः

विकिस्रोतः तः
               




   

अथ चतुर्थोऽङ्कः

(ततः प्रविशति मधुव्रता । परिक्रम्यावलोक्य च)।

मधुव्रता-दिट्टिए विहदा सहि आअच्चइ । (दिष्ट्या विचिता सखी आगच्छति) ।

(प्रविश्य)

भ्रमरिका– अच्चरिअम् । (आश्चर्यम्)।

मधु-हळा ! मं सविहवट्टिणिं वि कुदो न पेख्खसि ? अहवा तारिसो तुगस्सिं राअवुत्तीसिणेही ।

 (मां सविधवर्नितीमपि कुतो न पश्यसि ? अथवा तादृशस्त्वयि राजपुत्रीस्नेहः) ।

भ्रम-सहि मा कुप्पेहि । किं वि अच्चरिअम् पेख्खिअ परवतह्मि ।

 (सखि ! मा कुप्य । किमप्याश्चर्यं प्रेक्ष्य परवशाऽस्मि ।

मधु-किं दं ? (किं तत् ?)

भ्रम-शारआणन्दसिस्सस्स तुहिणमण्डलेमि विक्कमविलसिदम् ।  (शारदानन्दशिष्यस्य तुहिनमण्डले विक्रमविलसितम्)।

मधु-रण्णा पेसिदा खु तं कावाळिअं जेदुं सेणा ! ।  (राज्ञा प्रेषिता खलु तं कापालिकं जेतुं सेना !) ।

भ्रम-गअणचारिणि तस्सि तिरोहिअरूअ सेण्णं किं करिस्सदि ?।

 (गगनचारिणि तस्मिन् तिरोहितरूपे सैन्यं किं करिष्यति ?)।

मधु-तत्थ गदा सेणा किं विफळा आसि । (तत्र गता सेना किं विफलासीत् ? )

भ्रम-सेणागमणादो पुव्वं एव्व कावाळिअं जेतुण रख्खिदा पिअसहं । तेण महाभाएण ।  (सेनागमनात्पूर्वमेव कापालिकं जित्वा रक्षिता प्रियसखी तेन महाभागेन) ।

मधु-हळा ! तं तारिसं पेक्खन्ती । पदुमिणाए मण केरिसम् ? । (हळा ! तं तादृशं प्रेक्षमाणायाः पद्मिन्याः मनः कीदृशम् ?) ।

भ्रम-सुबाहुबहकारिणि रामभद्दे जानईहिअअं केरिसम् ! ।

 (सुबाहुवधकारिणि रामभद्रे जानकीहृदयं कीदृशम् !)

मधु-जुत्तम् ! (युक्तम्) भ्रम-किं जीमूओ आअदो ? । (किं जीमूत आगतः ? )

मधु-सो पावो दहमुहो विअ परिणेदुं जाणई अहि्लसन्तो आअदो ।

(स पापः दशमुख इव परिणेतुं जानकीमभिलषन्नागतः) |

भ्रम-अदो एव्व सही अहिअं वाउळा । (अत एव सखी अधिकं व्याकुला) ।

मधु-देव्वप्पसादादो ताए मणोरहो सिज्जउ । (दैवप्रसादात् तस्या मनोरथस्सिध्यतु ।

भ्रम-(सप्रत्यभिज्ञम्) दिट्टिए सुमरिअह्मि सही ळच्चीसमाराहणे पउत्ता मं अन्तेउरठ्ठिदं पडिमं आणेहित्ति आणत्तवई खु । ता गमिस्सम् । तुमं पुण कहि पत्थिआः ।

(देिष्ट्या स्मारिताऽस्मि । सखी लक्ष्मीसमाराधने प्रवृत्ता मां 'अन्तःपुरस्थितप्रतिमां आन'येति आज्ञप्तवती खलु, तस्मात् गमिष्यामि । त्वं पुन: क्व प्रस्थिता ?)

मधु-तुए समं किंवि मन्तेदुम् ।(त्वया समं किमपि मन्त्रयितुम्) ।

भ्रम-‌ कहेहि (कथय) ।

मधु-जेणकेणवि उवाएण भक्खरो पदुमिणीए जोअणीज्जोत्ति पत्थिदह्मि अरुणेण । तत्थ को उवाओ कादव्वेत्ति ।

(येनकेनाप्युपायेन भास्करः पद्मिन्या योजनीय इति प्रार्थितास्मि अरुणेन । तत्र क उपायः कर्तव्य इति) ।

भ्रम-एदेण अरुणवअणेण सो तरुणो पदुमिणीनिमित्तं मअणेण अहिअं पहरीअदिति मुणेमि ।

(एतेन अरुणवचनेन स तरुणः पद्मिनीनिमित्तं मदनेनाधिकं प्रह्रियत इति जानामि )।

मधु-को संसओ ! (कस्संशयः ?) । (संस्कृतमाश्रित्य) ।

एष खलु - श्वसिति दीर्घतरं परिताम्यति प्रतिवचः प्रददाति न चेरितः ।

क्वचन दिश्यभिधावति मत्प्रिये दिश कटाक्षमवेति मुहुर्वदन् ॥

भ्रम-(विचिन्त्य) तत्थ एसो उवाओ । पुडमं सिविआए ळच्छीपडिमं आरोविअ तस्स पडिमादस्सणववदेसेण नेदूण सविहे णिऊडं तं वि तत्थ णिवेसिअ परेहिं अविदिअं पूआघरं पावइस्सम् ।

(तत्रैष उपाय: । प्रथमं शिबिकायां लक्ष्मीप्रतिमामारोप्य तस्य प्रतिमादर्शनव्यपदेशेन नीत्वा सविधं निगूढं तमपि तत्र निवेश्य वरैरविदितं पूजागृहं प्रापयिष्यामि) । मधु-साहु चिन्दिअम् । तत्थ णिऊडं पूआसमए ठाऊण तदो ळहेदु मणोरहं भद्दो ।
(तत्र निगूढं पूजासमये स्थित्वा ततो लभतां मनोरथं भद्रः) । (इति निष्क्रान्ते)

॥ विष्कम्भः ॥

(ततः प्रविशति पद्मिनी)

पद्मि-हञ्जे ! दीपजादं सव्वं उद्दीवेहि । (हञ्जे ! दीपजातं सर्वं उद्दीपय) ।

चेटी-जहा आदिसइ भट्टदारिआ । (यथाऽऽदिशति भर्तृदारिका) ।

(उद्दीपयति दीपान्)

पद्मि-(स्व) देवीसमाराहणस्स किदे वल्लहादो णिवट्टिदं वि हिअअं पुणोवि धावइ तस्सिम् । किं करिस्सम् ? । (देवीसमाराधनस्य कृते वल्लभान्निवर्तितमपि हृदयं पुनरपि धावति तस्मिन् । किं करिष्यामि ?) । (नेपथ्ये वाद्यरवः) ।

पद्मि-सही भमरिआ देवीपडिमं आणेदि । (सखी भ्रमरिका देवीप्रतिमां आनयति) ।

(प्रविशति शिबिका पुरस्कृत्य भ्रमरिका)

पद्मि-हळा ! कुदो विळंबो ? । (हळा ! कुतो विलम्बः ?) ।

भ्रम-तस्स राअउमारस्स पडिमासण्णिहावणकिदे ।

(तस्य राजकुमारस्य प्रतिमासन्निधापनकृते) ।

पद्मि-किं अत्थि तस्स कोऊहळं पडिमादस्सणे ? । (किमस्ति तस्य कौतूहलं प्रतिमादर्शने ?)।

भ्रम-ण केवळं पडिमादस्सणे ? । किंदु पूआदस्सणे पूआफळळाहे अ ।

(न केवलं प्रतिमादर्शने किन्तु पूजादर्शने पूजाफललाभे च) ।

पद्मि-होदु, किं कादव्वम् । (भवतु किं कर्तव्यम्) ।

भ्रम-(संस्कृतमाश्रित्य)

अन्तर्हितोऽभृत्सखि भास्करोऽद्य स्नाहि प्रदीपं पुरतो निधाय ।
दिव्यासनेऽहं प्रतिमां निधाय माल्यैश्च भूषाभिरलङ्करिष्ये ।

पद्मि-हळा ! चित्तदस्सणेण किदबीअविण्णासो दइदस्स आअमणसवणेण अंकुरिदो पच्छक्खाक्ळोअणेण पल्लविदो तुहिणमण्डलसंहारेण कुसुमिदो मह मणोरद्दरुक्खो कआ फळित्सदि ? । (सखि ! चित्रदर्शनेन कृतबीजविन्यासः, दयित्स्यायमनश्रवणेन अङ्कुरितः, प्रत्यक्षावलोकनेन पल्लवितः, तुहिनमण्डलसंहारेण कुसुमितो मम मनोरथवृक्षः कदा फलिष्यति ?) ।

भ्रम-हळा ! देविं आराहेहि । तक्खणं तुह मणोरहो फळिस्सदि । (हळा ! देवीमाराधय, तत्क्षणं तव मनोरथः फलिष्यति) ।

पद्मि-अस्थु (अस्तु) । (इति स्नातुं निष्क्रान्ता) (भ्रमरिका शिबिकाद्वारमुद्घाटयति) ।

भ्रम-अज्ज, निग्गमिअ पूआभवणं पेख्ख । (आर्य निर्गम्य पूजाभवनं पश्य) ।

(भास्करः शिबिकान्तरान्निर्गत्य)

अहो पूजासदनरामणीयकम् !।
उपरि शुभविचित्रोल्लोचमध्यप्रलम्बि-
स्फुरदमलसुवृत्तोद्दीप्तमाणिक्यगोळैः ।
कनकमणिविलासिस्तम्भसंलग्नबिम्बै-
रिव सुजनितजीवैर्नेत्रमेतद्धिनोति ॥

अपिच,

मृगमदतुहिनाम्भोमिश्रिते स्निग्धरूपे
नवमलयजपङ्के मालतीमल्लिकासु ।
विसरदगरुधूपे संलुठन् वातपोत-
श्चरति परित एष प्रीणयन् नासिकां मे ॥

(भ्रमरिका प्रतिमां गृहीत्वा प्रतिष्ठाप्य कनकपीठे परिष्करोति) ।

भास्क-अहो ! सर्वपथीना भ्रमरकचातुरी, यद्राजतेतरामनयाऽलङ्कृता भगवती गरुडध्वजप्रणयिनी । यैषा,

उत्तानवामपदजानुकृतैकहस्ता
पाणौ परत्र दधती नलिनं तदन्यम् ।
पादं प्रसारितवती विनिकुञ्च्य किञ्चित्
सम्भूषिता मणिकिरीटमुखैरनर्घैः ॥

भ्रम-अज्ज ! इदो उत्तरभाअवट्टिसाळन्तरं पविसिअ तिरोहिदो वाताअणेण पिअसहीपउत्तिं आळोएहि । (आर्य ! इत उत्तरभागवर्तिशालान्तरं प्रविश्य तिरोहितः वातायनेन प्रियसखीप्रवृत्तिमालोकय ) । भास्क-(तथा भूत्वा स्थित:) ।

भ्रम-(नेपथ्याभिमुखं पश्यन्ती स्थिता) । (पद्मिनी स्नाता धृतदुकूला प्रविशति) ।

भ्रम-सहि ! सव्वा पृआसामग्गी सज्जीकिदा । पीठे उवविसिअ पूएहि ळोअजणणिम् । (सखि । सर्वा पूजासामग्री सज्जीकृता । पीठे उपविश्य पूजय लोकजननीम् ।

पद्मि-(उपविशति)

(भास्करः जालरन्ध्रेण विलोकयन् साञ्जलिबन्धं प्रणम्य)
देवीं सुपर्वपतिदिङ्मुखमीक्षमाणां
लक्ष्मीं धनाधिपहरिद्वदनं निषण्णा ।
भक्त्याऽर्चने प्रणिहिता प्रतिभाति सुभ्रू-
र्मूर्तिः श्रियो मुकुरदृश्यतया स्थितेव ॥

पद्मि-हळा ! मअणस्स विरहिजणं पहरिदुं किं काळणिअमो णत्थि । जं तस्स एव्व जणणिं पूएदुं पउत्तं मं णिस्संकं ताडेइ सरेहिम् । (हला ! मदनस्य विरहिजनं प्रहर्तुं किं कालनियमो नास्ति, यत्तस्यैव जननीं पूजयितुं प्रवृत्तां मां निश्शङ्कं ताडयति शरैः) ।

भ्रम-पणिहिअचित्ता होहि । (प्रणिहितचित्ता भव) ।

पद्मि-(तथा भूत्वा पूजयति)

भास्क–अहो सर्वत्र नैपुणी हरिणीदृशः !

उदधिदुहितृपूजाकर्म संकल्प्य पूर्वं
शिरसि वदनपद्मे वक्षसि न्यस्तहस्तम् ।
किमपि किमपि चञ्चत्पक्वबिम्बाधरोष्ठं
स्फुरितरुचिरमन्त्रं पीठमभ्यर्चतीयम् ॥
परम्परामिश्रितशुद्धवर्णं प्रत्यक्षरार्थानुगतान्तरङ्गम् ।
मन्त्रं जपन्ती प्रहिन्प्रमणीयं मुहुः कराभ्यां विवृणोति मुद्राः ।

(पद्मिनी ध्यानं नाटयति)

भास्क-

रमणीयमर्धविनिमीलितेक्षणा कुसुमं समुद्धृतकरद्वयाञ्जलौ ।
रमणीयगन्धसलिलेन संयुतं विनिधाय चिन्तयति चेतसेन्दिराम् ॥ पद्मि-(संस्कृतमाश्रित्य) -
मणिमयमासंनमन् प्रतिरुह्य त्वं मयाऽर्पितं साधु ।
मधुसूदनस्य दयिते मम हृदयं पादयोस्सदा कुरु ते ॥

भ्रम-मणोहरो सहिए देवीसमाराहणसंपदाओ । (मनोहरः सख्याः देवीसमाराधनसम्प्रदायः)

पद्मि-प्रक्षालयामि पादद्वय पद्मे समुचिते सद्भिः ।

प्रक्षालय कृपयाऽऽर्त्तिं त्वं मे मातः प्रदेहि सत्कीर्तिः ॥
अम्बुधिशायिकुटुम्बिन्यम्बु गृहीत्वा मयऽर्पितं न परम् ।
आचामतु तद् भवती वाचाऽगण्यं ममारिदर्पमपि ॥
स्नपयामि तेऽद्य मूर्तिं पयसाऽपाङ्गेन मे मनः स्नपय ।
मार्ज्मि मृदुवाससा त्वां मार्जय मे त्वं व्यथां प्रसादेन ॥

भास्क-आशैशवमिवाचार्यैरर्चनामात्रशिक्षिताम् ।

एतामवैमि पूजायां समीक्ष्य करकौशलम् ॥

पद्मि-परिकल्पयामि मातः परिधानं ते सदा धृतानन्दे ।

प्रतिगृह्य त्वं प्राप्यं कुरु मे पानाय दयितदन्तपटम् ॥
सुरभिलमपि ते गात्रं भूयस्सुरभीकरोमि गन्धेन ।
सुरभयनाशिनि देहं सुरभय मे[१] मे प्रियाङ्गसङ्गेन ॥

भास्क–सुदत्या भगवत्युपचारपरिपाटी प्रमोदयति मां प्रेमभरं प्रकाशयन्ती मयि सुतराम् ।

पद्मि-लाक्षारसेन पादौ रक्तावपि तेऽद्य रञ्जयामि पुनः ।

मातर्मयि रक्तमपि प्रियहृदयं कलय तूर्णमतिरक्तम् ॥

भास्क-हन्त । न जानाति प्रेयसी चेतो मे रतिभावस्य कोटिं परां यातम् ।

पद्मि- मञ्जीरं पादाब्जे मञ्जुलकाञ्चीं नितम्बबिम्बे ते ।

अम्ब करे कलयेहं कङ्कणमेतन्ममावनाय धर ॥ भ्रम-साहु पत्थणम् । (साधु प्रार्थनम्)

पद्मि--हारं हरिदयिते ते ग्रीवाधूपयामि सुग्रीवे ।

अङ्गदमपि दोर्मूले मां गदहीनां विधेह्यनङ्गाम्ब ॥
कर्णे सुवर्णपत्रं कलयाम्यर्णोजमन्दिरमद्य तव ।
श्रवणं भूषय मे त्वं दयितकरोद्यत्सुवर्णपत्रेण ॥
चूडारत्नं नूतनं शिरसि तवाहं समर्पयामि रमे ।
साभयमुद्रं कुरु मे मूर्ध्नि करं ते समुद्रशयकान्ते ॥
मृगमदतिलकं निटिले मृगमदहारिणि विलोचनप्रभया ।
कलयामि जलधिकन्ये कुलतिलकं तं कुरुष्व मदधीनम् ॥
मल्लीमाला मातर्धम्मिल्ले ते समर्पिताऽद्य मया ।
एषा भ्रश्यतु रहसि स्मरजनकस्यैव पाणिसंसर्गात् ॥
सुरभिं गृहाण धूपं सुरवन्द्ये मत्प्रदत्तमनुरूपः ।
अम्बार्पयामि दीपं दीपय मे विद्विषि स्वकं कोपम् ॥

भास्क–साम्प्रतमभूतपूर्वशोभं पूजाभवनम् ।

सुरभि सुरभिमर्पिस्सेकदीप्तप्रदीपै-
रपि रुचिरसुगन्धापूरकर्पूरदीपैः ।
हरति हृदयमुच्चस्निग्धसाम्ब्राणिधूपै-
र्विविधसरसभक्तैश्चाज्यदुग्धैरपूपैः ॥

पद्मि -भोज्यं भक्ष्यं लेह्यं प्राज्यं पेयञ्च देवि मन्दोष्णम् ।

तुभ्यं निवेदयेऽहं लभ्यं सर्वं विधेहि दयितगृहे ॥
क्रमुकफलनागवल्लीमयवीटीयं सचूर्णकर्पूरा ।
दत्ता मुखे मया ते वदने शौरेरियं ततो लगतु ॥

भास्क-अहो मदिरेक्षणायाः श्रृङ्गारव्यतिकरमनोहरो हरिप्रणयिनीचरणसरोजभक्तिभावः ।

पद्मि-(उत्थाय)

दनुमवरिपुवक्षोनित्यवासैकदीक्षे
जननि सुजनसम्पद्दानजाग्रत्कटाक्षे ।
भवतु नतिरियं मे त्वत्पदाब्जे रमस्व
स्वजन इह मयि त्वं सर्वमागः क्षमस्व ॥
(इति प्रणमति) ।

भ्रम-सहि ! पेक्ख पेक्ख, तुह सज्जो मणोरहसिद्धिसूअअं सुहणिमितं णिपदइ दीवादो तेओपुप्फम् । (सखि ! प्रेक्षस्व प्रेक्षस्व, तव सद्यो मनोरथसिद्धिसूचकं शुभनिमित्तं निपतति दीपात्तेजःपुष्पम् )

भास्क-समाप्तैव सपर्या विपर्यासरहिता देव्याः मङ्गलदेवतायाः, यदियं वामेक्षणा निपीय पादोदकं निर्माल्यमादाय न्यस्यति चक्षुषोरुत्तमाङ्गे च ।

भ्रम-हळा ! करेहि देविं परिदो जवणिअम् । (हला! कुरु देवीं परितो यवनिकाम्)

पद्मि-(तथा करोति)

भ्रम-हळा ! मुहुत्तं एत्थ उवविसिअ विस्समदु होदी | (हला ! मुहूर्तं अत्रोपविश्य विश्राम्यतु भवती) ।

पद्मि-मह कहं विस्समो तं पिअजणं अपेख्खन्तीए । (मम कथं विश्रमः तं प्रियजनमपेक्षमाणायाः) ।

भ्रम-देवीपसादादो अविळम्बेण पिअं देक्खसि । (देवीप्रसादादविलम्बेन प्रियं द्रक्ष्यसि)

पद्मि-एत्तिअं काळं पूआपरत्तणेण विरहतावो ओसरिओ । दाणिं अदिरमणिज्जं एदं धरं पेङ्गतीए मह अहिओ होइ ! (एतावन्तं कालं पूजापरत्वेन विरहतापोऽपसृतः । इदानीमतिरमणीयमेतद्गृहं प्रेक्षमाणाया अधिको भवति)

भ्रम–मा चिन्तेहि । (मा चिन्तय)

पद्मि-कहं चिन्ताविरामो मह ? पावो जीमूओ पाणिं गहिस्सदि। (कथं चिन्ताविरामो मम । पापो जीमूतः पाणिं ग्रहीष्यति) (इति अश्रूणि मुञ्चति)

भास्क- यावन्तमानन्दमियं विधत्ते प्रेमातिरेकं मयि संवहन्ती ।

शताधिकं तं वितनोति तस्मादन्यत्र कृत्वा पुरुषे विरक्तिम् ॥

भ्रम-हळा ! समस्ससिहि । अत्थि सारआणन्दो । (समाश्वसिहि । अस्ति शारदानन्दः)

पद्मि-सोवि एत्थ दाणिं ण वट्टइ । (सोऽप्यत्रेदानीं न वर्तते)

भ्रम-जदो कुदोवि समए आअभिस्सइ । (यतः कुतोऽपि समये आगमिष्यति) पद्मि-हळा जामिणीवि संकुइदा । (यामिन्यपि सङ्कुचिता) (इति मूर्च्छति)

भ्रम-(वीजयित्वा) कुदो ण उच्छसिइ । (कुतो नोच्छ्वसिति ?। हा विहे! पदुमिणिं विणासिअ भमरिआजीविअं ओहरिदुं पउत्तोसि । (हा विधे! पद्मिनीं विनाश्य भ्रमरिकाजीवितमपहर्तुं प्रवृत्तोऽसि । (इति सिञ्चति शीतवारिणा) (निरूप्य) हा ! ण उम्मीळेइ ळोअणम् । (हा! नोन्मीलयति लोचनम्) ।

भास्क-अयमेवावसरो ममाविर्भवितुं, यतः प्रभातप्राया विभावरी । तथाहि

वियति तुहिनरश्मिर्मध्यभागात्प्रतीचीं
दिशमधिकमुपेतो दृश्यते पूर्णबिम्बः ।
मुहुरयमनुकूजत्युत्थितस्ताम्रचूडो
मुखरयति दिशः श्रीकान्तनाम द्विजानाम् ॥
कोकाङ्गनाविरहतापनिवृत्तिकालो
मौनव्रतक्षतिकरः करटावलीनाम् ।
नेत्रव्रजे तिमिरकृत्खलु कौशिकानां
कालो विकासिकविधीः समुपस्थितोऽद्य ॥
सद्यधुनाऽऽविर्भूय नोच्छ्वासयामि पद्मिनीं मीलितैव स्यात् । (इति प्रकटीभवन्) अहो प्रमादः ! कुतो नोच्छ्वसिति पद्मिनी ?

भ्रम-अज्ज सअळळोअखेमंकरेण तुह करेण परिमसदु भवं पदुमिणिम् । (आर्य ! सकललोकक्षेमङ्करेण तव करेण परिमृशतु भवान् पद्मिनीम्)।

भास्क-(करेण पद्मिनीं परिमृश्य स्पर्शसुखमभिनीय) (स्वगतम्) ।

सुदती किमु वृन्तमोचितैर्नवमल्लीदलसञ्चयैः कृता ।
उत बालसुधाकरप्रभारचिता सृष्टिकृतेक्षुधन्वना ॥

पद्मि-(उछ्वसिति)

भास्क-(तिरोधते स्तम्मे)

भ्रम-दिठ्ठिए उज्जीविआ पिअसही । (दिष्ट्या उज्जीविता प्रियसखी)

पद्मि-हळा ! किं सुहाधारासितं मह गतम् ? (किं सुमधारासिकं मम गात्रम्) भ्रम-हळा ! तुह वळ्ळ्हकरपरिसादो अणअं किं सुहासेअणं इव । (हळा वल्लभकरस्पर्शदन्यत्किं सुधासेचनमिव ।

भास्क-(स्वगतम्)

रोमोद्गमः समजनिष्ट मम प्रियायाः
संस्पर्शसम्भवसुखातिशयेन योऽङ्गे ।
तेनापि कञ्चुकितसर्वशरीरकं मां
कृन्तत्यतीव मदनस्य कथं पृषत्कः ॥

पद्मि-हळा ! किं असुळहं भाअहेअं संभावेसि । (किमपुलभं भागधेयं सम्भावयसि)

भ्रम-हळा ! सुळहं एव्व सम्भावेमि । जदो सो तुमस्सिं, तुमं तस्सिंवि समाणुराआ ।

(सुलभमेव सम्भावयामि । यतस्स त्वयि त्वं तस्मिन्नपि समानुरागौ)

पद्मि-(सौत्सुकयम्) हळा ! तस्स ममस्सिं अणुराओ मह वअ अहिओति कुदो जाणीअदि ।

(तस्य मयि अनुरागो ममेवाधिक इति कुतो ज्ञायते ।

भ्रम-तुहिणमण्डळं जेदूण जअळच्छीसमाळिंगेदोवि सो तुमं तहा पेरित अवन्ते ।

(तुहिनमण्डलं जित्वा जयलक्ष्मीसमालिङ्गितोऽपि स त्वां तथा प्रेक्षितवान् )

भास्क-सत्यमेतत् |

तस्याः कटाक्षालिङ्गलिन्दकन्यास्रोतो मुखं मे विशति स यावत् ।
तावन्मदीयेक्षणमत्स्ययुग्मं वेगोत्प्लुतं तद्वदनं व्यगाह ॥

पद्मि-तं पुणोवि दठठूण एक्कवारं वा किं सुहं अणुहविस्सम् ? ।

(तं पुनरपि दृष्ट्वा एकवारं वा किं सुखमनुभविष्यामि ?)

भ्रम-सहि ! सज्जो एव्व देवीपसादादो ताहिसं सुहं अणुहविस्ससि ।

(सखि ! सद्य एव देवीप्रसादात् तादृशं सुखमनुभविष्यसि)

पद्मि-कहं असम्भावणिज्जं संभाषेसि ? (कथमसम्भावनीयं सम्भावयसि)

भ्रम-संभावणिज्जं एव्व । (सम्भावनीयमेव)।

भास्क-(स्वगतम्) हन्त कालो याप्यते वृथालापेन सख्या ।

स्फुरति मम भुजोऽयं द्राक्सनाद्राङ्गिरं तां
रद्धन्तवमनपाने सम्भ्रमं याति विरहा ।
..........सोत्रसुद्युक्तभास्ते ॥
वदनपरिमलाप्तौ घ्राणमावेगमेति ॥

भ्रम-हळा ! माळईमाळं करे धारअन्ती पडिवाळेहि तस्स आअमणम् ।

(मालतीमालां करे धारयन्ती प्रतिपालय तस्यागमनम्)

पद्मि-मं परिहससि ! । (मां परिहससि)

भ्रम-णो परिहासो । सो आगमिअ तुइ माळं गळे गहिस्सइ ।

(नो परिहासः । स आगत्य तव मालां गले ग्रहीष्यति ) (इति मालां ददाति)

पद्मि-(गृहीत्वा) हळा ! पदारेसि माम् । (प्रतारयसि माम्) ।

भ्रम-ण पदारेमि । माळं उद्धारेहि करेहिम् । (न प्रतारयामि । मालामुद्धारय कराभ्याम्)

पद्मि-(मालामुद्धृत्य) हळा ! तुह एसो कोवि विणोओ । (तव एष कोऽपि विनोदः)

भास्क-हन्त ! कामिजनस्य मनोरथमाप्तौ सहचरजनवशंवदता ।

भ्रम-ण विणोओ । माळं गअणे णिख्खिव । तस्स कण्ठे पडिस्सइ । (न विनोदः । माल्यं गगने निक्षिप । तस्य कण्ठे पतिष्यति)

पद्मि-(मालामुत्क्षिपन्ती) सहिवअणविस्सासादो माळं णिख्खिवेमि णिराहारम् । को वा पुण्णजणो देवीमालाए भूमिपअणादोसादो मं रख्खिस्सदि कण्ठे गह्णीय ।

(सखीवचनविश्वासान्मालां निक्षिपामि निराधारम् । को वा पुण्यजनः देवीमालायाः भूमिपतनदोषान्मां रक्षिष्यति कण्ठे गृहीत्वा । (इति विसृजति मालाम्) ।

भास्क-एषोऽस्मि यद्गलतलाधिगमाय मालां

निक्षिप्तवत्यसि सुखीवचनादरेण ।
तां धर्तुमत्र तव दासजनात्किमस्मा-
दन्योऽस्ति भास्कर इति प्रथितान्मृगाक्षि ॥
(इति सत्वरं निर्गत्य कण्ठे गृह्णाति मालाम् )

पद्मि-(स्वगतम्) किं एदं अच्चरिअं ? अहवा संक्कप्पकप्पिदो एसो ? उद सिविणअं पेख्खेमि (किमेतदाश्चर्यम् ! अथवा सङ्कल्पकल्पित एषः ? उत स्वप्नं प्रेक्षे ?)

भ्रम-हळा ! किं मद्द वचणं सत्तं आसि । (किं मय वचनं सत्यमासीत् ?) पद्मि-(सम्भ्रान्ता तिष्ठति)

भ्रम-इदो वरं अहं एत्थ ठिदा जदि तुम्हाणं अणहिमदा भविस्सम् । (इतः परं अहमत्र स्थिता यदि युवयोरनभिमता भविष्यामि) (इति मन्दमपसरति )

पद्मि-हळा ! किं गच्छेसि मे एआइणिं विसज्जिअ । (किं गच्छसि मामेकाकिनीं विसृज्य)

भ्रम-पिअसहाआ खु होदी । मए किंकादव्यम् ? अथ्थि भअवतीए समप्पिअं सव्वं पुष्पादिअं वथ्थुजाअम् । (प्रियसहाया खलु भवती, मया किं कर्तव्यम् । अस्ति भगवत्यै समर्पितं सर्वं पुष्पादिकं वस्तुजातम्) । (इति निष्क्रान्ता )

भास्क-(कण्ठादवमुच्य मालां पद्मिनीग्रीवायामर्पयति) ।

पद्मि-जणकवसो हि एसो जणो । (जनकवशो ह्येष जनः)

भास्क-प्रिये ! तदीयाशयोऽस्मदनुकूल इति विदितमेव । (इति पाणिं गृह्णाति)

पद्मि-(धून्वतीव) जीमूतस्स मं विदरिदुं पवट्टइ खु सो । (जीमूताय मां वितरितुं प्रवर्तते खलु सः) ।

भास्क-तत्र भवान् शारदानन्दः स्वोपायेन जीमूतं प्रतारयिष्यतीति प्रत्ययेन ।

(इति वसनाञ्चलं गृह्णाति)

पद्मि-(मोचयन्तीव)

भास्क-भद्रे ! तव वदनकमले कोऽयं केतकीपरागः ? (इति सफूत्कारं चुम्बितुं प्रवर्तते) ।

पद्मि-(मुखं परावर्तयति ) ।

भास्क-प्रेयसि ! सन्ध्याकालात् पूर्वमेव प्रतीचीसङ्गस्तूर्ण कार्य इत्येव चन्द्रः आवेगेन स्रंसमानांशुको[२] द्राक् धावति । आवां नो विलम्बं विदध्वः ।

देव्यै समर्पिततया रुचिरं निकामं
भुक्त्वाऽद्य भज्यमुचितञ्च निपीय पेयम् ।
माल्यानुलेपनधरापयोज्य वीटी-
मन्योन्यमत्र मुदितौ शयनं भजावः ॥

(इति निष्क्रान्तौ)

॥ इति पद्मिनीपरिणये गान्धर्वविवाहो नाम चतु्र्थोऽङ्कः ॥

  1. हे मे = हे लक्ष्मि ।
  2. स्रंसमानांशुकः, निमाश्रिषः