नमस्ते सदा वत्सले (संघ प्रार्थना)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नमस्ते सदा वत्सले[२]
(संघ प्रार्थना)

नरहरि नारायण भिड़े (१९३९)
१९३९
इयं राष्ट्रीय स्वयंसेवक संघस्य प्रार्थना:। अस्य प्रणेता नरहरि नारायण भिड़े आसीत। १९३९ तमे वर्षे फेब्रुअरी मासे रचिता इयं प्रार्थना पुणे संघ शिक्षा वर्गे प्रथम अवसरे प्रस्तुतवान।
राष्ट्रीय स्वयंसेवकसंघ प्रार्थना - नमस्ते सदा वत्सले मातृभूमे इति

नमस्ते सदा वत्सले मातृभूमे

त्वया हिन्दुभूमे सुखं वर्धितोऽहम् ।

महामङ्गले पुण्यभूमे त्वदर्थे

पतत्वेष कायो नमस्ते नमस्ते ।।१।।


प्रभो शक्तिमन् हिन्दु राष्ट्राङ्गभूता

इमे सादरं त्वां नमामो वयम्

त्वदीयाय कार्याय बद्धा कटीयं

शुभामाशिषं देहि तत्पूर्तये ।


अजय्यां च विश्वस्य देहीश शक्तिं

सुशीलं जगद्येन नम्रं भवेत्

श्रुतं चैव यत्कण्टकाकीर्ण मार्गं

स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।।


समुत्कर्ष निःश्रेयसस्यैकमुग्रं

परं साधनं नाम वीरं व्रतम्

तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा

हृदन्तः प्रजागर्तु तीव्राऽनिशम् ।


विजेत्री च नः संहता कार्यशक्तिर्

विधायास्य धर्मस्य संरक्षणम्

परं वैभवं नेतुमेतत् स्वराष्ट्रं

समर्था भवत्वाशिषाते भृशम् ।।३।।


।। भारत माता की जय ।।

© राष्ट्रीय स्वयंसेवक संघ

उपरि संघप्रार्थना