न्यायकुसुमाञ्जली/पञ्चमस्तबकः

विकिस्रोतः तः

पञ्चमस्तबकः[सम्पाद्यताम्]

नन्वी·ारे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात्। तदेव तु न पश्याम इति चेत्- नह्रेष स्थाणोरपराधः यदेनमन्धो न पश्यति। तथाहि- कार्याऽऽयोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् सङ्ख्याविशेषाच्च साध्यो वि·ाविदव्ययः।।1।। झ्र्कु.5.602ट क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति- न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः। सिद्ध्यसिद्ध्योर्विरोधो नो नासिद्धिरनिबन्धना।।2।। झ्र्कु.5.603ट तथाहि- अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति, कस्तेषामाशयः? किमी·ारं पक्षयित्वा कर्तृत्वाच्छरीरित्वम्; ततः (अथ) शरीरव्यावृत्तेरकर्तृत्वम्; अथ क्षित्यादिकमेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृकत्वम्; यद्वा शरीराजन्यत्वादकार्यत्वम्; तत एव वाऽकर्तृकत्वम्; परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति? तत्र प्रथमद्वितीययोराश्रयासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधाः। तृतीये तु व्याप्तौ सत्यां नेदमनिष्टम्; असत्यान्तु न प्रसङ्गः। चतुर्थे बाधानेकान्तौ (229)। पञ्चमेत्वसमर्थविशेषणत्वम्। षष्ठेऽपिनागृह्रमाणविशेषया व्याप्त्या बाधः। न चागृह्रमाणाविशेषया (230) व्याप्त्या गृह्रमाणविशेषायाः सत्प्रतिपक्षत्वम्। अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः। कर्ताशरीरी, विपरीतो न कर्तेति चानयोस्तद्विरहः। झ्र्कु.5.604ट ननु यद् बुद्धिमद्धेतुकं तच्छरीहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद् बुद्धिमद्धेतुकमपि न भवतीति विर्ययनियमोपि स्यात्। तथाच पक्षधर्मतापि लभ्यत इति चेन्न- गगनादेस्सपक्षभागस्यापि सम्भवात्केवलव्यतिरेकित्वानुपपत्तेः। अन्वये तु विशेषणासामथ्र्यात्। हेतुव्यावृत्तिमात्रमेव हि तत्र कर्तृव्यावृत्तिव्याप्तम्; न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम्। व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्योऽतिप्रसङ्गात्। एतेन तद्व्यापकरहितत्वादिति सामान्योपसंहारस्यासिद्धत्वमुक्तं वेदितव्यम्। नहि यद्व्यावृत्तिर्यदभावेऽन्वयव्यतिरेकाभ्यामुपसंहर्तुमशक्या, तत्तस्य व्यापकं नामेति। झ्र्कु.5.605ट विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथोधर्मिपरिहारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति। झ्र्कु.5.606ट स्यादेतत्- अस्ति तावत् कार्यस्यावान्तरविशेषः यतश्शरीरिकर्तृकत्वमनुमीयते। तथाच तत्प्रयुक्तामेव व्याप्तमुपजीवेत्कार्यत्वसामान्यमिति स्यात्- न स्यात्- नहि विशेषोस्तीति सामान्यमप्रयोजकम्। तथासति सौरभकटुत्वनीलिमादिविशेषे (231) सति न धूमसामान्यमग्निङ्गमयेत्। किं नाम (232) साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्तमाने तद्विशेषस्साध्यविशेषव्याप्तिमाश्रयेत्; नतु विशेषे सति सामान्यमकिञ्चित्करम्, तस्यापि विशेषान्तरापेक्षयाऽ(233)किञ्चित्करत्वप्रसङ्गात्। झ्र्कु.5.607ट सौरभादिविशेषं विहायापि धूमे वन्हिर्दृष्टः, न तु विशेषं विहाय कार्ये कर्तेतिचेन्न- कार्यविशेषः कारणविशेषे व्यवतिष्ठते; न तु कार्यकारणसामान्ययोः प्रतिबन्धमन्यथाकुर्यादिति। किं न दृष्टं कार्यं कारणमात्रे अङ्कुरो बीजे तद्विशेषो धान्ये तद्विशेषश्शालौ तद्विशेषः कलमे इत्यादि बहुलं लोके? क्व वा दृष्टमणुद्रव्यारभ्यं द्रव्यम्, नित्यरूपाद्यारब्धं रूपादि? तथापि सामान्यव्याप्तेरविरोधात्सिद्ध्यत्येव। अवश्यञ्चैतदेवमङ्गीकर्तव्यम्; अन्यथा कार्यत्वस्याकस्मिकत्वप्रसङ्गात्। झ्र्कु.5.608ट स्यादेतत्- अन्वयय्वतिरेकि तावदिदं कार्यत्वमिति परमार्थः। तत्राकाशादेर्विपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिः आहोस्वित्कारणमात्रव्यावृत्तेरिति सन्दिह्रते- तदसत्- कर्तुरपि कारणत्वात्। कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पतिं्त प्रति प्रयोजकत्वात्; अन्यथा कारणत्वव्याघातात्, करणादिविशेषव्यतिरेकसन्देहप्रसङ्गाच्च; कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या कार्यत्वव्यावृत्तिः उत करणव्यावृत्त्या; एवं किमुपादानव्यावृत्त्या किमसमवायिव्यावृत्त्या, किं निमित्तव्यावृत्त्येति? कार्यत्वात#् करणमुपादानमसमवायि निमित्तं वा बुद्ध्यादिषु न सिद्ध्येत्। कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितम्; तदेव त्वसिद्धमिति चेत्- किं पटादौ कुविन्दादिरकारणमेव कर्ता? प्रस्तुते वोदासीन एव साधयितुमुपक्रान्तः? तस्मात् यत्किञ्चिदेतदपीति। झ्र्कु.5.609ट ननु कर्ता कारणानामधिष्टाता साक्षाद्वा शरीतवत्, साध्यपरम्परया वा दण्डड्डत्ध्;ादिवत्? तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात्। न द्वतीयः, द्वाराभावात्। न हि कस्यचित्साक्षादधिष्टेयस्याभावे परम्परयाऽधिष्टानं सम्भवति। तदयं प्रमाणार्थः- परमाण्वादयःन साक्षाच्चेतनाधिष्ठेयाः शरीरेतरत्वात्, यत्पुनः साक्षादधिष्ठेयम्, न तदेवं यथास्मच्छरीरमिति; नापि परम्परयाऽधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात् स्वचेष्टायामस्मच्छरीरवत्, व्यतिरेकेण वा दण्डड्डत्ध्;ादि उदाहरणम्। एवञ्च (एवं) क्षित्यादि न चेतनाधिष्ठितहेतुकं शरी़र#ेतरहेतुकत्वादित्यतिपीडड्डत्ध्;या सत्प्रतिपक्षत्वम्। अपिच पटादौ कुविन्दादेः किं कारकाधिष्ठानार्थमपेक्षा, तेषामचेतनानां स्वतोऽप्रवृत्तेः? आहो कारकत्वेन? न पूर्वः, तेषां परमे·ारेणैवाधिष्ठानात्। न ह्रस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन्न व्याप्नोतीति सम्भवति। न चाधिष्ठितानामधिष्ठात्रन्तरापेक्षा तदर्थमेव, तथासत्यनवस्थानादेवाविशेषात्। न द्वितीयः, अधिष्ठातृत्वस्यानङ्गत्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः। न च हेतुत्वेनैव तस्यापेक्षाऽस्त्विति वाच्यम्- एवं तर्हि यत् कार्यं तत्सहेतुकमिति व्याप्तिः, न तु सकर्तृकमिति। तथाच तयै(तथै)व प्रयोगे सिद्धसाधनात्। किञ्चानित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम्। न ह्रनित्यप्रयत्नोऽपि बुद्ध्या शरीरवत् कारणत्वेनापेक्ष्यते, येन तन्निवृत्तावप्यकार्या (र्य) बुद्धिर्न न#िवर्तत इति। झ्र्कु.5.610ट तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते। तथाहि- साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वम्, यत् प्रसज्यते? यदि साक्षात्प्रयत्नवदधिष्ठेयत्वम्, तदिष्यत एव। न च ततोऽन्यत् प्रसञ्जकमपि। अथेन्द्रियाश्रयत्वम्?तन्न, तदवच्छिन्नज्ञानजननद्वारेणेन्द्रियाणामुपयोगात्। अनवच्छिन्ने प्रयत्ने नायं विधिः, नित्यत्वात्। अत एव नार्थाश्रयत्वम् (234)। नहि नित्यज्ञानं भोगरूपमभोगरूपं वा, यत्नमपेक्षते; तस्य कारणविशेषत्वात्। न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि, विशेषादर्शनाभावे म#िथ्याज्ञानानवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात्। तस्मात्, साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्याविशिष्टम्। अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रयमप्यन्यथासिद्धम्। अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगायतनमपि, स्पर्शवद्वेगवद्द्रव्यान्तर(235)नुद्यत्वात्त(236)दनपेक्षमपि स्यात्; अचेतनत्वाच्चेतनाधिष्ठतमपि स्यादिति को विरोधः? तथाचसाक्षात्प्रयत्नाधिष्ठितेतरजन्यत्वादिति साध्यसमः। इन्द्रियाश्रयेतरजन्यत्वात् भोगायतनेतरजन्यत्वादिति द्वयमप्यन्यथासिद्धम्। कार्यज्ञानाद्यवपेक्षत्वाच्छरीरेतरजन्यमपि स्यात्; अचेतनहेतुकत्वाच्चेतनाधिष्ठितुक(237)मपीति को विरोधः? अप्रसिद्धविशेषणश्चपक्षः। नहि चेतनानधिष्ठतहेतुकत्वं क्वचित् प्रमाणसिद्धम्। न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरस#ाधारण्यप्रसङ्गात्। गगनादेरपि सपक्षाद्व्यावृत्तेः। झ्र्कु.5.611ट यत्पुनरुक्तं कुविन्दादेः पटादौ कथमपेक्षेति, तत्र कारकतयेति कस्सन्देहः? किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतः, न स्वरूपवतः। तदेवचाधिष्ठातृत्वम्। यत्त्वधिष्ठिते किमधिष्ठानेनेति- तÏत्क कुविन्द उद्वार्यते, ई·ारो वा, अनवस्था वाऽऽपाद्यत#े? न प्रथमः, अन्वयव्यतिरेकसिद्धत्वात्। न द्वतीयः, परमाण्वदृष्टाधिष्ठातृत्वसिद्धौ ज्ञानादीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात्। न तु तदधिष्ठानार्थमेवे·ारसिद्धिः। न तृतीयः, तस्मिन् प्रमाणाभावात्। तथाप्येकाधिष्ठितमपरः किमर्थमधितिष्ठतीति प्रश्ने किमुत्तरमिति चेत्- हेतुप्रश्नोऽयम्, प्रयोजनप्रश्नो वा? नाद्यः, ई·ाराधिष्ठानस्य नित्यत्वात्। कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात्। न द्वितीयः, कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात्। एकाधिष्ठानेनैव कार्यं स्यादिति चेत्- स्यादेव। तथापि न सम्भेदेऽन्यतरवैयथ्र्यम्। परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामथ्र्योपलब्धौ सम्भूयकारित्वोपपत्तेः। अस्ति तत्र वैजात्यमिति चेत्- इहापि किञ्चिद्भविष्यतीति। न चाकुर्वतः कुलालादेः कायसङ्क्षोभादिसाध्यो भोगस्सिद्ध्येदिति तदर्थमस्य कर्तृत्वमी·ारोऽनुमन्यते, तदर्थमात्रत्वादै·ार्यस्येति। झ्र्कु.5.612ट यत्वनित्यप्रयत्नेत्यादि- भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निवर्तेत; न त्वेतदस्ति; (238) उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात्। हेतुभूता बुद्धिर्निवत्तते इथि चेन्न- उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात्। कारकविषया बुद्ध#िर्निवर्तते इति चेन्न- उदासीनस्यापि कारकबोद्धृत्वात्। न हि घटादिकमकुर्वन्तश्चक्रादिकं नेक्षामहे। हेतुभूता कारकबुद्धिर्निवर्तते इति चेन्न- (चक्रा(239)दिबुद्धेरपि संस्कारं प्रति हेतुत्वात्। कारकफलहेतुभूता कारकबुद्धिर्निवर्तत इति चेन्न-) अयतमानस्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेर्भावात् (240)। चिकीर्षाहेतुभूतोऽनुभवो निवर्तत इति चेन्न- केनचिन्निमित्तेनाऽकुर्वतोऽपि चिकीर्षातद्धेतुबुद्धिसम्भवातत्। अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिर्निवर्तते इति चेत्- न तर्हि बुद्धिमात्रम्। तथाचानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्तताम्, न तु बुद्धिमत्पूर्वकत्वमात्रम्। तत्र तस्याप्रयोजकत्वादिति बुद्धिमत्पूर्वकत्व(मिति)साध्यपक्षे परीहारः। सकर्तृकमिति प्रयत्नप्रधानपक्षे शङ्कैव नास्ति; तस्यैव तत#्रानुपाधित्वात्। झ्र्कु.5.613ट एतेन- शरी़रसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपाधिरिति- निरस्तम्। यो हि बुद्ध्या शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद्वा प्रयत्नेन बुदिं्ध बुद्धिनिवृत्त्या प्रयत्ननिवृतिं्त (वा?) साधयेत्, स एवं कदाचिदुपालभ्यः। वयंत्ववगतहेतुभावं कलितशक्तिसकल(241)कारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमास्कन्दनीयाः तत्र (242) तस्यानुपाधित्वात्। झ्र्कु.5.614ट न च प्रयत्न आत्मलाभार्थमेव मतिमपेक्षते, विषयलाभार्थमप्यपेक्षणात्। ततः प्रयत्नाद्बुद्धिः तन्निवृत्तेश्च प्रयत्ननिवृत्तिः सिद्ध्येति विस्तृतमन्यत्र। कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो निवर्तते, न नित्यः। नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्तते, नानित्या। न हि तया तस्य विषयलाभसम्भवः। शरी़रादेः प्राक् तदसम्भवे देहानुत्पत्तौ (243) सर्वदाऽनुत्पत्तेः। शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति सङ्क्षेपः। झ्र्कु.5.615ट तर्काभासतयाऽन्येषां तर्काशुद्धिरदूषणम्। अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम्।।3।। कारक(244)व्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः, चेतनाचेतनव्यापारयोर्हेतुफलभावावधारणात्, कारणान्तराभाव इव कत्र्रभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपिकारणत्वात्। झ्र्कु.5.616ट यस्त्वाह- प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः। प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात् धूमाग्निवत्, कम्पमारुतवच्च। नहि धूमः कार्योऽनलस्येति उदर्यस्यापि, न हि शाखाकम्पो मातरि·ान इति स्तिमितस्यापि स्यात्। किन्तु भौमस्पृश्ययोरेव। तथेहापि शरी़रवत एव कारणत्वमवगन्तुमुचितम्, नान्यस्येति- तदसत्- प्रत्यक्षानुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चये; न तु दृश्यतैव तत्रोपेया; किन्नाम (245) दृश्याश्रितं सामान्यद्वयम्। तदालीढस्य हि तदुत्पत्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव तज्जातीयं तदुत्पत्तिमत्तया निश्चितं भवति, यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव; अस्माकञ्चातीन्द्रियसमवायादिसिद्धौ। नचेदेवम्, उदाह्मतयोः (246) एव दहनपवनयोः; आलोकरूपवतोस्तदुत्पत्तिनिश्चये, कथनालोकनिरस्तरूपयोः सिद्धिः? यत् उदर्यस्तिमितसाधारणी सिद्धिस्स्यादिति- तद्भवेदप्येवम्, यदि शरीरादिकं विना कार्यमिव, भौमं स्पर्शवद्वेगवन्तञ्च विना अग्निमात्रात् पवनमात्राद्वा धूमकम्पौ स्याताम्। न त्वेवम्। न चैवं चेतनव्यभिचारोऽपि शक्याभिधान इत्यलं बालप्रलापानां समाधानैः। झ्र्कु.5.617ट तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ- यदि कर्तारमतिपत्य कार्यं स्यात्, स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति। एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते। एवञ्च सिद्धे प्रतिबन्धे न प्रतिबन्द्यादेः प्रतिबन्द्यादेः क्षुद्रोपद्रवस्यावकाशः। प्रतिबन्धसिद्धाविष्टापादनात्, तदसिद्धौ तत एव तत्सिद्धेः अप्रसङ्गादिति। ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षे·ारपक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडड्डत्ध्;य#ैव नगरदाहः- तन्न- स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात्। ओमिति ब्राुवतस्सौगतस्य दत्तम् (247) उत्तरं प्राक्। झ्र्कु.5.618ट ठआर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः।। (मनु.12.106) तमिममर्थमागमस्संवदति, विसंवदति तु परेषां विचारम्- "वि·ातश्चक्षुरुत वि·ातोमुखो वि·ातोबाहुरुत वि·ातस्पात्। सं बाहुभ्यां धमति सं पतत्रैद्र्यावाभूमी जनयन् देव एकः'।। अत्र प्रथमेन सर्वज्ञत्वम्, चक्षुषा दृष्टेरुपलक्षणात्। द्वितीयेन सर्ववक्तृत्वम्, मुखेन वागुपलक्षणात्। तृतीयेन सर्वसहकारित्वम्, बाहुना सहकारित्वो(मत्त्वो?)पलक्षणात्। चतुर्थेन व्यापकत्वम्, पदा व्याप्तेरुपलक्षणात्। पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वम्; तौ हि लोकयात्रावहनाद् बाहू। षष्ठेन परमाणुरूपप्रधानाधिष्ठेयत्वम्; ते हि गतिशीलत्वात्पतत्रव्यपदेशाः, पतन्तीति। सन्धमति सञ्जनयन्निति च व्यवहितोपसर्गसम्बन्धः; तेन संयोजयति समुत्पादयन्नित्यर्थः। द्यावा इत्यूध्र्वसप्तलोकोपलक्षणं भूमीत्यधस्तात्, एक इत्यनादितेत#ि। स्मृतिरपि- "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते' (गीता.10.8) इत्यादिः। एतेन ब्राहृादिप्रतिपादका आगमा बोद्धव्याः। झ्र्कु.5.619ट आयोजनात् खल्वपि- स्वातन्त्र्ये जडड्डत्ध्;ताहानिर्नादृष्टं दृष्टघातकम्। हेत्वभावे फलाभावो विशेषस्तु विशेषवान्।।4।। परमाण्वादयो (248) हि चेतनाऽऽयोजिताः प्रवर्तन्ते अचेतनत्वात् वास्यादिवत्। अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः; अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात्। झ्र्कु.5.620ट क्रियाविशेषविश्रान्तोऽयमर्थः, न तु तन्मात्रगोचरः। चेष्टा हि चेतनाधिष्ठानमपेक्षत इति चेत्- अथ केयं चेष्टा नाम? यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम्- तन्न- तस्यैव तत्रानुपाधित्वात्। अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम्- तन्न- विषभक्षणोद्बन्धनाद्यव्यापनात्। इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत्- कर्तारं प्रति, अन्यं वा? उभयथापि परमाण्वादिक्रियासाधारण्यादविशेषः। भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च। शरीरसमवायिक्रियात्वं तदिति चेन्न- मृतशरीरक्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः। जीवत इति चेन्न- नेत्रस्पन्दादेश्चेतनाधिष्ठानाभ्युपगमप्रसङ्गात्। स्पर्शवद्द्रव्यान्तराप्रयोगे सतीति चेन्न- ज्वलनपवनादौ तथाभावाभ्युपगमापत्तेः। शरीरस्य स्पर्शवद्द्रव्यान्तराप्रयुक्तस्येति चेन्न- चेष्टयैव शरीरस्यलक्ष्यमाणत्वात्। झ्र्कु.5.621ट सामान्यविशेषश्चेष्टात्वम्, यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेन्न- क्रियामात्रेणैव तदुन्नयनात्। भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्- तर्हि तद्विश्रान्तत्वमेव तस्य। नचैतावतैव क्रियामात्रं प्रयत्नचेतनमात्रस्य चेतनाधिष्ठानेन व्याप्तिरपसार#्यते। विशेषस्य विशेषं प्रति प्रयोजकतया सामान्यव्याÏप्त प्रत्यविरोधकत्वात्। अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम्। एतेनाशरीरत्वादिना सत्प्रतिपक्षत्वमपास्तम्। झ्र्कु.5.622ट अत्राप्यागमसंवादः- "यदा स देवो जागर्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति'।। "अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः। ई·ारप्रेरितो गच्छेत् स्वर्गं वा ·ाभ्रमेव वा'।। "मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्। (गी.9-10) तपाम्यहमहं वर्षं निगृण्हाम्युत्सृजामि च'।। (गी.9-19) इत्यादि। अत्र जागरस्वापौ सहकारिलाभालाभौ। ई·ारप्रेरणायामज्ञत्वमप्रयतमानत्वञ्च हेतू दर्शितौ परमाण्वादिसाधारणौ। स्वर्ग·ाभ्रे च इष्टानिष्टोपलक्षणे। एतदेव सर्वाधिष्ठानमुत्तरत्र विभाव्यते, मयेत्यादिना। न केवलं प्रेरणायामहमधिष्ठाता, अपितु प्रतिरोधेऽपि। यो हि यत्र प्रभवति, स तस्य प्रेरणावत् धारणेऽपि समर्थः, यथाऽर्वाचीरश्शरीरप्राणप्रेरणधारणयोरिति दर्शितम्, तपामीत्यादिना। झ्र्कु.5.623ट धृतेः खल्वपि। क्षित्यादि ब्राहृाण्डड्डत्ध्;पर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपतनधर्मकत्वात् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवच्च। एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्याताः। सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः, आत्मैवेदं सर्वमिति; यथैक एव मायावी, "अ·ाो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र' इत्यादिः। अदृष्टादेव तदुपपत्तेरन्यथासिध्धमिदमिति चेत्- (न?) तद्भावेपि प्रयत्नान्वयव्यतिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात्। क#ारणैकदेशस्य च कारणान्तरं प्रत्यनुपाधित्वात्। उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात्। शरीरस्थितिरेवम्, न त्वन्यस्थितिरिति चेन्न- प्राणेन्द्रिययोः स्थितेरव्यापनात्। प्राङ्न्यायेनापास्तत्वाच्च। झ्र्कु.5.624ट अत्राप्यागमः, "एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः'। (बृ.उ.5-8-8) इति। प्रशासनं दण्डड्डत्ध्;भूतः प्रयत्नः। "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाह्मतः। यो लोकत्रयमाविश्य विभत्र्यव्यय ई·ारः'। (गी.15-17) इति स्मृतिः। अत्रोत्तमत्वमसंसारित्वं सर्वज्ञत्वादि च। परमत्वं सर्वोपास्यता। लोकत्रयमिति सर्वोपलक्षणम्। आवेशो ज्ञानचिकीर्षाप्रयत्नवतस्संयोगः। भरणं धारणम्। अव्ययत्वमागन्तुकविशेषगुणशून्यत्वम्। ऐ·ार्यं सङ्कल्पाप्रतिघात इति। एतेन कूर्मादिविषया अप्यागमा व्याख्याताः। झ्र्कु.5.625ट संहरणात् खल्वपि। ब्राहृाण्डड्डत्ध्;ादि द्व्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विनाश्यत्वात् पाट¬मानपटवत्। अत्राप्यागमः- "एष सर्वाणि भूतानि स्वाभिव्याप्य मूर्तिभिः। जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत्'।। "सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्'।। (गी. 9-7) इत्यादिः। एतेन रौद्रमंशं प्रतिपादयन्तोप्यागमा व्याख्याताः। झ्र्कु.5.626ट पदात् खल्वपि- कार्यत्वान्निरूपाधित्वमेवं धृतिविनाशयोः। विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत्।।5।। पदशब्देनात्र पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते। अतोऽपी·ारसिद्धिः। तथाहि - यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनाम्, वाग्व्यवहारश्च व्यक्तवाचाम्, लिपितत्क्रमव्यवहारश्च बालानाम्, स सर्वस्स्वतन्त्रपुरुषविश्रान्तः व्यवहारत#्वात् निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्रमैत्रादिपदवत्, पत्राक्षरवत्, पाणिनीयवर्णनिर्देशक्रमवच्चेति। झ्र्कु.5.627ट आदिमान् व्यवहार एवम्, अयन्त्वनीदिरन्यथापि भविष्यतीतिचेन्न- तदसिद्धेः। आदिमत्तामेव साधयितुमयमारम्भः। न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः, तथापि तस्याविरोधात्। न हि- चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्यनादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोप्यादिमानिति। अस्त्वर्वाग्दर्शी कश्चिदेवात्र मूलमिति चेन्न- तेनाशक्यत्वात्। कल्पादावादर्शाभासस्याप्यसिद्धेः। साधितौ च सर्गप्रलयौ। ननु व्यवहारयितृवृद्धश्शरीरी समधिगतः,नचे·ारस्तथा। तत्कथमेवं स्यात्- न- शरीरान्वयव्यतिरेकानुविधायिनि कार्ये तस्यापितद्वत्त्वात्। गृण्हाति हि ई·ारोपि कार्यवशाच्छरीरमन्तरान्तरा; दर्शयति च विभूतिमिति। अत्राप्यागमः- पिताऽहमस्य जगतो माता धाता पितामहः।। (गी.9-17) तथा- यदि ह्रयं न वर्तेयं (य?) जातु कर्मण्यतन्द्रितः। मम वत्र्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।। उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। इति। (गी.3-23,24) एतेन, "नमः कुलालेभ्यः कर्मारेभ्य" इत्यादि यजूंषि बोद्धव्यानि। झ्र्कु.5.628ट प्रत्ययोऽपि (यादपि?)। प्रत्ययशब्देनात्र समा·ाासविषयप्रामाण्यमुच्यते। तथाच प्रयोगः-(249) आगमसम्प्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात् प्रत्यक्षादिवत्। नहि प्रामाण्यप्रत्ययं विना क्वचित् समा·ाासः। नचासिद्धस्य प्रामाण्यस्य प्रतीतिः। न च स्वतः प्रमाण्यमित्यावेदितम्। न च नेदं प्रमाणम्, महाजनपरिग्रहादित्युक्तम्। न चासर्वज्ञो धर्माधर्मयोस्स्वातन्त्र्येण प्रभवति। नचासर्वज्ञस्य गुणवत्तेति निःशङ्कमेतत्। झ्र्कु.5.629ट श्रुतेः खल्वपि। तथाहि- सर्वज्ञप्रणीता (250) वेदाः वेदत्वात्। यत् पुनर्न सर्वज्ञप्रणीतम्, नासौ वेदो यथेतरवाक्यम्। ननु किमिदं वेदत्वं नाम? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात्। अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः,मन्वादि वाक्ये गतत#्वेन विरोधाच्चेतिचेन्न- अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात्। न ह्ररमदादीनां प्रत्यक्षादि मूलम्। नापि भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम्। नापि परम्परैव मूलम्, महाप्रलये विच्छेदादित्युक्तम्। झ्र्कु.5.630ट अन्वयतो वा। वेदवाक्यानि पौरुषेयाणि वाक्यत्वादस्मदादिवाक्यवत्। अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न- असिद्धेः। "अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः'। "प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते'। "वेदान्तकृद्वेदविदेव चाहम्' इति स्मृतेः। "तस#्माद्यज्ञात् सर्वहुतः ऋचस्सामानि जज्ञिरे' इत्यादिश्रुतिपाठक(251)स्मृतेश्च। अर्थवादमात्रमिदमितिचेन्न- कर्तस्मरणस्य सर्वत्राविध्यर्थत्वात्। तथाचास्मरणे कालिदासादेरस्मरणात्। एवञ्च कुमारसम्भवादेरकर्तृकत्वप्रसङ्गः; अनैकान्तिकत्वं वा हेतोः। झ्र्कु.5.631ट प्रमाणान्तरागोचरार्थत्वासत्सत्प्रतिपक्षत्वमिति चेन्न- प्रणेतारं प्रत्यसिद्धेः; अन्यं प्रत्यनैकान्तिकत्वात्। आकस्मिकस्मितबीजसुखानुस्मृतेः कारण(252)विशेषस्यान्यं प्रति प्रमाणान्तरागोचरस्यापि तेनैव वक्त्रा प्रतिपाद्यमानत्वात्। झ्र्कु.5.632ट वक्तैव प्रकृते न सम्भवति, हेत्वभावे फलाभावात्। चक्षुरादीनां तत्रासामथ्र्यात् अस्मदादीन्द्रियवत्। मनसो बहिरस्वातन्त्र्यात्- न- चेतनस्य ज्ञानस्येन्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात्। नित्यनिराकरणे चासामथ्र्यात्। परमाण्व#ादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेन्न- द्रष्टारं प्रत्यसिद्धेः; अन्यं प्रति सिद्धसाधनात्। झ्र्कु.5.633ट तथापि वाक्यत्वं न प्रमाणम्; अप्रयोजकत्वात्; प्रमाणान्तरगोचरार्थत्वप्रयुक्तं तत्र पौरुषेयत्वम्, न तु वाक्यत्वप्रयुक्तम्- न- सुगताद्यागमानामपौरुषेयत्वप्रसङ्गात्। प्रमाणवाक्यस्य सत इति चेन्न- प्रणेतृप्रमाणान्तरगोचरार्थत्वस्य साध्यानुप्रवोशात्; स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम्; अर्थप्रतीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातन्त्र्यम्। मन्वादिवाक्यस्यापौरुषेयत्वप्रसङ्गाच्च; तदर्थस्य शब्देतरप्रमाणागोचरत्वात्। प्रयुज्यमानवाक्येतरगोचरार्थत्वमात्रमिति चेन्न- तस्य वेदेऽपि सत्वात्; एकस्याप्यर्थस्य शाखाभेदेन बहुभिर्वाक्यैः प्रतिपादनात्। अस्त्वेवम्, न तु तेषा मिथोमूलमूलिभाव इति चेन्न- उक्तोत्तरत्वात्। झ्र्कु.5.634ट सङ्ख्याविशेषात्खल्वपि। द्व्यणुकत्र्यणुके तावत् परमाणवती द्रव्यत्वात्। तच्च परिमाणं कार्यं कार्यगुणत्वात्। न च तस्य परमाणुपरिमाणं द्व्यणुकपरिमाणं वा कारणम्; नित्यपरिमाणत्वात्; अणुपरिमाणत्वाच्च। अन्यथा अनाश्रयकार्योत्पत्तिप्रसङ्गात्, द्व्यणुकस्य महत्त्वप्रसङ्गाच्च; त्र्यणुकवदण्वारभ्यत्वाविशेषात्, तत्र कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितेः। अणुत्वमेव महदारम्भे विशेष इत्यपि न युक्तम्; महतो महदनारम्भप्रसङ्गात्; अणुत्वमहत्त्वयोर्विरुद्धतया एकजातीयकार्यानारम्भकत्वप्रसङ्गात्। बहुभिरपिपरमाणुभिद्र्वाभ्यामपि द्व्यणुकाभ्यामारम्भप्रसङ्गाच्च। एवं सति को दोष इति चेत्- परमाणुकार्यस्य महत्त्वप्रसङ्गः; कारणबहुत्वस्य तद्धेतुत्वात्। अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयथ्र्यप्रसङ्गात्। अणुन एव तारतम्याभ्युपगमस्तु सङ्ख्य#ामवधीर्य न स्यात्। अस्तु महदारम्भ एव त्रिभिरिति चेन्न- महतः कार्यस्य कार्यद्रव्यारम्भत्वनियमात्। तथापि वा तारतम्ये सङ्ख्यैव प्रयोजिकेति। न च प्रचयोऽपेक्षणीयः, अवयवसंयोगस्याभावात्। तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः। झ्र्कु.5.635ट अतोऽनेकसङ्ख्या परिशिष्यते। सा अपेक्षाबुद्धिजन्या अनेकसङ्ख्यात्वात्। न चास्मदादीनामपेक्षाबुद्धिः परमाणुषु सम्भवति। तद् यस्यासौ स सर्वज्ञः। अन्यथा अपेक्षाबुद्धेरभावात् सङ्ख्याऽनुत्पत्तौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात्त्र्यणुकानुत्पत्तौ वि·ाानुत्पत्तिप्रसङ्गः। अस्मादादीनामेवाऽऽनुमानिक्यपेक्षाबुद्धिरस्त्विति चेन्न- इतरेतराश्रयप्रसङ्गात्। जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानम्, तस्मिन् सति द्व्यणुकादिक्रमेण स्थूलोत्पत्तिः। अस्त्वदृष्टादेव परिमाणम्, कृतमपेक्षाबुद्ध्येति चेन्न- अस्तु तत एव सर्वम्, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति। झ्र्कु.5.636ट अथवा कार्येत्यादिकमन्यथा व्यख्यायते। उद्देश (253) एव तात्पर्यं व्याख्या वि·ादृशस्सती। ई·ारादिपदं सार्थं लोकवृत्तानुसारतः।।6।। आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती। भूतार्थस्य तु यद्यपि नाहत्य प्रवर्तकत्वं निवर्तकत्वं वा, तथापि तात्पर्यतस्तत्रैव प्रामाण्यम्। तथाहि- विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते। प्रशस्ते हि सर्वः प्रवर्तते, निन्दिताच्च निवर#्तते इति स्थितिः। झ्र्कु.5.637ट तत्र पदशक्तिस्तावदभिधा; तद्बलायातः पदार्थः। आकाङ्क्षादिमत्त्वे सति चान्वयशक्तिः पदानां पदार्थानां वा वाक्यम्; तद्बलायातो वाक्यार्थः। तात्पर्यार्थस्तु चिन्त्यते। तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य, तदिदं तत्परम्। तस्य भावस्तत#्त्वम्। तद् यद्विषयम्, स तात्पर्यार्थ इति स्यात्। झ्र्कु.5.638ट तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणोऽसाध्यत्वात्। फलस्य च तत्प्रतिपत्तितोऽन्यस्याभावात्। प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं परमुच्यते इति चेन्न- गङ्गायां घोष इत्यत्र तीरस्याप्रवृत्तिनिवृत्तिरूपस्यासाध्यस्यापि परत्वात्। तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति चेन्न- स्वरूपाख्यानमात्रेणापि पर्यवसानात्। झ्र्कु.5.639ट न द्वितीयः,पदवाक्ययोः पदार्थतत्संसर्गौ विहाय प्रतिपाद्यान्तराभावात्। पदशक्तिसंसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते इत्यपि न सामप्रतम्- न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्यं शब्दस्य; अति प्रसङ्गात्। तदा हि गङ्गायां जलमित्याद्यपि तीरपरं स्यात्; अविनाभावस्य तादवस्थ्यात्। मुख्ये बाधके सति तत्तथा स्यादिति चेत्- न- तस्मिन्नसत्यपि भावात्। तद् यथा- "गच्छ गच्छसि चेत् कान्त पन्थानस्सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्' इति मुख्यार्थाबाधनेऽपि वारणे तात्पर्यम्। न च परं व्यापकमेव, अव्यापकेऽपि तात्पर्यदर्शनात्। तद् यथा, मञ्चाः क्रोशन्तीति पुरुषे तात्पर्यम्। न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः। झ्र्कु.5.640ट नापि तृतीयः। तद्धि प्रतिपाद्यापेक्षितम्, प्रतिपादकापेक्षितं वा स्यात्। नाद्यः; शब्दप्रामाण्यस्यातदधीनत्वात्। तथात्वे वाऽतिप्रसङ्गात्। यस्य यदपेक्षितम्, तं प्रति तस्य परत्वप्रसङ्गात्। तदर्थसाध्यत्वेनापेक्षानियम इति चेन्न- कार्यज्ञाप्यभेदेन साध#्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात्। धूमस्य हि प्रदेशश्यामलतामशकनिवृत्त्याद्यनेकं कार्यम्; आर्देन्धनदहनाद्यनेकं ज्ञाप्यम्। तथाचेह प्रदेशे धूमोद्गम इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्; चेतनापेक्षायानियन्तुमशक्यत्वात्। नापि प्रतिपादक#ोपेक्षितम्, वेदे तदभावात्। झ्र्कु.5.641ट चतुर्थस्तु स्यात्। यदुद्देशेन यश्शब्दः प्रवृत्तः स तत्परः। तथैव लोकव्युत्पत्तेः। तथाहि- प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते। तदुपादानपरम्। निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते तत् हानपरम्। एवमन्यत्रापि स्वयमूहनीयम्। तस्माल्लोकानुसारेण वेदेऽप्येवं स्वीकारणीयम्; अन्यथा अर्थवादानां सर्वथैवानर्थक्यप्रसङ्गात्। स चोद्देशो व्यवसायोऽधिकारोऽभिप्रायो भाव आशय इत्यनर्थान्तरमिति तदाधारप्रणेतृपुरुषधौरेयसिद्धिः। तथा च प्रयोगः- वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि प्रशंसावाक्यत्वात् परिणतिसुरसमाम्रफलमित्यादिलोकवाक्यवदिति। एवं निन्दावाक्यानि हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् परिणतिविरसं पनसफलमित्यादिवाक्यवत्। अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम्। झ्र्कु.5.642ट अपिच नो चेदेवम्, श्रुतार्थापत्तिरपि हीयेत। सिद्धो ह्रर्थः प्रमाणविषयः, न तु तेनैव कर्तव्यः। न च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र रात्रौ भुङ्क्त इति वाक्यशेषोऽस्ति; अनुपलम्भबाधितत्वात्; उत्पत्त्यभिव्यक्तिसामग्रीताल्वादि व्यापारविरहात्; अय#ोग्यस्याशङ्कितुमप्यशक्यत्वात्। तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात्। स चेद्वेदे नास्ति, नास्ति श्रुतार्थापत्तिरिति तद्व्युत्पादनानर्थक्यप्रसङ्गः। तस्मात् कार्यात्तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति। झ्र्कु.5.643ट अयोजनात् खल्वपि। नहि वेदादव्यख्यातात् कश्चिदर्थमधिगच्छति। न चैकदेशदर्शिनो व्याख्यानमादरणीयम्; "पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम्' इति न्यायेनाना·ाासात्। त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणोऽन्यथार्थप्रत्ययः स्यात्, किमुतातीन्द्र#ियादन्तरान्तरावाक्यसम्भेददुरधिगमात्। ततस्सकलवेदवेदार्थदर्शी कश्चिदेवाऽभ्युपेयः, अन्यथाऽन्धपरम्पराप्रसङ्गात्। स च श्रुताधीतावधृतस्मृतसाङ्गोपाङ्गवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति। कोह्रप्रत्यक्षीकृतवि·ातदनुष्ठानः, एतावानेवायमाम्नाय इति निश्चिनुयात्। कश्चार्वाग्दृक् निःशेषाः श्रतीग्र्रन्थतोऽर्थतोवाऽधीयीत, अध्यापयेद्वा। अत्रापि प्रयोगः- वेदाः कदाचित् सर्ववेदार्थविद्व्याख्याताः, अनुष्ठातृ(254)मतिचलनेऽपि निश्चलार्थानुष्ठानत्वात्। यदेवं तत्सर्वं तदर्थविद्व्याख्यातम्, यथा मन्वादिसंहितेति। अन्यथात्वना·ाासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदनादेशिकत्वात् (255)। अनुष्ठातार एवादेष्टार इति चेन्न- तेषामनियतबोधत्वात्। वेदवद्वेदार्थानुष्ठानमप्यनादीति चेन्न- तद्धि स्वतन्त्रं वा वेदार्थबोधतन्त्रं वा। आद्ये निर्मूलत्वप्रसङ्गः। द्वितीये त्वनियमापत्त#ि#ः। नह्रसर्वज्ञाविशेषे पूर्वेषां तदवबोधः प्रमाणम्, न त्विदानीन्तनानामिति नियामकमस्ति। झ्र्कु.5.644ट पदात् खल्वुपि। श्रूयते हि प्रणवे·ारेशानादिपदम्। तच्च सार्थकम्। अविगानेन श्रुतिस्मृतीतिहासेषु प्रयुज्यमानत्वात् घटादिपदवदिति सानास्यतः सिद्धेः, कोऽस्यार्थः इति व्युत्पत्सोर्विमर्शे सति निर्णयः, स्वर्गादिपदवत्, "उत्तमः पुरुषस्त्वन्यः परमात्मेत#्युदाह्मतः। यो लोकत्रयमाविश्य बिभत्त्र्यव्यय ई·ारः' इत्यर्थवादात्, यववराहादिवद्वाक्यशेषाद्वा। तद् यथा ई·ारप्रणिधानमुपक्रम्य श्रूयते- सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तशक्तिश्च विभोर्विधिज्ञाः षडड्डत्ध्;ाहुरङ्गानि महे·ारस्य' इति। एवम्भूतोऽर्थः प्रमाणबाधित इति चेन्न- प्रागेव प्रतिषेधात्। तथापि न तत्र प्रमाणमस्तीति चेत्- स्वर्गे अस्तीति का श्रद्धा? नह्रुक्तविशेषणे सुखे किञ्चित् प्रमाणमस्त्यस्मदादीनाम्। याज्ञिकप्रवृत्त्यन्यथानुपपत्या तथैव तदित्यवधार्यते इति चेन्न- इतरेतराश्रयप्रसङ#्गात्। अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः प्रवृत्त्यन्यथानुपपत्त्या च तदवधारणमिति। पूर्ववृद्धप्रवृत्त्या तदवधारणेऽयमदोष इति चेन्न- अन्धपरम्पराप्रसङ्गात्। विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवं विधमपि सुखं स्यादिति नास्ति विरोधः; तन्निषेधे प्रमाणाभावादिति चेत्- तुल्यमितरत्रापि। अत्रापि प्रयोगः- यश्शब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्युज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेषे प्रयुज्यमानस्तस्य वाचकः। प्रयुज्यते चायं जगत्कर्तरीति। अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुपपत्तिरिति। एतेन रुद्रोपेन्द्रमहेन्द्राद#िदेवताविशेषवाचका व्याख्याताः। अपिच अस्मत्पदं लोकवद्वेदेऽपि प्रयुज्यते। तस्य च लोके नाचेतनेष्वन्यतमदर्थः, तत्र सर्वथैवाप्रयोगात्। नाप्यात्ममात्रमर्थः; परात्मन्यपि प्रयोगप्रसङ्गात्। अपितु यस्तं स्वातन्त्र्येणोच्चारयति, तमेवाह; तथैवान्वयव्यतिरेकाभ्यामवसायात्। ततो लोकव्युत्पत्तिमनतिक्रम्य वेदेऽप्यनेन स्वप्रयोक्तैव वक्तव्यः। अन्यथाऽप्रयोगप्रसङ्गात्। न च यो यदोच्चारयति वैदिकमहं शब्दम्, स एव तदा तस्यार्थ इति युक्तम्। तथासति मामुपासीतेत्यादौ स एवोपास्यस्स्यात्। अहं सर्वस्यप्रभवो मत्तः सर्वं प्रवर्तते, इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधिगच्छेत्। तथाचोपासनां प्रत्युन्मत्तकेलिस्स्यात्। लोकव्यवहारश्चोच्छिद्येत। तस्मन्नानुवक्ताऽस्य वाच्यः, अपि तु वक्तैवेति स्थिते प्रयुज्यते वेदे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्लोकवदिति। एवमन्येऽपि यः कः स इत्यादि शब्दा द्रष्टव्याः, तेषां बुद्ध्युपक्रमप्रश्नपरामर्शाद्युपहितमर्यादत्वात्; तस्य च वक्तृधर्मत्वात्। बुद्ध्यपक्रमो हि प्रकृतत्वम्, जिज्ञासाऽऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति। एवञ्च संशयादिवाचक अप्युन्नेयाः। न च ज#िज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम्। शिष्यप्रतिबोधनायाहार्यत्वेनाविरोधात्। को धर्मः कथं लक्षणक इत्यादिभाष्यवदिति। एतेन धिगहो बत हन्तेत्यादयो निपाता व्याख्याताः। झ्र्कु.5.645ट प्रत्ययादपि। लिङ्गादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रति पादयन्ति। तथाहि- प्रवृत्तिः कृतिरेवात्र, सा चेच्छतो, यतश्च सा। तज्ज्ञानम्, विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा।।7।। झ्र्कु.5.646ट प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम्, आत्मा ज्ञातव्य इत्याद्यव्यापनात्। नापीच्छामात्रम् तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात्। ततः प्रयत्नः परिशिष्यते। आत्मज्ञानभूतदयादावपि तस्याः (स्य?) भावात्। तदुक्तम्, "प्रवृत्तिरारमभः' इति। झ्र्कु.5.647ट सेयं प्रवृत्तिर्यतस्सत्तामात्रावस्थिताद्, नासौ विधिः; तत्र शास्त्रवैयथ्र्यात्। अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात्। न च प्रवृत्तिहेतुजननार्थं तदुपयोगः; प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् ज्ञानमनुत्पाद्यतदुत्पादनस्याशक्यत्वात् तस्य च निरालम्बनस्यानुत्पत्तेः; अप्रवर्तकत्वाच्च, नियामकाभावात्। तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते, सोर्थविशेषस्तज्ज्ञापको वाऽर्थविशेषो विधिः प्रेरणा प्रवर्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति स्थिते विचार्यते- स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा नियोक्तृधर्मो वेति। न प्रथमः- झ्र्कु.5.648ट इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः। असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात्।।8।। स हि न स्पन्द एव; आत्मानमनुपश्येदित्याद्यव्याप्तेः; ग्रामं गच्छतीत्यादावतिव्याप्तेश्च। नापि तत्कारणं प्रयत्नः; तस्य सर्वाख्यातसाधारणत्वात्। झ्र्कु.5.649ट ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः; करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्तस्याभावात्। सङ्ख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात्। ततो लिङ्गादिवाच्च एव प्रयत्न इति- न- कुर्यादित्यत्रापि तुल्यत्वात्। प्रयत्नमात्रस्य प्रकृत्यर्थत्वेऽपि तस्य परा(256)ङ्गतापन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत्- न- तथापि तुल्यत्वात्। न चैकस्य तद्वाचकत्वेऽन्यस्य तद्विपर्यय आपद्येत। एको द्वौ बहव एषिषतीत्यादौ व्यभिचारात्। तत्र द्वितीयस्ङ्ख्येच्छादिकल्पने करोति प्रयतते इत्यादावपि तथा स्यात्। प्रत्येकमन्यत्रसामथ्र्यावधृतौ सम्भेदे तथा कल्पनायास्तुल्यत्वात्। रथो गच्छतीत्यादौ तदसम्भवे का गतिरिति चेत्- तन्तवः पटं कुर्वन्तीत्यत्र या। लोकोपचारोऽयमपर्यनुयोज्य इति चेत्तुल्यम्। लिङः कार्यत्वे वृद्धव्यवहाराद्व्युत्पत्तौ सर्वं समञ्जसम्। आख्यातमात्रस्य तु न तथेति चेत्- न- विवरणादेरपि व्युत्पत्तेः। अस्ति च तदिह। किं करोति? पचति, पाकं करोतीत्यर्थ इत्यादिदर्शनात्। झ्र्कु.5.650ट तथापि फलानुकूलतापन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानकल्पनायां कल्पनागौरवं स्यात्। अतो विवरणमपि तावन्मात्रपरमिति चेत्। भवेदप्येवम्, यदि पाकेनेति विवृणुयात्। न त्वेतदस्ति। धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात्। ततस्तं प्रत्येव क#िञ्चिदनुकूलतापन्नं प्रत्ययेनाभिधानीयमिति युक्तम्। झ्र्कु.5.651ट तथापि तेन प्रयत्नेनैव भवितव्यम्, न त्वन्येनेति कुत इति चेत्- नियमेन तथा विवरणात्। बाधकं विना तस्यान्यथाकर्तुमशक्यत्वात्। अन्यथाऽतिप्रसङ्गात्। स्यादेतत्- यस्य कस्यचित्- फलं प्रत्यनुकूलतापत्तिमात्रमेव करोत्यर्थः, न तु प्रयत्न एव। सोऽपि ह्रनेनैवोपाधिना प्रत्ययेन वक्तव्यः, न तु यत्नत्वमात्रेण; प्रयत्नपदेनाविशेषप्रसङ्गात्। तद्वरं तावन्मात्रमेवास्तु लाघवाय। अन्यथा त्वनुकूलत्वप्रयत्नत्वे द्वावुपाधी कल्पनीयौ; अचेतनेषु सर्वत्र गौणार्थास्तिङोऽसति बाधके कल्पनीया इति चेत्- अत्रोच्यते- झ्र्कु.5.652ट कृताकृतविभागेन कर्तृरूपव्यवस्थया। यत्न एव कृतिः पूर्वा (257) परस्मिन् सैव भवना।।9।। यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात्। हेतुसत्त्वप्रतिसन्धानेऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणामङ्कुरादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते। अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषात् "घटादयः कृताः, न कृतास्त्वङ्कुरादय' इति कुतो व्यवहारनियमः। तेन च सर्वमाख्यातपदं विव्रियते इति सर्वत्र स एवार्थ इति निर्णयः। तथाच समुदिते प्रवृत्तं पदं तदेकदेशेऽपि प्रयुज्यते, विशुद्धिमात्रं पुरस्कृत्य ब्रााहृणे श्रोत्रियपदवत्। अन्यथाऽपि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्था एवाचेतनेषु। न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता; अन्यायश्चानेकार्थत्वमिति स्थितेः। अत एवानुभवोऽपि, यावदुक्तं भवति पाकानुकूलवर्तमानप्रयत्नवान्, तावदुक्तं भवति पचतीति। एवं तथाभूतातिवृत्तप्रयत्नोऽपाक्षीदिति। एवं तथाभूतभाविप्रयत्नः पक्ष्यतीति। न तु पचतीति पाकानुकूलयत्किञ्चिद्वानिति। अन्यथाऽतिथावपि परश्रमशयाने पचतीति प्रत्ययप्रसङ्गात्। झ्र्कु.5.653ट अपिच कर्तृव्यापार एव कृञर्थः। चेतनश्च कर्ता; अन्यथा तद्व्यवस्थाऽनुपपत्तेः। न ह्रभिधीयमानव्यापारवत्त्वं कर्तृत्वम्, अनभिधानदशायां कुर्वतोऽप्यकर्तृत्वप्रसङ्गात्। नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वम्, योग्यताया एवानिरूपणात्।फलानुगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात्। नापि विवक्षातो नियमः, अविवक्षादशायामनियमप्रसङ्गात्। स्वव्यापारे नेदमनिष्टमिति चेत्- एवं तर्हि, "स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्ति कारके' इति न्यायेन करणादिविलोपप्रसङ्गः। न स्वव्यापारापेक्षया करणादिव्यवह#ारः; किन्तु प्रधानक्रियापेक्षया। अस्ति हि काञ्चित् क्रियामुद्दिश्य प्रवर्तमानानां कारकाणामवान्तरव्यापारयोगः, नत्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत्- तर्हि तदपेक्षयैव कर्तृकर्मादिव्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम्। स्वातन्त्र्यादिति चेत#्- ननु तदेव किमन्यत् प्रयत्नादिसमवायादिति विविच्याभिधीयतामिति। तस्मात् सर्वत्र समानव्यापार एवाख्यातार्थः। झ्र्कु.5.654ट तथापि फलानुगुणतैवास्तु प्रत्ययस्य प्रवृत्तिनिमित्तम्; प्रयत्नस्त्वाक्षेपतो लप्स्यते इति चेन्न- भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः। तया विवरणध्रौव्यादाक्षेपानुपपत्तितः।।10।। केन हि तदाक्षिप्येत। नतावदनुकूलत्वमात्रेण; तस्य प्रयत्नत्वेनाव्यापनात्। न हि यत्नत्वैकार्थसमवाय्येवानुकूलत्वम्। अत एव न सङ्ख्यया; तस्याः सङ्ख्येयमात्रपर्यवसायित्वात्। कत्र्रेति चेत्- न- द्रव्यमात्रस्याकर्तृत्वात्। व्यापारवतश्चाभिधाने व्यापाराभिधानस्यावश#्याभ्युपगमनीयत्वात्। नापि धात्वर्थेन तदाक्षेपः; विद्यते इत्यादौ तदसम्भवात्। न ह्रत्रि धात्वर्थो भावनाऽपेक्षी; सत्तया नित्यत्वात्। तत्र न भविष्यतीति चेत्- न- पूर्वापरीभूतभावनाऽनुभवस्याविशेषात्। भावनोपरागेण ह्रतथाभूतोऽप्यर्थस्तथा भासते इति। न च पदान्तरलब्धया भावनयाऽनुकूलतायाः प्रत्ययार्थस्यान्वयः; तदसम्भवात्। न खलु प्रकृत्यैव साऽभिधीयते। धातूनां क्रियाफलमात्राभिधायित्वात्। अन्यथा पाक इत्यादावपि भावनाऽनुभवप्रसङ्गात्। नापि चैत्र इत्यादिना पदान्तरेण; प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थत्वात्। ओदनमित्यादे#ः कारकपदत्वात् तस्य च क्रियोपहितत्वात्तेनाभिधानमाक्षेपो वा। कथमन्यथा ओदनमित्युक्ते किं भुङ्क्ते पचति वेति विशेषाकाङ्क्षेति चेत्- न- पचतीत्युक्ते किमोदनं तेमनं वेति विशेषाकाङ्क्षादर्शनात्। सा चाक्षेपाभिधानयोरन्यतरमन्तरेण न स्यात्। तस्यां दशायां न चेदाक्षेपः, नूनमभिधानमेवेति। झ्र्कु.5.655ट स्यादेतत्- अभिधीयतां तर्हि कर्ताऽपि। तदनभिधाने हि सङ्ख्येयमात्रमाक्षिप्य सङ्ख्या कथं कर्तारमन्वियात्, न तु कर्मादिकमपि। शाकसूपौ पचति शाकसूपौदनान् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्तारमविरुद्धमनुगच्छतीति चेत्- चैत्र ओदनं पचतीत्यत्रका गतिः। एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि तथा, यववराहादिवदिति चेन्न- पच्यते इत्यादावपि तथाभावप्रसङ्गात्। चैत्राभ्यां चैत्रैरिति विरोधनिरस्ता सूप इत्यविरुद्धं कर्म समनुक्रामतीति चेत्। चैत्रमैत्राभ्यां पाकसूपौ पच्येते इत्यत्र का गतिः। अन्यत्र निर्णीतेनार्थेन व्यवहार इति चेन्न- पचतीत्यादावपि तथाभावप्रसङ्गात्। तत्र पूर्वक एव निर्णयः, पच्यते इत्यत्रत्वपर इति चेन्न- विशेषाभावात्। आत्मनेपदपरस्मैपदाभ्यां विशेष इति चेन्न- पच्यते पचते पक्ष्यते इत्यादौ विप्लवप्रसङ्गादिति। झ्र्कु.5.656ट दृश्यते च समानप्रत्ययाभिहितेनान्वयस्सङ्ख्यायाः। तद् यथा, भूयते सुप्यते इत्यादौ। न हि तत्र कत्र्रा कर्मणा वाऽन्येनैव वा केनचिदन्वयः, किन्तु भावेनैव। अनन्वये तदभिधायिनोऽनर्थकत्वप्रसङ्गात्। आक्षिप्तेनचान्वये तत्रापि कत्र्रेवान्वयापत्तेः। को हिसुप्यते स्वपितीत्यनयोः कत्र्राक्षेपं प्रति विशेषः। स्यादेतत्- (अ.1-3-13) भावकर्मणोरित्याद्यनुशासनबलात्तावत् भावकर्मणी प्रत्ययवाच्ये। ततस्तदभिहिता सङ्ख्या ताभ्यामन्वीयते। यस्तु प्रत्ययो न तत्रोत्पन्नः, तदभिहिता सङ्ख्या, "मुख्यं वा पूर्वचोदनाल्लोकवत्'(मी.12,2,23) इति न्यायेन कर्तारमेवाश्रयते इति नियमः- न- विपय्र्ययप्रसङ्गात्। "शेषात् कर्तरि परस्मैपदम्' (अ.1-3-78), "कर्तरि शप्' (अ.3-1-68) इत्यनुशासनबलाद्भावकर्तारौ प्रत्ययवाच्यौ, ततस्तदभिहिता सङ्ख्याऽपि ताभ्यामन्वीयते; यस्तु प्रत्ययो न तत्रोत्पन्नस्तदभिहित#ा सङ्ख्या तेनैव न्यायेन कर्मैव समाश्रयेदिति नियमोपपत्तेः तस्मान्मतिकर्दममपहाय यथाऽनुशासनमेव गृह्रते इति प्राप्तम्। एवं प्राप्तेऽभिधीयते- झ्र्कु.5.657ट आक्षेपलभ्ये सङ्ख्येये नाभिधानस्य कल्पना। सङ्ख्येयमात्रलाभेऽपि साकाङ्क्षेण व्यवस्थितिः।।11।। सङ्ख्याऽपि तावदियं भावनानुगामिनी; यं यं भावनान्वेति, तं तं सङ्ख्याऽपीति स्थितेः; एकप्रत्ययवाच्यत्वनियमात्। भावनाच शुद्धं प्रातिपदिकार्थमात्रमाकाङ्क्षति। न हि व्यापारवन्तं व्यापार आश्रयते, आत्माश्रयात् (258)। समवायं प्रति तदनुपयोगात्। विजातीयव्यापारवतोऽकर्तृत्वाच्च। न च द्वितीयाद्याः प्रातिपदिकविभक्तयः। ततः प्रथमानिर्दिष्टेनैव भावनाऽन्वीयते इति तस्यान्वययोग्यतानियमात् सङ्ख्याऽपि तदनुगामिनी तेनैवान्वीयते इति नाति प्रसङ्गः नञर्थवत्। यथा हि चैत्रो न ब्रााहृणो न (259) गौरो न स्पन्दते न कुण्डड्डत्ध्;लीत्यादौ विशेषणविशेष्यसमभिव्याहारविशेषेऽपि नञा तदनभिधानाविशेषेऽपि नञर्थस्य विशेषणांशैरेवान्वयः न विशेष्यांशेन। ननु बाधात्तत्र तथा। न हि विशेष्येण तदन्वये विशेषणोपादानमर्थवद्भवेत्, तन्निषेधेनैव विशेषणनिषेधोपलब्धेः। उभनिषेधे चावृत्तौ वाक्यभेदात्; अनावृत्तौ निराकाङ्क्षत्वादिति चेत्- तुल्यत्वात्। समानप्रत्ययोपात्तभावनाऽक्षिप्तान्वयोपपत्तौ बाधकं विना सन्निहितत्यागेन व्यवहितपरिग्रहस्य गुरुत्वात्। भावनायाश्च सामान्याक्षेपेऽपि साकाङ्क्षपरित्यागे निराकाङ्क्षान्वयानुपपत्तेः। नह्रन्यतराकाङ्क्षा अन्वयहेतुः अपितूभयाकाङ्क्ष#ा। प्रातिपदिकार्थो हि फलेनान्वयमलभमानः क्रियासम्बन्धमपेक्षते, भावनाऽपि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्वयहेतुः। कटं कटेनेत्यादि तु कारकतयैव फलसमन्वितं न व्यापारान्तरमपेक्षते इति निराकाङ्क्षमिति। अत एवास्यते सुप्यते इत्यादौ नाक्षिप्तेनान्वय#ः। नहि चैत्रेणेति तृतीयान्तशब्दस्य भावनायामाकाङ्क्षाऽस्ति। भाव्याकाङ्क्षास्तीति चेत्- न- फलेन शयनादिधात्वर्थेनान्वयात्। फलसम्बन्धिनश्चात्र कत्र्रनतिरेकात्। न हि शयनादयो धात्वर्थाः कत्र्रतिरेकिसम्बद्धाः। न च फलतत्सम्बन्धिव्यतिरेकेणान्यो भाव्यो नाम,यमपेक्षेत। झ्र्कु.5.658ट स्यादेतत्- किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितानभिहितव्यवस्थाऽभावादिति चेत्- न चेत्रमिति प्रथमान्तस्यासाधुत्वात्। द्वितीयान्तस्य तु कर्मवचनत्वेन तत्सम्बन्धाद्(260)भाव्यानपेक्षिणी भावना भावकमात्रमपेक्षेत। न च कटस्य चैत्रं प्रतिभावकत्वम्, विर्ययात्। अनाप्तेन तु विवक्षायां प्रयुज्यत एव। प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि- न- नित्यसन्दिग्धत्वेन वाक्यार्थासमर्पकत्वात्। ततस्तदुपपत्तये विशेषस्यव्यञ्जनीयत्वात्। व्यज्यतां तर्हि तृतीयया चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत्- न- अप्रयोगात्। नह्रनाप्तेनाप्येवं प्रायाणि प्रयुज्यन्ते। लक्षणाविरोधेन कुत एतदेवेति चेत्- लोकस्यापर्यनुयोज्यत्वात्। न हि गार्गिकयेति पदं साध्विति श्लाघाऽभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते। तस्य तदुपाधिनैव विहितत्वादिति चेत्- एतदेव कुतः? लोके तथैव प्रयोगदर्शनादिति चेत्- तुल्यम्। करोतीत्यादि कर्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते, क्रियते इति कर्तृविभक्तिसमभव्याहारेणैवेति किमत्र क्रियताम्। झ्र्कु.5.659ट इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेन ह्रेतावान् परामर्शस्सर्वेषां ह्मदि पदमादधातीत्यभिधानानभिधानविभाग एव व्युत्पादनदशायां पेशल इति। झ्र्कु.5.660ट स्यादेतत्- भवतु सर्वाख्यातसाधारणी भावना; कालविशेषसम्बन्धिनी सा लडड्डत्ध्;ाद्यर्थः, कालत्रयापरामृष्टा लिङर्थ इति चेत्- न यत्नपदेन समानार्थत्वप्रसङ्गात्। विषयोपरागानुपरागाभ्यां विशेष इति चेन्न- यागयत्न इत्यनेन पर्यायतापत्तेः। कर्तृसङ्ख्याभिधानानभिधानाभ्यां विशेष इति चेन्न- यागयत्नवानित्यनेन साम्यापत्तेः। इष्ट एवायमर्थ इति चेन्न- इतो वत्सरशतेनाप्यप्रवृत्तेः। फलसमभिव्याहाराभावान्न प्रवत्र्तते इति चेन्न- स्वर्गकामो यागयत्नवानित्यतोऽप्यप्रवृत्तेः। तत् कस्य हेतोः? न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतिर्वा यत्नस्य कारणम्; अपि त्विच्छा। झ्र्कु.5.661ट न च साऽपि प्रतीता यत्नजननी- येन सैव विध्यर्थ इत्यनुगम्यताम्- अपितु सत्तया। न च लिङः श्रुतिकाले सा सती। न च लिङेव तां जनयति; अर्थविशेषमप्रत्याययन्त्यास्तस्याः ( 261) तज्जनकत्वे व्युत्पत्तिग्रहणवैयथ्र्यात्। अनुपलब्धलिङाञ्चेच्छानुत्पत्तिप्रसङ्गादिति। एतेन- वृद्धव्यवहाराद्व्युत्पत्तिर्भवन्ती बालस्यात्मनि प्रवृत्तिहेतुर्योऽवगतस्तमेवाश्रयेत्, स्वयञ्च कुर्यामिति सङ्कल्पादेवायं प्रवृत्तः, ततस्स एव लिङर्थ इति निरस्तम्। कुर्यामिति प्रयत्नो वा स्यादिच्छा वा? नाद्यः,स्वात्मनि वृत्तिविरोधात्। न द्वितीयः; सा हि सत्तयैव प्रयत्नोत्पादिनी। न च लिङः श्रुतिकाले सा सतीत्युक्तम्। फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्नं प्रति हेतुः; अन्यविषयत्वात्। तदर्थञ्च शास्त्रवैयथ्र्यात्। तस्याः कारणान्तरत एव सिद्धेस्तत्प्रतीत्यर्थमपि शास्त्रानपेक्षणात्। तस्याः मनोवेद्यत्वात्। अप्राप्ते (262) च शास्त्रमर्थवत्; प्राप्ते च शास्त्रानवकाशात्।। तदभिधाने च स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात्। तदा हि यजेतेत्यस्यैव यागकर्ता स्वर्गकाम इत्यर्थस्स्यात्। झ्र्कु.5.662ट यदिच फलविषयैव साधनविषयं प्रयत्नं जनयेत्, अन्यत्रापि प्रसुवीत नियामकाभावात्। हेतुफलभाव एव नियामक इति चेन्न- अज्ञातस्य तस्य नियामकत्वे लिङं विनाऽपि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात्। ज्ञातस्य तु तत्साधनत्वस्य नियामकत्वे तदिच्छैव तत्र प्रवर#्तयतुः यो यत्कामयते स तत्साधनमपि कामयत एवेति नियमात्। न च सा तदानीं सती। न च तज्ज्ञानमेव प्रयत्नजनकम्, तच्च लिङा क्रियते इति युक्तम्; स्वर्गकामो यागचिकीर्षावानित्यतोऽपि प्रवृत्तिप्रसङ्गात्। लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्तेत। स्वसम्बन्धितय#ा तदवगमस्तथा न तु सामान्यत इति चेन्न- प्रथमपुरुषेण तदनभिधाने तस्याविध्यर्थत्वप्रसङ्गात्। ओदनकामस्त्वं पाकचिकीर्षावानित्यतोऽपि प्रवृत्त्यापत्तेश्च (त्तेः) अपिच सङ्कल्पज्ञानाद्यदि प्रयत्नो जायेत, तथापि सङ्कल्पस्य कुतो जन्म किमर्थञ्च? सङ्कल्पज्ञानादेव, प्रयत्नार्थञ्चेति चेत्- नन्विच्छाविशेषः सङ्कल्पः, स तावत्सुखे स्वभावतः, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम्? तत्साधनत्वादेवेति चेत्- तर्हि तत्साधनत्वाज्ञानात्, न तु सङ्कल्पस्वरूपज्ञानाद्भवितुमर्हतीति। अन्यथेष्टसाधनताज्ञानमप्यनर्थकमापद्येत। तस्मात्, सङ्कल्पः प्रवर्तक इत्यभ्युपेयते, किन्तु सत्तामात्रेण, न तु ज्ञात इति नासौ विधिः। ज्ञानञ्च विषयोपहारेणैव व्यवहारयतीति तद्विषय एवावशिष्यते। इति कर्तृधर्मव्युदासः। झ्र्कु.5.663ट अस्तु तर्हि कर्मधर्मः नेत्युच्यते। अतिप्रसङ्गान्न फलं नापूर्वं तत्वहानितः। तदलाभान्न कार्यञ्च न क्रियाऽप्यप्रवृत्तितः।।12।. कर्म हि फलं वा स्यात्, तत्कारणमपूर्वं वा, तत्कारणं क्रिया वा? न प्रथमः, फलेच्छायाः प्रवृतिं्त प्रत्यहेतुत्वात्; अतिप्रसङ्गादित्युक्तत्वात्। न द्वितीयः, अव्युत्पत्तेः। लिङो हि प्रवृत्तिनिमित्तमपूर्वत्वं वा स्यात्, कार्यत्वं वा स्यात् उभयं वा। न प्रथमः। शब्दप्रवृत्तिनिमित्तस्यापूर्वत्वस्य प्रमाणान्तरादवगतावपूर्वत्वव्याघातात्। अनवगतावव्युत्पत्तेः। सम्बन्धनोऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात्। तत एवावगतावितरेतराश्रयदोषात्। न च गन्धवत्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् (263) अदूरविप्रकर्षेण कार्यत्वेन#ोपनीतेनापूर्वत्वेन निमित्तेनापूर्वे प्रवर्तते लिङिति युक्तम्। तत्रोभयोरपि प्रतीयमानत्वेन सन्देहे कल्पनागौरवपुरस्कारेण पृथिवीत्व एव सङ्गतिविश्रान्तेरुपपत्तेः। न त्वत्रापूर्वत्वप्रतीतिः। झ्र्कु.5.664ट स्यादेतत्- कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता। तदुपलक्षितश्च यागो वा यत्नो वाऽन्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधनसमर्थः। न चाकाम्यफले कामी नियोक्तुं शक्यते। ततोऽन्यदेवालौकिकं किञ्चिदनेनोपलक्ष्यते, यो लिङादिप्रवृत्त#िगोचर इति किमनुपपन्निमिति चेत्- न- (264) उपलक्षणं हि स्मरणमनुमानं वा। उभयमप्यनवगतसम्बन्धेनाशक्यम्। न हि संस्कारवन्मनोवददृष्टवद्वा कार्यत्वमपूर्वत्वमुपलक्षयति,ज्ञानापेक्षणात्। ततो हस्तीव हस्तिपकम्, धूम इव धूमध्वजम्, तत्सम्बन्धज्ञानादुपलक्षयेत्, नत्वन्यथा। तथाच न्यायसम्पादनाऽप्यरण्येरुदितम्। न हि युक्तिसहरुौरपि अविदिते सङ्गतिग्रहोऽविदितसङ्गतिर्वा शब्दः प्रवर्तते इति। एतेन भेदाग्रहात् क्रियाकार्ये व्युत्पत्तिरिति निरस्तम्, न ह्रज्ञाते भेदाग्रहो व्यवहाराङ्गम्, अतिप्रसङ्गात्। किञ्चापूर्वत्वे प्रवृत्तिनिमित्ते कल्प्यमाने लौकिकी लिङनर्थिका प्रसज्येत। तत्रोपलक्षणीयाभावात्। तत्र (265) कार्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृतेऽपि तथैवास्तु क्लृप्तत्वात सम्भवाच्चेति। झ्र्कु.5.665ट अस्तु तर्हि तदेव प्रवृत्तिनिमित्तम्, तर्कसम्पादनयात्वपूर्वव्यक्तिलाभ इति चेन्न- नित्यनिषेधापूर्वयोरलाभप्रसङ्गात्। नचास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रार्थेनान्यत्र तथैव व्यवहार इति सम्भवति, कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णीतत्वात्, नत्वपूर्वत्वस्य। न्यायसम्पादनायाश्च तत्रासम्भवात्। फलानुगुण्येन हि व्यक्तिविशेषो लभ्यते। न च तत्तत्र श्रूयते। न चाश्रुतमपि कल्पयितुं शक्यते। बीजाभावात्। तद्धि विध्यन्यथाऽनुपपत्या कल्प्येत, काय्र्यत्वप्रत्ययान्यथाऽनुपपत्या वा लोकवत्। न प्रथमः; भवतां दर#्शने तस्योपेयरूपत्वात्। यतः श्रुतस्वर्गफलत्वेऽपि साध्यविवृद्धिरुच्यते। न द्वितीयः; शब्दबलेन तत्प्रत्यये तदनपेक्षणात्। लोके हि तत्प्रत्यय इष्टाभ्युपायताधीनः, न तु वेदे इत्यभ्युपगमात्। अन्यथेष्टाभ्युपायतैव प्रथमं वेदादवगन्तव्या; प्रमाणान्तराभावात्; ततः काय्र्यतेत्यानुमानिको विधिस्स्यात्, न शाब्दः। आनुमानिकं फलमस्तु, यत्कर्तव्यं तदिष्टाभ्युपाय इति व्याप्तेरित्यपि न युक्तम्; सुखेन व्यभिचारात्। अन्यत्वे सतीति चेन्न- दुःखाभावेन व्यभिचारात्। फलं विहायेति चेत्- तदेव किमुक्तं स्यात्। इष्टं स्वभावत इति चेत्- तर्हि ततोऽन्यदनिष्टं स्यात्, तच्च कर्तव्यमिति व्याघातः। तत्साधनमिति चेत्- तत्साधनत्वे सतीति साध्याविशिष्टं विशेषणम्। "स्वभावतो नेदमिष्टं कर्तव्यञ्च, ततो नूनमिष्टसाधनमिति साधनार्थ इति चेन्न- स्वभावतो नेदमिष्टमित्यसिद्धेः। अनन्योद्देशप्रवृत्तकृतिव्याप्तत्वात#्। अन्यथा तदसिद्धेः (266)। ततो व्याघातादन्यतरापाय इति। झ्र्कु.5.666ट अस्तु नित्यनिषेधापूर्वयोरलाभः, किं नश्छिन्नमिति चेत्- किं नश्छिन्नम्, यदा कामाधिकारेऽपि तदलाभः। नहि लिङा कार्यं स्वर्गसाधनमुक्तम्। नापि स्वर्गकामपदसमभिव्याहारान्यथाऽनुपपत्या तल्लब्धम्, ब्रााहृणत्वादिवदधिकार्यवच्छेदमात्रेणैवोपपत्तेः। नचेदमनुम#ानम्- यस्य यदिच्छातो यत्कर्तव्यम्, तत्तस्येष्टसाधनमिति। अन्येच्छया स्वाभाविककर्तव्यत्वासिद्धेः। तदिच्छयैव तत्कर्तव्यतायास्सुखेनानैकान्तिकत्वात्। औपाधिककर्तव्यतायाश्चेष्टसाधनत्वमप्रतीत्यप्रत्येतुमशक्यत्वात्। किमनया विशेषचिन्तया। प्रतीयते तावच्छब्दादन्यदिच#्छतोऽन्यत्कार्यमिति। एतावतैवानुमानमिति चेत्- नन्वन्वितमभिधानीयम्, योग्यञ्चान्वीयते। अन्यदिच्छतश्चान्यत् कर्तव्यमन्वयायोग्यम्, तत्कथमभिधीयताम्। तत एव तत्साधनत्वसिद्धिरिति चेत्- एवं तर्हीष्टसाधनतैकार्थसमवायिकर्तव्यत्वाभिधानादनुमानानवकाशः। नचान्विताभिधाने।#़पि तत्साधनत्वसिद्धिः; अधिकार्यवच्छेदमात्रेणाप्यन्वययोग्यतोपपत्तेः। झ्र्कु.5.667ट न च कार्यत्वमपूर्वे सम्भवति। तद्धि कृतिव्याप्यता चेत्- व्रीह्रादिष्वेव; सिद्धत्वात्। कृतिफलत्वं चेत्- यागस्यैव; ततस्तस्यैवाहत्योत्पत्तेः। कृत्युद्देश्यता चेत्- स्वर्गस्यैव; निसर्गसुन्दरत्वात्। न त्वपूर्वस्य; तद्विपरीतत्वात्। स्तनपानादिवदौपाधिक#ीति चेत्- साऽपि यागस्यैव। स्वर्गस्य साध्यत्वस्थितौ यागस्यैव साधनत्वेनान्वयात्। कालव्यवधानान्नैतन्निर्वहतीति चेत्- यथा निर्वहति, श्रुतानुरोधेन तथा कल्प्यताम् (267)। "व्यापारद्वारा कथञ्चित् स्यात्। न तु भिन्नकालयोव्र्यापारव्यापारिभावः। कारणत्वञ्च व्यापार#ेण युज्यते। अव्यवधानेन पूर्वकालनियम्श्च तत्त्वम्। अन्यथाऽतिप्रसङ्गा'दिति चेत्- न- पूर्वभावनियममात्रस्य कारणत्वात्। कार्यानुगुणावान्तरकार्यस्यैव व्यापारत्वात्। कृषिचिकित्सादौ बहुलं तथा व्यवहारात्। लाक्षणिकोऽसाविति चेन्न- मुख्यार्थत्वे विरोधाभावात्। अस्त#ु तर्हि पुत्रेण हते ब्राहृणि चिरध्वस्तस्य पितुस्तमवान्तरव्यापारीकृत्य कर्तृत्वम्। तथाच लोकयात्राविप्लव इति चेत्- न- सत्यपि सुते कदाचित्तदकरणात् तस्मिन्नसत्यपि कदाचित्कारणादनिर्वाहकतया तस्य व्यापारत्वायोगात्। यं जनयित्वैव हि यं प्रति यस्य पूर्वभावनिर्वाहः स एव तं प्रति तस्य व्यापारो नापरः। यथाऽनुभवस्य स्मरणं प्रति संस्कारः। तस्य ह्रन्वयव्यतिरेकानुविधाने सिद्धे तदन्यथाऽनुपपत्या संस्कारः कल्प्यते, न त्वन्यथा- तथेहापि। न चेदेवम्, तवापि ब्राहृभिदुरशरविमोकसमसमयहतस्य हन्तृत्वं न स्यात्। स्याच्च स्वनिवेशनशयानस्य तत्पितुरिति। एतेनोभयं नेति निरस्तम्।। झ्र्कु.5.668ट अस्तु तर्हि क्रियाधर्म एव कार्यत्वं विधिः। सर्वोहि कर्तव्यमेतदिति प्रत्येति। ततः कुर्यामिति सङ्कल्प्य प्रवर्तते इति चेत्- न- कर्तव्यं मयेति कृत्यध्यवसायार्थो वा स्यात्, कर्तव्यं मयेत्युचितार्थो वा स्यात? तत्र प्रथमस्सङ्कल्पान्न भिद्यते। व्यवहितकार्यसङ्कल्पो हि कर्तव्यो मयेति, सन्निहितकार्यसङ्कल्पस्तु कुर्यामिति। स च न लिङर्थः; सत्तामात्रेण प्रवर्तनादित्युक्तम्। तदेतत् कर्तव्यतायां जातायां प्रवर्तते इति वस्तुस्थितौ भ्रान्तैज्र्ञातायामिति गृहीतम्। औचित्यन्तु क्रियाधर्मः प्रागभाववत्त्वम्, तस्मिन#् सति शक्यत्वं वा, तस्मिन् सति कर्तारं प्रत्युपकारकत्वं वा? प्रथमे कुतश्चिदपि न निवर्तेत। द्वितीये दुःखेऽपि तथाविधे प्रवर्तेत। तृतीये तु वक्ष्यते। झ्र्कु.5.669ट अस्तु तर्हि करणधर्मः- न- करणं हि शब्दः, तद्धर्मोऽभिधा वा स्यात्; तदर्थो भावनादिः (268) वा, तद्धर्म इष्टसाधनता वा। न प्रथमः- असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी। बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः।।13।। सङ्गतिप्रतिसन्धानाधिकायां तस्यां प्रमाणाभावात्। अन्यसमवेतस्यापूर्ववदन्यव्यापारत्वेनाप्युपपत्तेः। विषयतयाऽपि (विषयतायामपि) च स्वव्यापारं प्रतिलिङ्गवद्धेतुभावाविरोधात। अधिकत्त्वेऽपि ततोऽप्रवृत्तेः। बालानां तदभावेऽपि तद्भावात्। शब्दान्तरेण तच्छ्राविणामप्यप्रवृत्तेः। न च विलक्षणैव सा लिङो विषयः। तद्वैलक्ष्यण्यं प्रतीतिं (प्रतिपत्तिम्) प्रति चेत्, अर्थविशेषोऽपि स्यात्। प्रवृत्तिमात्रं प्रति चेत्, अभिधासमवेतं तदिति कुतः? तत्सन्निधानादिति चेन्नः अनियमात्। अन्यस्य सर्वस्य निषेधादिति चेन्न- प्रवृत्तिहेतुत्त्वनिषेधस्य तुल्यत्वात्। तत्सन्निधिनिषेषस्य चाशक्यत्वात्। शब्दैकवेद्यत्वे चाव्युत्पत्तेः। "प्रवृत्त्यन्यथाऽनुपपत्तिसिद्धे व्युत्पत्ति'रित्यपि वार्तम्- नहि प्रवृत्तिहेतुः कश्चिदस्तीति प्रवर्तते। झ्र्कु.5.670ट इष्टसाधनता तु स्यात्। सर्वो हि मया क्रियमाणमेतन्मम समीहितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतीति सर्वानुभवसिद्धम्। तदयं व्युत्पित्सुर्यज्ज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान्, तज्ज्ञानमेव लिङ्श्राविणः प्रवृत्तिकारणमनुमिन#ोति। ततश्च कर्तव्यतैकार्थसमवायिनी इष्टसाधनतालिङर्थ इत्यवधारयति। न च वाच्यम् एवञ्चेत् वरं कर्तव्यतैवास्तु, अवश्याभ्युपगमनीयत्वात्; कृतमिष्टसाधनतयेति- यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्तते, असाध्येषु व्यभिचारात्- तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्तते इत्यनुभवः। तत्र विषयो धातुना, भावनाऽऽख्यातमात्रेण,शेषन्तु तद्विशेषेण लिङा इत्येवमिष्टाभ्युपायतायामधिगतायामन्वयबलात् (269) तद्विषयस्येष्टसाधनत्वावगतिरिति कर्तव्यतैकार्थसमवायिनीष्टाभ्युपायतात लिङः प्रवृत्तिनिमित्तमित्युक्तम्। झ्र्कु.5.671ट करणस्येष्टसाधनताऽभिधाने ज्योतिष्टोमेनेति तृतीयया न भवितव्यमिति तु देश्यमवैयाकरणस्यावधीरणीयमेव। तत्सङ्ख्याभिधानं हि तदभिधानमाख्यातेन। न च तत् प्रकृते। न च यागेष्टसाधनताऽभिधानं लिङा; किन्त्वन्वयबलात्तलाभ इत्युक्तम्। झ्र्कु.5.672ट यत्तु सिद्धा(द्धो)पदेशादपि प्रतीयते इष्टसाधनता; न चातः सङ्कल्पात्मा प्रवृत्तिरस्तीति देश्यम्- तत्र समुत्कटफलाभिलाषस्य समर्थस्य तत्साधनताऽवहमेऽपि न (270) प्रवृत्तिरिति कः प्रतीयात्। सर्वपक्षसमानञ्चैतत् समानपरीहारञ्चेति किं तेन। झ्र्कु.5.673ट अत्राभिधीयते- अस्तु प्रयत्नविषयसमवायिनीष्टसाधनता प्रवृत्तिहेतुः; तथापि नासौ लिङर्थः सन्देहात्। सा हि किं साक्षादेव लिङाऽवगम्यते, स्तनपानादावनुमानादिव बालेन; किं वा तत्प्रतिपादितात् कुतश्चिदर्थादनुमीयते,चेष्टाविशेषानुमितादिवाभिप्रयविशेषात् समय#ाभिज्ञेनेति सन्दिह्रते। एवञ्च सति सा नाभिधीयते इत्येव निर्णयः- हेतुत्वादनुमानाच्च मध्यमादौ वियोगतः। अन्यत्र क्लृप्तसामथ्र्यान्निषेधानुपपत्तितः।।14।। झ्र्कु.5.674ट तथाहि- अग्निकामो दारुणी मथ्नीयादिति श्रुत्वा कुत इत्युक्ते वक्तारो वदन्ति, यतस्तन्मन्थनादग्निररस्य सिध्यतीति। (तरतिमृत्युं?) तरति ब्राहृहत्यां योऽ·ामेधेन यजते इत्यादाविष्टाभ्युपायतायामेवावगतायामनुमिमते तान्त्रिकाः यत्, "अ·ामेधेन यजेत मृत्युब्राहृहत्यातरणकाम' इत्यादिविधिम्; निन्दया च निषेधम्; तद्यथा- "अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः' इत्यतः नात्मानं हन्यादिति। कुय्र्याः कुय्र्यामित्यत्र विधिविहितैव लिङ् नेष्टाभ्युपायतामाह; किन्तु वक्तृसङ्कल्पम्। नहीष्टाभ्युपायो ममायमिति कुर्यामितिपदार्थः, किन्तुतत्प्रतिपत्तेरनन्तरं योऽस्य सङ्कल्पः कुर्यामिति, स एव। सर्वत्र चान्यत्र वक्तुरेवेच्छाऽभिधीयते लिङेत्यवधृतम्। तथाह्राज्ञाऽध्येषणाऽनुज्ञासम्प्रश्नप्रार्थनाऽशंसा लिङि नान्यच्चकास्ति। यां वक्तुरिच्छामननुविदधानस्तत्क्षोभाद्बिभेति, सा आज्ञा। या तु श्रोतुः पूजासम्मानव्यञ्जिका, सा अध्येषणा। वारणाभावव्यञ्जिका अनुज्ञा। अभिधानप्रयोजना सम्प्रश्नः। लोभेच्छा प्रार्थना। शुभाशंसनमाशीरिति। झ्र्कु.5.675ट न च विधिविकल्पेषु निषेध उपपद्यते। तथाहि- यदाऽभिधा विधिः, तदा, न हन्यात्- हननभावना नाभिधीयत इति वाक्यार्थो व्याघातान्निरस्तः। यदा कालत्रयापरामृष्टा भावना, तदा नेति सम्बन्धेऽत्यन्ताभावो मिथ्या। यदा कार्यम्, तदा, न हन्यात्- न हननं कार्यमित्यनुभवविरुद्धम्; क्रियत एव यतः। न हननेन कार्यम्- हननकारणकं कार्यं नास्तीत्यर्थ इत्यपि नास्ति। दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य तत्र सद्भावात्। झ्र्कु.5.676ट हननकारणकमदृष्टं (मपूर्वम्) नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्तयेदेवेति साधु शास्त्रार्थः। अहननेनापूर्वं भावयेदिति त्वशक्यं कारणस्यानादित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तदविषयत्वात्। अहननसङ्कल्पेनेति यावज्जीवमविच्छिन्नितत्सङ्कल्पस्स्यात्। सकृत्कृत्वैववा निवृत्तिः; पश्चाद्धन्यादेवाविरोधात्। सम्पादितो ह्रनेन नियोगार्थः। "यावद्यावद्धननसङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्वं भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वा'दित्यपि वार्तम्- तदश्रुतेः। प्रसक्तं हि प्रतिषिध्यते,नाप्रसक्तमिति चेत्- न वै किञ्चिदिह प्रतिषिध्यते; तदभावः प्रतिपाद्यते इति निषेधार्थः; अहननसङ्कल्पकरणकमपूर्वं (271) वाक्यार्थः। किञ्च न हन्यादिति अहननेनापूर्वस्य कर्तव्यताप्रत्ययो जातो वेदात्; जातश्च हननक्रियायां रागात्। निष्फलाच्च कार्यादपेक्षितफलंगरीय इति न्यायेन हन्यादेवेत्यहो वेदव्याख्याकौशलमास्तिक्याभिमानिनो मीमांसकदुर्दुरूटस्य (272)। झ्र्कु.5.677ट इष्टसाधनतापक्षेऽपि, न हन्यात्- न हननभावना इष्टाभ्युपाय इति वाक्यार्थः। तथाचानिष्टसाधन्त्वं कुतो लभ्यते। न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं दृष्टम्, उपेक्षणीयस्यापि भावात्। "यत् रागादिप्रसक्तं प्रतिषिध्यते तदवश्यमनिष्टसाधनं दृष्टम्, यथासविषमन्नं न भुञ्जीथा इति। तेन वेदेऽप्यनुमास्यते' इत्यपि न साधीयः- प्रतिषेधार्थस्यैव चिन्त्यमानत्वात्। न हि कर्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वाऽभावः प्रतिपादयितुं शक्यते; लौकिकानां लौकिकप्रमाणसिद्धत्वात्। तथापि प्रतिपाद्यते तावदिति चेन्न- पाषण्डड्डत्ध्;ागमनिषेधेनानेकान्तात्। नासौ प्रमाणमिति चेन्न- अर्थविपर्ययप्रतिपादनाविशेषेऽस्यापि तथाभावात्। तात्पय्र्यतः प्रामाण्यमिति चेन्न- विधिनिषेधयोरनन्यपरत्वात्; न विधौ परः शब्दार्थ इति वचनात्। तथापि निषेधे तथा भविष्यतीति चेन्न- अविनाभावतदुद्देशप्रवृत्त्योरभावात्। नाप#्यसुराविद्यादिवदस्य नञो विरोधिवचनत्वम्। क्रियासङ्गतत्वात्; असमस्तत्वाच्च। तस्मात्- झ्र्कु.5.678ट विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः। अभिधेयोऽनुमेया तु कर्तरिष्टाभ्युपायता।।15।। तत्र स्वयङ्कर्तृकक्रियेच्छाभिधानं कुर्यामिति। सम्बोध्यकर्तृकक्रियेच्छाभिधानं कुर्या इति। शेषकर्तृकक्रियेच्छाऽभिधानं कुर्वीतेति। तथाचाग्निकामो दारुणी मथ्नीयादित्यस्य लौकिकवाक्यस्ययमर्थस्सम्पद्यते, अग्निकामस्य दारुमथने प्रवृत्तिर्ममेष्टेति। ततः श्रोताऽन#ुमिनोति, नूनं कारुमथनयत्नोऽग्नेरुपाय इति। यद्विषयो हि प्रयत्नो यस्याप्तेनेष्यते, स तस्यापेक्षितहेतु; तथा तेनावगतश्च; यथा (273) ममै (यै?) व पुत्रादेर्भोजनविषयः इति व्याप्तेः। विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टेत्यर्थः। ततोऽपि श्र#ोताऽनुमिनोति, नूनं विषभक्षणभावना अनिष्टसाधनम्; यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोप्याप्तेन नेष्यते, स ततोऽधिकतरानर्थहेतुः, तथा तेनावगतश्च; यथा ममै(यै?)व पुत्रादेः क्रीडड्डत्ध्;ा- कर्दमविषभक्षणादिविषय इति व्याप्तेः। झ्र्कु.5.679ट लौकिक एव वाक्येऽयं प्रकारः कदाचिद्बुद्धिमधिरोहति, न तु वेदिकेषु, तेषु पुरुषस्य निरस्तत्वादिति चेन्न- निरासहेतोरभावात्। तदस्तित्वेऽपि प्रमाणं नास्तीति चेत्- मा भूदन्यत्; विधिरेव तावत् गर्भ इव पुंयोगे प्रमाणं श्रुति कुमार्याः; किमत्र क्रियताम्? लिङो वा लौकिकार्थातिक्रमे, " य एव लौकिकास्त एव वैदिकास्त एव चैषामर्था' इति विप्लवेत। तथाच जबगडड्डत्ध्;दशादिवदनर्थकत्वप्रसङ्ग इति भव सुस्थः। स्यादेतत्। तथापि वक्तॄणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु। कृतं स्वतन्त्रेण वक्त्रा परमे·ारेणेति चेत्- न- तेषामन#ुवक्तृतयाऽभ्यासाभिप्रायमात्रेण प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायाभावात्। भावे वा न राजशासनानुवादिनोऽभिप्राय आज्ञा,किं नाम राज्ञ एवेति लौकिकोऽनुभवः। झ्र्कु.5.680ट श्रुतेः खल्वपि- कृत्स्न एव हि वेदोऽयं परमे·ारगोचरः। स्वार्थद्वारैवतात्पय्र्यं तस्य स्वर्गादिवद्विधौ।।16।। न सन्त्येव हि वेदभागाः; यत्र परमे·ारो न गीयते। तथाहि- रुाष्टृत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्राहृत्वेन मण्डड्डत्ध्;लब्रााहृणेषु, प्रवञ्चं पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति। सिद्धार्थतया न ते प्रमाणमिति चेन्न- तद्धेतु(तोः)कारणदोषशङ्कानिरासस्य भाव्यभूतार्थसाधारणत्वात्। झ्र्कु.5.681ट अन्यत्रामीषां तात्पर्यमिति चेत्- स्वार्थप्रतिपादनद्वारा,शब्दमात्रतया (274) वा? प्रथमे स्वार्थेऽपि प्रमाण्यमेषितव्यम्, तस्यार्थस्यानन्यप्रमाणकत्वात्। अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या। तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत्- स्वार#्थापरित्यागे (गेन?) ज्योतिश्शास्त्रवदन्यत्रापि तात्पर्ये को दोषः? अन्यथा स्वर्गनरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत। तत्राबाधनात्तथेति चेत्- तुल्यम्। न तादृशोऽ(ग)र्थः क्वचित् दृष्ट इति चेत्- स्वर्गादयोऽपि तथा। तन्मिथ्यात्वेतदर्थिनामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत्- इहापि तदुपासनाविधानानर्थक्यप्रसङ्गः। तन्मिथ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपासीतेति तुल्यमिति। झ्र्कु.5.682ट वाक्यादपि। संसर्गभेद(विशेष)प्रतिपादकत्वं ह्रत्र वाक्यत्वमभिप्रेतम्। तथाच यत्पदकदम्बकं यत्संसर्गभेदप्रतिपादकम्, तत् तदनपेक्षसंसर्गज्ञानपूर्वकं यथा लौकिकम्; तथा च वैदिकमिति प्रयोगः। विपक्षे च बाधकमुक्तम्। झ्र्कु.5.683ट सङ्ख्याविशेषादपि- स्यामभूवं भविष्यामीत्यादिसङ्ख्या च वक्तृगा। समाख्याऽपि न शाखानामाद्यप्रवचनादृते।।17।। कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते। तथाहि- उत्तमपुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम्। अस्ति च तत्प्रयोगः प्रायशो वेदे। ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः। अन्यथाऽनन्वयप्रसङ्गात्। अथवा समाख्याविशेषः सङ्ख्याविश#ेष उच्यते। काठकं कालापकमित्यादयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्यन्ते। ते च न प्रवचनमात्रनिबन्धनाः, प्रवक्तॄणामनन्तत्वात्। नापि प्रकृष्टवचननिमित्ताः; उपाध्यायेभ्योऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात्। तत्पाठानुकरणे च प्रकर्षाभावात्। कति चानादौ स#ंसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति। नाप्याद्यस्य वक्तुः समाख्येति युक्तम्; भवद्भिस्तदनभ्युपगमात्। अभ्युपगमे वा स एवास्माकं वेदकार इति,वृथा विप्रतिपत्तिः। झ्र्कु.5.684ट स्यादेतत्। ब्रााहृणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः। तदध्येया तदनुष्ठेयार्था च शाखा तत्समाख्यया व्पपदिश्यते इति किमनुपपन्नम्- न- क्षत्रियादेरपि तत्रैवाधिकारात्। न च यो ब्रााहृणस्य विशेषः, स क्षत्रियादौ सम्भवति। न च क्षत्रियादेरन्यो वेद इत्यस्ति। न च कठाः काठकमेवाधीयते, तदर्थमेवानुतिष्ठन्तीति नियमः; शाखासञ्चारस्यापि प्रायशो दर्शनात्। प्रागेवं (वायं) नियम आसीत्; इदानीमयं विप्लवते इति चेत्- विप्लव एव तर्हि सर्वदा, कठाद्यवान्तरजातिविप्लवादित्यगतिरेवेयम्। तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्याविशेषसम्बन्ध इत्येव साध्यिति। ।।श्रीः।। झ्र्कु.5.685ट स एवं भगवान् श्रुतोऽनुमितश्च कैश्चित् साक्षादपि दृश्चते प्रमेयत्वादेर्घ(त्वात् घ)टवत्। ननु तत्सामग्रीरहितः कथं द्रष्टव्यः? सा हि बहिरिन्द्रियगर्भमनोगर्भा वा तत्र न सम्भवति; चक्षुरादेर्नियतविषयत्वात्; मनसो बहिरस्वातन्त्र्यात्। तदुक्तम्, "हेत्वभावे फलाभावा'दित्यादि- न- कार्यैकव्यङ्ग्यायास्सामग्र्या निषेद्धुमशक्यत्वात्। झ्र्कु.5.686ट अपिच दृश्यते तावद्बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षात्कारः। न च स्मृतिरेवासौ पटीयसी, "स्मरामि' "स्मृतम्' वेति स्वप्नानुसन्धानाभावात्; "पश्यामि,' "दृष्ट' मित्यनुव्यवसायात्। नचारोपितं तत्रानुभवत्वम्, अबाधनात्। अननुभूतस्यापि स्वशिरच#्छेदनादेरवभासनाच्च। स्मृतिविपर्यासोऽसाविति चेत्- यदि स्मृतिविषये विपर्यास इत्यर्थः, तदाऽनुमन्यामहे। अथ स्मृतावेवानुभवत्वविपर्यासः इति; तदा प्रागेव निरस्तः। न च सम्भवत्यपि। न ह्रन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसीयते। तथाच स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटमिति। न ह्रयं घट इति स्मृतेराकारः। तस्मादनुभव एवासौ स्वीकर्तव्यः। झ्र्कु.5.687ट अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वम्, संवादात्। तच्च काकतालीयमपि न निर्निमित्तम्; सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात्। हेतुश्चात्र धर्म एव। स च कर्मजवत् योगजोऽपि योगविधेरवसेयः; कर्मयोगविध्योस्तुल्ययोगक्षेमत्वात्। तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलम्; धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति। अतस्तत्सामग्रीविरहोऽसिद्धः। झ्र्कु.5.688ट तथापि विपक्षे किं बाधकमिति चेत्- "द्वे ब्राहृणी वेदितव्ये' इत्यादि योगविधिवैयथ्र्यप्रसङ्गः, अशक्यानुष्ठानोपायोपदेशकत्वात्। न चासाक्षात्कारिज्ञानविधानमेतत्; अर्थज्ञानावधिनाऽध्ययनविधिनैव तस्य गतार्थत्वादिति। एतेन परमाण्वादयो व्याख्याता इति। झ्र्कु.5.689ट तदेनमेवम्भूतमधिकृत्य श्रूयते- "न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति, "एकमेवाद्वितीय'मिति, "पश्यत्यचक्षुः स शृणोत्यकर्ण' इति, "द्वे ब्राहृणी वेदितव्ये परञ्चापरमेव चे'ति, "यज्ञेन यज्ञमयजन्त देवा' इति, (यज्ञो (275) वै देवा इति) "यज्ञो वै विष#्णु'रत्यादि। स्मर्यते च- (गी.) "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज' इति, "मदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर' इति, "यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन' इति, "यज्ञायाचरतः कर्म समग्रं प्रविलीयते' इत्यादि। अनुशिष्यते च साङ्ख्यप्रवचने ई·ारप#्रणिधानम्। तमिमं ज्योतिष्टोमादिभिरिष्टैः, प्रासादादिना पूर्तेन,शीतातपसहनादिना तपसा, अहिंसादिभिर्यमैः, शौचसन्तोषादिभिर्नियमैः, आसन(276)प्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति। तस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत्। यत्तेदं गीयते- "मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः'। "भोक्तारं यज्ञतपसां सर्वलोकमहे·ारम्। सुह्मदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति' इति। झ्र्कु.5.690ट इत्येवं श्रुतिनीतिसम्प्लवजलैर्भूयोभिराक्षालिते। येषां नास्पदमादधासि ह्मदये ते शौलसाराशयाः (277)।। किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः। काले कारुणिक! त्वयैव कृपया ते भावनीया (278) नराः।।18।। अस्माकं तु निसर्गसुन्दर! चिराच्चेतो निमग्नं त्वयी त्यद्धाऽऽनन्दनिधे! तथापि तरलं नाद्यापि सन्तृप्यते (279)।। तन्नाथ! त्वरितं विधेहि करुणां येन त्वदेकाग्रताम्। याते चेतसि नाप्नुवाम शतशो याम्याः पुनर्यातनाः।।19।। इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्रीर्यद्वासयेदपि च दक्षिणवामकौ (गौ) द्वौ। नो वा ततः किममरेशगुरोर्गुरुस्तु प्रीतोऽस्त्वनेन पदपीठसमर्पितेन (र्पणेन?280)।।20।। ।। इति न्यायाचार्यपदाङ्कितश्रीमदुदयनविरचितं न्यायकुसुमाञ्जलिप्रकरणं सम्पूर्णम्।। ।। ॐ तत्सत्। ब्राहृार्पणं भवतु। शुभमस्तु। श्रीरस्तु।।