नवग्रहस्तोत्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नवग्रहस्तोत्रम्
वेदव्यासः‎

॥ अथ नवग्रहस्तोत्रम् ॥

॥ रविः ॥
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥

॥ सोमः ॥
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥

॥ मङ्गलः ॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥

॥ बुधः ॥
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥

॥ गुरुः ॥
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥

॥ शुक्रः ॥
हिमकुण्डमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥

॥ शनिः ॥
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥

॥ राहुः ॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्॥८॥

॥ केतुः ॥
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥

॥ फलश्रुतिः ॥
इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥

॥ इति श्रीव्यासविरचितम् आदित्यादिनवग्रहस्तोत्रं सम्पूर्णम् ॥

॥ अथ नवग्रहपीडाहरस्तोत्रम् ॥

॥ रविः ॥
ग्रहाणामादिरादित्यो लोकरक्षणकारकः।
विषमस्थानसम्भूतां पीडां हरतु मे रविः॥१॥

॥ सोमः ॥
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः।
विषमस्थानसम्भूतां पीडां हरतु मे विधुः॥२॥

॥ मङ्गलः ॥
भूमिपुत्रो महातेजा जगतां भयकृत्सदा।
वृष्टिकृद्दृष्टिहर्ता च पीडां हरतु मे कुजः॥३॥

॥ बुधः ॥
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः।
सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः॥४॥

॥ गुरुः ॥
देवमन्त्री विशालाक्षः सदा लोकहिते रतः।
अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः॥५॥

॥ शुक्रः ॥
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः।
प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः॥६॥

॥ शनिः ॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः।
दीर्घाचारः प्रसन्नात्मा पीडां हरतु मे शनिः॥७॥

॥ राहुः ॥
अनेकरूपवर्णेश्च शतशोऽथ सहस्रदृक्।
उत्पातरूपो जगतां पीडां हरतु मे तमः॥८॥

॥ केतुः ॥
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखीः॥९॥

॥ इति ब्रह्माण्डपुराणोक्तं नवग्रहपीडाहरस्तोत्रं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=नवग्रहस्तोत्रम्&oldid=300450" इत्यस्माद् प्रतिप्राप्तम्