पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२८

विकिस्रोतः तः
← अध्यायः २७ पद्मपुराणम्
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

अष्टाविंशतितमोऽध्यायः

ऋषय ऊचुः-
विस्तरेण समाख्याहि जन्म तस्य महात्मनः ।
पृथोश्चैव महाभाग श्रोतुकामा वयं पुनः १।
राज्ञा तेन यथा दुग्धा इयं धात्री महात्मना ।
पुनर्देवैश्च पितृभिर्मुनिभस्तत्त्ववेदिभिः २।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ।
शैलैश्चैव पिशाचैश्च गंधर्वैः पुण्यकर्मभिः ३।
ब्राह्मणैश्च तथा सिद्धै राक्षसैर्भीमविक्रमैः ।
पूर्वमेव यथा दुग्धा अन्यैश्च सुमहात्मभिः ४।
तेषामेव हि सर्वेषां विशेषं पात्रधारणम् ।
क्षीरस्यापि विधिं ब्रूहि विशेषं च महामते ५।
वेनस्यापि नृपस्यैव पाणिरेव महात्मनः ।
ऋषिभिर्मथितः पूर्वं स कस्मादिह कारणात् ६।
क्रुद्धश्चैव महापुण्यैः सूतपुत्र वदस्व नः ।
विचित्रेयं कथा पुण्या सर्वपापप्रणाशिनी ७।
श्रोतुकामा महाभाग तृप्तिर्नैव प्रजायते ।
सूत उवाच-
वैन्यस्य हि पृथोश्चैव तस्य विस्तरमेव च ८।
जन्मवीर्यं तथा क्षेत्रं पौरुषं द्विजसत्तमाः ।
प्रवक्ष्यामि यथा सर्वं चरित्रं तस्य धीमतः ९।
शुश्रूषध्वं महाभागा मामेवं द्विजसत्तमाः ।
अभक्ताय न वक्तव्यमश्रद्धाय शठाय च १०।
सुमूर्खाय सुमोहाय कुशिष्याय तथैव च ।
श्रद्धाहीनाय कूटाय सर्वनाशाय मा द्विजाः ११।
अन्यथा पठते यो हि निरयं च प्रयाति हि ।
भवंतो भावसंयुक्ताः सत्यधर्मपरायणाः १२।
भवतामग्रतः सर्वं चरित्रं पापनाशनम् ।
संप्रवक्ष्याम्यशेषेण शृणुध्वं द्विजसत्तमाः १३।
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च संमितम् ।
रहस्यमृषिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः १४।
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताकृतम् १५।
सप्तजन्मार्जितं पापं श्रुतमात्रेण नश्यति ।
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् १६।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ।
एवं फलं समाप्नोति पठनाच्छ्रवणादपि १७।
पृथोर्जन्मचरित्रं च पवित्रं पापनाशनम् ।
धर्मगोप्ता महाप्राज्ञो वेदशास्त्रार्थकोविदः १८।
अत्रिवंशसमुत्पन्नः पूर्वमत्रिसमः प्रभुः ।
स्रष्टा सर्वस्य धर्मस्य अंगो नाम प्रजापतिः १९।
य आसीत्तस्य पुत्रो वै वेनो नाम प्रजापतिः ।
धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते २०।
मृत्योः कन्या महाभागा सुनीथा नाम नामतः ।
तां तु अंगो महाभागः सुनीथामुपयेमिवान् २१।
तस्यामुत्पादयामास वेनं धर्मप्रणाशनम् ।
मातामहस्य दोषेण वेनः कालात्मजात्मजः २२।
निजधर्मं परित्यज्य अधर्मनिरतोभवत् ।
कामाल्लोभान्महामोहात्पापमेव समाचरत् २३।
वेदाचारमयं धर्मं परित्यज्य नराधिपः ।
अन्ववर्तत पापेन मदमत्सरमोहितः २४।
वेदाध्यायं विना लोके प्रावर्तंत तदा जनाः ।
निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ २५।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ।
इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः २६।
नाध्येतव्यं न होतव्यं न देयं दानमेव च ।
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः २७।
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ।
अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः २८।
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ।
इत्यब्रवीत्सदा वेनो ह्यहं विष्णुः सनातनः २९।
अहं ब्रह्मा अहं रुद्रो मित्र इंद्रः सदागतिः ।
अहमेव प्रभोक्ता च हव्यं कव्यं न संशयः ३०।
अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः ।
ऊचुस्ते संगताः सर्वे राजानं पापचेतनम् ३१।
ऋषय ऊचुः-
राजा हि पृथिवीनाथः प्रजां पालयते सदा ।
धर्ममूर्तिः स राजेंद्र तस्माद्धर्मं हि रक्षयेत् ३२।
वयं दीक्षां प्रवेक्ष्यामो यज्ञे द्वादशवार्षिकीम् ।
अधर्मं कुरु मा यागे नैष धर्मः सतां गतिः ३३।
कुरु धर्मं महाराज सत्यं पुण्यं समाचर ।
प्रजाहं पालयिष्यामि इति ते समयः कृतः ३४।
तांस्तथाब्रुवतः सर्वान्महर्षीनब्रवीत्तदा ।
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थकम् ३५।
वेन उवाच-
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ।
श्रुतवीर्यतपः सत्ये मया वा कः समो भुवि ३६।
प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
संमूढा न विदुर्नूनं भवंतो मां विचेतसः ३७।
इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा ।
द्यां भुवं चैव रुंधेयं नात्र कार्या विचारणा ३८।
यदा न शक्यते मोहादवलेपाच्च पार्थिव ।
अपनेतुं तदा वेनं ततः क्रुद्धा महर्षयः ३९।
विस्फुरंतं तदा वेनं बलाद्गृह्य ततो रुषा ।
वेनस्य तस्य सव्योरुं ममंथुर्जातमन्यवः ४०।
कृष्णांजनचयोपेतमतिह्रस्वं विलक्षणम् ।
दीर्घास्यं च विरूपाक्षं नीलकंचुकवर्चसम् ४१।
लंबोदरं व्यूढकर्णमतिभीतं दुरोदरम् ।
ददृशुस्ते महात्मानो निषीदेत्यब्रुवंस्ततः ४२।
तेषां तद्वचनं श्रुत्वा निषसाद भयातुरः ।
पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः ४३।
निषादाश्च किराताश्च भिल्लानाहलकास्तथा ।
भ्रमराश्च पुलिंदाश्च ये चान्ये म्लेच्छजातयः ४४।
पापाचारास्तु ते सर्वे तस्मादंगात्प्रजज्ञिरे ।
अथ ते ऋषयः सर्वे प्रसन्नमनसस्ततः ४५।
गतकल्मषमेवं तं जातं वेनं नृपोत्तमम् ।
ममंथुर्दक्षिणं पाणिं तस्यैव च महात्मनः ४६।
मथिते तस्य पाणौ तु संजातं स्वेदमेव हि ।
पुनर्ममंथुस्ते विप्रा दक्षिणं पाणिमेव च ४७।
सुकरात्पुरुषो जज्ञे द्वादशादित्यसन्निभः ।
तप्तकांचनवर्णांगो दिव्यमाल्यांबरावृतः ४८।
दिव्याभरणशोभांगो दिव्यगंधानुलेपनः ।
मुकुटेनार्कवर्णेन कुंडलाभ्यां विराजते ४९।
महाकायो महाबाहू रूपेणाप्रतिमो भुवि ।
खड्गबाणधरो धन्वी कवची च महाप्रभुः ५०।
सर्वलक्षणसंपन्नः सर्वालंकारभूषणः ।
तेजसा रूपभावेन सुवर्णैश्च महामतिः ५१।
दिवि इंद्रो यथा भाति भुवि वेनात्मजस्तथा ।
तस्मिञ्जाते महाभागे देवाश्च ऋषयोमलाः ५२।
उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति ।
दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्ज्वलः ५३।
आद्यमाजगवं नाम धनुर्गृह्य महावरम् ।
शरान्दिव्यांश्च रक्षार्थे कवचं च महाप्रभम् ५४।
जाते सति महाभागे पृथौ वीरे महात्मनि ।
संप्रह्रष्टानि भूतानि समस्तानि द्विजोत्तम ५५।
सर्वतीर्थानि तोयानि पुण्यानि विविधानि च ।
तस्याभिषेके विप्रेंद्राः सर्व एव प्रतस्थिरे ५६।
पितामहाद्या देवास्तु भूतानि विविधानि च ।
स्थावराणि चराण्येव अभ्यषिंचन्नराधिपम् ५७।
महावीरं प्रजापालं पृथुमेव द्विजोत्तम ।
पृथुर्वैन्यो राजराज्ये अभिगम्य चराचरैः ५८।
देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः ।
राज्ञां समधिराज्ये वै पृथुर्वैन्यः प्रतापवान् ५९।
तस्य पित्रा प्रजाः सर्वाः कदा नैवानुरंजिताः ।
तेनानुरंजिताः सर्वा मुमुदिरे सुखेन वै ६०।
अनुरागात्तस्य वीरस्य नाम राजेत्यजायत ।
प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम ६१।
आपस्तस्तंभिरे सर्वा भयात्तस्य महात्मनः ।
दुर्गं मार्गं विलोप्यैव सुमार्गं पर्वता ददुः ६२।
ध्वजभंगं न चक्रुस्ते गिरयः सर्व एव ते ।
अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः ६३।
पर्जन्यः कामवर्षी च वेदयज्ञान्महोत्सवान् ।
कुर्वंति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे ६४।
सर्वकामफला वृक्षास्तस्मिञ्छासति पार्थिवे ।
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ६५।
सर्वे सुखेन जीवंति लोका धर्मपरायणाः ।
तस्मिञ्छासति दुर्धर्षे राजराजे महात्मनि ६६।
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूत सूत्यां समुत्पन्नः सौम्येहनि महात्मनि ६७।
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
पृथोःस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ६८।
सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः ।
शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः ६९।
सर्वशास्त्रार्थवेत्तासावग्निहोत्रमुपासते ।
दानाध्ययनसंपन्नो ब्रह्माचारपरायणः ७०।
देवानां ब्राह्मणानां च पूजनाभिरतः सदा ।
याचकस्तावकैः पुण्यैर्वेदमंत्रैर्यजेत्किल ७१।
ब्रह्माचारपरो नित्यं संबंधं ब्राह्मणैः सह ।
एवं स मागधो जज्ञे वेदाध्ययनवर्जितः ७२।
बंदिनश्चारणाः सर्वे ब्रह्माचारविवर्जिताः ।
ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवंति ते ७३।
स्तवनार्थमुभौ सृष्टौ निपुणौ सूतमागधौ ।
तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ७४।
कर्मैतदनुरूपं च यादृशोयं नराधिपः ।
तावूचतुस्तदा सर्वांस्तानृषीन्बंदिमागधौ ७५।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ।
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ७६।
कर्मणा येन कुर्यावः स्तोत्रमस्य महात्मनः ।
जानीवस्तन्न विप्रेंद्रा अविज्ञातगुणस्य हि ७७।
भविष्यैस्तैर्गुणैः पुण्यैः स्तोतव्योयं नरोत्तमः ।
कृतवान्यानि कर्माणि पृथुरेव महायशाः ७८।
ऊचुस्ते मुनयः सर्वे गुणान्दिव्यान्महात्मनः ।
सत्यवाञ्ज्ञानसंपन्नो बुद्धिमान्ख्यातविक्रमः ७९।
सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी ।
धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः ८०।
प्रियवाक्सत्यवादी च धान्यवान्धनवान्गुणी ।
गुणज्ञः सगुणग्राही धर्मज्ञः सत्यवत्सलः ८१।
सर्वगः सर्ववेत्ता च ब्रह्मण्यो वेदवित्सुधीः ।
प्रज्ञावान्सुस्वरश्चैव वेदवेदांगपारगः ८२।
धाता गोप्ता प्रजानां स विजयी समरांगणे ।
राजसूयादिकानां तु यज्ञानां राजसत्तमः ८३।
आहर्ता भूतले चैकः सर्वधर्मसमन्वितः ।
एते गुणा अस्य चांगे भविष्यंति महात्मनः ८४।
ऋषिभिस्तौ नियुक्तौ तु कुर्वाणौ सूतमागधौ ।
गुणैश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः ८५।
तदा प्रभृति वै लोकास्तवैस्तुष्टा महामते ।
पुरतश्च भविष्यंति दातारः स्तावनैर्गुणैः ८६।
ततः प्रभृति लोकेस्मिन्स्तवेषु द्विजसत्तमाः ।
आशीर्वादाः प्रयुज्यंते तेषां द्रविणमुत्तमम् ८७।
सूताय मागधायैव बंदिने च महोदयम् ।
चारणाय ततः प्रादात्तैलंगं देशमुत्तमम् ८८।
पृथुः प्रसादाद्धर्मात्मा हैहयं देशमेव च ।
रेवातीरे पुरं कृत्वा स्वनाम्ना नृपनंदनः ८९।
ब्राह्मणेभ्यो द्विजश्रेष्ठ यजन्दाता पृथुः पुरा ।
सर्वज्ञं सर्वदातारं धर्मवीर्यं नरोत्तमम् ९०।
तं ददृशुः प्रजाः सर्वा मुनयश्च तपोमलाः ।
ऊचुः परस्परं पुण्या एष राजा महामतिः ९१।
देवादीनां वृत्तिदाता अस्माकं च विशेषतः ।
प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति ९२।
इयं धात्री महाप्राज्ञा उप्तं बीजं पुरा किल ।
जीवनार्थं प्रजाभिस्तु ग्रासयित्वा स्थिराभवत् ९३।
ततः पृथुं द्विजश्रेष्ठ प्रजाः समभिदुद्रुवुः ।
विधत्स्वेति सुवृत्तिं नो मुनीनां वचनं तदा ९४।
ग्रासयित्वा तदान्नानि पृथ्वी जाता सुनिश्चला ।
भयं प्रजानां सुमहत्स दृष्ट्वा राजसत्तमः ९५।
महर्षिवचनात्सोपि प्रगृह्य सशरं धनुः ।
अभ्यधावत वेगेन पृथ्वीं क्रुद्धो नराधिपः ९६।
कौंजरं रूपमास्थाय भयात्तस्य तु मेदिनी ।
वनेषु दुर्गदेशेषु गुप्ता भूत्वा चचार सा ९७।
न पश्यति महाप्राज्ञः कुरूपं द्विजसत्तमाः ।
आचचक्षुर्महाप्राज्ञं कुंजरं रूपमास्थिता ९८।
ततः कुंजररूपांतामभिदुद्राव पार्थिवः ।
ताड्यमाना च सा तेन निशितैर्मार्गणैस्ततः ९९।
हरिरूपं समास्थाय पलायनपराभवत् ।
हरेरूपं समास्थाय अभिदुद्राव पार्थिवः १००।
सोतिक्रुद्धो महाप्राज्ञो रोषारुणसुलोचनः ।
सुबाणैर्निशितैस्तीक्ष्णैराजघान स मेदिनीम् १०१।
आकुलव्याकुला जाता बाणाघातहता तदा ।
माहिषं रूपमास्थाय पलायनपराभवत् १०२।
अभ्यधावत वेगेन बाणपाणिर्धनुर्धरः ।
सा गौर्भूत्वा द्विजश्रेष्ठा स्वर्गमेव गता ध्रुवम् १०३।
ब्रह्मणः शरणं प्राप्ता विष्णोश्चैव महात्मनः ।
रुद्रादीनां च देवानां त्राणस्थानं न विंदति १०४।
अलभंती भृशं त्राणं वैन्यमेवान्वविंदत ।
तस्य पार्श्वं पुनः प्राप्ता बाणघातसमाकुला १०५।
बद्धांजलिपुटाभूत्वा तं पृथुं वाक्यमब्रवीत् ।
त्राहित्राहीति राजेंद्र सा राजानमभाषत १०६।
अहं धात्री महाभाग सर्वाधारा वसुंधरा ।
निहतायां मयि नृप निहतं लोकसप्तकम् १०७।
कृतांजलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा ।
उवाच चैनं राजानमवध्या स्त्री सदा नृप १०८।
स्त्रीणां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः ।
गवां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः १०९।
मया विना महाराज कथं धारयसे प्रजाः ।
अहं यदास्थिरा राजंस्तदा लोकाश्चराचराः ११०।
स्थिरत्वं यांति ते सर्वे स्थिरीभूता यदा ह्यहम् ।
मां विना तु इमे लोका विनश्येयुश्चराचराः १११।
ततः प्रजा विनश्येयुर्मम नाशे समागते ।
कथं धारयिता चासि प्रजा राजन्मया विना ११२।
मयि लोकाः स्थिरा राजन्मयेदं धार्यते जगत् ।
मद्विनाशे विनश्येयुः प्रजाः सर्वा न संशयः ११३।
न मामर्हसि वै हंतुं श्रेयश्चेत्त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल शृणु देव वचो मम ११४।
उपायैश्च महाभाग सुसिद्धिं यांत्युपक्रमाः ।
समालोक्य ह्युपायं त्वं प्रजा येन धरिष्यति ११५।
मां हत्वा त्वं महाराज धारणे पालने सदा ।
पोषणे च महाप्राज्ञ मद्विना हि कथं नृप ११६।
धरिष्यसि प्रजां चेमां कोपं यच्छ त्वमात्मनः ।
अन्नमयी भविष्यामि धरिष्यामि प्रजामिमाम् ११७।
अहं नारी अवध्या च प्रायश्चित्ती भविष्यसि ।
अवध्यां तु स्त्रियं प्राहुस्तिर्यग्योनिगतामपि ११८।
विचार्यैवं महाराज न धर्मं त्यक्तुमर्हसि ।
एवं नानाविधैर्वाक्यैरुक्तो धात्र्या नराधिपः ११९।
कोपमेनं महाराज त्यज दारुणमेव हि ।
प्रसन्ने त्वयि राजेंद्र तदा स्वस्था भवाम्यहम् १२०।
एवमुक्तस्तया राजा पृथुर्वैन्यः प्रजापतिः ।
तामुवाच महाभागां धरित्रीं द्विजसत्तमाः १२१।

इति श्रीपद्मपुराणे भूमिखंडे पृथूपाख्यानेऽष्टाविंशोऽध्यायः २८।