दिव्यावदानम्/अवदानम् १५१-२००

विकिस्रोतः तः
← अवदानम् १०१-१५० दिव्यावदानम्
अवदानम् १५१-२००
[[लेखकः :|]]
अवदानम् २०१-२५० →

१५१.००१. तथाविधं च स्तूपस्याण्डं कृतं यत्र सा यूपयष्टिरभ्यन्तरे प्रतिपादिता।
१५१.००२. पश्चात्तस्यातिनवाण्डस्योपरि हर्मिका कृता।
१५१.००३. अनुपूर्वेण यष्ट्यारोपणं कृतम्।
१५१.००३. वर्षस्थाले महामणिरत्नानि तान्यारोपितानि।
१५१.००४. तत्र च क्रियमाणे सहस्रयोधिनः पुरुषस्यैवमुत्पन्नम्--नात्र कश्चिदिदानीं प्रहरिष्यति।
१५१.००५. विश्वस्तमनाः केनचित्कार्येण जनपदेषु गतः।
१५१.००५. तेन च महाश्रेष्ठिना तस्य स्तूपस्य चतुर्भिः पार्श्वैश्चत्वारो द्वारकोष्ठका मापिताः, चतुर्भिः पार्श्वैश्चत्वारि महाचैत्यानि कारितानि, तद्यथा जातिरभिसम्बोधिर्धर्मचक्रप्रवर्तनं परिनिर्वाणम्।
१५१.००७. तच्च स्तूपाङ्गणं रत्नशिलाभिश्चितम्।
१५१.००८. चत्वारश्चोपाङ्गाश्चतुर्दिशं मापिताः।
१५१.००८. पुष्करिण्यश्चतुर्दिशमनुपार्श्वेन मापिताः।
१५१.००८. तत्र च विविधानि जलजानि माल्यानि रोपितानि तद्यथा उत्पलं पद्मं कुमुदं पुण्डरीकं सुगन्धिकं मृदुगन्धिकम्।
१५१.०१०. विविधानि च पुष्करिणीतीरेषु स्थलजानि माल्यानि रोपितानि, तद्यथा अतिमुक्तकं चम्पकपाटलावार्षिकामल्लिकासुमनायूथिका धातुष्कारी।
१५१.०१२. सर्वर्तुकालिकाः पुष्पफलाः स्तूपपूजार्थम्।
१५१.०१२. स्थावरा वृत्तिः प्रज्ञप्ताः।
१५१.०१२. स्तूपदासा दत्ताः।
१५१.०१३. शङ्खपटहवाद्यानि तूर्याणि दत्तानि।
१५१.०१३. ये तस्मिंश्चैत्ये गन्धैर्धूपैर्माल्यैश्च चूर्णैः काराः कुर्वन्ति।
१५१.०१४. तस्माच्चाधिष्ठानाद्विषयाच्चागम्य जनपदा गन्धैर्माल्यैर्धूपैश्चूर्णैस्तस्मिंश्चैत्ये कारं कुर्वन्ति।
१५१.०१४. यदि च दक्षिणो वायुर्वाति, दक्षिणेन वायुना सर्वपुष्पजातीनां गन्धेन तच्चैत्यमङ्गणं चास्य स्फुटं भवत्यनुभावितम्।
१५१.०१६. एवं पश्चिमेन वायुना, अनुपूर्वेणापि च वायुना।
१५१.०१६. वायता वायता तच्चैत्याङ्गणं च तेन विविधेन गन्धमाल्येन स्फुटं भवत्यनुभावितम्।
१५१.०१७. तस्मिंश्च स्तूपे सर्वजातकृतनिष्टिते सहस्रयोधी अभ्यागतः।
१५१.०१८. स तं स्तूपं दृष्ट्वा सर्वजातकृतनिष्ठितं कथयति--अस्मिंश्चैत्ये कारां कृत्वा किमवाप्यते? यतोऽसौ श्रेष्ठी बुद्धोदाहरणं प्रवृत्तः कर्तुम्--एवं त्रिभिरसंख्येयैर्वीर्येण व्यायमता अनुत्तरा बोधिरवाप्यत्
१५१.०२०. स तं श्रुत्वा विषादमापन्नो हीनोत्साहतया कथयति--नाहं शक्ष्यामि अनुत्तरां सम्यक्सम्बोधिं समुदानयितुम्।
१५१.०२१. ततोऽसौ श्रेष्ठी प्रत्येकबुद्धोदाहरणं प्रवृत्तः कर्तुम्--एवं सहस्रयोधी तस्यापि वर्णोदाहरणं श्रुत्वा विषण्णचेताः कथयति--एतामप्यहं प्रत्येकबोधिं न शक्तः समुदानयितुम्।
१५१.०२३. ततः स महाश्रेष्ठी श्रावकवर्णोदाहरणं कृत्वा कथयति--अस्मिन्नपि तावत्प्रणिधत्स्व चित्तम्।
१५१.०२४. यतः सहस्रयोध्याह--त्वया पुनर्महाश्रेष्ठिन् कतमस्यां बोधौ प्रणिधानं कृतम्? तेन महाश्रेष्ठिनोक्तम्--अनुत्तरस्यां बोधौ चित्तमुत्पादितम्।
१५१.०२६. सहस्रयोध्याह--यदि त्वया अनुत्तरस्यां बोधौ चित्तमुत्पादितम्, अहं तवैव श्रावकः स्याम्।
१५१.०२७. त्वयाहं समन्वाहर्तव्यः।
१५१.०२७. यतोऽस्य श्रेष्ठी आहबहुकिल्बिषकारी बत भवान्।
१५१.०२८. किं तु लोके यदा त्वं बुद्धोत्पादशब्दं श्रुत्वा स्मृतिं प्रतिलभेथाः।
१५१.०२९. स च श्रेष्ठी तं चैत्यं कृत्वा निरीक्ष्य पादयोर्निपत्य प्रणिधानं करोति--
१५१.०३०. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः।
१५१.०३२. तीर्णोऽहं तारयेयं जनौघानतारिता ये पौर्वकैर्जिनेन्द्रैः॥१॥

१५२.००१. <१५२>भगवानाह--योऽसौ अतीतेऽध्वनि श्रेष्ठी अभूत्, अहमेव स तस्मिन् समये बोधिसत्त्वचर्यां वर्तामि।
१५२.००२. योऽसौ सहस्रयोधी, एष एव धर्मरुचिस्तेन कालेन तेन समयेन्
१५२.००३. इदं मम प्रथमेऽसंख्येये एतस्य धर्मरुचेर्दर्शनम्।
१५२.००३. तत्संधाय कथयामि--चिरस्य धर्मरुच्
१५२.००४. यतो धर्मरुचिराज्ञायाह--चिरस्य भगवन्॥
१५२.००५. द्वितीये दीपंकरो नाम सम्यक्सम्बुद्धो लोक उत्पन्नो विद्याचरणसम्यक्सम्बुद्धः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्।
१५२.००६. अथ दीपमकरः सम्यक्सम्बुद्धो जनपदेषु चारिकां चरन् द्वीपावतीं राजधानीमनुप्राप्तः।
१५२.००७. द्वीपावत्यां राजधान्यां द्वीपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
१५२.००९. तत्र दीपेन राज्ञा दीपंकरः सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः।
१५२.०१०. तस्य च दीपस्य राज्ञो वासवो नाम सामन्तराजोऽभूत् ।
१५२.०१०. तेन तस्य दूतोऽनुप्रेषितह्--आगच्छ, इह मया दीपंकरः सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः।
१५२.०११. तस्य पूजां करिष्याम इति।
१५२.०१२. तदा च वासवेन राज्ञा द्वादशवर्षाणि यज्ञमिष्ट्वा यज्ञावसाने राज्ञा पञ्च महाप्रदानानि व्यवस्थापितानि, तद्यथा--सौवर्णकं दण्डकमण्डलु, सौवर्णा सपात्री, चतूरत्नमयी शय्या, पञ्च कार्षापणशतानि, कन्या च सर्वालंकारविभूषिता।
१५२.०१४. तेन खलु समयेन अन्येषु जनपदेषु द्वौ माणवकौ प्रतिवसतः।
१५२.०१५. ताभ्यां चोपध्यायसकाशाद्वेदाध्ययनं कृतम्।
१५२.०१६. धर्मता आचार्यस्याचार्यधनमुपाध्यायस्योपाध्यायधनं प्रदेयमिति ज्ञात्वा चिन्तयतः।
१५२.०१७. ताभ्यां च श्रुतं वासवेन राज्ञा पञ्च महाप्रदानानि यज्ञावसाने समुदानीतानि, यो ब्राह्मणः स्वाध्यायसम्पन्नो भविष्यति स लप्स्यतीति।
१५२.०१८. तयोरेतदभवत्--गच्छवस्तत्र, तं प्रदानं प्रतिगृह्णीवः।
१५२.०१९. कोऽस्माकं तत्र बहुश्रुततमो वा स्वाध्यायतमो भविष्यतीति संचिन्त्य येन वासवस्य राज्ञो महानगरं तेन संप्रस्थितौ।
१५२.०२०. तस्य च राज्ञो देवतया आरोचितम्।
१५२.०२०. यौ एतौ द्वौ माणवकौ आगच्छतः सुमतिश्च मतिश्च, अनयोर्द्वयोः सुमतेरेतत्प्रदानं दद्
१५२.०२१. यदेवं द्वौ माणककौ आगच्छतः सुमितश्च मतिश्च, अनयोर्द्वयोः सुमतेरेतत्प्रदानं दद्
१५२.०२१.यदेवं महाराज त्वया द्वादश वर्षाणि यज्ञ इष्टः, अस्मात्पुण्यफलान्महत्तमपदस्य सुमतेर्माणवकस्य महाप्रदानं दास्यसि।
१५२.०२३. स राजा संलक्षयति--नूनमेतौ महात्मानौ येषामामर्थाय देवता अप्यारोचयन्ति।
१५२.०२४. यतोऽसौ राजा पश्यति माणवकौ दूरत एवागच्छन्तौ अग्रसनमीभिरुह्यवस्थितौ।
१५२.०२५. यतो राजा वासवस्त्यौ सुमतिं माणवं पृच्छति--भवान् सुमति? तेनोक्तम्--अहम्।
१५२.०२८. यतो राजा वासवः सुमतिं माणवमग्रासने भोजयित्वा पञ्च प्रदानानि प्रयच्छति।
१५२.०२९. सुमतिर्माणवश्चत्वारि महाप्रदानानि गृह्णाति दण्डकमण्डलुप्रभृतीनि, एकं कन्याप्रदानं न प्रतिगृह्णाति।
१५२.०३०. स कथयति--अहं ब्रह्मचारी।
१५२.०३०. यतः सा कन्या सुमतिं माणवं प्रासादिकमभिरूपं दृष्ट्वा लुब्धा स्नेहोत्पन्ना, तं सुमतिं माणवमेवमाह--प्रतिगृह्ण मां ब्राह्मण्
१५२.०३२. स कथयति--न शक्यं प्रतिगृहीतुम्।
१५२.०३२. यतः सा कन्या राज्ञा प्रदानबुद्ध्या परित्यक्ता <१५३>न पुनर्गृहीता, सुमतिनापि माणवेनाप्रतिगृह्यमाणा राज्ञो दीपस्य दीपावतीं नगरीं गता।

१५३.००२. सा तत्र गत्वा तदात्मीयमलंकारं शरीरादवतार्य मालाकारायानुप्रयच्छति--अस्यालंकारस्य मूल्यं मे प्रतिदिवसं देवस्यार्थे नीलोत्पलानि ददस्व्
१५३.००३. सा तेनोपक्रमेण तदलंकारिकं सुवर्णं दत्वा देवशुश्रऊषिका संवृत्ता।
१५३.००४. स च माणवकः सुमतिस्तानि चत्वारि महाप्रदानानि गृह्य उपाध्यायसकाशं गतः।
१५३.००५. गत्वा चोपाध्यायाय तानि चत्वारि महाप्रदानान्यनुप्रयच्छति।
१५३.००६. तेभ्यश्चोपाध्यायस्त्रीणि प्रतिगृह्णाति, कार्षापणानां तु पञ्च शतानि तस्यैव सुमतेर्ददाति।
१५३.००६. स च सुमतिस्तस्यामेव रात्रौ दश स्वप्नानद्राक्षीत्--महासमुद्रं पिबामि, वैहायसेन गच्छामि, इमौ चन्द्रादित्यौ एवंमहर्द्धिकौ एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि, राज्ञो रथे योजयामि ऋषीन्, श्वेतान् हस्तिनः, हंसान्, सिंहान्, महाशैलं पर्वतानिति।
१५३.००९. स तान् दृष्ट्वा प्रतिबुद्धः।
१५३.०१०. प्रतिबुद्धस्यैतदभवत्--क एषां स्वप्नानां मम व्याकरणं करिष्यति? तत्र पञ्चाभिज्ञ ऋषिर्नातिदूरे प्रतिवसति।
१५३.०११. अथ सुमतिर्माणवः संशयनिर्णयनार्थमृषेः सकाशं गतः।
१५३.०१२. सुमतिस्तस्य ऋषेः प्रतिसंमोदनं कृत्वा स्वप्नानाख्यायाह--कुरुष्व मे एषां स्वप्नानां निर्णयम्।
१५३.०१३. स ऋषिराह--नाहमेषां स्वप्नानां व्याकरणं करिष्यामि।
१५३.०१३. गच्छ दीपावतीं राजधानीम्।
१५३.०१३. तत्र दीपेन राज्ञा दीपंकरो नाम सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः।
१५३.०१४. स एषां स्वप्नानां व्याकरणं करिष्यति।
१५३.०१५. अथ वासवो राजा तस्य दीपस्य राज्ञः प्रतिश्रुत्य अशीत्यमात्यसहस्रपरिवृतो दीपावतीं राजधानीमनुप्राप्तः।
१५३.०१६. तेन च दीपेन राज्ञा सप्तमाद्दिवसाद्दीपंकरस्य सम्यक्सम्बुद्धस्य साभिसंस्कारेण नगरप्रवेशं करिष्यामीति सर्वविषयाधिष्ठानाञ्च सर्वपुष्पाणां संग्रहं कर्तुमारब्धः।
१५३.०१८. तत्र च यस्मिन् दिवसे राज्ञा दीपेन तस्य दीपंकरस्य सम्यक्सम्बुद्धस्य साभिसंस्कारेण नगरप्रवेश आरब्धः कर्तुम्, तस्मिन्नेव दिवसे सुमतिरपि तत्रैवागतः।
१५३.०२०. तत्र राज्ञा सर्वपुष्पाणां संग्रहः कारितः।
१५३.०२०. सा च देवोपस्थायिका दारिका मालाकारसकाशं गता--प्रयच्छ मे नीलोत्पलानि, देवार्चनं करिष्यामीति।
१५३.०२२. मालाकार आह--अद्य राज्ञा सर्वपुष्पाणि गृहीतानि दीपंकरनगरप्रवेशस्यार्थ्
१५३.०२२. सा कथयति--गच्छत, पुनरपि तत्र पुष्किरिण्यां यदि मत्पुण्यैर्नीलोत्पलपद्ममनुद्धृतमासाद्येत्
१५३.०२३. तत्र पुष्किरिण्यां सुमतेः पुण्यानुभावात्सप्त नीलपद्मानि प्रादुर्भूतानि।
१५३.०२४. यतः स मालाकारो गतः, स तानि पश्यति।
१५३.०२५. दृष्ट्वा च दारिकया मालाकारस्योक्तम्--उद्धरैतानि पद्मानि।
१५३.०२५. मालाकारः कथयति--नाहमुद्धरिष्यामि।
१५३.०२६. राजकुलान्ममोपालम्भो भविष्यति।
१५३.०२६. यतः सा कथयति--न्
१५३.०२७. त्वया सर्वपुष्पाण्युद्धृत्य राज्ञः पूर्वं दत्तान्येव्
१५३.०२७. मालाकार आह--दतानि।
१५३.०२७. यतः सा दारिका कथयति--मदीयैः पुण्यैरेतानि प्रादुर्भूतानि, प्रयच्छोद्धृतानि मम्
१५३.०२८. मालाकारः कथयति--कथमेतानि प्रवेशकानि भविष्यन्त्यसंविदितं राजकुलस्य? दारिका आह--उद्धरतु भवान्।
१५३.०३०. अहमुदककुम्भे प्रक्षिप्तं प्रवेशयिष्यामि।
१५३.०३०. तेन मालाकारेणैवं श्रुत्वा तस्या दारिकयास्तान्युद्धृत्य अनुप्रदत्तानि।
१५३.०३१. सा तानि गृहीत्वा उदककुम्भे प्रक्षिप्य तत्कुम्भमुदकस्य पूरयित्वा अधिष्ठानं गता प्रस्थिता।
१५३.०३२. स च सुमतिस्तत्स्थानमनुसम्प्राप्तः।
१५३.०३२. तस्यैतदभवत्--कथमहं बुद्धं भगवन्तम् <१५४>दृष्ट्वा न पूजयामि? स मालाकारगृहाण्यन्वाहिण्डति सर्वपुष्पान्वेषणपरः, न च किंचिदेकपुष्पमासादयति।

१५४.००२. पश्चाद्बाह्येनाधिष्ठानान्निर्गम्य आरामेणारामं पुष्पाणि पर्येषमाणः पर्यटति, न चैकपुष्पमासादयति।
१५४.००३. अथ पर्यटमानस्तदुद्यानं संप्राप्तः।
१५४.००३. सा च दारिका तस्मादुद्यानात्तस्य सुमतेर्माणवस्याभिमुखमागता।
१५४.००४. यतः पुण्यानुभावेन तानि नीलपद्मानि तस्मादुदककुम्भादभ्युद्गतानि।
१५४.००५. यतस्तानि सुमतिर्दृष्ट्वा तस्या दारिकायाः कथयति--प्रयच्छ ममैतानि पद्मानि।
१५४.००६. मत्सकाशादेषां निष्क्रयं पञ्चकार्षापणशतं गृहाण्
१५४.००६. सा दारिका तस्य सुमतेः कथयति--तदा नेच्छसि मां प्रतिगृहीतुम्।
१५४.००७. इदानीं मां पद्मानि याचस्
१५४.००७. नाहं दास्यामि।
१५४.००८. एवमुक्त्वा तं सुमतिं माणवमुवाच--किमेभिः करिष्यसि? सुमतिराह--बुद्धं भगवन्तमर्चयिष्यामि।
१५४.००९. पश्चाद्दारिका कथयति--किं मम कार्षापणैः कृत्यम्? एवमहं बुद्धाय दास्ये, यदि त्वमेषां पद्मानां प्रदानफलेन ममापि जात्यां जात्यां पत्नीमिच्छसि, अस्य दानस्य प्रदानकाले यद्येवं प्रणिधानं करोषि--जात्यां जात्यां मम भार्या स्यादिति।
१५४.०११. सुमतिराह--वयं दानाभिरताः स्वगर्भरूपपरित्यागं स्वमांसपरित्यागं च कुर्मः।
१५४.०१२. ततः सा दारिका सुमतेः कथयति--त्वमेवं प्रणिधानं कुरु, पश्चाद्येनाभ्यर्थीयसे, तस्य मामनुप्रयच्छेथाः।
१५४.०१३. एवमुक्ते तया दारिकया तस्य सुमतेः पञ्च पद्मान्यनुप्रदत्तानि, आत्मना द्वे गृहीत्
१५४.०१४. गाथां च भाषते--
१५४.०१५. प्रणिधां यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्।
१५४.०१६. तत्र तेऽहं भवेत्पत्नी नित्यं सहधर्मचारिणी॥२॥
१५४.०१७. तेन राज्ञा तत्र सर्वमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकातोरणमामुक्तपट्टदामं गन्धोदकचूर्णपरिषिक्तम्।
१५४.०१८. नगरद्वारादारभ्य यावच्च विहारो यावच्च नगरमेतदन्तरमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकतोरणमामुक्तपट्टदाम गन्धोदकचूर्णपरिषिक्तम्।
१५४.०२०. स च राजा शतशलाकं छत्रं गृहीत्वा दीपंकरस्य सम्यक्सम्बुद्धस्य प्रत्युद्गतः।
१५४.०२१. एवमेवामात्याः।
१५४.०२१. एवमेव वासवो राजा अमात्यैः सह प्रत्युद्गतः।
१५४.०२१. दीपो राजा भगवतो बुद्धस्य पादयोर्निपत्य विज्ञापयति--भगवन्, अधिष्ठानं प्रविश्
१५४.०२२. यतः स भगवान् भिक्षुसंघपुरस्कृतोऽधिष्ठानप्रवेशाभिमुखः संप्रस्थितः।
१५४.०२३. स च राजा दीपः शतशलाकं छत्रं दीपंकरस्य सम्यक्सम्बुद्धस्य धारयति।
१५४.०२४. तथैवामात्याः, वासवो राजा अमात्यसहायः।
१५४.०२४. भगवता ऋद्ध्या तथा अधिष्ठितं यथा एकैकः संलक्षयति--अहं भगवतश्छत्रं धारयामीति।
१५४.०२५. अथ भगवांस्तथाविधया शोभया जनमध्यमनुप्राप्तः।
१५४.०२६. तत्र भगवता साभिसंस्कार इन्द्रकीले पादो व्यवस्थापितः।
१५४.०२७. यदैव भगवता इन्द्रकीले पादो व्यवथापितः, तदैव समनन्तरकालं पृथिवी षड्विकारं प्रकम्पिता--चलिता प्रचलिता संप्रचलिता, वेधिता प्रवेधिता संप्रवेथिता।
१५४.०२८. धर्मता च बुद्धानां भगवतां यदेन्द्रकीले साभिसंस्कारेण पादौ व्यवस्थापयन्ति, चित्राण्याश्चर्यण्यद्भुतधर्माः प्रादुर्भवन्ति--उन्मत्ताः स्वचित्तं प्रतिलभन्ते, अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोत्रश्रवणसमर्था भवन्ति, मूकाः प्रव्याहरणसमर्था भवन्ति, पङ्गवो गमनसमर्था भवन्ति, मूढा गर्भिणीनां स्त्रीणां गर्भा अनुलोमीभवन्ति, हिडिनिगडबद्धानां च सत्त्वानां बन्धनानि <१५५>शिथिलीभवन्ति, जन्मजन्मवैरानुबद्धास्तदनन्तरं मैत्रचित्ततां प्रतिलभन्ते, वत्सा दामानि च्छित्त्वा मातृभिः संगच्छन्ति, क्रोशन्ति, अश्वा ह्रेषन्ते, ऋषभा गर्जन्ति, शुकसारिकाकोकिलजीवंजीवका
मधुरं निकूजन्ति, अनेरितानि वादित्रभाण्डानि मधुरशब्दान्निश्चारयन्ति, पेडाकृता अलंकारा मधुरशब्दान्निश्चरन्ति, उन्नताः पृथिवीप्रदेशा अवनमन्ति, अवनताश्चोन्नमन्ति, अपगतपाषाणशर्करकपालास्तिष्ठन्ति, अन्तरिक्षाद्देवता
दिव्यान्युत्पलानि क्षिपन्ति, पद्मानि कुमुदानि पुण्डरीकान्यगुरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि दिव्यानि मन्दारवाणि पुष्पाणि क्षिपन्ति, पूर्वो दिग्भाग उन्नमति पश्चिमोऽवनमति, पश्चिम उन्नमति पूर्वोऽवनमति, दिक्षिण उन्नमत्युत्तरोऽवनमति, उत्तर उन्नमति दक्षिणोऽवनमति, मध्य उन्नमत्यन्तोऽवनमति, अन्त उन्नमति मध्योऽवनमति।

१५५.००९. तत्र च दीपावत्यां राजधान्यामनेकानि प्राणिशतसहस्राणि पुष्पैर्धूपैर्गन्धैश्च कारां कुर्वन्ति।
१५५.०१०. तेऽपि च सुमतिश्च दारिका च येन दीपंकरः सम्यक्सम्बुद्धस्तेनानुगच्छन्ति पद्मानि गृह्य्
१५५.०११. ते च तत्र महाजनकायेन पूजार्थं संपरिवृतस्य भगवत उपश्लेषं न लभन्त्
१५५.०१२. भगवान् संलक्षयति--बहुतरं सुमतिर्माणवोऽस्मान्महाजनकायात्पुण्यप्रसवं करिष्यति इति।
१५५.०१३. मत्वा महतीं तुमुलां वातवृष्टिमभिनिर्मिणोति।
१५५.०१४. यतस्तेन जनकायेनावकाशो दत्तः।
१५५.०१४. लब्धावकाशश्च सुमतिर्माणवो भगवन्तमसेचनकदर्शनं दृष्ट्वा अतीव प्रसादजातः।
१५५.०१५. प्रसादजातेन च तानि पञ्च पद्मानि भगवतः क्षिप्तानि।
१५५.०१६. तानि च भगवता दीपंकरेण सम्यक्सम्बुद्धेन तथा अधिष्ठितानि, यथा शकटीचक्रमात्राणि वितानं बुद्ध्वा व्यवस्थितानि।
१५५.०१७. गच्छतोऽनुगच्छन्ति, तिष्ठतोऽनुतिष्ठन्ति।
१५५.०१८. तथा दृष्ट्वा तया दारिकया प्रसादजातया द्वौ पद्मौ भगवतः क्षिप्तौ।
१५५.०१८. तौ चापि भगवता तथा अधिष्ठितौ यथा शकटीचक्रमात्रौ कर्णसमीपे वितानं बद्ध्वा व्यवस्थितौ।
१५५.०१९. तत्र च प्रदेशे तुमुलेन वातवर्षेण कर्दमो जातः।
१५५.०२०. पश्चात्सुमतिर्माणवो बुद्धं भगवन्तं सकर्दमं पृथिवीप्रदेशमुपगतः।
१५५.०२१. तस्मिन् सकर्दमे पृथिवीप्रदेशे जातं संतीर्य भगवतो भगवतः पुरतो गाथां भाषते--
१५५.०२२. यदि बुद्धो भविष्यामि बोधाय बुद्धवोधन्
१५५.०२३. आक्रमिष्यसि मे पद्भ्यां जटां जन्मजरान्तकाम्॥३॥
१५५.०२४. ततस्तेन दीपंकरेण सम्यक्सम्बुद्धेन सम्यक्सम्बुद्धेन तस्य सुमतेर्माणवस्य जटासु पादौ व्यवस्थापितौ।
१५५.०२५. तस्य च सुमतेः पृष्ठतोऽनुबुद्ध एव मतिर्माणवस्तिष्ठति।
१५५.०२५. तेन कुपितेनाभिहितं भगवतो दीपंकरस्य--पश्य तावद्भोः, अनेन दीपंकरेण सम्यक्सम्बुद्धेनास्य सुमतेर्माणवस्य तिरश्चां यथा पद्भ्यां जटा अवष्टब्धाः।
१५५.०२७. पश्चात्दीपंकरेण सम्यक्सम्बुद्धेन सुमतिर्माणवो व्याकृतह्--भविष्यसि त्वं नृभवाद्विमुक्तो मुक्तो विमुर्लोकहिताय शास्ता।
१५५.०३०. शाक्यात्मजः शाक्यमुनीति नांना त्रिलोकसारो जगतः प्रदीपः॥४॥

१५६.००१. <१५६>यदा च स सुमतिर्माणवो दीपंकरेण सम्यक्सम्बुद्धेन व्याकृतः, तत्समकालमेव वैहायसं सप्ततालानभ्युद्गतः।
१५६.००२. ताश्चास्य जटाः शीर्णाः, अन्याः प्रविशिष्टतरा जटाः प्रादुर्भूताः।
१५६.००३. स वैहायसस्थो महता जनकायेन दृष्टः।
१५६.००३. दृष्ट्वा च प्रणिधानं कृतम्--यदा अनेनानुत्तरज्ञानमधिगतं तदास्य वयं श्रावका भवेम्
१५६.००४. सापि च दारिका प्रणिधानं करोति--
१५६.००५. प्रणिधानं यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्।
१५६.००६. तत्र तेऽहं भवेत्पत्नी नित्यं सहधर्मचारिणी॥५॥
१५६.००७. यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः।
१५६.००८. श्राविका ते भविष्यामि तस्मिन् काल उपस्थित् ।६॥
१५६.००९. खगस्थं माणवं दृष्ट्वा सहस्राणि शतानि च्
१५६.०१०. श्रावकत्वं प्रार्थयन्ते सर्वे तत्र ह्यनागत् ।७॥
१५६.०११. यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः।
१५६.०१२. श्रावकास्ते भविष्यामस्तस्मिन् काले ह्युपस्थित् ।८॥
१५६.०१३. यदा च सुमतिर्माणवो दीपंकरेण सम्यक्सम्बुद्धेन व्याकृतः, तदास्य दीपेन राज्ञा जटा गृहीताः।
१५६.०१४. वासवो राजा कथयति--ममैता जटा अनुप्रयच्छ्
१५६.०१४. ततस्तस्य दीपेन राज्ञा अनुप्रदत्ताः।
१५६.०१५. तेन गृहीत्वा गणिताहशीतिर्वालसहस्राणि।
१५६.०१५. तस्य राज्ञोऽमात्याः कथयन्ति--देव, अस्माकमेकैकं वालमनुप्रयच्छ्
१५६.०१६. वयमेषां चैत्यानि करिष्यामः।
१५६.०१६. तेन राज्ञा तेषां भृत्यानामेकैको वालो दत्तः।
१५६.०१७. तैरमात्यैः स्वके विजिते गत्वा चैत्यानि प्रतिष्ठापितानि।
१५६.०१७. यदा सुमतिर्माणवोऽनुत्तरायां सम्यक्सम्बुद्धौ व्याकृतः, तदा दीपेन राज्ञा वासवेन च राज्ञा तैरनेकैश्च नैगमजानपदैः सर्वोपकरणैः प्रवारितोऽनागतगुणावेक्षतया।
१५६.०१९. ततः स मतिर्माणव उच्यते--अहमनुत्तरस्यां सम्यक्सम्बोधौ व्याकृतह्--त्वया कुत्र चित्तमुत्पादितम्? स कथयति--क्षतोऽहं सुमते माणव्
१५६.०२१. स कथयति--कथं कृत्वा क्षतोऽसि? ततः स कथयति--यदा तव दीपंकरेण सम्यक्सम्बुद्धेन पद्भ्यां जटा अवष्टब्धाः, तदा कुपितेन वाग्निश्चारिता--दीपंकरेण सम्यक्सम्बुद्धेन श्रोत्रियस्य जटा तिरश्चां यथा पद्भ्यामवष्टब्धाः।
१५६.०२३. यतस्तस्य सुमतिः कथयति--आगच्छस्व, बुद्धस्य भगवतोऽन्तिके प्रव्रजावः।
१५६.०२४. ततस्तौ सुमतिर्मतिश्च दीपंकरस्य सम्यक्सम्बुद्धस्य प्रवचने प्रव्रजितौ।
१५६.०२५. सुमतिना च प्रव्रज्य त्रीपि पिटकान्यधीतानि, धर्मेण पर्षत्संगृहीता।
१५६.०२६. स च सुमतिर्माणवश्च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः।
१५६.०२६. मतिर्माणवश्च्युतः कालगतो नरकेषूपपन्नः॥
१५६.०२८. भगवानाह--योऽसौ वासवो राजाभूत्तेन कालेन तेन समयेन, स राजा बिम्बिसारः।
१५६.०२९. यानि तान्यशीतिरमात्यसहस्राणि तेन कालेन तेन समयेन, तान्येतर्ह्यशीतिर्देवतासहस्राणि।
१५६.०३०. योऽसौ दीपावतीयको जनकायः, यासौ दारिका, एषैव सा यशोधरा।
१५६.०३०. योऽसौ सुमतिः, अहमेव तस्मिन् समये बोधिसत्त्वचर्यायां वर्तामि।
१५६.०३१. योऽसौ मतिः, एष एव स धर्मरुचिः।

१५७.००१. <१५७>एतद्द्वितीयेऽसंख्येये अस्य च धर्मरुचेर्मम च दर्शनं यदहं संधाय कथयामि--चिरस्य धर्मरुचे, सुचिरस्स्य धर्मरुच् ।
१५७.००३. तस्मादप्यार्वाक्तृतीयेऽसंख्येये क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।
१५७.००५. तस्यां च राजधान्यामन्यतरो महाश्रेष्ठी प्रतिवसति।
१५७.००५. तेन च सदृशात्कुलात्कलत्रमानीतम्।
१५७.००६. स च कलत्रसहायः क्रीडति रमते परिचारयति।
१५७.००६. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
१५७.००७. स च गृहपतिः श्राद्धः।
१५७.००७. तस्य चार्हन् भिक्षुः कुलाववादकोऽस्ति।
१५७.००७. स च गृहपतिस्तां पत्नीमेवमाह--जातोऽस्माकमृणधरो धनहरः।
१५७.००८. गच्छाम्यहमिदानीं भद्रे वणिग्धर्माणां देशान्तरं भाण्डमादाय्
१५७.००९. स च वणिग्लोकेनावृतो दूरतरं गतो भाण्डमादाय्
१५७.००९. यतोऽस्य न भूयश्चिरमप्यागच्छति।
१५७.०१०. स च दारकः कालान्तरेण महान् संवृत्तोऽभिरूपो दर्शनीयः प्रासादिकः।
१५७.०११. ततोऽसौ मातरं पृच्छति--अम्ब, किमस्माकं कुलार्थागतं कर्म? सा कथयति--वत्स, पिता तव आपणं वाहयन्नासीत् ।
१५७.०१२. ततः स दारक आपणमारब्धो वाहयितुम्।
१५७.०१२. सा च माता अस्य क्लेशैर्बाध्यमाना चिन्तयितुं प्रवृत्ता--क उपायः स्यात्यदहं क्लेशान् विनोदयेयम्, न च मे कश्चिज्जानीयात्? तया संचिन्त्यैवमध्यवसितम्--एवमेव पुत्रकामहेतोस्तथा परिचरामि, यथा अनेनैव मे सार्धं रोगविनोदकं भवति, नैव स्वजनस्य शङ्का भविष्यति।
१५७.०१६. ततस्तया वृद्धयुवती आहूय भोजयित्वा द्विस्त्रिः पश्चान्नवेन पटेनाच्छादिता।
१५७.०१६. तस्याः सा वृद्धा कथयति--केन कार्येणैव ममानुप्रसादादिना उपक्रमेणानुप्रवृत्तिं करोषि? सा तस्या वृद्धाया विश्वस्ता भूत्वा एवमाह--अम्ब, शृणु विज्ञाप्यम्।
१५७.०१८. क्लेशैरतीव बाध्ये, प्रियतां ममोत्पाद्य मनुष्यान्वेषणं कुरु, योऽभ्यन्तर एव स्यान्न च शङ्कनीयो जनस्य्
१५७.०१९. वृद्धा कथयति--नेह गृहे तथाविधो मनुष्यः संविद्यते, नापि प्रणयवान् कश्चित्प्रविशति, यो जनस्याशङ्कनीयो भवेत् ।
१५७.०२१. कतमः स मनुष्यो भविष्यति यस्याहं वक्ष्यामि? ततः सा वणिक्पत्नी तस्या वृद्धायाः कथयति--यद्यन्यो मनुष्य एवंविधोपक्रमयुक्तो नास्ति, एष एव मे पुत्रो भवति, नैष लोकस्य शङ्कनीयो भविष्यति।
१५७.०२३. तस्यास्तया वृद्धया अभिहितम्--कथं नु पुत्रेण सार्धं रतिक्रीडां गमिष्यसि? युक्तं स्यादन्येन मनुष्येण सार्धं रतिक्रीडामनुभवितुम्।
१५७.०२४. ततः सा वणिक्पत्नी कथयति--यद्यन्योऽभ्यन्तरो मनुष्यो न संविद्यते, भवतु एष एव मे पुत्रः।
१५७.०२५. तया वृद्धया अभिहितम्--यथेप्सितं कुरु।
१५७.०२६. ततः सा वृद्धयुवती तस्य वणिजः पुत्रस्यैवागम्य पृच्छति--वत्स, तरुणोऽसि रूपवांश्च्
१५७.०२७. किं प्रतिष्ठितोऽस्यार्थेन? तेन तस्या अभिहितम्--किमेतत्? ततः सा वृद्धा कथयति--भवानेवमभिरूपश्च युवा च अस्मिन् वयसि तरुणयुवत्या सार्धं शोभेथाः क्रीडन् रमन् परिचारयन्। किमेव कामभोगपरिहीनस्तिष्ठसि? वणिग्दारकस्तं श्रुत्वा लज्जाव्यपत्राप्यसम्लीनचेतास्तस्या वृद्धायास्तद्वचनं नाधिवासयति।
१५७.०३०. ततः सा वृद्धा एवं द्विरपि त्रिरपि तस्य दारकस्य कथयति--तरुणयुवतिस्तवार्थे क्लेशैर्बाध्यत्
१५७.०३१. स वणिग्दारको द्विरपि त्रिरप्युच्यमानस्तस्या वृद्धायाः कथयति--अम्ब, किं तस्यास्तरुणयुवत्याः संनिमित्ते किंचिदभिहितम्? ततह्<१५८>सा वृद्धा कथयति--उक्तं तस्या मया तन्निमित्तम्।

१५८.००१. तया मम निमित्ते न प्रतिज्ञातम्।
१५८.००१. सा च दारिका हीव्यपत्राप्यगृहीता न किंचिद्वक्ष्यति।
१५८.००२. न च शरीरमावृतं करिष्यति।
१५८.००२. न त्वया तस्या वा अन्वेषणे यत्नः करणीयः।
१५८.००३. ततस्तेन वणिग्दारकेण तस्या वृद्धाया अभिहितम्--कुत्रास्माकं संगतं भविष्यति? तया अभिहितम्--मदीये गृह्
१५८.००४. तेनोक्तम्--कुत्रावकाशे तव गृहम्? ततोऽस्य तया वृद्धया गृहं व्यपदिष्टम्।
१५८.००५. सा च वृद्धा तस्या वणिक्पत्न्याः सकाशं गत्वा कथयति--इच्छापितः स वोऽयं दारकः।
१५८.००६. सा कथयति--कुत्रावकाशे संगतं भविष्यति? मदीये गृह्
१५८.००७. स च दारकः कार्याणि कृत्वा गतः।
१५८.००७. अनुपूर्वेण भुक्त्वा तस्या मातुः कथयति--गच्छाम्यहम्।
१५८.००८. वयस्यगृहे स्वप्स्य्
१५८.००८. ततोऽस्य मात्राप्यनुज्ञातम्--गच्छ्
१५८.००८. स दारको लब्धानुज्ञस्तस्या वृद्धाया गृहं गतः।
१५८.००९. तस्य दारकस्य तस्मिन् गृहे गतस्य रतिक्रीडाकालमागमयमानस्य तिष्ठतो निशिकालमप्रत्यभिज्ञातम्।
१५८.०१०. रूपे काले सा माता अस्य वणिग्दारकस्य तस्मिन्नेव गृहे रतिक्रीडामनुभवनार्थं तत्रैव गता।
१५८.०११. गत्वा च तस्मिन् गृहे विकालमव्यक्तिं विभाव्यमाने रूपाकृतौ निर्गूढेनोपचारक्रमेण रतिक्रीडां पुत्रेण सार्धमनुभवितुं प्रवृत्ता पापकेनासद्धर्मेण्
१५८.०१३. सा च परिक्षीणायां रात्रौ अनुभूतरतिक्रीडा सतमोन्धकारे कालायामेव रजन्यामविभाव्यमानरूपाकृतौ स्वगृहं गच्छति।
१५८.०१४. स चापि वणिग्दारको रतिक्रीडामनुभूय प्रभातायां रजन्यां भाण्डावारिं गत्वा कुटुम्बकार्याणि करोति।
१५८.०१५. एवं द्विरपि त्रिरपि।
१५८.०१५. तत्र वृद्धाया गृहे रतिक्रीडामनुभवंश्च चिरकालमेवं वर्तमानेन रतिक्रीडाक्रमेण तस्य दारकस्य सा माता चिन्तयितुं प्रवृत्ता--कियत्कालमब्यद्गृहमहमेवमविभाव्यमानरूपा रतिक्रीडामनुभविष्यामि? यन्न्वहमस्यैतत्रतिक्रीडाक्रमं तथाविधं क्रमेण संवेदयेयम्, यथा इहैव गृहे रतिक्रीडा भवेत् ।
१५८.०१९. इति संचिन्त्य तत्रैव वृद्धागृहे गत्वा रतिक्रीडां पुत्रेण सार्धमनुभूय रजन्याः क्षये सतमोन्धकारकाले तस्य दारकस्योपरिमं प्रावरणं निवस्यात्मनीयां च शिरोत्तरपट्टिकां त्यक्त्वा स्वगृहं गता।
१५८.०२१. स च दारकः प्रभाअकाले तां पट्टिकां शिरसि मञ्चस्यावतिष्ठन्तीं संपश्यति।
१५८.०२२. आत्मीयामेवोपरिप्रावरणपोत्रीमलभमानस्तत्रैव तां पट्टिकां संलक्ष्य त्यक्त्वा भाण्डावारीं गत्वा युगलमन्यं प्रावृत्य स्वगृहं गतः।
१५८.०२३. तत्र च गतः संपश्यति तमेवात्मीयं प्रवरणं तस्या मातुः शिरसि प्रावृतम्।
१५८.०२४. दृष्ट्वा च तां मातरं पृच्छति--अम्ब, कुतोऽयं शिरसि प्रावरणोऽभ्यागतह्? यतस्तया अभिहितम्--अद्याप्यहं तवाम्बा? एवं चिरकालं तव मया सार्धं कामान् परिभुञ्जतोऽद्याप्यहं तव सैवाम्बा? यतः स वणिग्दारकस्तथाविधं मातृवचनमुपश्रुत्य संमूढो विह्वलचेता भूमौ निपतितः।
१५८.०२७. ततस्तया स मात्रा घटजलपरिषेकेणावसिक्तः।
१५८.०२७. स जलपरिषेकावसिक्तो दारकश्चिरेण कालेन प्रत्यागतप्राणस्तया मात्रा समाश्वास्यते--किमेवं खेदमुपागतस्त्वम्? अस्मदीयं वचनमुपश्रुत्य धीरमना भवस्व्
१५८.०२९. न ते विषादः करणीयः।
१५८.०२९. स दारकस्तस्याः कथयति--कथमहं खेदं न करिष्यामि संमोहं वा, येन मया एवंविधं पापकं कर्म कृतम्? ततः स तयाभिहितह्--न ते मनःशूकंस्द्मिन्नर्थे उत्पादयितव्यम्।
१५८.०३१. पन्थासमो मातृग्रामः।
१५८.०३१. येनैवं हि यथा पिता गच्छति, पुत्रोऽपि तेनैव गच्छति।
१५८.०३२. न चासौ पन्था पुत्रस्यानुगच्छतो दोषकारको <१५९>भवति, एवमेव मातृग्रामः।

१५९.००१. तीर्यसमोऽपि च मातृग्रामः।
१५९.००१. यत्रैव हि तीर्ये पिता स्नाति, पुत्रोऽपि तस्मिन् स्नाति, न च तीर्यं पुत्रस्य स्नायतो दोषकारकं भवति।
१५९.००२. एवमेव मातृग्रामः।
१५९.००२. अपि च प्रत्यन्तेषु जनपदेषु धर्मतैवैषा यस्यामेव पिता असद्धर्मेणाभिगच्छति, तामेव पुत्रोऽप्यधिगच्छति।
१५९.००४. एवमसौ वणिग्दारको मात्रा बहुविधैरनुनयवचनैर्विनीतशोकस्तया मात्रा तस्मिन् पातकेऽसद्धर्मे पुनः पुनरतीव संजातरागः प्रवृत्तः।
१५९.००५. तेन च श्रेष्ठिना गृहे लेख्योऽनुप्रेषितः।
१५९.००५. भद्रे, धीरोर्जितमहोत्साहा भवस्व्
१५९.००६. अहमपि लेखानुपदमेवागमिष्य्
१५९.००६. सा वणिक्पत्नी तथाविधं लेखार्थं श्रुत्वा वैमनस्यजाता चिन्तयितुं प्रवृत्ता--महान्तं कालं मम तस्यागमनमुदीक्षमाणायाः।
१५९.००७. तदा नागतः।
१५९.००८. इदानीं मया एवंविधेनोपक्रमेण पुत्रं च परिचरित्वा स चागमिष्यति।
१५९.००८. क उपायः स्यात्यदहं तमिहासम्प्राप्तमेव जीवितात्व्यपरोपयेयम्? इति संचिन्त्य तं पुत्रमाहूय कथयति--पित्रा ते लेख्योऽनुप्रेषितहागमिष्यतीति।
१५९.०१०. जाजसेऽस्माभिरिदानीं किं करणीयमिति? गच्छस्व, पितरमसम्प्राप्तमेव घातय्
१५९.०११. स कथयति--कथमहं पितरं घातयिष्ये? यदा असौ न प्रसहते पितृवधं कर्तुम्, तदा तया मात्रा भूयोऽनुवृत्तिवचनैरभिहितह्--तस्यानुवृत्तिवचनैरुच्यमानस्य कामेषु संरक्तस्याध्यवसायो जातः पितृवधं प्रति।
१५९.०१३. कामान् खलु प्रतिसेवतो न हि किंचित्पापकं कर्माकरणीयमिति वदामि।
१५९.०१४. ततस्तेनोक्तम्--केनोपायेन घातयामि? तया अभिहितम्--अहमेवोपायं संविधास्य्
१५९.०१५. इत्युक्त्वा विषमादाय समितायां मिश्रयित्वा मण्डिलकान् पक्त्वा अन्येऽपि च निर्विषाः पक्ताः।
१५९.०१६. यतस्तं दारकमाहूय कथयति--गच्छस्व्
१५९.०१७. अमी सविषा मण्डिलका निर्विषाश्च्
१५९.०१७. गृह्य पितृसकाशं गत्वा च तस्य विश्वस्तस्यैकत्र भुञ्जत एतान् सविषान्मण्डिलकान् प्रयच्छस्व, आत्मना च निर्विषान् भक्षय्
१५९.०१८. ततः स दारकस्तेन लेखवाहिकमनुष्येण सार्धं तान्मण्डिलकान् गृह्य गतः पितृसकाशम्।
१५९.०१९. आगम्य पिता अस्य अतीव तं पुत्रं दृष्ट्वा अभिरूपप्रासादिकं महेशाख्यं प्रामोद्यं प्राप्तः।
१५९.०२०. सह्यासह्यं पृष्ट्वा तेषां तेषां वणिजामाख्याति--अयं भवन्तोऽस्माकं पुत्रः।
१५९.०२१. यदा तेन दारकेण संलक्षितं सर्वत्र अहमनेन पित्रा प्रतिसंवेदित इति, ततस्तं पितरमाह--तात, अम्बया मण्डिलकाः प्रहेणकमनुप्रेषितम्।
१५९.०२३. तत्तातः परिभुञ्जतु।
१५९.०२३. पश्चात्तेन पित्रा सार्धमेकफलायां भुञ्जता तस्य पितुः सविषा मण्डिलका दत्ताः, आत्मना निर्विषाः प्रभक्षिताः।
१५९.०२४. यतोऽस्य पिता तान् सविषान्मण्डिलकान् भक्षयित्वा भृतः।
१५९.०२५. तस्य च पितुः कालधर्मणा युक्तस्य च दारको न केनचित्पापकं कर्म कुर्वाणोऽभिशङ्कितो वा प्रतिसंवेदितो वा।
१५९.०२६. पश्चात्तैरिष्टस्निग्धसुहृद्भिर्वणिग्भिः शोचयित्वा यत्तत्तु किंचित्तस्य वणिजो भण्डमासीद्धिरण्यसुवर्णं वा, तत्तस्य दारकस्य दत्तम्।
१५९.०२८. स दारकस्तं भाण्डं हिरण्यसुवर्णं पैतृकं गृह्य स्वगृहमनुप्राप्तः।
१५९.०२९. तस्य च गतस्य स्वगृहं सा माता प्रच्छन्नासद्धर्मेण तं पुत्रं परिचरमाणा रतिं नाधिगच्छति, अनभिरतरूपा च तं पुत्रं वदति--कियत्कालं वयमेवं प्रच्छन्नेन क्रमेण रतिक्रीडामनुभविष्यामह्? यन्नु वयमस्माद्देशादन्यदेशान्तरं गत्वा प्रकाशक्रमेण निःशङ्का भूत्वा जायापतीति विख्यातधर्माणः सुखं प्रतिवसेम्
१५९.०३२. ततस्तौ गृहं त्यक्त्वा <१६०>मित्रस्वजनसम्बन्धिवर्गानपहाय पुराणदासीदासकर्मकरांस्त्यक्त्वा यावदर्थजातं हिरण्यसुवर्णं च गृह्य अन्यविषयान्तरं गतौ।

१६०.००२. तत्र गत्वा जनपदेषु विख्यापयमानौ जायापतिकमिति रतिक्रीडामनुभवमानौ व्यवस्थितौ।
१६०.००३. यावदर्हन् भिक्षुः केनचित्कालान्तरेण जनपदचारिकां चरंस्तमधिष्ठानमनुप्राप्तः।
१६०.००४. तेन तत्र पिण्डपातमन्वाहिण्डता वीथ्यां निषद्य अयं वणिग्धर्मणा संव्यवहारमाणः स दारको दृष्टः।
१६०.००५. दृष्ट्वा चारोग्ययित्वा चाभिभाष्योक्तह्--मातुस्ते कुशलम्? स च दारकस्तमर्हन्तं तथा अभिवदमानमुपश्रुत्य संभिन्नचेताः स्वेन दुश्चरितेन कर्मणा शङ्कितमनाश्चिन्तयितुं प्रवृत्तः।
१६०.००७. स विचिन्त्य मातृसकाशं गत्वा संवेदयति--यतिरभ्यागतः, योऽसौ अस्मद्गृहमुपसंक्रामति, एष स इहाधिष्ठाने प्रतिसंवेदयिष्यति एषा अस्य दारकस्य मातेति।
१६०.००९. वयं चेहं जायापतिकमिति ख्यातौ।
१६०.००९. कथमेष शक्यं घातयितुम्? ततस्तयोः संचिन्त्य तं गृहमेनमुपनिमन्त्रयित्वा भुञ्जानं घातयामः।
१६०.०१०. ततस्तयोरेवं संचिन्त्य सोऽर्हन् भिक्षुरन्तर्गृहमुपनिमन्त्रयित्वा भोजयितुमारब्धः।
१६०.०११. स दारको गूढशस्त्रो भूत्वा अर्हन्तं भोजयितुं मात्रा सह निर्जनं गृहं कृत्वा स चार्हद्भिक्षुभुक्त्वा तस्माद्गृहाद्विश्रब्धचारक्रमेण प्रतिनिर्गतः।
१६०.०१३. ततस्तेन जीविताद्व्यपरोपयति।
१६०.०१४. कामाश्च लवणोदकसदृशाः।
१६०.०१४. यथा यथा सेव्यन्ति, तथा तथा तृष्णा वृद्धिमुपयाति।
१६०.०१५. तस्य दारकस्य सा माता तं पुत्रमसद्धर्मेणानुवर्तमाना तस्मिन्नेवाधिष्ठाने श्रेष्ठिपुत्रेण सार्धं प्रच्छन्नकामा असद्धर्मेषु सक्तचित्ता जाता।
१६०.०१६. तस्य दारकस्य तथाविध उपक्रमः प्रतिसंविदितः।
१६०.०१७. तस्य दारकस्य तथाविध उपक्रमः प्रतिसंविदितः।
१६०.०१७. ततस्तेन तस्य मातुरुक्तम्--अम्ब निवर्तस्वेदृशाद्दोषात् ।
१६०.०१८. सा च तस्मिञ्श्रेष्ठिपुत्रे संरक्तचित्ता द्विरपि त्रिरप्युच्यमाना न निर्वर्तत्
१६०.०१८. ततस्तेन निष्कोषमासिं कृत्वा सा माता जीविताद्व्यपरोपिता।
१६०.०१९. यदा तस्य त्रीण्यानन्तर्याणि परिपूर्णानि, तदा देवताभिर्जनपदेष्वारोचितम्--पाप एष पितृघातकोऽर्हद्धातको मातृघातकश्च्
१६०.०२१. त्रीण्यनेनानन्तर्याणि नरककर्मसंवर्तनीयानि कर्माणि कृतान्युपचितानि।
१६०.०२१. ततस्तेनाधिष्ठानजनेन तच्छ्रुत्वा तदधिष्ठानान्निर्वासितः।
१६०.०२२. स यदा निर्वासितस्तस्मादधिष्ठानात्तदा चिन्तयितुं प्रवृत्तह्--अस्ति चास्य बुद्धशासने कश्चिदेवानुनयह्? एवं मनसि कृतम्--गच्छामि, इदानीं प्रव्रजामीति।
१६०.०२४. स च विहारं गत्वा भिक्षुसकाशमुपसंक्रम्य एवं कथयति--आर्य, प्रव्रजेयम्।
१६०.०२५. ततस्तेन भिक्षुणा उक्तम्--मा तावत्पितृघातकोऽसि? तेन भिक्षुरभिहितह्--अस्ति मया घातितः पिता।
१६०.०२६. ततः पुनः पृष्टह्--मा तावन्मातृघातकोऽसि? तेनोक्तम्--आर्य, घातिता मया माता।
१६०.०२७. स भूयः पृष्टह्--मा तावदर्हद्वधस्ते कृतह्? ततः स कथयति--अर्हन्नपि घातितः।
१६०.०२८. ततस्तेन भिक्षुणा अभिहितह्--एकैकेन एषां कर्माणामाचरणान्न प्रव्रज्यार्हो भवसि, प्रागेव समस्तानाम्।
१६०.०२९. गच्छ वत्स, नाहं प्रव्राजयिष्य्
१६०.०३०. ततः स पुरुषोऽन्यस्य भिक्षोः सकाशमुपसंक्रम्य कथयति--आर्य प्रव्रजेयम्।
१६०.०३१. ततस्तेनापि भिक्षुणा अनुपूर्वेण पृष्ट्वा प्रत्याख्यातः।
१६०.०३१. ततः पश्चादन्यस्य भिक्षोः सकाशं गतः।
१६०.०३२. तमपि तथैव प्रव्रज्यामायाचत्
१६०.०३२. तेनापि तथा अनुपूर्वक्रमेण पृष्ट्वा प्रत्याख्यातः।
१६०.०३२. स यदा <१६१>द्विरपि त्रिरपि प्रव्रज्यामायाचमानोऽपि भिक्षुभिर्न प्रव्राजितः, तदा अमर्षजातश्चिन्तयितुं प्रवृत्तह्--या अपि सर्वसाधारणा प्रव्रज्या, तामहमप्यायाचन्न लभामि।

१६१.००२. ततस्तेन तस्मिन् विहारे शयितानां भिक्षूणामग्निर्दत्तः।
१६१.००३. तस्मिन् विहारेऽग्निं दत्वा अन्यत्र विहारं गतः।
१६१.००३. तत्रापि गत्वा भिक्षूणामुपसंक्रम्य प्रव्रज्यामायाचत्
१६१.००४. तैरपि तथैवानुपूर्वेण पृष्ट्वा प्रत्याख्यातः।
१६१.००४. तत्रापि तेन तथैव प्रतिहतचेतसा अग्निर्दत्तः।
१६१.००५. तत्रापि विहारे बहवो भिक्षवः शैक्षाशैक्षाश्च दग्धाः।
१६१.००६. एवं तस्यानेकान् विहारान् दहतः सर्वत्र शब्दो विसृतह्--एवंविधश्चैवंविधश्च पापकर्मकारी पुरुषो भिक्षुभ्यः प्रव्रज्यामलभन् विहारान् भिक्षूंश्च दहतीति।
१६१.००७. स च पुरुषोऽन्यविहारं प्रस्थितः।
१६१.००८. तत्र च विहारे बोधिसत्त्वजातीयो भिक्षुः प्रतिवसति तृपितः।
१६१.००८. तेन श्रुतं स एवं दुष्करकर्मकारी पुरुष इहागच्छतीति।
१६१.००९. यतः स भिक्षुस्तस्य पुरुषस्यासम्प्राप्तस्यैव तस्मिन् विहारे प्रत्युद्गतः।
१६१.०१०. स तं पुरुषं समेत्य कथयति--भद्रमुख, किमेतत्? यतोऽस्य पुरुषेणोक्तम्--आर्य, प्रव्रज्यां न लभामि।
१६१.०११. ततस्तेन भिक्षुणामुक्तम्--आगच्छ वत्स, अहं ते प्रव्राजयामीति।
१६१.०१२. पश्चात्तेन भिक्षुणा तस्य पुरुषस्य शिरो मुण्डापयित्वा काषायाणि वस्त्राणि दत्तानि।
१६१.०१३. पश्चात्स पुरुषः कथयति--आर्य, शिक्षापदानि मेऽनुप्रयच्छ्
१६१.०१३. ततस्तेन भिक्षुणा उक्तह्--किं ते शिक्षापदैः प्रयोजनम्? एवं सर्वकालं वदस्व--नमो बुद्धाय, नमो धर्माय, नमः संघायेति।
१६१.०१५. पश्चात्स भिक्षुस्तस्य पुरुषस्य धर्मदेशनामारब्धः कर्तुम्--त्वमेवंविधश्चैवंविधश्च पापकर्मकारी सत्त्वो यदि कदाचिद्बुद्धशब्दं शृणोषि, स्मृतिं प्रतिलभेथाः।
१६१.०१६. अथासौ त्रिपिटो भिक्षुश्च्युतः कालगतो देवेषुपपन्नः।
१६१.०१७. स चापि पुरुषश्च्युतः कालगतो नरकेषूपपन्नः॥
१६१.०१८. यतो भगवानाह--किं मन्यध्वे भिक्षवह्? योऽसौ अतीतेऽध्वनि भिक्षुस्त्रिपिटहास, अहमेव स तेन कालेन तेन समयेन्
१६१.०१९. योऽसौ पापकर्मकारी सत्त्वो मातापित्रर्हद्धातकः, एष एव धर्मरुचिः।
१६१.०२०. इदं मम तृतीयेऽसंख्येयेऽस्य धर्मरुचेर्दर्शनम्।
१६१.०२०. तदहं संधाय कथयामि--चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे, सुचिरचिरस्य धर्मरुच्
१६१.०२१. यावच्च मया भिक्षवस्त्रिभिरसंख्येयैः षड्भिः पारमिताभिरन्यैश्च दुष्करशतसहस्रैरनुत्तरा सम्यक्सम्बोधिः समुदानीता, तावदनेन धर्मरुचिना यद्भूयसा नरकतिर्यक्षु क्षिपितम्॥
१६१.०२४. इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


१६१.०२५. धर्मरुच्यवदानमष्टादशम्॥


                    • अवदान १९ **********


१६२.००१. दिव्१९ ज्योतिष्कावदानम्।
१६२.००२. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप्
१६२.००२. राजगृहे नगरे सुभद्रो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः।
१६२.००३. सोऽत्यर्थं निर्ग्रन्थेष्वभिप्रसन्नः।
१६२.००३. तेन सदृशात्कुलात्कलत्रमानीतम्।
१६२.००४. स तया सार्धं क्रीडति रमते परिचारयति।
१६२.००४. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता।
१६२.००५. भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत् ।
१६२.००६. राजगृहं पिण्डाय चरन् येन सुभद्रस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः।
१६२.००७. अद्राक्षीत्सुभद्रो गृहपतिर्भगवन्तं दूरादेव्
१६२.००७. दृष्ट्वा च पुनः पत्नीमादाय येन भगवांस्तेनोपसंक्रान्तः।
१६२.००८. उपसंक्रम्य भगवन्तमिदमवोचत्--भगवन्, इयं मे पत्नी आपन्नसत्त्वा संवृत्ता।
१६२.००९. किं जनयिष्यतीति।
१६२.००९. भगवानाह--गृहपते, पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति।
१६२.०११. तेन भगवतः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरो दत्तः।
१६२.०१२. भगवानारोग्य इत्युक्त्वा पिण्डपातमादाय प्रक्रान्तः।
१६२.०१२. तस्य नातिदूरे भूरिकस्तिष्ठति।
१६२.०१३. स संलक्षयति--यदप्यस्माकमेकं भिक्षकुलम्, तदपि श्रमणो गौतमोऽन्वावर्तयति।
१६२.०१३. गच्छामि, पश्यामि किं श्रमणेन गौतमेन व्याकृतमिति।
१६२.०१४. स तत्र गत्वा कथयति--गृहपते, श्रमणो गौतम आगत आसीत्? आगतः।
१६२.०१५. किं तेन व्याकृतम्? आर्य, मया तस्य पत्नी दर्शिता--किं जनयिष्यति? स कथयति--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति।
१६२.०१७. स भूरिको गणित्रे कृतावी श्वेतवर्णां गृहीत्वा गणयितुमारब्धह्--पश्यति यथा भगवता व्याकृतं तत्सर्वं तथैव्
१६२.०१९. स संलक्षयति--यदि अनुसंवर्ण्यिष्याम्यहम्, गृहपतिर्भूयस्या मात्रया श्रमणस्य गौतमस्याभिप्रशंस्यति।
१६२.०२०. तदत्र किंचिद्संवर्णयितव्यं किंचित्विवर्णयितव्यमिति विदित्वा हस्तौ संपरिवर्तयति, मुखं च विभण्डयति।
१६२.०२१. सुभद्रो गृहपतिः कथयति--आर्य, किं हस्तौसम्परिवर्तयसि मुखं च विभण्डयसीति? स कथयति--गृहपते, अत्र किंचित्सत्यं किंचिन्मृषा।
१६२.०२३. आर्य, किं सत्यं किं वा मृषा? गृहपते, यदनेनोक्तं पुत्रं जनयिष्यतीति, इदं सत्यं कथयति।
१६२.०२४. कुलमुद्द्योतयिष्यतीतीदमपि सत्यम्।
१६२.०२४. अग्रज्योतिरिति संज्ञा।
१६२.०२४. मन्दभाग्यः स सत्त्वो जातमात्र एवाग्निना कुलं धक्ष्यति।
१६२.०२५. यत्कथयति--दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति, इदं मृषा।
१६२.०२६. गेहपते, अस्ति कश्चित्त्वया दृष्टो मनुष्यभूतो दिव्यमानुषीं श्रियं प्रत्यनुभवन्? यत्कथयति--मम शासने प्रव्रजिष्यतीति, इदं सत्यम्।
१६२.०२७. यदा अस्य न भक्तं न वस्त्रम्, तदा निश्चयेन श्रमणस्य गौतमस्यान्तिके प्रव्रजिष्यति।
१६२.०२८. सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति, इदं मृषा।
१६२.०२९. श्रमणस्यैव तावद्गौतमस्य सर्वक्लेशप्रहाणादर्हत्त्वं नास्ति, प्रागेवास्य भविष्यतीति।
१६२.०२९. सुभद्रो विषादमापन्नः कथयति--आर्य, अत्र मया कथं प्रतिपत्तव्यमिति? भूरिकः कथयति--गृहपते, वयं प्रव्रजिताः शमानुशिक्षाः।
१६२.०३१. त्वमेव जानीष्
१६२.०३१. इयुक्त्वा प्रक्रान्तः।
१६२.०३१. सुभद्रः संलक्षयति--सर्वथा परित्याज्योऽसौ इति विदित्वा स भैषज्यं दातुमारब्धः।
१६२.०३२. चरमभविकोऽसौ <१६३>सत्त्वः।

१६३.००१. तदस्य भैषज्यार्थाय स्यादिति।
१६३.००१. स तस्या वामकुक्षिं मर्दितुमारब्धः।
१६३.००१. स गर्भो दक्षिणं कुक्षिं गतः।
१६३.००२. सुभद्रो दक्षिणकुक्षिं मर्दितुमारब्धः।
१६३.००२. स वामं कुक्षिं गतः।
१६३.००२. अस्थानमेतदनवकाशो यच्चरमभविकः सत्त्वोऽन्तरादुच्छिद्य कालं करिष्यति अप्राप्ते आश्रवक्षय्
१६३.००४. सा गृहपतिपत्नी कुक्षिणा मृद्यमानेन विक्रोष्टुमारब्धा।
१६३.००४. प्रातिवेश्यैः श्रुतम्।
१६३.००४. ते त्वरितत्वरितं गताः पृच्छन्ति--भवन्तः, किमियं गृहपतिपत्नी विरौति? सुभद्रः कथयति--कुक्षिमत्येषा।
१६३.००६. नूनमस्याः प्रसवकाल इति।
१६३.००६. ते प्रक्रान्तः।
१६३.००६. सुभद्रः संलक्षयति--न शक्यमस्या अत्रोपसंक्रमं कर्तुम्।
१६३.००७. अरण्यं नयामीति।
१६३.००७. सा तेनारण्यं नीत्वा तथोपक्रान्ता यथा कालगता।
१६३.००७. स तां प्रच्छन्नं गृहमानीय सुहृत्सम्बन्धिबान्धवानां प्रातिवेशकानां च कथयति--भवन्तः, पत्नी मे कालगतेति।
१६३.००९. ते विक्रोष्टमारब्धाः।
१६३.००९. सा तैर्विक्रोशद्भिर्नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य शीतवनं श्मशानमभिनिर्हृता।
१६३.०१०. निर्ग्रन्थैः श्रुतम्--ते हृष्टतुष्टप्रमुदिताश्छत्रपताका उच्छ्रयित्वा राजगृहस्य नगरस्य रथ्यावीथीचत्वरशृङ्गाटके उपाहिण्डमाना आरोचयन्ति--शृण्वन्तु भवन्तः।
१६३.०१२. श्रमणेन गौतमेन सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति।
१६३.०१४. सा च कालगता शीतवनश्मशानमभिनिर्हृता।
१६३.०१४. यस्य तावद्वृक्षमूलमेव नास्ति, कुतस्तस्य शाखापत्रफलं भविष्यतीति? अत्रान्तरे किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्।
१६३.०१६. धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानाम् {चतुर्}ऋद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां चतुर्वैशारद्यविशारद्यविशारदानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानामसंहतविहारिणां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां
दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते--को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कोऽपायनिंनः, कोऽपायप्रवणह्,
कोऽपायप्राग्भारः, कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य परिपक्कानि विमोचयेयम्।
१६३.०२६. आह च--
१६३.०२७. अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
१६३.०२८. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत् ॥१॥िति।
१६३.०२९. अथ भगवानन्यतरस्मिन् प्रदेशे स्मितमकार्षीत् ।
१६३.०२९. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति।
१६३.०३१. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहवमुत्पलं पद्म <१६४>महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतन्ति।

१६४.००१. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रब्धाः।
१६४.००२. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति।
१६४.००३. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति।
१६४.००३. तेषां निर्मितं दृष्ट्वा एवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः।
१६४.००४. अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावादस्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति।
१६४.००५. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति।
१६४.००७. या उपरिष्टागच्छन्ति, ताश्चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशां यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्राह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा दुःखं शून्यमनात्मेत्युद्धोषयन्ति।
१६४.०११. गाथाद्वयं च भाषन्ते--
१६४.०१२. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
१६४.०१३. धूनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥२॥
१६४.०१४. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
१६४.०१५. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥३॥
१६४.०१६. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति।
१६४.०१७. भगवत आस्येऽन्तर्हिताः।
१६४.०१७. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--
१६४.०१८. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः।
१६४.०२०. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।४॥
१६४.०२२. गाथाश्च भाषते--
१६४.०२३. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
१६४.०२६. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥५॥
१६४.०२८. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
१६४.०३०. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥६॥

१६५.००१. <१६५>नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति धीराः।
१६५.००३. यस्यार्थे स्मितमुपदर्शयन्ति नाथास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥७॥िति।
१६५.००५. भगवानाह--एवमेतदानन्द, एवमेतत् ।
१६५.००५. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
१६५.००६. गच्छ आनन्द, भिक्षूणामारोचय--तथागतो भिक्षवः श्मशानचारिकां गन्तुकामः।
१६५.००७. यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकां गन्तुम्, स चीवरकाणि गृह्णातु।
१६५.००८. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--तथागत आयुष्मन्तः श्मशानचारिकां गन्तुकामः।
१६५.००९. यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकं गन्तुम्, स चीवरकाणि गृह्णातु।
१६५.०१०. एवमायुष्मन्निति ते भिक्षवः सर्वे संश्रुत्य भगवत्सकाशमुपगताः।
१६५.०११. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वास्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गजराज इव कलभगणपरिवृतः सिंह इव दंष्टगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव परिक्षगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव
नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो ब्रह्मेव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैरिन्द्रयैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता
महापुरुषलक्षणैः समलंकृतोऽशीत्या चानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्याश्वजिद्बाष्पमहानामभद्रिकशारिपुत्रमौद्गल्यायनकाश्यपयशःपूर्णप्रभृतिमहाश्रावकैः परिवृतोऽन्येन च महता भिक्षुसंघेन अनेकैश्च प्राणिशतसहस्रैः शीतवनं महाश्मशानं संप्रस्थितः।
१६५.०२६. अष्टादशानुशंसा बुद्धचारिकायामित्यनेकानि देवताशतसहस्राणि भगवतः पृष्ठतः पृष्ठतोऽनुबद्धानि।
१६५.०२७. शीतवनानुगुणाश्च वायवो वायितुमारब्धाः॥
१६५.०२८. राजगृहात्द्वौ बालदारकौ ब्राह्मणदारकः क्षत्रियदारकश्च बहिर्निर्गत्य क्रीडतः।
१६५.०२९. तयोः क्षत्रियदारकोऽवगाढश्राद्धो ब्राह्मणदारको न तथा।
१६५.०२९. स ब्राह्मणदारकः क्षत्रियदारकस्य कथयति--वयस्य, भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति।
१६५.०३२. सा च मृता कालगता शीतवनं श्मशानं निर्हृता--मा हैव भगवता भाषितं वितथं स्यादिति।
१६५.०३३. स क्षत्रियदारको गाथां भाषते--
१६६.००१. <१६६>सचन्द्रतारं प्रपतेदिहाम्बरं मही सशैला सवना नभो व्रजेत् ।
१६६.००३. महोदधीनामुदकं क्षयं व्रजेन्महर्षयः स्यूर्न मृषाभिधायिनः॥८॥िति
१६६.००५. स च ब्राह्मणदारकः कथयति--वयस्य, यद्येवम्, गच्छामः शीतवनं महाश्मशानं पश्यामह्? वयस्य, गच्छामः।
१६६.००६. तौ स्म्प्रस्थितौ।
१६६.००६. भगवांश्च राजगृहान्निर्गतः।
१६६.००६. अद्राक्षीत्स क्षत्रियदारको भगवन्तं दूरादेव्
१६६.००७. दृष्ट्वा च पुनर्गाथां भाषते--
१६६.००८. अनुद्धतो विगतकुतूहलो मुनिर्यथा व्रजत्येष जनौघसंवृतः।
१६६.०१०. निःसंशयं परगणवादिमर्दनो नदस्यते मृगपतिनादमुत्तमम्॥९॥
१६६.०१२. यथा ह्यमी शीतवनोन्मुखोत्सुकाः प्रवान्ति वाता हिमपङ्कशीतलाः।
१६६.०१४. प्रयान्ति नूनं बहवो दिवौकसो निरीक्षितुं शाक्यमुनेर्विकुर्वितम्॥१०॥िति।
१६६.०१६. राज्ञा बिम्बिसारेण श्रुतम्--भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति।
१६६.०१८. सा च मृता कालगता शीतवनं श्मशानमभिनिर्हृता।
१६६.०१८. भगवांश्च सश्रावकसंघः शीतवनं संप्रस्थित इति।
१६६.०१९. श्रुत्वा च पुनरस्यैतदभवत्--न भगवान्निरर्थकं शीतवनं गच्छति।
१६६.०२०. नूनं भगवान् सुभद्रस्य गृहपतेः पत्नीमागम्य महद्विनेयकार्यं कर्तुकामो भविष्यति।
१६६.०२१. पश्यामीति।
१६६.०२१. सोऽप्यन्तःपुरकुमारामात्यपौरजानपदपरिवृतो राजगृहान्निर्गन्तुमारब्धः।
१६६.०२२. अद्राक्षीत्स क्षत्रियकुमारको राजानं मागधश्रेण्यं बिम्बिसारं दूरादेव्
१६६.०२२. दृष्ट्वा च पुनर्गाथां भाषते--
१६६.०२४. यथा हि श्रेण्यो मगधाधिपो ह्ययं विनिर्ययौ राजगृहात्सबान्धवः।
१६६.०२६. प्रवर्तते मे हृदि निश्चिता मतिर्महाजनस्याभ्युदयो भविष्यति॥११॥िति।
१६६.०२८. जनकायेन भगवन्तं दृष्ट्वा विवरमनुप्रदत्तम्।
१६६.०२८. भगवान् स्मितोन्मुखो महाजनमध्यं प्रविष्टः।
१६६.०२९. निर्ग्रन्थ भगवन्तं स्मितोन्मुखं दृष्ट्वा संलक्षयन्ति--यथा श्रमणो गौतमः स्मितोन्मुखो महाजनमध्यं प्रविष्टः, नूनमयं बोधिसत्त्वो न कालगतः।
१६६.०३०. तैः सुभद्रो गृहपतिरुक्तह्--गृहपते, नन्वयं सत्त्वो मन्दभाग्यो न कालगत इति।
१६६.०३१. स कथयति--आर्य यद्येवम्, <१६७>कथमत्र प्रतिपत्तव्यमिति? ते कथयन्ति--गृहपते, वयं शमात्तशिक्षाः, त्वमेव ज्ञास्यसीति।

१६७.००२. स तां पत्नीं चितायामारोप्य ध्मापयितुमारब्धः।
१६७.००२. तस्याः सर्वः कायो दग्धः स्थापयित्वा कुक्षिसामन्तकम्।
१६७.००३. तथासौ कुक्षिः स्फुटितः, पद्मं प्रादुर्भूतम्।
१६७.००३. तस्य चोपरिपद्मकर्णिकायां कुमारो निषण्णोऽभिरूपो दर्शनीयः प्रासादिकः।
१६७.००४. तं दृष्ट्वा अनेकानि प्राणिशतसहस्राणि परं विस्मयमुपगतानि।
१६७.००५. निर्ग्रन्था निपातमदमाना नच(नष्ट?)प्रभावाः संवृत्ताः।
१६७.००६. तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते--गृहपते, गृहाण कुमारम्।
१६७.००६. स निर्ग्रन्थानां मुखमवलोकितुमारब्धः।
१६७.००७. ते कथयन्ति--गृहपते, यदि प्रज्वलितामेतां चितां प्रवेक्ष्यसि, सर्वेण सर्वं न भविष्यसीति।
१६७.००८. स न प्रतिगृह्णाति।
१६७.००८. तत्र भगवाञ्जीवकं कुमारभूतमामन्त्रयते--गृहाण जीवक कुमारकमिति।
१६७.००९. स संलक्षयति--अस्थानमनवकाशो भगवान्मामस्थाने नियोक्ष्यति।
१६७.०१०. गृह्णामीति।
१६७.०१०. तेन निर्विशङ्केन चितां विगाह्य गृहीतः।
१६७.०११. विगाहतस्तस्य जिनाज्ञया चितां प्रतिगृह्णतश्चाग्निगतं कुमारकम्।
१६७.०१३. जिनप्रभावान्महतो हुताशनः क्षणेन जातो हिमपङ्कशीतलः॥१२॥
१६७.०१५. ततो जीवकं कुमारभूतमिदमवोचत्--जीवक, मासि क्षत उपहतो वेति? स कथयति--राजकुलेऽहं भदन्त जातो राजकुले वृद्धः।
१६७.०१६. नाभिजानामि गोशीर्षचन्दनस्यापीदृशं शैत्यं यद्भगवता अधिष्ठितायाश्चितायाः।
१६७.०१७. तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते--गृहाणेदानीं गृहपते कुमारमिति।
१६७.०१८. स मिथ्यादर्शनविहतः।
१६७.०१८. तथापि न संप्रतिपद्यत्
१६७.०१८. निर्ग्रन्थानामेव मुखं व्यवलोकयति।
१६७.०१९. ते कथयन्ति--गृहपते, अयं सत्त्वोऽतीव मन्दभाग्यो यो हि नाम सर्वभक्षेणाप्यग्निना न दग्धः।
१६७.०२०. किं बहुना? यद्येवं गृहं प्रवेशयसि, नीयताम्।
१६७.०२०. ते गृहमुत्सादयद्भविष्यसि, त्वं च प्राणैर्वियुज्यस इति।
१६७.०२१. नास्ति आत्मसमं प्रेमेति।
१६७.०२१. तेनासौ न प्रतिगृहीतः।
१६७.०२२. तत्र भगवान् राजानं बिम्बिसारमामन्तयते--गृहाण महाराज कुमारमिति।
१६७.०२२. तेन ससम्भ्रमेण हस्तौ प्रसार्य गृहीतः।
१६७.०२३. ततः समन्ततो निरीक्ष्य कथयति--भगवन्, किं भवतु अस्य दारकस्य ज्योतिष्क इति नामेति।
१६७.०२५. तस्य ज्योतिष्क इति नांधेयं व्यवस्थापितम्।
१६७.०२५. ततो भगवता तस्य जनकायस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा बहुभिः सत्त्वशतैर्महान् विशेषोऽधिगतः।
१६७.०२७. कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैचित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिदुष्मगतानि कुशलमूलान्युत्पादितानि, कैश्चिन्मूर्धानः, कैश्चित्मृदुमध्याः क्षान्तयः, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ, कैश्चिच्छरणगमनानि, कैश्चिच्छिक्षापदानि।
१६७.०३१. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता।
१६७.०३२. ज्योतिष्को दारको राज्ञा बिम्बिसारेण अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो <१६८>द्वाभ्यासंसधात्रीभ्यां द्वाभ्यां क्षीरधाग्त्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्।

१६८.००२. सोऽष्ठाभिर्धात्रीभिरुन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
१६८.००३. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥
१६८.००४. तस्य मातुलः पण्यमादाय देशान्तरं गतः।
१६८.००४. तेन श्रुतं यथा मम भगिनी सत्त्ववती संवृत्ता।
१६८.००५. सा भगवता व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योयिष्यति, दिव्यामानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति।
१६८.००६. स पण्यं विसर्जयित्वा प्रतिपण्यमादाय राजगृहमागतः।
१६८.००७. तेन श्रुतं यथा सा अस्माकं भगिनी कालगतेति।
१६८.००८. श्रुत्वा च पुनः संलक्षयति--भगवता असौ व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यां मानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति।
१६८.०१०. मा हैव तभगवतो भाषितं वितथं स्यात् ।
१६८.०१०. तेन तिरःप्रातिवेश्याः पृष्टाह्--श्रुतं मया अस्माकं भगिनी सत्त्ववती संवृत्ता।
१६८.०११. सा भगवता व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति।
१६८.०१३. श्रुत्वा वयं परितुष्टाः।
१६८.०१३. सा च श्रूयते मृता कालगतेति।
१६८.०१४. मा हैव भगवतो भाषितं वितथं स्यादिति।
१६८.०१४. ते गाथां भाषन्ते--
१६८.०१५. सचन्द्रतारं प्रपतेदिहाम्बरं मही सशैला सवना नभो व्रजेत् ।
१६८.०१७. महोदधीनामुदकं क्षयं व्रजेन्महर्षयः स्यूर्न मृषाभिधायिनः॥१३॥
१६८.०१९. न भगवतो भाषितं वितथम्।
१६८.०१९. कथं भगवतो भाषितं वितथं भविष्यति? किं तु तेन स्वामिनापि असौ तथा तथा उपक्रान्ता, यथा कालगता।
१६८.०२०. स दारको महर्द्धिको महानुभावः।
१६८.०२१. अग्निना न दग्धः।
१६८.०२१. अद्यापि राजकुले संवर्धत इति।
१६८.०२१. स सुभद्रस्य गृहपतेः सकाशं गत्वा कथयति--न युक्तं गृहपते त्वया कृतम्।
१६८.०२२. किं कृतम्? अस्माकं सत्त्ववती भगिनी त्वया निर्ग्रन्थविग्राहितेन तथा तथा उपक्रान्ता, यथा कालगता।
१६८.०२३. स दारको महर्द्धिको महानुभावः।
१६८.०२३. अग्निनापि न दग्धः।
१६८.०२४. अद्यापि राजकुले संवर्धत्
१६८.०२४. तद्गतमेतत् ।
१६८.०२४. यदि तावत्कुमारभानयसि, इत्येवं कुशलम्।
१६८.०२५. नो चेद्वयं त्वां ज्ञातिमध्यादुत्क्षिपामः।
१६८.०२५. सलोकानाम् {सालोहितानाम्?} संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामह्--अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता।
१६८.०२७. स्त्रीघातकोऽयम्।
१६८.०२७. न केनचिदाभाषितव्यमिति।
१६८.०२७. राजकुले च तेऽनर्थं कारयाम इति।
१६८.०२८. स श्रुत्वा व्यथितः।
१६८.०२८. यथैष परिभाषते, नूनमेवं करोमीति विदित्वा राज्ञः पादयोर्निपत्य कथयति--देव, मम ज्ञातय एवं परिभाषन्ते--यदि तावत्कुमारमानयसीत्येवं कुशलम्, नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामह्--अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता।
१६८.०३२. स्त्रीघातकोऽयम्।
१६८.०३२. न केनचिदाभाषितव्यमिति।
१६८.०३२. राजकुले च तेऽनर्थं कारयाम इति।

१६९.००१. <१६९>तदर्हसि ज्योतिष्कं कुमारं दातुमिति।
१६९.००१. राजा कथयति--गृहपते, न मया त्वत्सकाशात्ज्योतिष्कः कुमारो गृहीतः, किं तु भगवता मम न्यस्तः।
१६९.००२. यदि त्वं कुमारेणार्थी, भगवत्सकाशं गच्छेति।
१६९.००२. स भगवत्सकाशं गतः।
१६९.००३. पादयोर्निपत्य कथयति--भगवन्, मम ज्ञातय एवं परिभाषन्ते--यदि तावत्कुमारमानयसीत्येवं कुशलम्।
१६९.००४. नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामः।
१६९.००५. अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता।
१६९.००६. स्त्रीघातकोऽयम्।
१६९.००६. न केनचिदाभाषितव्य इति।
१६९.००६. राजकुले चानर्थं कारयाम इति।
१६९.००७. तदर्हसि ज्योतिष्कं कुमारं दापयितुमिति।
१६९.००७. भगवान् संलक्षयति--यदि सुभद्रो ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं रुधिरं छर्दयित्वा कालं करिष्यति।
१६९.००८. इति विदित्वा आयुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, राजानं बिम्बिसारं मद्वचनेनारोग्यय, एवं च वद--अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्।
१६९.०१०. यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं शोणितं छर्दयित्वा कालं करिष्यतीति।
१६९.०१२. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येन राजा बिम्बिसारस्तेनोपसंस्क्रान्तः।
१६९.०१३. उपसंक्रम्य राजानं बिम्बिसारमेतदवोचत्--भगवांस्ते महाराज आरोग्ययति, कथयति च--अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्।
१६९.०१४. यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यत्सुभद्रो गृहपतिरुष्णं शोणितं छर्दयित्वा कालं करिष्य्
१६९.०१६. राजा कथयति--वन्दे भदन्तानन्द बुद्धं भगवन्तम्।
१६९.०१६. यथा भगवानाज्ञापयति तथा करिष्य्
१६९.०१७. आरोग्यमित्युक्ता आयुष्मानानन्दः प्रक्रान्तः।
१६९.०१७. राजा बिम्बिसारः कथयति--गृहपते, मया अयं कुमारः संवर्धितः।
१६९.०१८. प्रियश्च मे मनापश्च्
१६९.०१८. समयतोऽहं मुञ्चामि, यदि मां दिवसे दिवसे त्रिष्कालं दर्शनायोपसंक्रामतीति।
१६९.०१९. स कथयति--देव उपसंक्रमिष्यति।
१६९.०२०. कोऽन्य उपसंक्रमितव्य इति? स राज्ञा सर्वालंकारविभूषितं कृत्वा हस्तिस्कन्ध आरोप्य विसर्जितः॥
१६९.०२२. आचरितमेतल्लोकस्य--न तावत्पुत्रस्य नाम प्रज्ञायते यावत्पिता जीवति।
१६९.०२२. यावदपरेण समयेन सुभद्रो गृहपतिः कालगतः।
१६९.०२३. ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः।
१६९.०२३. स बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नः।
१६९.०२४. बुद्धं शरणं गतो धर्मं संघं शरणं गतः।
१६९.०२४. तेन यस्मिन् प्रदेशे तेन सुभद्रेण पत्नी आघातिता, तस्मिन् प्रदेशे विहारं कारयित्वा सर्वापकरणसम्पूर्णश्चातुर्दिशार्यभिक्षुसंघाय निर्यातितः।
१६९.०२६. तथा स्थविरैरपि सूत्रान्त उपनिबद्धम्--भगवान् राजगृहे विहरति मृदितकुक्षिके दाव इति॥
१६९.०२८. सुभद्रस्य गृहपतेः पौरुषेया ये पण्यमादाय देशान्तरं गताः, तैः श्रुतम्--सुभद्रो गृहपतिः कालगतः।
१६९.०२९. ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः।
१६९.०२९. स बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नो बुद्धं शरणं गतो धर्मं संघं शरणं गत इति।
१६९.०३०. तेषां च गोशीर्षचननमयं पात्रं संपन्नम्।
१६९.०३१. तैस्तद्रत्नानां पूरयित्वा ज्योतिष्कस्य गृहपतेः प्राभृतमनुप्रेषितम्।
१६९.०३१. तेन तद्दीर्घे स्तम्भे आरोप्य स्थापितम्।
१६९.०३२. घण्डावघोषणं कारितम्--नेदं केनचित्विष्टया वा <१७०>शीतया वा कर्कटकेन वा गृहीतव्यम्।

१७०.००१. य एतच्छ्रमणो वा ब्राह्मणो वा महर्द्धिको वा महानुभावहृद्ध्या गृह्णाति, तस्येदं यथासुखमिति।
१७०.००२. तीर्थ्याः कल्यमेवोत्थाय तीर्थ्यस्पर्शनं गच्छन्ति।
१७०.००३. तैस्तद्दृष्टम्।
१७०.००३. दृष्ट्वा च पुनर्ज्योतिष्कस्य गृहपतेः कथयन्ति--गृहपते, किमेतदिति? तेन तेषां विस्तरेणारोचितम्।
१७०.००४. ते कथयन्ति--गृहपते, त्वं श्रमणशाक्यपुत्रेष्वभिप्रसन्नः।
१७०.००५. ते एवं ग्रहीष्यन्तीत्युक्त्वा प्रक्रान्ताः।
१७०.००५. यावत्स्थविरस्थविरा भिक्षवो राजगृहं पिण्डाय प्रविष्टाः।
१७०.००६. तैर्दृष्ट्वा तैरपि ज्योतिष्को गृहपतिः पृष्टह्--किमेतदिति? तेन तथैव विस्तरेण समाख्यातम्।
१७०.००७. ते कथयन्ति--गृहपते, किं पात्रमात्रस्यार्थायात्मानं संप्रकाशयामह्? उक्तं भगवता--प्रच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यं धूतपापैरित्युक्त्वा प्रक्रान्ताः।
१७०.००८. यावदायुष्मान् दशबलः काश्यपस्तमनुप्राप्तः।
१७०.००९. स पृच्छति--गृहपते, किमेतदिति? तेन यथावृत्तमारोचितम्।
१७०.०१०. आयुष्मान् दशबलकाश्यपः संलक्षयति--येन मया अनादिकालोपचितं क्लेशगणं वान्तं त्यक्तं छर्दितं प्रतिनिसृष्टम्, तं मां गृहपतिस्तीर्थिकसाधारणया ऋद्ध्या आह्वयति।
१७०.०१२. तदस्य मनोरथं पूरयामीति।
१७०.०१२. तेन गजभुजसदृशं बाहुमभिप्रसार्य तत्पात्रं गृहीतम्।
१७०.०१२. स तद्गृहीत्वा विहारं गतो भिक्षुभिरुच्यते--स्थविर, कुतस्तव गोशीर्षचन्दनमयं पात्रमिति? तेन यथावृत्तमारोचितम्।
१७०.०१४. भिक्षवः कथयन्ति--स्थविर, कल्पते तव पात्रमात्रस्यार्थाय ऋद्धिं विदर्शयितुमिति? कथयति--आयुष्मन्तः, कल्पतु वा मा वा।
१७०.०१५. कृतमिदानीम्।
१७०.०१५. किं क्रियतामिति? एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति।
१७०.०१६. भगवानाह--न भिक्षुणा आगारिकस्य पुरस्तातृद्धिर्विदर्शयितव्या।
१७०.०१७. दर्शयति, सातिसारो भवति।
१७०.०१७. अपि तु चत्वारि पात्राणि सुवर्णमयं रूप्यमयं वर्डूर्यमयं स्फटिकमयम्।
१७०.०१८. अपराण्यपि चत्वारि पात्राणि रीतिमयं ताम्रमयं कंसमयमभ्रमयं च्
१७०.०१९. तत्र यानि पूर्वकाणि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उपस्थापितानि विसर्जयितव्यानि।
१७०.०२०. यानि पश्चिमानि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उअप्स्थापितानि तु भैषज्यशरवपरिभोगेन परिभोक्तव्यानि।
१७०.०२२. अपि त्वधीष्टानि ते द्वे पात्रे आयसं मृण्मयम्।
१७०.०२२. यावदपरेण समयेन ज्योतिष्कस्य गृहपतेर्दिव्यमानुषी श्रीः प्रादुर्भूता।
१७०.०२३. अन्तरा च राजगृहमन्तरा च चम्पामत्रान्तरे शुल्कशाला।
१७०.०२४. तस्यां शुल्कशालिकः कालगतः।
१७०.०२४. स व्यालयक्षेषूपपन्नः।
१७०.०२४. तेन पुत्राणां स्वप्नदर्शनं दत्तम्--यः कश्चित्पण्यमशुल्कयित्वा गमिष्यति, सा घण्टा तावद्विरविष्यति यावदसौ निवर्त्य शुल्कं दापयितव्यमिति (यिष्यतीति?)।
१७०.०२७. तैस्तं स्वप्नं संबन्धिबान्धवानां निवेद्य दिवसतिथिमुहूर्तेन तस्मिन् प्रदेशे यक्षस्थानं कारितम्।
१७०.०२८. तत्र च घण्टा बद्ध्वा लम्बिता॥
१७०.०३०. चम्पायामन्यतमो ब्राह्मणः।
१७०.०३०. तेन सदृशात्कुलात्कलत्रमानीतम्।
१७०.०३०. सा ब्राह्मणी संलक्षयति--अयं ब्राह्मणो यैस्तैरुपायैर्धनोपार्जनं करोति।
१७०.०३१. अहं भक्षयामि।
१७०.०३१. न मम प्रतिरूपं यदहमकर्मिका तिष्ठेयमिति।
१७०.०३२. तया वीथीं गत्वा कर्पासः क्रीतः।
१७०.०३२. तं परिकर्मयित्वा श्लक्ष्णम् <१७१>सूत्रं कर्तितम्।

१७१.००१. शोभनेन कुविन्देन कार्षापणसहस्रमूल्या यमली वायिता।
१७१.००१. तया ब्राह्मण उक्तह्--ब्राह्मण, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्।
१७१.००२. गृहीत्वा वीथीं गच्छ्
१७१.००२. यदि कश्चित्याचति, कार्षापणसहस्रेण दातव्या, नो चेदपत्तनं घोषयित्वा अन्यत्र गन्तव्यमिति।
१७१.००३. स तां गृहीत्वा वीथीं गतः।
१७१.००४. न कश्चित्कार्षापणसहस्रेण गृहणाति।
१७१.००४. सोऽपत्तनं घोषयित्वा तां यमलीं छत्रदण्डे प्रक्षिप्य सार्थेन सार्धं राजगृहं संप्रस्थितो यावदनुपूर्वेण शुल्कशालामनुप्राप्तः।
१७१.००६. शुल्काशालिकेन सार्थः शुल्कितः।
१७१.००६. स शुल्कं दत्त्वा संप्रस्थितः।
१७१.००६. घण्टा रटितुमारब्धा।
१७१.००७. शैल्किकाः कथयन्ति--भवन्तः, यथेयं घण्टा रणति, नूनं सार्थो न निपुणं शुल्कितः।
१७१.००८. भूयः शुल्कयाम इति।
१७१.००८. तैरसौ सार्थः पुनः प्रतिनिवर्त्य शुल्कितः।
१७१.००८. नास्ति किंचिदशुल्कितम्।
१७१.००९. घण्टा रटत्येव्
१७१.००९. तैरसौ सार्थो भूयः प्रतिनिवर्त्य प्रत्यवेक्षितः।
१७१.००९. नास्त्येवकिंचित् ।
१७१.०१०. सार्थिका अवध्यातुमारब्धाह्--किं यूयमसमान् भूषितुकामा येन भूयो भूयः प्रतिनिवर्तयध्वमिति? तैरसौ द्विधा कृत्वा मुक्तः।
१७१.०११. येषां मध्ये स ब्राह्मणो नास्ति, तेऽतिक्रान्ताः।
१७१.०१२. अन्येषां गच्छतां सा घण्टा तथैव रटितुमारब्धा।
१७१.०१२. तैस्ते पुनः प्रत्यवेक्षिताः।
१७१.०१३. एवं तावत्द्विधाकृताः, यावत्स चैको ब्राह्मणोऽवस्थित इति।
१७१.०१३. स तैर्गृहीतः।
१७१.०१४. स कथयति--प्रत्यवेक्षत यदि मम किंचिदस्तीति।
१७१.०१४. तैः सर्वतः प्रत्यवेक्ष्य मुक्तः।
१७१.०१४. सा घण्टा रटत्येव्
१७१.०१५. तैरसौ ब्राह्मणः प्रतिनिवर्त्योक्तह्--भो ब्राह्मण कथय, नैव शुल्कं दापयामः।
१७१.०१६. किं तु देवस्यैव सान्निध्यं ज्ञातं भवतीति।
१७१.०१६. कथयति--सत्यं न दापयथ? न दापयामः।
१७१.०१७. तेन च्छत्रदण्डादपनीय सा यमली दर्शिता।
१७१.०१७. ते परं विस्मयमापन्नाह्--भवन्तः, ईदृशमपि देवस्य सान्निध्यमिति।
१७१.०१८. तैस्ततेकं वस्त्रमुद्धाट्य देवः प्रावृतः।
१७१.०१८. ब्राह्मणः कथयति--यूयं कथयथ शुल्कं न दापयाम इति।
१७१.०१९. इदानीं सर्वस्वमपहरथ इति।
१७१.०१९. ते कथयन्ति--ब्राह्मण, नास्माभिर्गृहीतम्।
१७१.०२०. अपि देवस्यैतत्सान्निध्यमिति कृत्वा अस्माभिः प्रावृतः।
१७१.०२०. गृहीत्वा गच्छेति।
१७१.०२१. स तं पुनर्गृहीत्वा पुनश्छत्रनाडिकायां प्रक्षिप्य प्रक्रान्तः।
१७१.०२१. अनुपूर्वेण राजगृहमनुप्राप्तः।
१७१.०२२. स वीथ्यां प्रसार्यावस्थितः।
१७१.०२२. तत्रापि तां न कश्चित्कार्षापणसहस्रेण याचत्
१७१.०२३. स राजगृहमप्यपत्तनं घोषयितुमारब्धः।
१७१.०२३. ज्योतिष्कश्च कुमारो राजकुलान्निष्क्रम्य हस्तिस्कन्धाभिरूढो वीथीमध्येन स्वगृहं गच्छति।
१७१.०२४. तेन श्रुतम्।
१७१.०२४. स तैः शब्दितः।
१७१.०२५. ज्योतिष्केणोक्तह्--भो ब्राह्मण, किमर्थं त्वमपत्तनं घोषयसि? गृहपते, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्।
१७१.०२६. न च कश्चिद्याचत इति।
१७१.०२७. स कथयति--आनय, पश्यामः।
१७१.०२७. तेनोपदर्शिता।
१७१.०२७. ज्योतिष्कः कथयति--अस्त्येतदेव्
१७१.०२८. किं तु अत्रैकं वस्त्रं परिभुक्तकम्।
१७१.०२८. एकमपरिभुक्तकम्।
१७१.०२८. यदपरिभुक्तम्, अस्य पञ्चकार्षापणशतानि मूल्यम्।
१७१.०२९. यत्तु परिभुक्तकम्, अस्यार्धतृतीयानि।
१७१.०२९. ब्राह्मणः कथयति--किमेतदेवं भविष्यति? ज्योतिष्कः कथयति--ब्राह्मण, तव प्रत्यक्षीकरोमि।
१७१.०३०. पश्येति।
१७१.०३०. तेनासौ अपरिभुक्त उपरिविहायसा क्षिप्तः।
१७१.०३१. वितानं कृत्वा अवस्थितः।
१७१.०३१. परिभुक्तः क्षिप्तः।
१७१.०३१. क्षिप्तमात्रक एव पतितः।
१७१.०३२. ब्राह्मणो दृष्ट्वा परं विस्मयमापन्नः।
१७१.०३२. कथयति--गृहपते, महर्द्धिकस्त्वम् <१७२>महानुभाव इति।

१७२.००१. ज्योतिष्कः कथयति--ब्राह्मण, पुनः पश्यैनं योऽसौ अपरिभुक्तक इति, स कण्टकवाटस्योपरिष्टात्क्षिप्तोऽसज्जमानो गतः।
१७२.००२. सोऽन्यः क्षिप्तः कण्टके लग्नः।
१७२.००२. स ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नः कथयति--गृहपते, महर्द्धिकस्त्वं ंहानुभावः।
१७२.००३. यत्तवाभिप्रेतं तत्प्रयच्छेति।
१७२.००४. स कथयति--ब्राह्मण, अतिथिस्त्वम्।
१७२.००४. तवैव पूजा कृता भवति।
१७२.००४. सहस्रमेव पर्यच्छामीति।
१७२.००५. तेन तस्य कार्षापणसहस्रं दत्तम्।
१७२.००५. ब्राह्मणस्तमादाय प्रक्रान्तः।
१७२.००५. ज्योतिष्केण ततो यः परिभुक्तकः स दारकाय दत्तः, अपरिभुक्तकस्तु स्नानशाटकः कृतः।
१७२.००६. यावदपरेण समयेन राजा बिम्बिसार उपरिप्रासादतलगतोऽमात्यगणपरिवृतस्तिष्ठति।
१७२.००७. ज्योतिष्कस्य स स्नानशाटक उपरि गृहस्याभ्यवकाशे शोषितो वायुना ह्रियमाणो राज्ञो बिम्बिसारस्योपरि पतितः।
१७२.००९. राजा कथयति--भवन्तः, राजार्हमिदं वस्त्रम्।
१७२.००९. कुत एतदिति?।
१७२.००९. ते कथयन्ति--देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितम्।
१७२.०१०. देवस्यापि वस्त्रवर्षः पतितुमारब्धम्।
१७२.०११. नचिराद्धिरण्यवर्षः पतिष्यतीति।
१७२.०११. राजा कथयति--भवन्तः, ज्योतिष्को गृहपतिर्भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति।
१७२.०१२. इदं च दिव्यं वस्त्रमाकाशात्पतितम्।
१७२.०१३. स्थापयत्
१७२.०१३. तस्यैवागतस्य दास्यामीति।
१७२.०१३. ते चैवमालापं कुर्वन्ति, ज्योतिष्कश्चागतः।
१७२.०१४. राजा कथयति--कुमार, त्वं भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति।
१७२.०१४. मम चेदं दिव्यं वस्त्रमाकाशात्पतितम्।
१७२.०१५. गृहाणेति।
१७२.०१५. तेन हस्तः प्रसारितः।
१७२.०१५. देव आनय, पश्यामीति।
१७२.०१६. स निरीक्षितुमारब्धो यावत्पश्यत्यात्मीयं स्नानशाटकम्।
१७२.०१६. स विस्मृत्य कथयति--देव, मदीयोऽयं स्नानशाटको वायुनोपक्षिप्त इहागत इति।
१७२.०१७. कुमार, तव दिव्यमानुष्यकी श्रीः प्रादुर्भूता? देव, प्रादुर्भूता।
१७२.०१८. कुमार, यद्येवम्, किमर्थं न निमन्त्रयसि? देव, निमन्त्रितो भव्
१७२.०१९. गच्छ, भक्तं सज्जीकुरु।
१७२.०१९. देव, यस्य दिव्यमानुषी श्रीः प्रादुर्भूता, किं तेन सज्जीकर्तव्यम्? ननु सज्जीकृतमेव, गच्छेति।
१७२.०२०. स ज्योतिष्कस्य गृहं गतः।
१७२.०२०. राजा बाह्यं परिजनं दृष्ट्वा इन्द्रियाण्युत्क्षिपति।
१७२.०२१. देव, किमर्थमिन्द्रियाण्युत्क्षिपसि।
१७२.०२१. स कथयति--कुमार, वधूजनोऽयमिति कृत्वा।
१७२.०२२. देव नायं वधूजनः, बाह्योऽयं परिजनः।
१७२.०२२. स परं विस्मयमापन्नः।
१७२.०२२. पुनर्मध्यं जनं दृष्ट्वा इन्द्रियाण्युत्क्षिप्तुमारब्धः।
१७२.०२३. तथैव पृच्छति।
१७२.०२३. राजा अपि तथैव कथयति।
१७२.०२३. ज्योतिष्कः कथयति--देव, अयमपि न वधूजनः, किं तु मध्योऽयं जनः।
१७२.०२४. स भूयस्या मात्रया परं विस्मयमापन्नः।
१७२.०२४. तस्य मध्यमायां द्वारशालायां मणिभूमिरुपरचिता।
१७२.०२५. तस्यां मत्स्या उदकपूर्णायामिव यन्त्रयोगोपरिभ्रमन्तो दृश्यन्त्
१७२.०२६. राजा प्रवेष्टुकामो वापीति कृत्वोपानहौ मोक्तुमारब्धः।
१७२.०२६. ज्योतिष्कः कथयति--देव कस्यार्थे उपानहौ अपनयसीति? स कथयति--कुमार, पानीयमुत्तर्त्तव्यमिति।
१७२.०२७. ज्योतिष्कः कथयति--देव नेदं पानीयम्, मणिभूमिरेषा।
१७२.०२८. स कथयति--कुमार, इमे मत्स्या उपरि भ्रमन्तः पश्यन्ति।
१७२.०२९. देव यन्त्रयोगेनैते परिभ्रमन्ति।
१७२.०२९. स न श्रद्धत्त्
१७२.०२९. तेनाङ्गुलिमुद्रा क्षिप्ता।
१७२.०२९. सा रणरणाशब्देन भूमौ पतिता।
१७२.०३०. ततो विस्मयमापन्नः प्रविश्य सिंहासने निषण्णः।
१७२.०३०. वधूजनः पादाभिवन्दन उपसंक्रान्तः।
१७२.०३१. तासामश्रुपातो जातः।
१७२.०३१. राजा कथयति--कुमार, कस्मादयं वधूजनो रोदिति? देव नायं रोदिति, किं तु देवस्य काष्ठधूमेन वस्त्राणि धूपितानि, तेन <१७३>आसामश्रुपतो जात इति।

१७३.००१. राजा तत्र दिव्यमानुष्या श्रिया उपचर्यमाणः प्रमत्तो न निष्क्रांति।
१७३.००२. राजकृत्यानि राजकरिणीयानि परिहातुमारब्धानि।
१७३.००२. अमात्यैरजातशत्रुः कुमारोऽभिभूतह्--कुमार, देवो ज्योतिष्कस्य गृहं प्रविश्य प्रमत्तः।
१७३.००३. गच्छ, निवेदयेति।
१७३.००३. तेन गत्वा उक्तह्--देव, किमत्र प्रविश्यावस्थितह्? अमात्याः कथयन्ति--राजकृत्यानि राजकरणीयानि परिहीयन्त इति।
१७३.००५. स कथयति--कुमार, न शक्नोषि त्वमेकं दिवसं राज्यं कारयितुम्? किं देवो जानीते--ममैको दिवसः प्रविष्टसय? अद्य देवस्य सप्तमो दिवसो वर्तत्
१७३.००६. राजा ज्योतिष्कस्य मुखं निरीक्ष्य कथयति--कुमार सत्यम्? देव सत्यम्।
१७३.००७. सप्तमेव दिवसो वर्तत्
१७३.००७. कुमार, कथं रात्रिज्ञायते दिवसो वा? देव, पुष्पाणां संकोचविकासान्मणीनां ज्वलनाज्वलनयोगाच्छकुनीनां च कूजनाकूजनात् ।
१७३.००९. सन्ति तानि पुष्पाणि यानि रात्रौ विकसन्ति, दिवा म्लायन्ति? सन्ति यानि दिवा विकसन्ति रात्रौ म्लायन्ति? सन्ति ते मणयो ये रात्रौ ज्वालन्ति, न दिवा? सन्ति ये दिवा ज्वलन्ति, न रात्रौ? सन्ति ते शकुनयो ये रात्रौ कूजन्ति, न दिवा? सन्ति ये दिवा कूज्ञति, न रात्रौ? राजा विस्मयमापन्नः कथयति--कुमार, अवितथवादी भगवान्।
१७३.०१३. यथा त्वं भगवता व्याकृतस्तथैव नान्यथेत्युक्त्वा ज्योतिष्कगृहात्निष्क्रान्तः।
१७३.०१४. अजातशत्रुकुमारेण ज्योतिष्कसन्तको मणिरपहृत्य दारकस्य हस्ते दत्तः।
१७३.०१४. तेन् यत एव गृहीतस्तत्रैव गत्वावस्थितः।
१७३.०१५. अजातशत्रुः कथयति--दारक, आनय तं मणिं पश्यामीति।
१७३.०१५. स मुष्ठिं विघाट्य कथयति--कुमार, न जाने कुत्र गत इति।
१७३.०१६. स तं ताडयितुमारब्धः।
१७३.०१६. ज्योतिष्कः कथयति--कुमार, किमर्थमेनं ताडयसि? घपते, अहं चौरः, एष महाचौरः।
१७३.०१७. मया त्वदीयो मणिरपहृतः, सोऽप्यनेनापहृत इति।
१७३.०१८. स कथयति--कुमार, न त्वया अपहृतो नाप्यनेन, अपि तु यत एव त्वया गृहीतस्तत्रैव गत्वा अवस्थितः।
१७३.०१९. अपि तु कुमार, स्वकं ते गृहम्।
१७३.०२०. यावद्भिर्मणिभिरन्येन वा प्रयोजनं तावद्गृहाण यथासुखमिति।
१७३.०२०. स प्रतिभिन्नकः संलक्षयते--यदा पितुरत्ययाद्राजा भविष्यामि, तदा ग्रहीष्यामीति।
१७३.०२१. यदा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः, स्वयमेव च पट्टं बद्ध्वा प्रतितिष्ठितः, तदा तेन ज्योतिष्कोऽभिहितह्--गृहपते, त्वं मम भ्राता भवसि।
१७३.०२३. गृहं भाजयाम इति।
१७३.०२४. स संलक्षयति--येन पिता धार्मिको धर्मराजः प्रघातितः, स मां मर्षयतीति कुत एतत्? नूनमयं मद्गृहमागच्छतु, कामं प्रयच्छामीति विदित्वा कथयति--देव, विभक्तमेव, किमत्र विभक्तव्यम्? मदीयं गृहमागच्छ, अहं त्वदीयं गृहमागच्छामीति।
१७३.०२६. अजातशत्रुः कथयति--शोभनम्।
१७३.०२७. एवं कुरु।
१७३.०२७. स तस्य गृहं गतः।
१७३.०२७. ज्योतिष्कोऽप्यजातशत्रोर्गृहं गतः।
१७३.०२८. सा श्रीस्तस्माद्गृहादन्तर्हिता, यत्र ज्योतिष्कस्तत्रैव गता।
१७३.०२८. एवं यावत्सप्तवारानन्तर्हिता प्रादुर्भूता च्
१७३.०२९. अजातशत्रुः संलक्षयते--एवमपि मया न शकितं ज्योतिष्कस्य मणीनपहर्तुम्।
१७३.०३०. अन्यदुपायं करोमि।
१७३.०३०. तेन धूर्तपुरुषाः प्रयुक्ताह्--गच्छत, ज्योतिष्कस्य गृहान्मणीनपहरतेति।
१७३.०३१. ते हि शीटाकर्कटकप्रयोगेनाभिरोढुमारब्धाः।
१७३.०३१. तेऽन्तःपुरिकया उपरिप्रासादतलगतया दृष्टाः।
१७३.०३२. तया धूर्तधूर्तका इति नादो मुक्तः।
१७३.०३२. ज्योतिष्केण श्रुतम्।
१७३.०३२. तेनाशयतो वाग्निश्चारिता--तिष्ठन्तु <१७४>धूर्तका इति।

१७४.००१. तेषां यो यत्राभिरूढः स तत्रैवास्थितो यावत्प्रभाता रजनी संवृत्ता।
१७४.००२. महाजनकायेन दृष्टाः।
१७४.००२. ते कथयन्ति--भवन्तः, अनेन कलिराजेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः॥
१७४.००३. इदानीं गृहाण्यपि मोषयति।
१७४.००३. तत्किं न मे मोषिष्यत इति? पुरक्षोभो जातः।
१७४.००४. अजातशत्रुणा ज्योतिष्कसय्दूतोऽनुप्रेषितह्--मुञ्चत ममायं खलीकार संलक्षयते--येन नाम पिता जीविताद्व्यपरोपितः, स मां न प्रघातयित्ष्यतीति कुत एतत्? सर्वथा अहं भगवता व्याकृतह्--मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्थत्त्वं साक्षात्करिष्यतीति।
१७४.००८. गच्छामि, प्रव्रजामीति।
१७४.००८. तेन सर्वं घनजातं दीनानाथकृपणेभ्यो दत्तम्।
१७४.००८. अधनाः सधना व्यवस्थापिताः।
१७४.००९. अथ ज्योतिष्को गृहपतिः सुहृत्सम्बन्धिबान्धवानवलोक्य येन भगवांस्तेनोपसंक्रान्तः।
१७४.०१०. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१७४.०१०. एकान्तनिषण्णो ज्योतिष्को गृहपतिर्भगवन्तमिदमवोचत्--लभेयाहां भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
१७४.०१२. चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति।
१७४.०१२. स भगवता एहिभिक्षुकया आभाषितह्--एहि भिक्षो, चर ब्रह्मचर्यमिति।
१७४.०१३. भगवतो वाचावसानमेव मुण्डः संवृत्तः।
१७४.०१४. संघाटीप्रावृतः पात्रकरव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसम्पन्नस्य भिक्षुरीर्यापथेनावस्थितः।
१७४.०१६. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरीतदेहः।
१७४.०१८. सद्यः प्रशान्तेन्द्रिय एव तस्थावुपस्थितो बुद्धमनोरथेन् ।१४॥
१७४.०२०. तस्य भगवता अववादो दत्तः।
१७४.०२०. तेनोद्यच्छमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्यसर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
१७४.०२३. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः।
१७४.०२४. सेन्द्रोपेणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः॥
१७४.०२५. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता ज्योतिष्केण कर्म कृतं येन चितामारोपितः, दिव्यमानुषी श्रीः प्रादुर्भूता, भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतमिति? भगवानाह--ज्योतिष्केणैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंहाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
१७४.०२८. ज्योतिष्केण कर्माणि कृतान्युपचितानि।
१७४.०२९. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कार्माणि कृतान्युपचितानि पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च्

१७५.००१. <१७५>न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
१७५.००२. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१५॥
१७५.००३. भूतपूर्वं भिक्षव एकनवतिकल्पे विपश्यी नाम शास्ता लोक उदपादि तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।
१७५.००५. द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीं राजधानीमनुप्राप्तो बन्धुमत्यां विहरति स्म बन्धुमतीयके दाव्
१७५.००६. तेन खलु समयेन बन्धुमत्यां राजधान्यां बन्धुमान्नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसम्पन्नम्।
१७५.००८. धार्मिको धर्मराजा धर्मेण राज्यं कारयति।
१७५.००९. तस्यानङ्गणो नाम गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी।
१७५.०१०. स संलक्षयते--बहुशो मया विपश्यी सम्यक्सम्बुद्धोऽन्तर्गृहे उपनिमन्त्रय भोजितः।
१७५.०११. न तु कदाचित्त्रैमासीं सर्वोपकरणैः प्रवारितः।
१७५.०१२. यन्न्वहं विपश्यिनं सम्यक्सम्बुद्धं त्रैमासीं सर्वोपकरणैः प्रवारयेयम्।
१७५.०१२. इति विदित्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
१७५.०१३. उपसंक्रम्य विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१७५.०१४. एकान्तनिषण्णमनङ्गणं गृहपतिं विपश्यी सम्यकस्म्बुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
१७५.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
१७५.०१६. अथानङ्गणो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्सम्बुद्धमिदवोचत्--अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति।
१७५.०१९. अधिवासयति विपश्यी सम्यक्सम्बुद्धोऽनङ्गणस्य गृहपतेस्तूष्णीम्भावेन्
१७५.०१९. अथानङ्गणो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः।
१७५.०२१. अश्रौषीद्बन्धुमान् राजा--विपश्यी सम्यक्सम्बुद्धो द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीमनुप्राप्तो बन्धुमत्यां विहरति बन्धुमतीये दावे इति।
१७५.०२३. श्रुत्वा च पुनरस्यैतदभवत्--बहुशो मया भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः।
१७५.०२३. न तु कदाचित्त्रैमासीं सर्वोपकरणैः प्रवारितः।
१७५.०२४. यन्न्वहं विपश्यिनं सम्यक्सम्बुद्धं सर्वोपकरणैः प्रवारयेयम्।
१७५.०२५. इति विदित्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
१७५.०२५. उपसंक्रम्य विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१७५.०२६. एकान्तनिषण्णं बन्धुमन्तं राजानं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
१७५.०२७. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
१७५.०२८. अथ बन्धुमान् राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन्
१७५.०३१. उपनिमन्त्रितोऽस्मि महाराज त्वत्प्रथमतोऽनङ्गणेन गृहपतिना।
१७५.०३१. अधिवासयतु भगवान्, अहं तथा करिष्ये यथा अनङ्गणो गृहपतिराज्ञास्यति।
१७५.०३२. सचेत्ते महाराज अनङ्गणो <१७६>गृहपतिरनुजानीते, एवं तेऽहमधिवासयामि।

१७६.००१. अथ बन्धुमान् राजा विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तो येन स्वं निर्वेशनं तेनोपसंक्रान्तः।
१७६.००३. बन्धुमान् राजा अनङ्गणं गृहपतिं दूतेन प्रक्रोश्येदमवोचत्--यत्खलु गृहपते जानीयात्--अहं त्वत्प्रथमतो विपश्यिनं सम्यकस्म्बुद्धं भोजयामि, ततः पश्चात्तवापि न दुष्करं भविष्यति विपश्यिनं सम्यक्सम्बुद्धं भोजयितुमिति।
१७६.००५. स कथयति--देव, मया विपश्यी सम्यक्सम्बुद्धस्त्वत्प्रथमत उपनिमन्त्रितः।
१७६.००६. अहमेव भोजयामि।
१७६.००६. राजा कथयति--गृहपते, यद्यप्येवम्, तथापि त्वं मम विषयनिवासी।
१७६.००७. नार्हाम्यहं त्वत्प्रथमतो भोजयितुम्? देव, यद्यप्यहं तव विषयनिवासी, तथापि येन पूर्वनिमन्त्रितः स एव भोजयति।
१७६.००८. नात्र देवस्य निर्बन्धो युक्तः।
१७६.००८. न ते गृहपते कामकारं ददामि।
१७६.००९. अपि तु यो भक्तोत्तरिकया जेष्यति, सोऽवशिष्टं कालं भोजयिष्यति।
१७६.०१०. तथा भवतु इत्यनङ्गणो गृहपतिः प्रत्यश्रौषीत् ।
१७६.०१०. तथा अनङ्गणो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थायोदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत्
१७६.०१२. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येनानङ्गणस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः।
१७६.०१४. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
१७६.०१५. अथानङ्गणो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
१७६.०१६. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय्
१७६.०१८. अथ विपश्यी सम्यक्सम्बुद्धोऽनङ्गणं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
१७६.०२०. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समुत्तेज्य संप्रहर्ष्य प्रक्रान्तः।
१७६.०२०. एवं बन्धुमता राज्ञा भोजितः।
१७६.०२१. एष एव ग्रन्थो विस्तरेण कर्तव्यः।
१७६.०२१. म क्वचिद्भक्रोत्तरिकया पराजयति।
१७६.०२२. ततो बन्धुमान् राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः।
१७६.०२२. अमात्याः कथयन्ति--देव, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति? स कथयति--भवन्तः, कथमहं न चिन्तापरस्तिष्ठामि योऽहं मम विषयनिवासिनं कुटुम्बिनं न शक्नोमि भक्तोत्तरिकया पराजयितुम्? ते कथयन्ति, देव, तस्य गृहपतेः काष्ठं नास्ति।
१७६.०२५. काष्ठविक्रयो विधार्यतामीति।
१७६.०२६. राज्ञा घण्टावघोषणं कारितम्।
१७६.०२६. भवन्तः, न केनचित्मद्विषयनिवासिना काष्ठं विक्रेतव्यम्।
१७६.०२७. यो विक्रीणीते, तेन मद्विषये न वस्तव्यमिति।
१७६.०२७. अनङ्गणो गृहपतिर्गन्धकाष्ठैर्भक्तं साधयितुमारब्धः।
१७६.०२८. सुगन्धतैलेन च वस्त्राणि तीमयित्वा खाद्यकान्युल्लाडयितुम्।
१७६.०२८. सुरभिणा गन्धेन सर्वा बन्धुमती नगरी स्फुटा संवृत्ता।
१७६.०२९. बन्धुमान् राजा पृच्छति--भवन्तः, कुत एष मनोज्ञगन्ध इति? तैर्विस्तरेण समाख्यातम्।
१७६.०३०. स कथयति--अहमप्येवं करोमि।
१७६.०३०. किं मम विभवो नास्तीति? अमात्याः कथयन्ति--देव, कस्यार्थे एवं क्रियते? अयं गृहपतिरपुत्रो नचिरात्कालं करिष्यति।
१७६.०३२. देवस्यैव सर्वं सन्तस्वापतेयं भविष्यति।
१७६.०३२. काष्ठविक्रयोऽनुज्ञास्यतामिति<१७७>।

१७७.००१. तेन काष्ठविक्रयोऽनुज्ञातः।
१७७.००१. अनङ्गणेन गृहपतिना श्रुतम्--राज्ञा काष्ठविक्रयोऽनुज्ञात इति।
१७७.००२. तेन चित्तं प्रदूष्य खरा वाग्निश्चारित--तावन्मे भक्तकाष्ठमस्ति, येनाहमेनं सहामात्यं चितामारोप्य ध्मापयामीति।
१७७.००३. राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः।
१७७.००४. अमात्याः कथयन्ति--देव, किमर्थं करे कपोलं दत्त्वा चिन्तापरिस्तिष्ठसीति? तेन विस्तरेण समाख्यातम्।
१७७.००५. ते कथयन्ति--देव, अलं विषादेन्
१७७.००५. वयं तथा करिष्यामो यथा देवश्चानङ्गणं गृहपतिं पराजयतीति।
१७७.००६. तैरपरस्मिन् दिवसे बन्धुमती राजधानी अपगतपाषाणशर्करकठल्या व्यवस्थापिता चन्दनवारिपरिषिक्ता सुरभिधूपघटिकोपनिबन्द्धा आमुक्तपट्टदामकलापा उच्छ्रितध्वजपताका नानापुष्पावकीर्णा नन्दनवनोद्यानसदृशा।

१७७.००८. तत्प्रतिस्पर्धशोभाविभूषितो मण्डवाटः कारितः।
१७७.००९. तस्मिन्नानारत्नविभूषितासनवसनसम्पन्नशोभासनप्रज्ञप्तिः कारिता।
१७७.०१०. मृदुविशदसुरभिगन्धसम्पन्नो विविधभक्तव्यञ्जनसहितो दिव्यसुधामनोज्ञसंकाशस्रैलोक्यगुरोरनुरूप आहार उपसमन्वाहृतः।
१७७.०११. ततो बन्धुमान् राजा दृष्ट्वा परं विस्मयमापन्नः।
१७७.०१२. ततो विस्मयावर्जितचित्तसंततिर्विपश्यिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समये भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति।
१७७.०१४. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन बन्धुमतो राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः।
१७७.०१६. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
१७७.०१७. बन्धुमतो राज्ञो मङ्गल्याभिषेको हस्तिनागो विपश्यिनः सम्यक्सम्बुद्धस्य शतशलाकं छत्रमुपरि मूर्ध्नो धारयति, अवशिष्टा हस्तिनाहा भिक्षूणाम्।
१७७.०१८. बन्धुमतो राज्ञोऽग्रमहिषी विपश्यिनं सम्यक्सम्बुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अन्तःपुरिका अवशिष्टानां भिक्षूणाम्।
१७७.०२०. अनङ्गणेन गृहपतिना अवचरकः पुरुषः प्रेषितह्--गच्छ भोः पुरुष, पश्य कीदृशेनाहारेण बन्धुमान् राजा बुद्धप्रमुखं भिक्षुसंघं भोजयतीति।
१७७.०२१. स गतस्तां विभूतिं दृष्ट्वा विस्मयावर्जितमनास्तत्रैवावस्थितः।
१७७.०२२. एवं द्वितीयः, तृतीयः प्रेषितः।
१७७.०२३. सोऽपि तत्रैव गत्वा अवस्थितः।
१७७.०२३. ततोऽनङ्गणो गृहपतिः स्वयमेव गतः।
१७७.०२३. सोऽपि तां विभूतिं दृष्ट्वा परं विषादमापन्नः संलक्षयति--शक्यमन्यत्संपादयितुम्।
१७७.०२४. किं तु हस्तिनामन्तःपुरस्य च कुतो मम विभवह्? इति विदित्वा निवेशनं गतो दौवारिकं पुरुषमामन्त्रयते--भोः पुरुष, यदि कश्चिद्याचनक आगच्छति, स यत्प्रार्थयते तद्दातव्यम्, नो तु प्रवेशः।
१७७.०२६. इत्युक्त्वा शोकागारं प्रविश्य अवस्थितः।
१७७.०२७. शक्रस्य देवेन्द्रस्याधस्तात्ज्ञानदर्शनं प्रवर्तत्
१७७.०२७. स संलक्षयति--ये केचिल्लोके दक्षिणीयाः, विपश्यी सम्यक्सम्बुद्धस्तेषामग्रः, दानपतीनामप्यनङ्गणो गृहपतिः।
१७७.०२९. साहाय्यमस्य कल्पयितव्यम्।
१७७.०२९. इति विदित्वा कौशिको ब्राह्मणवेषमभिनिर्माय येनानङ्गणस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः।
१७७.०३०. उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते--गच्छ भोः पुरुष, अनङ्गणस्य गृहपतेः कथय--कौशिकगोत्रो ब्राह्मणो द्वारे तिष्ठति भवन्तं द्रष्टुकाम इति।
१७७.०३१. स कथयति--ब्राह्मण, गृहपतिना अहं स्थापितह्--यः कश्चिद्याचनक आगच्छति, स यत्प्राथयते<१७८>, तद्दातव्यं न तु प्रवेश इति।

१७८.००१. येन ते प्रयोजनं तद्गृहीत्वा गच्छ्
१७८.००१. किं ते गृहपतिना दृष्टेनेति? स कथयति--भोः पुरुष, न मम केनचित्प्रयोजनम्।
१७८.००२. अहं गृहपतिमेव द्रष्टुकामः।
१७८.००३. गच्छेति।
१७८.००३. तेनानङ्गणस्य गृहपतेर्गत्वा निवेदितम्--आर्य, कौशिकसगोत्रो ब्राह्मणो द्वारे तिष्ठति आर्यं द्रष्टुकाम इति।
१७८.००४. स कथयति--गच्छ भोः पुरुष, येन तय्स प्रयोजनं तत्प्रयच्छ--किं तेनात्र प्रविष्टेनेति? स कथयति--आर्य, उक्तो मया एवं कथयति--नाहं किंचित्प्रार्थयामि, अपि तु गृहपतिमेव द्रष्टुकाम इति।
१७८.००६. स कथयति--भोः पुरुष यद्येवम्, प्रवेशय्
१७८.००६. स तेन प्रवेशितः।
१७८.००७. ब्राह्मणः कथयति--कस्मात्त्वं गृहपते करे कपोलं चिन्तापरस्तिष्ठसीति? स गृहपतिर्गाथां भाषते--
१७८.००९. न तस्य कथयेच्छोकं यः शोकान्न प्रमोचयेत् ।
१७८.०१०. तस्मै तु कथयेच्छोकं यः शोकात्सम्प्रमोचयेत् ॥१६॥िति।
१७८.०११. शक्रः कथयति--गृहपते, कस्तव शोकह्? कथय, अहं ते शोकात्प्रमोचयामीति।
१७८.०११. तेन विस्तरेण समाख्यातम्।
१७८.०१२. अथ शक्रो देवेन्द्रः कौशिकब्राह्मणरूपमन्तर्धाप्य्स्वरूपेण स्थित्वा कथयति--गृहपते, विश्वकर्मा ते देवपुत्रः साहाय्यं कल्पयिष्यतीत्युक्त्वा प्रक्रान्तः।
१७८.०१३. अथ शक्रो देवेन्द्रो देवांस्त्रायस्त्रिंशान् गत्वा विश्वकर्माणं देवपुत्रमामन्त्रयते--गच्छ, विश्वकर्मन्, अनङ्गणस्य गृहपतेः साहाय्यं कल्पय्
१७८.०१५. परं भद्रं तव कौशिकेति विश्वकर्मणा देवपुत्रेण शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य आगतः।
१७८.०१६. प्रतिविशिष्टतरा नगरशोभा निर्मिता, दिव्यो मण्डलवाटो दिव्यासनप्रज्ञप्तिर्दिव्य आहारः समन्वाहृतः।
१७८.०१७. ऐरावणो नागराजो विपश्यिनः सम्यक्सम्बुद्धस्य शतशलाकं छत्रमुपरि मूर्ध्नो धारयति, अवशिष्टा नागा अवशिष्टानां भिक्षूणाम्।
१७८.०१८. शची देवकन्या विपश्यिनं सम्यक्सम्बुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अप्सरसो भिक्षून्।
१७८.०१९. बन्धुमता राज्ञा अवचरकः पुरुषः प्रेषितह्--गच्छ भोः पुरुष, कीदृशेनाहारेणानङ्गणो गृहपतिर्बुद्धप्रमुखं भिक्षुसंघं तर्पयतीति? स पुरुषस्तत्र गतस्तां विभूतिं दृष्ट्वा तत्रैव अवस्थितः।
१७८.०२१. तेनामात्यः प्रेषितः।
१७८.०२२. सोऽपि तत्रैवावस्थितः।
१७८.०२२. कुमारः प्रेषितः।
१७८.०२२. सोऽपि तत्रैवास्थितः।
१७८.०२२. ततो बन्धुमान् राजा स्वयमेव तद्द्वारं गत्वा अवस्थितः।
१७८.०२३. विपश्यी सम्यक्सम्बुद्धः कथयति--गृहपते, बन्धुमान् राजा दृष्टसत्यः।
१७८.०२४. तस्यान्तिके त्वया खरवाक्कर्म निश्चारितम्।
१७८.०२४. स एव द्वारे तिष्ठति।
१७८.०२५. गच्छ क्षमयेति।
१७८.०२५. तेनासौ निर्गत्य क्षमित उक्तश्च--महाराज, प्रविश स्वहस्तेन परिवेषणं कुरु।
१७८.०२६. स प्रविष्टः।
१७८.०२६. पश्यति दिव्या विभूतिम्।
१७८.०२६. दृष्ट्वा च परं विस्मयमापन्नः कथयति--गृहपते, त्वमेवैकोऽर्हसि दिने दिने बुद्धप्रमुखं भिक्षुसंघं भोजयितुं न वयंती।
१७८.०२७. अथानङ्गणो गृहपतिर्विपश्यिनं सम्यक्सम्बुद्धमनया विभूत्या त्रैमास्यं प्रणीतेनाहारेण संतर्प्य पादयोर्निपत्य प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारा कृता, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, दिव्यमानुषीं श्रियं प्रत्यनुभवेयम्, एवंविधानां धर्माणां लाभी स्याम्, एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥

१७९.००१. <१७९>किं मन्यध्वे भिक्षवो योऽसौ अनङ्गणो नाम गृहपतिः, एष एवासौ ज्योतिष्कः कुलपुत्रस्तेन कालेन तेन समयेन्
१७९.००२. यदनेन बन्धुमतो राज्ञो दृष्टसत्यस्यान्तिके खरा वाग्निश्चारिता, तस्य कर्मणो विपाकेन पञ्चशतानि समातृकश्चितायामारोप्य ध्मापितः।
१७९.००३. यावदेतर्हि अपि चितामारोप्य ध्मापितः।
१७९.००४. यद्विपश्यिनि तथागते कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः।
१७९.००५. दिव्यमानुषी श्रीः प्रादुर्भूता।
१७९.००५. मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
१७९.००६. अहमनेन विपश्यिना सम्यक्सम्बुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः।
१७९.००७. इति हि भिक्षवहेकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
१७९.००९. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
१७९.०१०. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
१७९.०११. इदमवोचद्भगवान्।
१७९.०११. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


१७९.०१२. इति दिव्यावदाने ज्योतिष्कावदानमूनविंशतिमम्॥


                    • अवदान २० **********


१८०.००१. दिव्२० कनकवर्णावदानम्।

१८०.००१. एवं मया श्रुतम्।
१८०.००१. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डददस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः।
१८०.००२. सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभी राजभी राजमात्रैर्नानातीर्थिकश्रमणब्राहमणचरकपरिब्राजकैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैर्गन्धर्वैः किन्नरैर्महोरहैः।
१८०.००४. लाभी भगवान् प्रभूतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां मानुषाणां च्
१८०.००७. तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा।
१८०.००७. भगवतश्चायमेवम्रूपो दिग्विदिक्षु उदारकल्याणकीर्तिशब्दश्लोकोऽभ्युद्गतह्--इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।
१८०.००९. स इमं सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषीं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य प्रवेदयत्
१८०.०११. स धर्मं देशयति आदौ कल्याणं मध्ये पर्यवसाने कल्याणम्।
१८०.०१२. स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति।
१८०.०१३. तत्र भगवान् भिक्षूनामन्त्रयते स्म--सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, अपीदानीं योऽसौ अपश्चिमः कवलश्चरम आलोपः, ततोऽप्यदत्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्।
१८०.०१६. न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत् ।
१८०.०१७. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ते दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्माद्धेतोरदत्त्वा असंविभज्य परिभुज्यन्ते आगृहीतेंश्चेतसा।
१८०.०१९. उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति।
१८०.०२०. तत्कस्य हेतोह्?
१८०.०२१. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि राजाभूत्कनकवर्णो नाम अभिरूपो दर्शनीयः प्रासादिकः परमया सुवर्णपुष्कलतया समन्वागतः।
१८०.०२२. राजा भिक्षवः कनकवर्ण आढ्यो महाधनो महाभोगः।
१८०.०२३. प्रभूतसत्त्वस्वापतेयः प्रभूवित्तोपकरणः प्रभूतधनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालरजतजातरूपः प्रभूतहस्त्यश्वगवेडकः परिपूणकोशकोष्ठागारः।
१८०.०२४. राज्ञः कनकवर्णस्य खलु भिक्षवः कनकावती नाम राजधानी बभूव पूर्वेण पश्चिमेन च द्वादश योजयान्यामेन, दक्षिणेनोत्तरेण च सप्त योजनानि च विस्तारेण्
१८०.०२६. ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च रमणीया च्
१८०.०२७. राज्ञः कनकवर्णस्याशीतिर्नगरसहस्राण्यभूवन्।
१८०.०२८. अष्टादश कुलकोटी ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि।
१८०.०२९. सप्तपञ्चाशद्ग्रामकोट्य ऋद्धाः स्फीताः क्षेमाः सुभिक्षा रमणीया महाजनाकीर्णमनुष्याः।
१८०.०३०. षष्टिः कर्वटसहस्राण्यभूवन्नृद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि।
१८०.०३१. राज्ञः कनकवर्णस्याष्टादशामात्यसहस्राण्यभूवन्।
१८०.०३१. विंशतिस्त्रीसहस्राण्यन्तःपुरमभूत् ।
१८०.०३२. राजा भिक्षवः कनकवर्णो धार्मिको बभूव्
१८०.०३२. धर्मेण राज्यं कारयति॥

१८१.००१. <१८१>अथापरेण समयेन राज्ञः कनकवर्णस्य एकाकिनो रहोगतस्य प्रतिसम्लीनस्य एवं चेतसि चेतःपरिवितर्कमुदपादि--यन्न्वहं सर्ववणिजोऽशुल्कानगुल्मान्मुञ्चेयम्।
१८१.००२. सर्वजाम्बुद्वीपकान्मनुष्यानकारानगुल्मान्मुञ्चेयमिति।
१८१.००३. अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपरिषद्यानामन्त्रयते--अद्याग्रेण वो ग्रामण्यः सर्ववणिजोऽशुल्कान्मुञ्चामि, सर्वजाम्बुद्वीपकान्मनुष्यानकारानशुल्कान्मुञ्चामि।
१८१.००५. तस्यानेनोपायेन बहूनि वर्षाणि राज्यं कारयतोऽपरेण समयेन नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षति।
१८१.००६. अथ ब्राह्मणा लक्षणज्ञा नैमित्तिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितेषु तत्संलक्षयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः।
१८१.००८. अपसंक्रम्य राजानं कनकवर्णमिदमवोचन्--यत्खलु देवो जानीयात्--नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षिष्यति।
१८१.००९. अथ राजा कनकवर्ण इदमेवम्रूपं निर्घोषं श्रुत्वा अश्रूणि प्रवर्तयति--अहो बत मे जाम्बुद्वीपका मनुष्याः, अहो बत मे जम्बुद्वीपहृद्धः स्फीतः क्षेमः सुभिक्षो रमणीयो बहुजनाकीर्णमनुष्यो नचिरादेव शून्यो भविष्यति रहितमनुष्यः।
१८१.०१२. अथ राज्ञः कनकवर्णस्य मुहूर्तं शोचित्वा एतदभवत्--य इमे आढ्या महाधना महाभोगाः, ते शक्ष्यन्ति यापयितुम्।
१८१.०१३. य इमे दरिद्रा अल्पधना अल्पान्नपानभोगाः, ते कथं यापयिष्यन्ति? तस्यैतदभवत्--यन्न्वहं जम्बुद्वीपादन्नाद्यं संहरेयम्, सर्वजाम्बुद्वीपान् सत्त्वान् गणयेयम्।
१८१.०१५. अथ गणयित्वा मापयेयम्, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं कारयेयम्।
१८१.०१६. एकं कोष्ठागारं कारयित्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रत्यर्पयेयमिति।
१८१.०१७. अथ कनकवर्णो राजा गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते--गच्छत यूयं ग्रामण्यः, सर्वजम्बुद्वीपादन्नाद्यं संहृत्य गणयत, गणयित्वा मापयत, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं स्थापयत्
१८१.०१९. परं देवेति गणकमहामात्रामात्यदौवारिकपारिषद्या राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजम्बुद्वीपादन्नाद्यं गणयन्ति, गणयित्वा मापयन्ति, मापयित्वा सर्वद्रामनगरनिगमकर्वटराजधानीष्वेकस्मिन् कोष्ठागारे स्थापयन्ति।

१८१.०२१. एकस्मिन् कोष्ठागारे स्थापयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः।
१८१.०२२. उपसंक्रम्य राजानं कनकवर्णमिदमवोचत्--यत्खलु देव जानीयाह्--सर्वग्रामनगरनिगमकर्वटराजधानीष्वन्नाद्यं संहृतम्, संहृत्य गणितम्, गणयित्वा मापितम्, मापयित्वा सर्वग्रामनगरनिगमराजधानीष्वेकस्मिन् कोष्ठागारे सथापितं यस्येदानीं देवः कालं मन्यत्
१८१.०२५. अथ राजा कनकवर्णः संख्यागणकलिपिकपौरुषेयानामन्त्रयित्वा एतदवोचत्--गच्छत यूयं ग्रामण्यः, सर्वजाम्बुद्वीपकान्मनुष्यान् गणयत, गणयित्वा ग्रामण्यः सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रयच्छत्
१८१.०२७. परं देवेति संख्यागणकलिपिकपौरुषेया राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजाम्बुद्वीपकान्मनुष्यान् गणयन्ति, संगण्य राजानं कनकवर्णमादौ कृत्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रज्ञपयन्ति।
१८१.०३०. ते यापयन्त्येकादशवर्षाणि, द्वादशवर्षं न यापयन्ति।
१८१.०३०. निर्गतो द्वादशस्य वर्षस्यैको मासो यावद्बहवः स्त्रीपुरुषदारकदारिका जिघत्सिताः पिपासिताः कालं कुर्वन्ति।
१८१.०३१. तेन् खलु पुनः समयेन सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणमन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा॥

१८२.००१. <१८२>तेन खलु समयेन अन्यतमश्चत्वारिंशत्कल्पसम्प्रस्थितो बोधिसत्त्व इमां सहालोकधातुमनुप्राप्तो बभूव्
१८२.००२. अद्राक्षीद्बोधिसत्त्वोऽन्यतरस्मिन् बनषण्डे पुत्रं मात्रा सार्धं विप्रतिपद्यमनम्।
१८२.००३. दृष्ट्वा च पुनरस्यैतदभवत्--क्लिश्यन्ति बतेमे सत्त्वाः, संक्लिश्यन्ति बतेमे सत्त्वाः, यत्र हि नाम अस्यामेव नव मासान् कुक्षौ उषित्वा, अस्या एव स्तनौ पीत्वा, अत्रैव कालं करिष्यति इति।
१८२.००५. अलं मे ईदृशैः सत्त्वैरधार्मिकैरधर्मरागरक्तैर्मिथ्यादृष्टकैर्विषमलोभाभिभूतैरमातृरज्ञैश्रामण्यरैब्राह्मण्यैरकुले ज्येष्ठापचायकैः।
१८२.००६. क उत्सहत ईदृशानां सत्त्वानामर्थाय बोधिसत्त्वचर्यां चरितुम्? यन्न्वहं स्वके कार्ये प्रतिपद्येयम्।
१८२.००७. अथ बोहिसत्त्वो येनान्यतरद्वृक्षमूलं तेनोपसंक्रान्तः।
१८२.००८. उपसंक्रम्य तस्मिन् वृक्षमूले निषण्णः।
१८२.००८. पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरति यदुतेदं रूपम्, अयं रूपसमुदयः, अयं रूपस्यास्तंगमः, इयं वेदना, इयं संज्ञा, इमे संक्राराः, इदं विज्ञानम्, अयं विज्ञानसमुदयः, अयं विज्ञानस्यास्तंगम इति।
१८२.०११. स एवं पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरन्नचिरादेव यत्किंचित्समुदयधर्मकं तत्सर्वं निरोधधर्मकमिति विदित्वा तत्रैव प्रत्येकां बोधिमधिगतवान्।
१८२.०१३. अथ भगवान् प्रत्येकबुद्धो यथाप्राप्तानवलोक्य तस्यां वेलायां गाथां भाषते--
१८२.०१४. संसेवमानस्य भवन्ति स्नेहाः स्नेहान्वयं संभवतीह दुःखम्।
१८२.०१६. आदीनवं स्नेहगतं विदित्वा एकश्चरेत्खङ्गविषाणकल्पः॥१॥िति।
१८२.०१८. अथ तस्य भगवतः प्रत्येकबुद्धस्यैतदभवत्--बहूनां मे सत्त्वानामर्थाय दुष्कराणि चीर्णानि, न च कस्यचित्सत्त्वस्य हितं कृतम्।
१८२.०१९. कमद्याहमनुकम्पेयम्, कस्याहमद्य पिण्डपातमाहृत्य परिभुञ्जीय? अथ भगवान् प्रत्येकबुद्धो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सर्वावन्तमिमं जम्बुद्वीपं समन्तादनुविलोकयन्नद्राक्षीत्स भगवान् प्रत्येकबुद्धः सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा।
१८२.०२२. तस्यैतदभवत्--यन्न्वहं राजानं कनकवर्णमनुकम्पेयम्।
१८२.०२३. यन्न्वहं राज्ञः कनकवर्णस्य निवेशनात्पिण्डपातमहृत्य परिभुञ्जीय्
१८२.०२४. अथ भगवान् प्रत्येकबुद्धस्ततेव ऋद्ध्या विहायसमभ्युद्गम्य दृश्यता कायेन शकुनिरिव ऋद्ध्या येन कनकावती राजधानी तेनोपसंक्रान्तः।
१८२.०२५. तेन खलु समयेन राजा कनकवर्ण उपरिप्रासादतलगतोऽभूत्पञ्चमात्रैरमात्यसहस्रैः परिवृतः।
१८२.०२६. अद्राक्षीदन्यतमो महामात्रस्तं भगवन्तं प्रत्येकबुद्धं दूरत एवागच्छन्तम्।
१८२.०२७. दृष्ट्वा च पुनर्महामात्रानामन्त्रयते--पश्यत पश्यत ग्रामण्यः।
१८२.०२८. दूरत एव लोहितपक्षः शकुन्त इहागच्छति।
१८२.०२८. द्वितीयो महामात्र एवमाह--नैष ग्रामण्यो लोहितपक्षः शकुन्तः, राक्षस एव ओजोहार इहागच्छति।
१८२.०२९. एषोऽस्माकं भक्षयिष्यति।
१८२.०३०. अथ राजा कनकवर्ण उभाभ्यां पाणिभ्यां मुखं संपरिमार्ज्य महामात्रानामन्त्रयते--नैष ग्रामण्यो लोहितपक्षः शकुन्तः, न च राक्षस ओजोहारः।
१८२.०३१. ऋषिरेषोऽस्माकमनुकम्पयेहागच्छति।
१८२.०३२. अथ स भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्य प्रासादे प्रत्यष्ठात् ॥

१८३.००१. <१८३>अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमुत्थायासनात्प्रत्युद्गम्य पादौ शिरसा वन्दित्वा प्रज्ञप्त एवासने निषीदयति।
१८३.००२. अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमिदमवोचत्--किमर्थमृषे इहाभ्यागमनम्? भोजनार्थं महाराज्
१८३.००३. एवमुक्ते राजा कनकवर्णः प्रारोदीत् ।
१८३.००४. अश्रूणि प्रवर्तयन्नेवमाह--अहो मे दारिद्र्यम्, अहो दारिद्र्यम्, यत्र हि नाम जम्बुद्वीपैश्वर्याधिपत्यं कारयित्वा एकस्यापि ऋषेरसमर्थः पिण्डपातं प्रतिपादयितुम्।
१८३.००५. अथ या कनकावत्यां राजधान्यामध्युषिता देवता, सा राज्ञः कनकवर्णस्य पुरस्ताद्गाथां भाषते--
१८३.००७. किं दुःखं दारिद्र्यं किं दुःखतरं तदेव दारिद्र्यम्।
१८३.००८. मरणसमं दारिद्र्यम्॥२॥
१८३.००९. अथ राजा कनकवर्णः कोष्ठागारिकं पुरुषमामन्त्रयते--अस्ति भोः पुरुष, मम निवेशने किंचिद्भक्तम्, यदहमस्य ऋषेः प्रदास्यामि? स एवमाह--यत्खलु देव जानीयाह्--सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र देवस्यैका मानिका भक्तस्यावशिष्टा।
१८३.०११. अथ राज्ञः कनकवर्णस्यैतदभवत्--सचेत्परिभुञ्जे, जीविष्य्
१८३.०१२. अथ न परिभोक्ष्ये, मरिष्य्
१८३.०१२. तस्यैतदभवत्--यदि परिभोक्ष्ये, यदि वा न परिभोक्ष्ये, अवश्यं मया कालः कर्तव्यः।
१८३.०१३. अलं मे जीवितेन्
१८३.०१३. कथं नामेहेदृश ऋषिः शीलवान् कल्याणधर्मा मम निवेशनेऽद्य यथाधौतेन पात्रेण निर्गमिष्यति? अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यान् संनिपात्यैवमवोचत्--अनुमोदत यूयं ग्रामण्यः, अयं राज्ञः कनकवर्णस्यापश्चिम ओदनातिसर्गः।
१८३.०१६. अनेन कुशलमूलेन सर्वजाम्बुद्वीपकानां मनुष्याणां दारिद्र्यसमुच्छेदः स्यात् ।
१८३.०१७. अथ राजा कनकवर्णस्तस्य महर्षेस्तत्पात्रं गृहीत्वा एकां मानिकां भक्तस्य पात्रे प्रक्षिप्य उभाभ्यां पाणिभ्यां पात्रं गृहीत्वा जानुभ्यां निपत्य तस्य भगवतः प्रत्येकबुद्धस्य दक्षिणे पाणौ पात्रं प्रतिष्ठापयति।
१८३.०१९. धर्मता पुनर्भगवतां प्रत्येकबुद्धानां कायिकी धर्मदेशना न वाचिकी।
१८३.०२०. अथ भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्यान्तिकात्पिण्डपात्रमादाय ततेव ऋद्ध्या उपरिविहायसा प्रक्रान्तः।
१८३.०२२. अथ राजा कनकवर्णः प्राञ्जलिर्भूत्वा तावदनिमिषं प्रेक्षमाणोऽस्थात्, यावच्चक्षुष्पथादतिक्रान्त इति।
१८३.०२३. अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते--गच्छत ग्रामण्यः स्वकस्वकानि निवेशनानि।
१८३.०२४. मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ्
१८३.०२५. त एवमाहुह्--यदा देवस्य श्रीसौभाग्यसम्पदासीत्, तदा वयं देवेन सार्धं क्रीडता रमता कथं पुनर्वयमिदानीं देवं पश्चिमे काले पश्चिमे समये परित्यक्ष्याम इति।
१८३.०२६. अथ राजा कनकवर्णः प्रारोदीत् ।
१८३.०२७. अश्रूणि प्रवर्तयति।
१८३.०२७. अश्रूणि संपरिमार्ज्य गणकमहामात्रामात्यदौवारिकपारिषद्यानिदमवोचत्--गच्छत ग्रामण्यो यथास्वकस्वकानि निवेशनानि।
१८३.०२८. मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ्
१८३.०२९. एवमुक्ता गणकमहामात्रामात्यदौवारिकपारिषद्याः प्ररुदन्तोऽश्रूणि प्रवर्तयन्तोऽश्रूणि संपरिमार्ज्य येन राजा कनकवर्णस्तेनोपसंक्रान्ताः।
१८३.०३०. उपसंक्रम्य राज्ञः कनकवर्णस्य पादौ शिरसा वन्दित्वा अञ्जलिं कृत्वा राज्ञः कनकवर्णस्यैतदूचुह्--क्षन्तव्यं ते यदस्माभिः किंचिदपराद्धम्।
१८३.०३२. अद्यास्माकं देवस्यापश्चिमं दर्शनम्॥

१८४.००१. <१८४>तद्यथा तेन भगवता प्रत्येकबुद्धेन स पिण्डपात्रः परिभुक्तः, अथ तस्मिन्नेव क्षणे समन्ताच्चतसृषु दिक्षु चत्वार्यभ्रपटलानि व्युत्थितानि, शीतलाश्च वायवो वातुमारब्धाः, ये जम्बुद्वीपादशुचिं व्यपनयन्ति, मेघाश्च प्रवर्षयन्तः पांशूञ्शमयन्ति।
१८४.००३. अथ तस्मिन्नेव दिवसे द्वितीयेऽर्धभागे विविधस्य खादनीयभोजनीयस्य वर्षं प्रवर्षति।
१८४.००४. इदमेवम्रूपं भोजनमोदनसक्तवः कुल्माषमत्स्यमांसम्, इदमेवम्रूपं खादनीयं मूलखादनीयं स्कन्धखादनीयं पत्रखादनीयं पुष्पखादनीयं फलखादनीयं तिलखादनीयं खण्डशर्करगुडखादनीयं पिष्टखादनीयम्।
१८४.००६. अथ राजा कनकवर्णो हृष्टतुष्टहुदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो गणकमहामात्रामात्यदौवारिकपार्षद्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यः, अद्यैव तस्यैकपिण्डपातदानस्याङ्कुरः प्रादुर्भूतः।
१८४.००९. फलमन्यद्भविष्यति॥
१८४.०१०. अथ द्वितीये दिवसे सप्ताहं धान्यवर्षं प्रवर्षन्ति, तद्यथा--तिलतण्डुला मुद्गमाषा यवा गोधूममसूराः शालयः।
१८४.०११. सप्ताहं सर्पिवर्षं प्रवर्षन्ति, सप्ताहं कर्पासवर्षं प्रवर्षन्ति, सप्ताहं नानाविधदूष्यवर्षं प्रवर्षन्ति, सप्ताहं सप्तरत्नानां वर्षं प्रवर्षन्ति, सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य्
१८४.०१३. सर्वस्य राज्ञः कनकवर्णस्यानुभावेन जाम्बुद्वीपकानां मनुष्याणां दारिद्र्यसमुच्छेदो बभूव् ।
१८४.०१५. स्यात्खलु भिक्षवो युष्माकं काङ्क्षा विमतिर्वा अन्यः स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव्
१८४.०१६. न खल्वेवं द्रष्टव्यम्।
१८४.०१६. अहं स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव्
१८४.०१७. तदनेन भिक्षवः पर्यायेण वेदितव्यम्।
१८४.०१७. सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकम्--अपीदानीं योऽसौ अपश्चिमकः कवलश्चरम आलोपः, ततोऽप्यदत्त्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्।
१८४.०१९. न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठति।
१८४.०२०. यस्मात्तर्हि भिक्षवः सत्त्वा न जानते दानस्य फलं दानसंविभागस्य च फलविपाकम्--यथा अहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्तेऽदत्त्वा असंविभज्य परिभुञ्जते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादत्तं तिष्ठति।
१८४.०२४. न नश्यते पूर्वकृतं शुभाशुभं न नश्यते सेवनं पिण्डतानाम्।
१८४.०२६. न नश्यते आर्यजनेषु भाषितं कृतं कृतज्ञेषु न जातु नश्यति॥३॥
१८४.०२८. सुकृतं शोभनं कर्म दुष्कृतं वाप्यशोभनम्।
१८४.०२९. अस्ति चैतस्य विपाको अवश्य दास्यते फलम्॥४॥
१८४.०३०. इदमवोचद्भगवान्।
१८४.०३०. आत्तमनसस्ते भिक्षवो भिक्षुण्युपासकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयः सर्वावती च पर्षद्भगवतो भाषितमभ्यनन्दन्॥


१८४.०३२. इति श्रीदिव्यावदाने कनकवर्णावदानं विंशतिमम्।


                    • अवदान २१ **********


१८५.००१. दिव्२१ सहसोद्गतावदानम्।

१८५.००२. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप्
१८५.००२. आचरितमायुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चारिकां चरितुं प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्।
१८५.००४. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिरश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिच्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति।
१८५.००७. यस्य कस्यचित्सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान्महामौद्गल्यायन एनं सम्यगववदिष्यति, अनुशासिष्यतीति।
१८५.००९. तमायुष्मान्महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति।
१८५.०१०. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगनुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति।
१८५.०११. तेन खलु समयेनाउष्मान्महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभिश्च्
१८५.०१३. जानकाः पृच्छका बुद्धा भगवन्तः।
१८५.०१३. पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्।
१८५.०१४. स कथयति--आचरितं भदन्त आयुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चरिकां प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्।
१८५.०१५. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिर्यश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिव्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति।
१८५.०१८. यस्य कस्यचित्सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान्महामौद्गल्यायन एव सम्यगववदिष्यति सम्यगनुशासिष्यतीति, तमायुष्मान्महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति।
१८५.०२१. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगवुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति।
१८५.०२३. अयं भदन्त हेतुरयं प्रत्ययो येनायुष्मान्महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिक्षुण्युपासकोपासिकाभिः।
१८५.०२४. न सर्वत्र आनन्द मौद्गल्यायनो भिक्षुर्भविष्यति मौद्गल्यायनसदृशो वा।
१८५.०२५. तस्माद्द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यम्।
१८५.०२६. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति।
१८५.०२६. भिक्षवो न जानते कीदृशं कारयितव्यमिति।
१८५.०२७. भगवानाह--पञ्च गतयः कर्तव्या नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च्
१८५.०२८. तत्राधस्तात्नरकाः कर्तव्याः, तिर्यञ्चः प्रेताश्च, उपरिष्टात्देवा मनुष्याश्च्
१८५.०२९. चत्वारो द्वीपाः कर्तव्याः पूर्वविदेहोऽपरगोदानीय उत्तरकुरुर्जम्बुद्वीपश्च्
१८५.०२९. मध्ये रागद्वेषमोहाः कर्तव्याः, रागः पारावताकारेण, द्वेषो भुजङ्गाकारेण, मोहः सूकराकारेण्
१८५.०३०. बुद्धप्रतिमाश्चैतन्निर्वाणमण्डलमुपदर्शयन्त्यः कर्तव्याः।
१८५.०३१. अनुपपादुकाः सत्त्वा घटीयन्त्रप्रयोगेण च्यवमाना उपपद्यमानाश्च कर्तव्याः।
१८५.०३२. सामन्तकेन द्वादशाङ्गः प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमः कर्तव्यः।
१८५.०३३. सर्वमनित्यतया ग्रस्तं कर्तव्यम्, गाथाद्वयं च लेखयितव्यम्--

१८६.००१. <१८६>आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
१८६.००२. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥
१८६.००३. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
१८६.००४. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥िति।
१८६.००५. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति भिक्षुभिः कारितम्।
१८६.००६. ब्राह्मणगृहपतय आगत्य पृच्छन्ति--आर्य, किमिदं लिखितमिति? ते कथयन्ति--भद्रमुखाः, वयमपि न जानीम इति।
१८६.००७. भगवानाह--द्वारकोष्ठके भिक्षुरुद्देष्टव्यो य आगतागतानां ब्राह्मणगृहपतीनां दर्शयति।
१८६.००८. उक्तं भगवता भिक्षुरुद्देष्टव्य इति।
१८६.००८. ते अविशेषेणोद्दिशन्ति बालानपि मूढानपि अव्यक्तानपि अकुशलानपि।
१८६.००९. ते आत्मना न जानते, कुतः पुनरागतानां ब्राह्मणगृहपतीनां दर्शयिष्यन्ति? भगवानाह--प्रतिबलो भिक्षुरुद्देष्टव्य इति॥
१८६.०११. राजगृहेऽन्यतमो गृहपतिः प्रतिवसति।
१८६.०११. तेन सदृशात्कुलात्कलत्रमानीतम्।
१८६.०१२. स तया सार्धं क्रीडति रमते परिचारयति।
१८६.०१२. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
१८६.०१३. तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्।
१८६.०१४. स पत्नीमामन्त्रयते--भद्रे, जातोऽस्माकमृणहरो धनहरः।
१८६.०१४. तद्गच्छामि, पण्यमादाय महासमुद्रमवतरामीति।
१८६.०१५. सा कथयति--आर्यपुत्र, एवं कुरुष्वेति।
१८६.०१५. स सुहृत्सम्बन्धिबान्धवानामन्त्रयित्वा अन्तर्जनं च समाश्वास्य महासमुद्रगमनीयं पण्यमादाय दिवसतिथिमुहूर्तेन महासमुद्रमवतीर्णः।
१८६.०१७. तत्रैव च निधनमुपयातः।
१८६.०१७. तस्य पत्न्या स दारको ज्ञातिबलेन हस्तबलेन पालितः पोषितः संवर्धितो लिप्यामुपन्यस्तो लिप्यक्षरेषु च कृतावी संवृत्तः।
१८६.०१८. स वयस्करेण सार्धं वेणुवनं गतो विहारं प्रविष्टः पश्यति द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितम्।
१८६.०१९. स पृच्छति--आर्य, किमिदमभिलिखितमिति? भिक्षुः कथयति--भद्रमुख, एताः पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च्
१८६.०२१. आर्य, किमेभिः कर्म कृतं येनैवंविधानि दुःखानि प्रर्यनुभवन्तीति? स कथयति--एते प्राणातिपातिका अदत्तादायिकाः काममिथ्याचारिका मृषावादिकाः पैशुनिकाः पारुषिकाः संभिन्नप्रलापिका अभिध्यालवो व्यापन्नचित्ता मिथ्यादृष्टिकाः।
१८६.०२४. तदेभिरेते दशाकुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दुःखान्युत्पाटानुपाटच्छेदनभेदनादीनि प्रत्यनुभवन्ति।
१८६.०२५. आर्य, गतमेतत् ।
१८६.०२६. एभिरन्यैः किं कर्म कृतं येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? दुःखान्यन्योन्यभक्षणादीनि प्रत्यनुभवन्ति।
१८६.०२८. आर्य, एतदपि गतम्।
१८६.०२८. एभिरन्यैः किं कर्म कृतं येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? भद्रमुख, एतेऽपि मत्सरिण आसन् कुटुकुञ्चका आगृहीतपरिष्काराः।
१८६.०३०. तत्तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन एवंविधानि दुःखानि क्षुत्तृषादीनि दुःखानि प्रत्यनुभवन्ति।
१८६.०३१. आर्य, एतदपि गतम्।
१८६.०३१. एभिरन्यैः किं कर्म कृतं येन एवंविधानि सुखानि प्रत्यनुभवन्ति? भद्रमुख, एते प्राणातिपातात्प्रतिविरता अदत्तादानात्<१८७>काममिथ्याचारान्मृषावादात्पैशुन्यात्पारुष्यात्संभिन्नप्रलापादनभिध्यापन्नचित्ताः सम्यग्दृष्टयः।

१८७.००२. तदेभिरेते दश कुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दिव्यस्त्रीललितविमानोद्यानसुखानि प्रत्यनुभवन्ति।
१८७.००३. आर्य, एतदपि गतम्।
१८७.००४. एभिरन्यैः किं कर्म कृतं येन सुखानि प्रत्यनुभवन्ति? भद्रमुख, एभिरपि दश कुशलाः कर्मपथास्तनुतरा मृदुतराश्चासेविता भाविता बहुलीकृताः, येन एवंविधानि हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानसुखानि प्रत्यनुभवन्ति।
१८७.००६. आर्य, आसां पञ्चानां गतीनां या एतास्तिस्रो गतयो नरकास्तिर्यञ्चः प्रेताश्च, एता मह्यं न रोचन्त्
१८७.००७. ये तु एते देवा मनुष्याश्च एते रोचेत्
१८७.००८. तत्कथमेते दश कुशलाः कर्मपथाः समादाय वर्तयितव्याह्? भद्रमुख, स्वाख्याते धर्मविनये प्रव्रज्य सचेद्दृष्ट एव धर्मे आज्ञामारागयिष्यसि, एष एव तेऽन्तो दुःखस्य्
१८७.०१०. अथ सावशेषसम्योजनः कालं करिष्यसि, देवेषूपपत्स्यस्
१८७.०१०. उक्तं हि भगवता--पञ्चानुशंसान् समनुपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्।
१८७.०११. कतमानि पञ्च? आवेणिका इमे स्वार्था अनुप्राप्तो भविष्यामीति संपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्।
१८७.०१२. येषामहं दासः प्रेष्यो निर्देश्यो भुजिष्यो नयेन कामंगमः, तेषां पूज्यश्च भविष्यामि प्रशंस्यश्चेति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्।
१८७.०१४. अनुत्तरं योगक्षेमं निर्वाणमनुप्राप्स्यामीति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्।
१८७.०१५. अनुत्तरं वा योगक्षेमं निर्वाणमनुप्राप्नुवतोऽनापत्तिकस्य सतो देएवेषूपपत्तिर्भविष्यतीति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्।
१८७.०१६. अनेकपर्यायेण प्रव्रज्या वर्णिता बुद्धैश्च बुद्धश्रावकैश्च्
१८७.०१७. आर्य, शोभनम्।
१८७.०१७. किं तत्र प्रव्रज्यायां क्रियते? भद्रमुख, यावज्जीवं ब्रह्मचर्यं चर्यत्
१८७.०१८. आर्य, न शक्यमेतत् ।
१८७.०१८. अन्योऽस्ति उपायह्? भद्रमुख, अस्ति, उपासको भव्
१८७.०१९. आर्य, किं तत्र क्रियते? भद्रंख, यावज्जीवं प्राणातिपातात्प्रतिविरतिः संरक्ष्या, अदत्तादानात्काममिथ्याचारात्सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतिः संरक्ष्या।
१८७.०२१. आर्य, एतदपि न शक्यत्
१८७.०२१. अन्यमुपायं कथयेति।
१८७.०२१. भद्रमुख, बुद्धप्रमुखं भिक्षुसंघं भोजय्
१८७.०२२. आर्य, कियद्भिः कार्षापणैर्बुद्धप्रमुखो भिक्षुसंघो भोज्यते? भद्रमुख, पञ्चभिः कार्षापणशतैः।
१८७.०२३. आर्य, शक्यमेतत् ।
१८७.०२३. स तस्य पादभिवन्दनं कृत्वा प्रक्रान्तः।
१८७.०२३. येन स्वं निवेशनं तेनोपसंक्रान्तः।
१८७.०२४. उपसंक्रम्य मातरमिदमवोचत्--अम्ब, अद्याहं वेणुवनं गतः।
१८७.०२४. तत्र मया द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितं दृष्टम्।
१८७.०२५. तत्र पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च्
१८७.०२६. तत्र नारका उत्पाटनुपाटनच्छेदभेदनादीनि दुःखानि प्रत्यनुभवन्ति।
१८७.०२७. तिर्यञ्चश्चान्योन्यभक्षणादीनि।
१८७.०२७. प्रेताः क्षुत्तृषादीनि।
१८७.०२७. देवा दिव्यस्त्रीललितोद्यानविमानसुखानि प्रत्यनुभवन्ति।
१८७.०२८. मनुष्या हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानानि प्रत्यनुभवन्ति।
१८७.०२८. आसां मम तिस्रो गतयो नाभिप्रेताः, द्वे अभिप्रेत्
१८७.०२९. तत्किमिच्छसि त्वं मां देवेषूपपद्यमानम्? पुत्र, सर्वसत्त्वानिच्छामि देवेषूपपद्यमानान् प्रागेव त्वाम्।
१८७.०३०. अम्ब, यद्येवम्, प्रयच्छ पञ्च कार्षापणशतानि।
१८७.०३१. बुद्धप्रमुखं भिक्षुसंघं भोजयामि।
१८७.०३१. पुत्र, मया त्वं ज्ञातिबलेन हस्तबलेन चाप्यायितः पोषितः संवर्धितः।
१८७.०३२. कुतो मे पञ्चानां कार्षापणशतानां विभवह्? अम्ब, यदि <१८८>नास्ति, भृतिकया कर्म करोमि।

१८८.००१. पुत्र, त्वं सुकुमारः।
१८८.००१. न शक्यसि भृतिकया कर्म कर्तुम्।
१८८.००२. अम्ब गच्छामि, शक्यामि।
१८८.००२. पुत्र, यदि शक्योऽसि, गच्छ्
१८८.००२. स तया अनुज्ञातो भृतकवीथीं गत्वा अवस्थितः।
१८८.००३. ब्राह्मणगृहपतयोऽन्यान् भृतकपुरुषान् गृह्णन्ति, तं न कश्चित्पृच्छति।
१८८.००४. स तत्र दिवसमतिनाम्य विकाले गृहं गतः।
१८८.००४. स मात्रा पृष्टह्--पुत्र, कृतं ते भृतिकया कर्म? अम्ब, किं करोमि? न मां कश्चित्पृच्छति।
१८८.००५. पुत्र, न एवंविधा भृतकपुरुषा भवन्ति।
१८८.००५. पुत्र, स्फटितपरुषा रूक्षकेशा मलिनवस्त्रनिवसनाः।
१८८.००६. यद्यवश्यं त्वया भृतिकया कर्म कर्तव्यम्, ईदृशं वेषमास्थाय भृतकवीथीं गत्वा तिष्ठ्
१८८.००७. अम्ब, शोभनम्।
१८८.००७. एवं करोमि।
१८८.००७. सोऽपरस्मिन् दिवसे तादृशं वेषमास्थाय भृतकवीथीं गत्वा अवस्थितः।
१८८.००८. यावदन्यतरस्य गृहपतेर्गृहमुत्तिष्ठत्
१८८.००९. स भृतकानामर्थे वीथीं गतः।
१८८.००९. तेन तं प्रत्याख्याय अन्ये भृतकपुरुषा गृहीताः।
१८८.०१०. स कथयति--गृहपते, अहमपि भृतिकया कर्म करोमीति।
१८८.०१०. गृहपतिः कथयति--पुत्र, त्वं सुकुमारः, न शक्ष्यसि भृतिकया कर्म कर्तुम्।
१८८.०११. तात्, किं त्वं पूर्वं भृतिं ददासि, आहोस्वित्पश्चात्?।
१८८.०१२. तात्, अद्य तात्वत्कर्म करोमि।
१८८.०१२. यदि तोषयिष्यामि, दास्यसि भृतिमिति।
१८८.०१३. स संलक्षयति--शोभनमेष कथयति।
१८८.०१३. अद्य तावत्जिज्ञास्यामि यदि शक्ष्यति कर्म कर्तुम्, दास्यामि।
१८८.०१४. न शक्ष्यति, न दास्यामीति विदित्वा कथयति--पुत्र आगच्छ, गच्छाम इति।
१८८.०१५. स तेन गृहं नीतः।
१८८.०१५. तेऽन्यभृतकाः शाठ्येन कर्म कुर्वन्ति।
१८८.०१५. स त्वरितत्वरितं कर्म करोति।
१८८.०१६. तांश्च भृतकान् समनुशास्ति।
१८८.०१६. वयं तावत्पूर्वकेण दुश्चरितेन दरिद्रगृहेषूपपन्नाः।
१८८.०१७. तद्यदि शाठ्येन कर्म करिष्यामः, इतश्च्युतानां का गतिभविष्यति? ते कथयन्ति--भागिनेय, त्वं नवदान्तः।
१८८.०१८. स्थानमेतद्विद्यते यदस्माकं पृष्ठतो गमिष्यसि।
१८८.०१८. आगच्छ पश्यामः।
१८८.०१९. स लोकाख्यायिकायां कुशलः।
१८८.०१९. तेंस्तेषां तादृशी लोकाख्यानकथा प्रस्तुता, यां श्रुत्वा ते भृतकपुरुषा आक्षिप्ताः।
१८८.०२०. तस्यातिस्वरेण गच्छतोऽनुपदं गच्छन्ति, मा लोकाख्यायिकां न श्रोष्याम इति।
१८८.०२१. तस्मिन् दिवसे तैर्भृतकपुरुषैस्तद्द्विगुणं कर्म कृतम्।
१८८.०२२. सोऽधिष्ठायकपुरुषं पृच्छति--भोः पुरुष, किं त्वया अपरे भृतका गृहीताह्? आर्य, न गृहीताः।
१८८.०२३. अथ कस्मादद्य द्विगुणं कर्म कृतम्? तेन यथावृत्तमारोचितम्।
१८८.०२४. श्रुत्वा गृहपतिस्तस्य दारकस्य द्विगुणां भृतिं दातुमारब्धः।
१८८.०२५. स कथयति--तात्, किं द्विदैवसिकां भृतिं ददासीति? स कथयति--पुत्र, न द्विदैवसिकां ददामि, अपि तु प्रसन्नोऽहं प्रसन्नाधिकारं करोमीति।
१८८.०२६. स कथयति--तात्, यदि त्वं ममाभिप्रसन्नः, यावत्तव गृहे कर्म कर्तव्यं तावत्तवैव हस्ते तिष्ठतु।
१८८.०२८. पुत्र एवं भवतु।
१८८.०२८. यदा तस्य गृहपतेस्तद्गृहं परिसमाप्तम्, तदा असौ दारको भृतिं गणयितुमारब्धो यावत्पञ्च कार्षापणशतानि न परिपूर्यन्त्
१८८.०२९. स रोदितुमारब्धः।
१८८.०२९. स गृहपतिः कथयति--पुत्र, किं रोदिषि? मासि मया किंचित्व्यंसितः।
१८८.०३०. तात्, महात्मा त्वम्, किं मां व्यंसयिष्यसि? अपि तु अहमेव मन्दभाग्यः।
१८८.०३१. मया पञ्चानां कार्षापणशतानामर्थाय भृतिकया कर्म प्रारब्धं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि, ततो देवेषूपपत्स्यामीति।
१८८.०३२. तानि <१८९>न परिपूर्णानि।

१८९.००१. पुनरपि मया अन्यत्र भृतिकया कर्म कर्तव्यमिति।
१८९.००१. स गृहपतिर्भूयसा मात्रया अतिप्रसन्नः।
१८९.००२. स कथयति--पुत्र, यद्येवम्, अहं पूरयामि।
१८९.००२. तात्, मा देवेषूपपत्स्य्
१८९.००२. पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तातभिश्रद्दध्
१८९.००३. पुत्र गच्छ, भगवन्तं पृच्छ्
१८९.००३. येन भगवांस्तेनोपसंक्रान्तः।
१८९.००४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१८९.००४. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया पञ्चानां कार्षापणशतानामर्थाय भगवन्तं सश्रावकसंघं भोजयिष्यामीत्यमुकस्य गृहपतेर्भृतिकया कर्म कृतम्।
१८९.००६. तानि मम न परिपूर्णानि।
१८९.००७. स गृहपतिः परिपूरयति।
१८९.००७. भगवन् किम्? आह--वत्स गृहाण, श्राद्धः स गृहपतिः।
१८९.००७. भगवन्, मा देवेषु नोपपत्स्ये? वत्स उपपत्स्यसे, गृहाण्
१८९.००८. स परितुष्टो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो येन स गृहपतिस्तेनोपसंक्रान्तः।
१८९.००९. उपसंक्रम्य गृहपतेरन्तिकात्पञ्च कार्षापणशतानि गृहीत्वा मातुः सकाशं गतः।
१८९.०१०. कथयति--अम्ब, एतानि पञ्च कार्षापणशतानि।
१८९.०११. भक्तं सज्जीकुरु।
१८९.०११. बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति।
१८९.०११. सा कथयति--पुत्र, न मम भाण्डोपस्करो न शयनासनम्।
१८९.०१२. स एव गृहपतिर्विस्तीर्णभाण्डोपस्करः श्राद्धश्च्
१८९.०१३. तमेव गत्वा प्रार्थय्
१८९.०१३. शक्नोत्यसौ संपादयितुमिति।
१८९.०१३. स तस्य सकाशं गतः शिरःप्रणामं कृत्वा कथयति--त्वयैव एतानि पञ्च कार्षापणशतानि दत्ताअनि।
१८९.०१४. अस्माकं गृहे न भाण्डोपस्करो नापि शयनासनम्।
१८९.०१५. तदर्हसि ममानुकम्पया भक्तं सज्जीकर्तुम्।
१८९.०१५. अहमागत्य स्वहस्तेन बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति।
१८९.०१६. गृहपतिः संलक्षयति--ममेदं गृहमचिरोत्थितं बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तं भविष्यति, प्रतिजागर्मि।
१८९.०१७. इति विदित्वा कथयति--पुत्र, शोभनम्।
१८९.०१८. स्थापयित्वा कार्षापणान् गच्छ, श्वो बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रय्
१८९.०१८. अहमाहारं सज्जीकरोमीति।
१८९.०१९. स संजातसौमनस्यः शिरःप्रणामं कृत्वा प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः।
१८९.०२०. उपसंक्रम्य वृद्धान्ते स्थित्वा कथयति--सोऽहं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रयामीति।
१८९.०२१. अधिवासयति भगवांस्तस्य गृहपतिपुत्रस्य तूष्णीभावेन्
१८९.०२१. अथ स गृहपतिपुत्रो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात्प्रक्रान्तः॥
१८९.०२३. तेनापि गृहपतिना तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय गृहं संमार्जितम्।
१८९.०२४. सुकुमारी गोमयकार्षी दत्ता, आसनप्रज्ञप्तिः कारिता, उदकमणयः प्रतिष्ठापिताः।
१८९.०२५. तेनापि गृहपतिपुत्रेण गत्वा भगवत आरोचितम्--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति।
१८९.०२६. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः।
१८९.०२७. षड्वर्गीयाः पृच्छन्ति--केनाअयं बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रित इति? अपरे कथयन्ति--अमुकेन गृहपतिपुत्रेणेति।
१८९.०२९. ते परस्परं संजल्पं कुर्वन्ति--नन्दोपनन्द, भृतकपुरुषः सः।
१८९.०२९. किमसौ दास्यति? गच्छाम कुलोपकगृहेषु गत्वा पुरोभक्तकां कर्म इति।
१८९.०३०. ते कुलोपकगृहाण्युपसंक्रान्ताः।
१८९.०३०. तैरुक्ताह्--आर्य, पुरोभक्तकां कुरुतेति।
१८९.०३१. ते कथयन्ति--एवं कुर्म इति।
१८९.०३१. तैः पुरोभक्तका कृता।
१८९.०३१. भगवांस्तस्य गृहपतेर्निवेशने पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
१८९.०३२. षड्वर्गीया अपि पुरोभक्तकां कृत्वा <१९०>संघमध्ये निषण्णः।

१९०.००१. अथ स गृहपतिपुर्तः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभिजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
१९०.००२. सततपरिवेषणं कुर्वाणः पश्य्ति षड्वर्गीयान्न सत्कृत्य परिमुञ्जानान्।
१९०.००३. दृष्ट्वा च पुनर्भगवन्तं विदित्वा धौतहस्तमपनीतपात्रं भगवतः पुरस्तात्स्थित्वा कथयति--भगवन्, कैश्चिदत्रार्यकैर्न सत्कृत्य परिभुक्तमाहारम्।
१९०.००५. देवेषु नोपपत्स्ये इति? भगवानाह--वत्स, शयनासनपरिभोगेन तावत्त्वं देवेषूपपद्येथाः प्रागेवान्नपानपरिभोगेनेति।
१९०.००६. अथ भगवांस्तं गृहपतिपुत्रं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः॥
१९०.००८. अत्रान्तरे पञ्चमात्राणि वणिक्शतानि महासमुद्रात्संसिद्धयानपात्राण्नि राजगृहमनुप्राप्तानि।
१९०.००९. राजगृहे च पर्व प्रत्युपस्थितमिति न किंचित्क्रयेणापि लभ्यत्
१९०.००९. तत्रैको वणिग्भिक्षुगोचरिकः।
१९०.०१०. स कथयति--भवन्तः, आगमयत कस्याद्य गृहे बुद्धप्रमुखेन भिक्षुसंघेन भक्तम्, तत्रावश्यं किंचिदुत्सदनधर्मकं भवतीति।
१९०.०११. ते श्रवणपरम्परया चान्वेषमाणास्तस्य गृहपतेः सकाशमुपसंक्रान्ताः।
१९०.०१२. कथयन्ति--गृहपते, तवाद्य बुद्धप्रमुखेन भिक्षुसंघेन भुक्ते इह पर्व प्रत्युपस्थितमिति न किंचित्क्रयेणापि लभ्यत्
१९०.०१३. यदि किंचिदुत्सदनधर्मकमस्ति, मूल्येन दीयतामिति।
१९०.०१४. न ममैतद्भक्तम्, अपि तु तस्यैतद्गृहपतिपुत्रस्य भक्तम्।
१९०.०१४. एनं याचध्वमिति।
१९०.०१४. ते तस्य सकाशमुपसंक्रम्य कथयन्ति--गृहपतिपुत्र, दीयतामस्माकं भुक्तशेषं यदस्ति।
१९०.०१५. मूल्यं प्रयच्छाम इति।
१९०.०१६. स कथयति--नाहं मूल्येनानुप्रयच्छामि।
१९०.०१६. अपि तु एवमेव प्रयच्छामीति।
१९०.०१६. ते तेनान्नपानेन संतर्पिता गृहपतेर्गत्वा कथयन्ति--तस्य ते गृहपते लाभाः सुलब्धा यस्य ते निवेशने बुद्धप्रमुखो भिक्षुसंघोऽन्नपानेन संतर्पितः, इमानि च पञ्च वणिक्शतानीति।
१९०.०१८. स कथयति--अनेन गृहपतिपुत्रेण लाभाः सुलब्धाः।
१९०.०१९. अनेन बुद्धप्रमुखो भिक्षुसंघोऽन्नपानेन संतर्पितो न मयेति।
१९०.०२०. ते पृच्छन्ति--कतरस्यायं गृहपतेः पुत्रह्? अमुकस्य सार्थवाहस्य्
१९०.०२०. सार्थवाहः कथयति--भवन्तः, ममैष वयस्यपुत्रो भवति।
१९०.०२१. तस्य पिता महासमुद्रमवतीर्णोऽनयेन व्यसनमापन्नः।
१९०.०२१. शक्यं बहुभिरेकः समुद्धर्तुम्, न त्वेव एकेन बहवः।
१९०.०२२. तदयं पटकं प्रज्ञप्तो येन वो यत्परित्यक्तम्, सोऽस्मिन् पटकेऽनुप्रयच्छत्विति।
१९०.०२३. ते पूर्वमेवाभिप्रसन्नाः सार्थवाहेन च प्रोत्साहिता इति तैर्यथासम्भाव्येन मणिमुक्तादीनि रत्नानि दत्तानि।
१९०.०२४. महान् राशिः संपन्नः।
१९०.०२४. सार्थवाहः कथयति--पुत्र, गृहाणेति।
१९०.०२५. स कथयति--तात्, न मया मूल्येन दत्तमिति।
१९०.०२५. सार्थवाहः कथयति--पुत्र, न वयं तव मूल्यं प्रयछामः।
१९०.०२६. यदि च मूल्यं गण्यते, एकेन रत्नेनेदृशानां भक्तानामनेकानि शतानि संविद्यन्त्
१९०.०२७. किं तु वयं तवाभिप्रसन्नाः प्रसन्नाधिकारं कुर्मः, गृहाणेति।
१९०.०२७. स कथयति--तात्, मया बुद्धप्रमुखो भिक्षुसंघो भोजितो देवेषूपपत्स्ये इति।
१९०.०२८. तस्मादवशिष्टं युष्मभ्यं दत्तम्।
१९०.०२९. यदि ग्रहीष्यामि, स्थानमेतद्विद्यते यद्देवेषु नोपपत्स्ये? सार्थवाहह्--पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तात्, अभिश्रद्दध्
१९०.०३०. गच्छ, भगवन्तं पृच्छ्
१९०.०३०. स येन भगवांस्तेनोपसंक्रान्तः।
१९०.०३१. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१९०.०३१. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा यदन्नपानमवशिष्टम् <१९१>तद्विणिजां दत्तम्।

१९१.००१. ते मम प्रसन्नः प्रसन्नाधिकारं कुर्वन्ति।
१९१.००१. किं कल्पते तन्मम ग्रहीतुमाहोस्विन्न कल्पत इति? भगवानाह--यदि प्रसन्नाः प्रसन्नाधिकारं कुर्वन्ति, गृहाण्
१९१.००२. भगवन्, मा देवेषु नोत्पपत्स्ये? भगवानाह--वत्स, पुष्पमेतत्, फलमन्यद्भविष्यति।
१९१.००३. तेन भगवद्वचनाभिसम्प्रत्ययात्परितुष्टेन गत्वा रत्नानि गृहीतानि॥
१९१.००५. अत्रान्तरे राजगृहेऽपुत्रः श्रेष्ठी कालगतः।
१९१.००५. ततो राजगृहनिवासिनः पौराः संनिपत्य संजल्पं कुर्वन्ति--भवन्तः, श्रेष्ठी कालगतः।
१९१.००६. कं श्रेष्ठिनमभिषञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति।
१९१.००७. अपरे कथयन्ति--कथमस्माभिर्ज्ञातव्यमिति? ते कथयन्ति--नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिपामः, य एकवर्णान्युद्धरिष्यति, तं श्रेष्ठिनमभिषिञ्चाम इति।
१९१.००९. तैर्नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिप्तानि।
१९१.००९. आरोचितं च--भवन्तः, य एकवर्णानि बीजानि एतस्मात्कुम्भादुद्धरेत्, स श्रेष्ठ्यभिषिच्यत्
१९१.०१०. यस्य वः श्रेष्ठित्वमभिप्रेतं च, उद्धरतु इति।
१९१.०११. त उद्धर्तुमारब्धाः।
१९१.०११. सर्वैर्नानावर्णान्युद्धृतानि।
१९१.०११. तेन तु गृहपतिपुत्रेणैकवर्णान्युद्धृतानि
१९१.०१२. पौरजानपदाः कथयन्ति--भवन्तः, अयं पुण्यमहेशाख्यः।
१९१.०१२. सर्व एनं श्रेष्ठिनमभिषिञ्चामः।
१९१.०१३. तत्रैके कथयन्ति--भवन्तः, अयं भृतकपुरुषः।
१९१.०१३. कथमेनं श्रेष्ठिनमभिषिञ्चाम इति? अपरे कथयन्ति--पुनरपि तावत्जिज्ञासामः।
१९१.०१४. तेन यावत्त्रिरप्येकवर्णान्युद्धृतानि।
१९१.०१४. ते कथयन्ति--भवन्तः, मनुष्यका अप्यस्य साक्षेपमनुप्रयच्छन्ति।
१९१.०१५. आगच्छत, एनमेवाभिषिञ्चाम इति।
१९१.०१६. स तैः श्रेष्ठी अभिषिक्तः।
१९१.०१६. स गृहपतिः संलक्षयति--यदप्यनेन मम भृतिकया कर्म कृतम्, तथाप्ययं पुण्यमहेशाख्यः सत्त्वः।
१९१.०१७. संग्रहोस्य कर्तव्य इति।
१९१.०१७. तेन तस्य सर्वालंकारविभूषिता दुहिता भार्यार्थं दत्ता।
१९१.०१८. तच्च गृहम्, प्रभूतं स्वापतेयम्।
१९१.०१८. सहसैवं भोगैरभ्युद्गत इति तस्य सहसोद्गतो गृहपतिः सहसोद्गतो गृहपतिरिति संज्ञा संवृत्ता॥
१९१.०२०. स संलक्षयति--या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य्
१९१.०२१. यन्न्वहं पुनरपि बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहे उपनिमन्त्र्य भोजयेयम्।
१९१.०२१. इति विदित्वा येन भगवांस्तेनोपसंक्रान्तः।
१९१.०२२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१९१.०२२. एकान्तनिषण्णं सहसोद्गतं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
१९१.०२४. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
१९१.०२५. अथ सहसोद्गतो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति।
१९१.०२६. अधिवासयति भगवान् सहसोद्गतस्य गृहपतेस्तूष्णीभावेन्
१९१.०२७. अथ सहसोद्गतो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
१९१.०२८. अथ सहसोद्गतो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति।
१९१.०३१. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येन सहसोद्गतस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः।
१९१.०३२. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य<१९२> प्रज्ञप्त एवासने निषण्णः।

१९२.००१. अथ सहसोद्गतो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
१९२.००२. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात्निषण्णो धर्मश्रवणाय्
१९२.००५. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सहसोद्गतेन गृहपतिना विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
१९२.००७. स दृष्टसत्यस्त्रिरुदानमुदानयति--इदमस्माकं भदन्त न मात्रा कृतं न पित्रा नेष्टेन न स्वजनबन्धुवर्गेण न राज्ञा न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवता अस्माकं कृतम्।
१९२.००९. उच्छोषिता रुधिराश्रसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः, स्मो देवमनुष्येषु।
१९२.०११. अभिक्रान्तोऽहं भदन्त अभिक्रान्तः।
१९२.०११. एषोऽहं बुद्धं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च्
१९२.०१२. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतमभिप्रसन्नमिति।
१९२.०१२. अथ भगवान् सहसोद्गतं गृहपतिं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः॥
१९२.०१५. भिक्षवः संशयजाताअः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त सहसोद्गतेन गृहपतिना कर्म कृतं येन भृतिकया कर्म कृतम्, येन सहसा भोगैरभिवृद्धः, सत्यदर्शनं च कृतमिति? भगवानाह--सहसोद्गतेनैव भिक्षवो गृहपतिना कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि।
१९२.०१८. सहसोद्गतेन गृहपतिना कर्माणि कृतान्युपचितानि।
१९२.०१९. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपष्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च्
१९२.०२३. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
१९२.०२४. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥३॥
१९२.०२५. भूतपूर्वं भिक्षवोऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी।
१९२.०२६. तेन सदृशात्कुलात्कलत्रमानीतम्।
१९२.०२७. स तया सार्धं क्रीडति रमते परिचारयति।
१९२.०२७. तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता।
१९२.०२८. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता।
१९२.०२९. दारको जातः।
१९२.०२९. तस्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्।
१९२.०३०. स उन्नीतो वर्धितो महान् संवृत्तः।
१९२.०३१. यावदपरेण समयेन स गृहपतिः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकोन्नादितम्<१९३> वनखण्डमन्तर्जनसहाय उद्यानभूमिं निर्गतः।

१९३.००१. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्या। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
१९३.००४. प्रान्तशयनासनसेविनस्ते न्
१९३.००४. सोऽप्रविश्यैव कर्वटकं येन तदुद्यानं तेनोपसंक्रान्तः।
१९३.००४. अद्राक्षीत्स गृहपतिस्तं प्रत्येकबुद्धं कायप्रासादिकं च शान्तेनेर्यापथेनोद्यानं प्रविशन्तम्।
१९३.००५. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातस्त्वरितत्वरितं प्रत्युद्गतः।
१९३.००६. प्रत्येकबुद्धः संलक्षयति--आकीर्णमिदमुद्यानम्।
१९३.००७. अन्यत्र गच्छ्
१९३.००७. इति विदित्वा प्रतिनिवर्तितुमारब्धः।
१९३.००७. स गृहपतिः पादयोर्निपत्य कथयति--आर्य, किं निवर्तसे त्वम्? पिण्डकेनार्थी।
१९३.००८. अहमपि पुण्येन्
१९३.००८. अस्मिन्नेवोद्याने विहर, पिण्डकेनाविघातं करोमीति।
१९३.००९. परानुग्रहप्रवृत्तास्ते महात्मानः।
१९३.००९. स तस्यानुकम्पाचित्तमुपस्थाप्य तस्मिन्नेवोद्याने विहर्तुमारब्धः।
१९३.०१०. सोऽपि तस्य पिण्डकेन योगोद्वहनं कर्तुं प्रवृत्तः।
१९३.०११. यावदपरेण समयेन तस्य गृहपतेरन्यतरकर्वटके किंचित्करणीयमुत्पन्नम्।
१९३.०११. स पत्नीमामन्त्रयते--भद्रे, ममामुष्मिन् कर्वटके किंचित्करणीयमुत्पन्नम्।
१९३.०१२. तत्राहं गच्छामि।
१९३.०१२. त्वया तस्य महात्मनः प्रव्रजितस्यान्नपानेनाविघातः कर्तव्यः।
१९३.०१३. इत्युक्त्वा प्रक्रान्तः।
१९३.०१३. अपरस्मिन् दिवसे सा गृहपत्नी काल्यमेवोत्थाय तदर्थमन्नपानं साधयितुमारब्धा।
१९३.०१४. सा पुत्रेणोच्यते--अम्ब, कस्यार्थेऽन्नपानं साध्यत इति? सा कथयति--पुत्र, योऽसौ उद्याने शान्तात्म प्रव्रजितस्तिष्ठति, तस्यार्थे साध्यत इति।
१९३.०१६. स रुषितः कथयति--अम्ब, किमर्थं भृतिकया कर्म कृत्वा न भुङ्क्त इति? सा कथयति--पुत्र, मा एवं वोचः।
१९३.०१७. अनिष्टोऽस्य कर्मणो विपाक इति।
१९३.०१८. स निवार्यमाणोऽपि नावतिष्ठत्
१९३.०१८. यावदसौ गृहपतिरागतः।
१९३.०१८. पत्नीमामन्त्रयते--भद्रे, कृतस्ते तस्य पिण्डकेनाविघातह्? आर्यपुत्र कृतः।
१९३.०१९. किं तु अनेन दारकेण तस्यान्तिके खरावाग्निश्चारिता।
१९३.०२०. स कथयति--भद्रे, किं कथयति? तया विस्तरेण समाख्यातम्।
१९३.०२०. स संलक्षयति--क्षमोऽयं तपस्वी।
१९३.०२१. गच्छामि, तं महात्मानं क्षमापयामि--मा अत्यन्तमेव क्षतो भविष्यति।
१९३.०२२. इति विदित्वा तं दारकमादाय येन प्रत्येकबुद्धस्तेनोपसंक्रान्तः।
१९३.०२२. अद्राक्षीत्स प्रत्येकबुद्धस्तं गृहपतिमात्मना द्वितीयमागच्छन्तम्।
१९३.०२३. स संलक्षयति--न कदाचिदयं गृहपतिरात्मना द्वितीयमागच्छति।
१९३.०२४. तत्किमत्र कारणमिति? असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत्
१९३.०२५. स समन्वाहर्तुं प्रवृत्तः।
१९३.०२५. तेन् समन्वाहृत्य विज्ञातम्।
१९३.०२५. कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी।
१९३.०२६. स तस्यानुकम्पार्थं विततपक्ष हव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
१९३.०२७. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी।
१९३.०२८. स मूलनिकृत्त इव द्रुमः सपुत्रः पादयोर्निपतितः।
१९३.०२८. ततः स दारक आहृष्टरोमकूपः कथयति--अवतर अवतर सद्भूतदक्षिणीय, मम कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति।
१९३.०३०. स तस्यानुकम्पार्थमवतीर्णः।
१९३.०३०. स गृहपतिपुत्रस्तीव्रेणाशयेन पादयोर्निपत्य प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये खरा वाग्निश्चारिता, मा तस्य कर्मणो भागी स्याम्।
१९३.०३२. यत्तु इदानीं चित्तमभिप्रसादितम्, अनेनाहं कुशलमूलेनाढ्ये महाधने <१९४>महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥

१९४.००३. किं मन्यध्वे भिक्षवह्? योऽसौ गृहपतिपुत्रः, एष एवासौ सहसोद्गतो गृहपतिः।
१९४.००४. यदनेन प्रत्येकबुद्धस्यान्तिके खरा वाग्निश्चारिता, तेन पञ्च जन्मशतानि भृतकपुरुषो जातः।
१९४.००५. यावदेतर्ह्यपि भृतिकया कर्म कृतम्।
१९४.००५. यत्पुनस्तस्यैवान्तिके चित्तमभिप्रसाद्य प्रणिधानं कृतम्, तेन सहसैव भोगैरभिवृद्धः।
१९४.००६. ममान्तिके सत्यदर्शनं कृतम्।
१९४.००६. अहं चानेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः।
१९४.००७. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
१९४.००९. तस्मात्तर्हि एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
१९४.०१०. इत्येवं वो भिकवः शिक्षितव्यम्॥
१९४.०१०. (इयं तावदुत्पत्तिर्न तावत्बुद्धो भगवाञ्श्रावकाणां विनये शिक्षापदम्।?)
१९४.०१२. इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


१९४.०१३. सहसोद्गतस्य प्रकरणावदानमेकविंशतिमम्॥


                    • अवदान २२ **********


१९५.००१. दिव्२२ चन्द्रप्रभबोधिसत्त्वचर्यावदानम्।

१९५.००२. एवं मया श्रुतम्।
१९५.००२. एकस्मिन् समये भगवान् भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशाभिर्भिक्षुशतैः।
१९५.००३. तत्र भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, यावदायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ।
१९५.००५. अत्रेदानीं भिक्षवः किमाश्चर्यं यदेतर्हि शारिपुत्रमौद्गल्यायनौ भिक्षू विगतरागौ विगतद्वेषौ विगतमोहौ परिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासौर्निस्तृष्णौ निरुपादानौ प्रहीणसर्वाहंकारममकारास्मिमानाभिनिवेशानुशयौ तिष्ठति बुद्धप्रमुखे भिक्षुसंघे तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ।
१९५.००९. यत्त्वतीतेऽध्वनि शारिपुत्रमौद्गल्यायनौ सरागौ सद्वेषौ समोहावपरिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्ममान्तिके चित्तमभिप्रसाद्य कालं कृत्वा कामधातुमतिक्रम्य ब्रह्मलोक उपपन्नौ, न त्वेव पितृमरणमागमितवन्तौ, तच्छ्रूयताम्॥
१९५.०१३. भूतपूर्वं भिक्षवोऽतीतेऽध्वन्युत्तरापथे भद्रशिला नाम नगरी राजधानी अभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च्
१९५.०१४. द्वादशयोजनान्यायामेन द्वादशयोजनानि विस्तरेण चतुरस्रा चतुर्द्वारा सुविभक्ता उच्चैस्तोरणगवाक्षवातायनवेदिकाप्रतिमण्डिता नानारत्नसम्पूर्णा सुसमृद्धसर्वद्रव्यवणिग्जननिकेता पार्थिवामात्यगृहपतिश्रेष्ठिराष्ट्रिकनीति(?)मौलिधराणामावासो वीणावेणुपणवसुघोषकवल्लरीमृदङ्गभेरीपटहशङ्खनिर्नादिता।
१९५.०१८. तस्यां च राजधान्यामगुरुगन्धाश्चन्दनगन्धाश्चूर्णगन्धाः सर्वकालिकाश्च कुसुमगन्धा नानावातसमीरिता अतिरमणीया वीथीचत्वरशृङ्गाटकेषु वायवो वायन्ति स्म्
१९५.०१९. हस्त्यश्वरथपत्तिबलकायसम्पन्ना युग्ययानोपशोभिता विस्तीर्णातिरमणीयवीथीमहापथा उच्छ्रितविचित्रध्वजपताका तोरणगवाक्षार्धचन्द्रावनद्धा अमरालय इव शोभत्
१९५.०२१. उत्पलपद्मकुमुदपुण्डरीकानि सुरभिजलजकुसुमपरिमण्डितानि स्वादुस्वच्छशीतलजलपरिपूर्णपुष्किरिणीतडागोदपानप्रस्रवणोपशोभिता शालतालतमालसूत्र(?)कर्णिकाराशोकतिलकपुंनागनागकेशरचम्पकबकुलातिमुक्तकपाटलापुष्पसंछन्ना कलविङ्कशुकशारिकाकोकिलबर्हिगणजीवंजीवकोन्नादितवनषण्डोद्यानपरिमण्डिता।
१९५.०२५. भद्रशिलायां च राजधान्यामन्यतरं मणिगर्भं नाम राजोद्यानं नानापुष्पफलवृक्षविटपोपशोभितं सोदपानं हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकशकुनिमनोज्ञरवनिर्नादितमतिरमणीयम्।
१९५.०२७. एवं सुरमणीया भद्रशिला राजधानी बभूव्
१९५.०२७. भद्रशिलायां राजाधान्यां राजाभूच्चन्द्रप्रभो नाम अभिरूपो दर्शनीयः प्रासादिको दिव्यचक्षुश्चतुर्भागचक्रवर्ती धार्मिको धर्मराजा जम्बुद्वीपे राज्यैश्वर्याधिपत्यं कारितवान् स्वयम्प्रभुः।
१९५.०२९. न खलु राज्ञश्चन्द्रप्रभस्य गच्छतोऽन्धकारं भवति, न च मणिर्वा प्रदीपो वा उल्का वा पुरस्तात्नीयते, अपि तु स्वकात्कायात्राज्ञश्चन्द्रप्रभस्य प्रभा निश्चरन्ति तद्यथा चन्द्रमण्डलाद्रश्मयः।
१९५.०३२. अनेन कारणेन राज्ञश्चन्द्रप्रभस्य चन्द्रप्रभ इति संज्ञा बभूव् ।

१९६.००१. <१९६>तेन खलु समयेनास्मिञ्जम्बुद्वीपेऽष्डषष्टिनगरसहस्राणि बभूवुर्भद्रशिलाराजधानीप्रभुखानि ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि।
१९६.००२. अपीदानीं जम्बुद्वीपका अकरा अभूवन्नशुल्का अतरपण्याः।
१९६.००३. कृषिसम्पन्नाः सौम्या जनपदा बभूवुः।
१९६.००३. कुक्कुटसम्पातमात्राश्च ग्रामनिगमराष्ट्रराजधान्यो बभूवुः।
१९६.००४. तेन खलु समयेन चतुश्चत्वारिंशद्वर्षसहस्राणि जम्बुद्वीपे मनुष्याणामायुषः प्रमाणमभूत् ।
१९६.००५. राजा चन्द्रप्रभो बोधिसत्त्वोऽभूत्सर्वंददः सर्वपरित्यागी निःसङ्गपरित्यागी च्
१९६.००६. महति त्यागे वर्तत्
१९६.००६. तेन भद्रशिलायां राजधान्यां निर्गत्य बहिर्धा नगरस्य चतुर्षु नगरद्वारेषु चत्वारो चत्वारो महायज्ञवाटा मापिताश्छत्रध्वजयूपपताकात्युच्छ्रिताः।
१९६.००७. ततः सुवर्णभेरीः संताड्य दानानि दीयन्ते, पुण्यानि क्रियन्ते, तद्यथा--अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, स्वाद्यभोज्यमाल्यविलेपनवस्त्रशयनासनापाश्रयावासप्रदीपच्छत्राणि रथा आभरणान्यलंकाराः, सुवर्णपात्र्यो रूप्यचूर्णपरिपूर्णाः, रूप्यपात्र्यः सुवर्णपरिपूर्णाः, सुवर्णशृङ्गाश्च गावः कामदोहिन्यः।
१९६.०११. कुमाराः कुमारिकाश्च सर्वालंकारविभूषिताः कृत्वा प्रदानानि दीयन्त्
१९६.०११. वस्त्राणि नानारङ्गानि नानादेशसमुच्छ्रितानि नानाविचित्राणि, तस्यथा--पट्टांशुकचीनकौशेयधौतपट्टवस्त्राण्यूर्णादुकूलमयशोभनवस्त्राण्यपरान्तकफलकहर्यणिकम्बलरत्नसुवर्णप्रावरकाकाशिकांशुक्षोमकाद्याः।
१९६.०१४. राज्ञा चन्द्रप्रभेण तावन्तं दानमनुदत्तम्, येन सर्वे जम्बुद्वीपका मनुष्या आढ्या महाधना महाभोगाः संवृत्ताः।
१९६.०१५. राज्ञा चन्द्रप्रभेण तावन्ति हस्त्यश्वरथच्छत्राणि प्रदानमनुप्रदत्तानि, यथा अस्मिञ्जम्बुद्वीपे एकमनुष्योऽपि पद्भ्यां न गच्छति।
१९६.०१६. सर्वे जम्बुद्वीपका मनुष्या हस्तिपृष्ठैश्च चतुरश्वयुक्तैश्च रथैरुपरिसुवर्णमयै रूप्यमयैश्चातपत्रैरुद्यानेनोद्यानं ग्रामेण ग्राममनुविचरन्ति स्म्
१९६.०१८. ततो राज्ञश्चन्द्रप्रभस्यैतदभवत्--किं पुनर्मे इत्वरेण दानेन प्रदत्तेन? यन्न्वहं यादृशान्येव मम वस्त्रालंकाराण्याभरणानि, तादृशान्येव दानमनुप्रयच्छेयम्, यत्सर्वे जम्बुद्वीपका मनुष्या राजक्रीडया क्रीडेयुः।
१९६.०२०. अथ राजा चन्द्रप्रभो जम्बुद्वीपकेभ्यो मनुष्येभ्यो मौलिपट्टवस्त्रालंकाराभरणाण्यनुप्रयच्छति, तद्यथा--हर्षकटककेयूराहारार्धहारादीन् प्रदानमनुप्रयच्छति स्म्
१९६.०२२. राज्ञा चन्द्रप्रभेण तावन्ति राजार्हाणि वस्त्राण्यलंकाराणि मौलयः पट्टाश्चानुप्रदत्ताः, येन सर्वे जम्बुद्वीपका मनुष्या मौलिधराः पट्टधराश्च संवृत्ताः।
१९६.०२३. या राज्ञश्चन्द्रप्रभस्याकृतिस्तादृशा एव सर्वे जम्बुद्वीपका मनुष्याः संवृत्ताः।
१९६.०२४. ततो राज्ञा चन्द्रप्रभेणाष्टषष्टिषु नगरसहस्रेषु घण्टावघोषणं कारितम्--सर्वे भवन्तो जम्बुद्वीपका मनुष्या राजक्रीडया, क्रीडन्तु, यावदहं जीवामीति।
१९६.०२६. अथ जम्बुद्वीपका मनुष्या राज्ञश्चन्द्रप्रभस्य घण्टावघोषणां श्रुत्वा सर्व एव राजक्रीडया क्रीडितुमारब्धाः।
१९६.०२७. वीणावेणुपणवसुघोषकवल्लरीभेरीपटहमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृता राजश्रियमनुभवन्ति स्म्
१९६.०२९. तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजलीलया क्रीडतां यश्च वीणावेणुपणवसुघोषकवल्लरीभेरीमृदङ्गपटहशब्दो यश्चाष्टषष्टिषु तालवंशनिर्घोषो यश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वर्णमनोज्ञशब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनादितोऽभूत्तद्यथा देवानां त्रायस्त्रिंशानामभ्यन्तरं देवपुतम् <१९७>नृत्तगीतवादितशब्देन निर्नादितम्।

१९७.००१. एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपवासिनां जनकायस्तेन गीतवादितशब्देन एकान्तसुखसमर्पितोऽत्यर्थं रमत्
१९७.००२. तेन खलु समयेन भद्रशिलायां राजधान्यां द्वासप्ततिरयुतकोटीशतानि मनुष्याणां प्रतिवसन्ति स्म्
१९७.००४. तेषां राजा चन्द्रप्रभ ऋष्टो बभूव प्रियो मनापश्च्
१९७.००४. अपीदानीं वर्णाकृतिलिङ्गस्थैर्यमस्य निरीक्षमाणा न तृप्तिमुपयान्ति स्म्
१९७.००५. यस्मिंश्च समये राजा चन्द्रप्रभो महायज्ञवाटं गच्छति, तस्मिन् समये प्राणिकोटीनियुतशतसहस्राण्यवलोकयन्ति, एवं चाहुह्--देवगर्भो बतायं राजा चन्द्रप्तभ इह जमुद्वीपे राज्यं कारयति।
१९७.००७. न खलु मनुष्या ईदृग्वर्णसंस्थाना यादृशा देवस्य चन्द्रप्रभस्येति।
१९७.००८. राजा चन्द्रप्रभो येन येनावलोकयति, तेन तेन स्त्रीसहस्राण्यवलोकयन्ति--धन्यास्ताः स्त्रियो यासामेष भर्तेति।
१९७.००९. तच्च शुद्धैर्मनोभिर्नान्यथाभावात् ।
१९७.००९. एवं दर्शनीयो राजा चन्द्रप्रभो बभूव्
१९७.०१०. चन्द्रप्रभस्य राज्ञोऽर्धत्रयोदशामात्यसहस्राणि।
१९७.०१०. तेषां द्वौ अग्रामात्यौ महाचन्द्रो महीधरश्च्
१९७.०११. व्यक्तौ पण्डितौ मेधाविनौ गुणैश्च सर्वामात्यमण्डलप्रतिविशिष्टौ सर्वाधिकृतौ राजपरिकर्षकौ राजपरिपालकौ।
१९७.०१२. अल्पोत्सुको राजा सर्वकर्मान्तेषु।
१९७.०१३. महाचन्द्रश्चाग्रामात्योऽभीक्ष्णं जम्बुद्वीपकान्मनुष्यान् दशसु कुशलेषु कर्मपथेषु नियोजयति--इमान् भवन्तो जम्बुद्वीपका मनुष्या दश कुशलान् कर्मपथान् समादाय वर्तथेति।
१९७.०१४. यादृशी च राज्ञश्चक्रवर्तिनोऽववादानुशासनी, तादृशी महाचन्द्रस्यामात्यस्याववादानुशासनी बभूव्
१९७.०१६. महाचन्द्रस्याग्रामात्यस्य राजा चन्द्रप्रभ इष्टश्चाभूत्प्रियश्च मनाअपश्च्
१९७.०१६. अपीदानीं वर्णाकृतिलिङ्गसंस्थानमस्य निरीक्षमाणो न तृप्तिमुपयाति॥
१९७.०१८. यावदपरेण समयेन महाचन्द्रेणाग्रामात्येन स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य धूमवर्णैः पिशाचैर्मौलिरपनीतः।
१९७.०१९. प्रतिविबुद्धस्य चाभूद्भयम्, अभूच्छङ्कितत्वम्, अभूद्रोमहर्षह्--मा हैव देवस्य चन्द्रप्रभस्य शिरोयाचनक आगच्छेत् ।
१९७.०२०. देवश्च सर्वंददः।
१९७.०२०. सर्वपरित्यागे नास्त्यस्य किंचिदपरित्यक्तं दीनानाथकृपणवनीपकयाचनकेभ्य इति।
१९७.०२१. तस्य बुद्धिरुत्पन्ना--न मया राज्ञश्चन्द्रप्रभस्य स्वप्नो निवेदयितव्यः।
१९७.०२२. अपि तु रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागारं प्रवेश्य स्थापयितव्यानि।
१९७.०२३. यदि नाम कश्चिद्देवस्य शिरोयाचनक आगच्छेत्, तमेनमेभी रत्नमयैः शिरोभिः प्रलोभयिष्यामि।
१९७.०२४. इति विदित्वा रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागरेषु प्रक्षिप्य स्थापितवान्।
१९७.०२५. अपरेण समयेन महीधरेणाग्रामात्येन स्वप्नो दृष्टह्--सर्वरत्नमयः पोतश्चन्द्रप्रभस्य कुलस्थः शतशो विशीर्णः।
१९७.०२६. दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नह्--मा हैव राज्ञश्चन्द्रप्रभस्य राज्यच्युतिर्भविष्यति जीवितस्य चान्तरस्य चान्तराय इति।
१९७.०२७. तेन ब्राह्मणा ये नैमित्तिका विपश्चिकाश्चाहूय उक्ताह्--भवन्तः, मयेदृशः स्वप्नो दृष्टः, निर्दोषं कुरुतेति।
१९७.०२८. ततस्तैर्ब्राह्मणैर्नैमित्तिकैर्विपश्चिकैश्च समाख्यातम्--यादृशोऽयं त्वया स्वप्नो दृष्टः, नचिरादेव राज्ञश्चन्द्रप्रभस्य शिरोयाचनक आगमिष्यति।
१९७.०३०. स चास्यामेव भद्रशिलायां राजधान्यामवतरिष्यतीति।
१९७.०३०. ततो महीधरोऽग्रामात्यः स्वप्ननिर्देशं श्रुत्वा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अतिक्षिप्रं राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति।
१९७.०३२. अथापरेण समयेनार्धत्रयोदशाभिरमात्यसहस्रैह्<१९८> स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य चतुर्षु यज्ञवाटेषु करोटपाणिभिर्यक्षैश्चछत्रध्वजपताकाः पातिताः, सुवर्णभेर्यश्च भिन्नाः।

१९८.००२. दृष्ट्वा च पुनर्भीतास्त्रस्ताः संविग्नाह्--मा हैव राज्ञश्चन्द्रप्रभस्य महापृथिवीपालस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलमागच्छेत्, मा हैव अस्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगः, मा हैव अत्राणोऽपरित्राणो जम्बुद्वीपो भविष्यतीति।
१९८.००५. राज्ञा चन्द्रप्रभेण श्रुतम्।
१९८.००५. तेन श्रुत्वा अष्टषष्टिनगरसहस्रेषु घण्टावघोषणं कारितम्--राजलीलया भवन्तः सर्वे जम्बुद्वीपका मानुष्याः क्रीडन्तु यावदहं जीवामि।
१९८.००७. किं युष्माकं मायोपमैः स्वप्नोपमैश्चिन्तितैह्? राज्ञश्चन्द्रप्रभस्य घण्टावघोषणं श्रुत्वा सर्व एव जम्बुद्वीपका मनुष्या राजलीलया क्रीडितुमारब्धाः, वीणावोणुपणवसुघोषकवल्लरीभेरीमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृताअ राजश्रियमनुभवन्ति स्म्
१९८.०१०. तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजक्रीडया क्रीडतां यश्च राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वल्गुर्मनोज्ञः शब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनिर्नादितोऽभूत् ।
१९८.०१३. तद्यथा देवानां त्रायस्त्रिंशानामन्यतरं देवपुरं नृत्तगीतवादितम्, एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपनिवासी जनकायस्तेन गीतशब्देनैकान्तसुखसमर्पितोऽत्यर्थं रमत् ।
१९८.०१६. तेन खलु समयेन गन्धमादने पर्वते रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म इन्द्रजालविधिज्ञः।
१९८.०१७. अश्रौषीद्रौद्राक्षो ब्राह्मणो भद्रशिलायां राजधान्यां चन्द्रप्रभो नाम राजा सर्वंददोऽस्मीत्यात्मानं प्रतिजानीत्
१९८.०१८. यन्न्वहं गत्वा शिरो याचेयमिति।
१९८.०१८. तस्यैतदभवत्--यदि तावत्सर्वददो भविष्यति, मम शिरो दास्यति।
१९८.०१९. अपि तु दुष्करमेतदस्थानमनवकाशो यदेवमिष्टं कान्तं प्रियं मनापमुत्तमाङ्गं परित्यक्ष्यति यदुत शीर्षम्, नेदं स्थानं विद्यत्
१९८.०२१. इति विदित्वा गन्धमादनात्पर्वतादवतीर्णः।
१९८.०२१. अथ गन्धमादननिवासिनी देवता विक्रोष्टुमारब्धा--हा कष्टं रज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य महाकारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति।
१९८.०२३. तेन खलु समयेन सर्वजम्बुद्वीप आकुलाकुलः, धूमान्धकारः, उपकापाताः, दिशोदाहाः, अन्तरीक्षे देवदुन्दुभयोऽभिनदन्ति।
१९८.०२४. भद्रशिलायां च राजधान्यां नातिदूरे पञ्चाभिज्ञो ऋषिः प्रैवसति विश्वामित्रो नांना पञ्चशतपरिवारो मैत्रात्मकः कारुणिकः सत्त्ववत्सलः।
१९८.०२६. अथ स ऋषिः सर्वजम्बुद्वीपमाकुलं दृष्ट्वा माणवकानामन्त्रयते--यत्खलु माणवका जानीत सर्वजम्बुद्वीप एतर्ह्याकुलाकुलो धूमान्धकारः।
१९८.०२७. सूर्याचन्द्रमसौ एवमहानुभावौ न भासतो न तपतो न विरोचतः।
१९८.०२८. नूनं कस्यचिन्महापुरुषस्य निरोधो भविष्यति।
१९८.०२८. तथा हि--
१९८.०२९. रोदन्ति किन्नरगणा वनदेवताश्च धिक्कारमुत्सृजन्ति देवगणा पि न स्थुः।
१९८.०३१. चन्द्रो न भाति न विभाति सहस्ररश्मिर्नैव वाद्यवादितरवोऽपि निशाम्यतेऽत्र् ।१॥

१९९.००१. <१९९>एते हि पादपगणाः फलपुष्पनद्धा भूमौ पतन्ति पवनैरपि चालितानि।
१९९.००३. संश्रूयते ध्वनिरयं च यथातिभीमो व्यक्तो भविष्यति पुरे व्यसनं महान्तम्॥२॥
१९९.००५. एते भद्रशिलानिवासनिरताः सर्वे सदुःखा जना अत्यन्तप्रतिशोकशल्यविहताः प्रस्पन्दकण्ठाननाः।
१९९.००७. एताश्चन्द्रनिभानना युवतयो रोदन्ति वेश्मोत्तमे सर्वे च प्ररुदन्ति तीव्रकरुणाः सन्तः श्मशाने यथा॥३॥
१९९.००९. किं कारणं पुरनिवासिजनाः समग्राः संपिण्डितं मनसि दुःखमिदं वहन्ति।
१९९.०११. उत्क्रोशतामनिशमर्धकृताग्रहस्तैरैश्वर्यमप्रतिसमं निरुणद्धि वाचम्॥४॥
१९९.०१३. एते पयोदा विनदन्त्यतोया जलाश्रयाः शोकममी व्रजन्ति।
१९९.०१५. भुवोरिवाम्भसि च बालसमीरणास्ता वाताः प्रवान्ति च खरा रजसा विमिश्राः॥५॥
१९९.०१७. अशिवानि निमित्तानि प्रवरणि हि साम्प्रतम्।
१९९.०१८. क्षेमां दिशमतोऽस्माकमितो गन्तुं क्षमो भवेत् ॥६॥
१९९.०१९. अपि तु खलु माणवका राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां न भूयो मनोज्ञः स्वरो निश्चरति।
१९९.०२०. नूनं बत भद्रशिलायां महानुपद्रवो भविष्यतीति॥
१९९.०२१. अथ रौद्रक्षो ब्राह्मणो भद्रशिलायां राजधान्यामनुप्राप्तः।
१९९.०२१. ततो नगरविवासिनी देवता रौद्राक्षं ब्रह्मणं दूरादेव दृष्ट्वा येन राजा चन्द्रप्रभास्तेनोपसंक्रान्ता।
१९९.०२२. उपसंक्रम्य राजानं चन्द्रप्रभमिदमवोचत्--यत्खलु देव जानीयाह्--अद्य देवस्य याचनक आगमिष्यति हिंसको विहेठकोऽवतारप्रेक्षी अवतारगवेषी।
१९९.०२४. स देवस्य शिरो याचिष्यतीति।
१९९.०२४. तद्देवेन सत्त्वानामर्थायात्मानं परिपालयितव्यमिति।
१९९.०२५. अथ राजा चन्द्रप्रभः शिरोयाचनकमुपश्रुत्य प्रमुदितमना विस्मयोत्फल्लदृष्टिर्देवतामुवाच--गच्छ देवते, यद्यागमिष्यति, अहमस्य दीर्घकालाभिलषितं मनोरथं परिपूरयिष्यमीति।
१९९.०२७. अथ सा देवता राज्ञश्चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं विदित्वा दुःखिनी दुर्मनस्का विप्रतिसारिणी तत्रैवान्तर्हिता।
१९९.०२८. अथ राज्ञश्चन्द्रप्रभस्यैतदभवत्--किमत्राश्चर्यं यदहमन्नमन्नार्थिभ्योऽनुप्रयच्छामि, पानं पानार्थिभ्यो वस्त्रहिरण्यसुवर्णमणिमुक्तादींस्तदर्थिभ्यः।
१९९.०३०. यन्न्वहं याचनकेभ्यः स्वशरीरमपि परित्यजेयमिति।
१९९.०३०. ततो रौद्राक्षो ब्राह्मणो दक्षिणेन नगरद्वारेण प्रविशन् देवतया निवारितह्--गच्छ पापब्राह्मण, मा प्रविश्
१९९.०३१. कथमिदानीं त्वम् <२००>मोहपुरुष राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानेकगुणसम्पन्नस्य जम्बुद्वीपपरिपालकस्यादूषिणोऽनपकारिणः शिरश्छेत्स्यसि? रौद्रचित्त पापब्राह्मण, मा प्रविशेति।

२००.००३. यावदेतत्प्रकरणं राज्ञा चन्द्रप्रभेण श्रुतम्--याचनको मे नगरद्वारे देवतया विधार्यते इति।
२००.००४. श्रुत्वा च पुनर्महाचन्द्रमग्रामात्यमामन्त्रयते--यत्खलु महाचन्द्र जानीयाह्--याचनको मे नगरद्वारि देवतया विधार्यत्
२००.००५. गच्छ, शीघ्रं मत्सकाशमानयेति।
२००.००५. एवं देवेति महाचन्द्रोऽग्रामात्यो राज्ञश्चन्द्रप्रभस्य प्रतिश्रुत्य नगरद्वारं गत्वा तां देवतामुवाच--यत्खलु देवते जानीयाह्--प्रविशत्वेष ब्राह्मण, राजा चन्द्रप्रभ एनमाह्वापयत इति।
२००.००७. ततो नगरनिवासिनी देवता महाचन्द्रमग्रामात्यमिदमवोचत्--यत्खलु महाचन्द्र जानीयाह्--एष ब्राह्मणो रौद्रचित्तो निष्कारुणिको राज्ञश्चन्द्रप्रभस्य विनाशार्थं भद्रशिलामनुप्राप्तः।
२००.००९. किमनेन दुरात्मना प्रवेशितेन? एष मया देवते उपायश्चिन्तितो येनायं ब्राह्मणो न प्रभविष्यति देवस्य शिरो ग्रहीतुमिति।
२००.०११. अथ महाचन्द्रोऽग्रामात्यो रौद्राक्षं ब्राह्मणमादाय नगरं प्रविश्य रत्नधरानाज्ञापयति--आनीयन्तां भवन्तो रत्नमयानि शिरांसि।
२००.०१३. अस्मै ब्राह्मणाय दास्यामीति।
२००.०१३. भाण्डागारिकै रत्नमयानां शीर्षाणां राजद्वारे राशिः कृतः।
२००.०१४. महाचन्द्रेणाग्रामात्येन रौद्राक्षस्य रत्नमयानि शीर्षाण्युपदर्शितानि--प्रतिगृह्ण त्वं महाब्राह्मण प्रभूतानि रत्नमयानि शीर्षाणि।
२००.०१५. यावदाप्तं च ते हिरण्यसुवर्णमनुप्रयच्छामि, येन ते पुत्रपौत्राणां जीविका भविष्यति।
२००.०१६. किं ते देवस्य शीर्षेण मज्जाशिङ्घाणकवसादिपूर्णेनेति? एवमुक्ते रौद्राक्षो ब्राह्मणो महाचन्द्रमग्रामात्यमिदमवोचत्--न रत्नमयैर्मे शिरोभिः प्रयोजनम्।
२००.०१८. नापि हिरण्यसुवर्णेन्
२००.०१८. अपि त्वहमस्य महापृथिवीपालस्य सर्वंददस्य सकाशमागतः शिरसोऽर्थाय्
२००.०१९. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ करे कपोलं दत्त्वा चिन्तापरौ व्यवस्थितौ--किमिदानीं प्राप्तकालमिति।
२००.०२०. अथैतद्वृत्तान्तमुपश्रुत्य राजा चन्द्रप्रभो महाचन्द्रमहीधरौ अग्रामात्यौ दूरेण प्रक्रोश्यैतदवोचत्--आनीयतामेष मत्समीपम्।
२००.०२१. अहमस्यैवं मनोरथं पूरयिष्यामीति।
२००.०२२. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ साश्रुदुर्दिनवदनौ करुणकरुणं परिदेवमानौ अभिरुद्य देवस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलास्यानेकगुणसमुदितस्य ज्ञानकुशलस्य दिव्यचक्षुषोऽनित्यताबलं प्रत्युपस्थितम्, अद्यास्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगो विसम्योगः।
२००.०२५. इति विदित्वा राज्ञः पादयोर्निपत्य एकान्ते निषण्णौ।
२००.०२५. अथ राजा चन्द्रप्रभः परमत्यागप्रतिविशिष्टं त्यागं परित्यकुकामो दूरत एव तं ब्राह्मणमामन्त्रयते--एहि त्वं ब्राह्मण, यच्छतां यत्प्रार्थयसे तद्गृहाणेति।
२००.०२७. अथ रौद्राक्षो ब्राह्मणो येन राजा चन्द्रप्रभस्तेनोपसंक्रान्तः।
२००.०२८. उपसंक्रम्य राजानं चन्द्रप्रभं जयेनायुषा च वर्धयित्वा राजानं चन्द्रप्रभमिदमवोचत्--
२००.०२९. धर्मे स्थितोऽसि विमले शुभबुद्धिसत्त्व सर्वज्ञतामभिलषन् हृदयेन साधो।
२००.०३१. मह्यं शिरः सृज महाकरुणाग्रचेता मह्यं ददस्व मम तोषकरो भवाद्य् ।७॥