देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः १६

विकिस्रोतः तः

हरेर्नानावतारवर्णनम्

जनमेजय उवाच
भृगुशापान्मुनिश्रेष्ठ हरेरद्‌भुतकर्मणः ।
अवताराः कथं जाताः कस्मिन्मन्वन्तरे विभो ॥ १ ॥
विस्तराद्वद धर्मज्ञ अवतारकथा हरेः ।
पापनाशकरीं ब्रह्मञ्छ्रुतां सर्वसुखावहाम् ॥ २ ॥

व्यास उवाच
शृणु राजन् प्रवक्ष्यामि अवतारान् हरेर्यथा ।
यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप ॥ ३ ॥
येन रूपेण यत्कार्यं कृतं नारायणेन वै ।
तत्सर्वं नृप वक्ष्यामि संक्षेपेण तवाधुना ॥ ४ ॥
धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसम्भवे ।
नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले ॥ ५ ॥
अथ वैवस्वताख्येऽस्मिन्द्वितीये तु युगे पुनः ।
दत्तात्रेयावतारोऽत्रेः पुत्रत्वमगमद्धरिः ॥ ६ ॥
ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः ।
पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः ॥ ७ ॥
अनसूयात्रिपत्‍नी च सतीनामुत्तमा सती ।
यया सम्प्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः ॥ ८ ॥
ब्रह्माभूत्सोमरूपस्तु दत्तात्रेयो हरिः स्वयम् ।
दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे ॥ ९ ॥
नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये ।
चतुर्थे तु युगे जातो द्विधारूपो मनोहरः ॥ १० ॥
हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः ।
चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम् ॥ ११ ॥
बलेर्नियमनार्थाय श्रेष्ठे त्रेतायुगे तथा ।
चकार रूपं भगवान् वामनं कश्यपान्मुनेः ॥ १२ ॥
छलयित्वा मखे भूपं राज्यं तस्य जहार ह ।
पाताले स्थापयामास बलिं वामनरूपधृक् ॥ १३ ॥
युगे चैकोनविंशेऽथ त्रेताख्ये भगवान् हरिः ।
जमदग्निसुतो जातो रामो नाम महाबलः ॥ १४ ॥
क्षत्रियान्तकरः श्रीमान्सत्यवादी जितेन्द्रियः ।
दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने ॥ १५ ॥
यो वै परशुरामाख्यो हरेरद्‌भुतकर्मणः ।
अवतारस्तु राजेन्द्र कथितः पापनाशनः ॥ १६ ॥
त्रेतायुगे रघोर्वंशे रामो दशरथात्मजः ।
नरनारायणांशौ द्वौ जातौ भुवि महाबलौ ॥ १७ ॥
अष्टाविंशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ ।
धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि ॥ १८ ॥
कृतवन्तौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् ।
एवं युगे युगे राजन्नवतारा हरेः किल ॥ १९ ॥
भवन्ति बहवः कामं प्रकृतेरनुरूपतः ।
प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम् ॥ २० ॥
यथेच्छति तथैवेयं भ्रामयत्यनिशं जगत् ।
पुरुषस्य प्रियार्थं सा रचयत्यखिलं जगत् ॥ २१ ॥
सृष्ट्वा पुरा हि भगवाञ्जगदेतच्चराचरम् ।
सर्वादिः सर्वगश्चासौ दुर्ज्ञेयः परमोऽव्ययः ॥ २२ ॥
निरालम्बो निराकारो निःस्पृहश्च परात्परः ।
उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा ॥ २३ ॥
उत्पत्तिकालयोगात्सा भिन्ना भाति शिवा तदा ।
सा विश्वं कुरुते कामं सा पालयति कामदा ॥ २४ ॥
कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी ।
तया युक्तोऽसृज द्‌ब्रह्मा विष्णुः पाति तयान्वितः ॥ २५ ॥
रुद्रः संहरते कामं तया सम्मिलितः शिवः ।
सा चैवोत्पाद्य काकुत्स्थं पुरा वै नृपसत्तमम् ॥ २६ ॥
कुत्रचित्स्थापयामास दानवानां जयाय च ।
एवमस्मिंश्च संसारे सुखदुःखान्विताः किल ॥ २७ ॥
भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः ॥ २८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे हरेर्नानावतारवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥