दत्तात्रेय उपनिषद्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
उपनिषद्


॥ दत्तात्रेयोपनिषत् ॥

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं
धामोपास्वेत्याह ।
सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं
विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति ।
दमिति हंसः ।
दामिति दीर्घं तद्बीजं नाम बीजस्थम् ।
दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति ।
तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
वटबीजस्थमिव
दत्तबीजस्थं सर्वं जगत् ।
एतदैवाक्षरं व्याख्यातम् ।
व्याख्यास्ये
षडक्षरम् ।
ओमिति द्वितीयम् ।
ह्रीमिति तृतीयम् ।
क्लीमिति चतुर्थम् ।
ग्लौमिति पञ्चमम् ।
द्रामिति षट्कम् ।
षडक्षरोऽयं भवति ।
योगानुभवो भवति ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो
देवता ।
द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः ।
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् ।
नम इति पूर्णानन्दकविग्रहम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
दत्तात्रेयायेति
कीलकम् ।
तदेव बीजम् ।
नमः शक्तिर्भवति ।
ओमिति प्रथमम् ।
आमिति
द्वितीयम् ।
ह्रीमिति तृतीयम् ।
क्रोमिति चतुर्थम् ।
एहीति तदेव वदेत् ।
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः ।
जगती छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ओमिति बीजम् ।
स्वाहेति शक्तिः ।
संबुद्धिरिति कीलकम् ।
द्रमिति हृदये ।
ह्रीं क्लीमिति शीर्षे ।
एहीति शिखायाम् ।
दत्तेति कवचे ।
आत्रेयेति चक्षुषि ।
स्वाहेत्यस्त्रे ।
तन्मयो भवति ।
य एवं वेद ।
षोडशाक्षरं व्याख्यास्ये ।
प्राणं देयम् ।
मानं देयम् ।
चक्षुर्देयम् ।
श्रोत्रं देयम् ।
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् ।
ओमिति प्रथमं भवति ।
ऐमिति द्वितीयम् ।
क्रोमिति तृतीयम् ।
क्लीमिति चतुर्थम् ।
क्लूमिति पञ्चमम् ।
ह्रामिति षष्ठम् ।
ह्रीमिति
सप्तमम् ।
ह्रूमित्यष्टमम् ।
सौरिति नवमम् ।
दत्तात्रेयायेति चतुर्दशम् ।
स्वाहेति षोडशम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ॐ बीजम् ।
स्वाहा शक्तिः ।
चतुर्थ्यन्तं कीलकम् ।
ओमिति हृदये ।
क्लां क्लीं क्लूमिति शिखायाम् ।
सौरिति
कवचे ।
चतुर्थ्यन्तं चक्षुषि ।
स्वाहेत्यस्त्रे ।
यो
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।
सौरित्यन्ते श्रीवैष्णव इत्युच्यते ।
तज्जापी विष्णुरूपी
भवति ।
अनुष्टुप् छन्दो व्याख्यास्ये ।
सर्वत्र
संबुद्धिरिमानीत्युच्यन्ते ।
दत्तात्रेय हरे कृष्ण
उन्मत्तानन्ददायक ।
दिगंबर मुने बालपिशाच
ज्ञानसागर ॥ १ ॥ इत्युपनिषत् ।
अनुष्टुप् छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।
हरे कृष्णेति शीर्षे ।
उन्मत्तानन्देति शिखायाम् ।
दायकमुन इति कवचे ।
दिगंबरेति चक्षुषि ।
पिशाचज्ञानसागरेत्यस्त्रे ।
आनुष्टुभोऽयं
मयाधीतः ।
अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।
सर्वोपकारी मोक्षी भवति ।
य एवं वेदेत्युपनिषत् ॥ १ ॥
इति प्रथमः खण्डः ॥ १ ॥
ओमिति व्याहरेत् ।
ॐ नमो भगवते दत्तात्रेयाय
स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
पिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल-
प्रदाय ओमिति व्याहरेत् ।
भवबन्धमोचनायेति
ह्रीमिति व्याहरेत् ।
सकलविभूति दायेति क्रोमिति व्याहरेत् ।
साध्याकर्षणायेति सौरिति व्याहरेत् ।
सर्वमनः-
क्षोभणायेति श्रीमिति व्याहरेत् ।
महोमिति व्याहरेत् ।
चिरञ्जीविने वषडिति व्याहरेत् ।
वशीकुरुवशीकुरु
वौषडिति व्याहरेत् ।
आकर्षयाकर्षय हुमिति
व्याहरेत् ।
विद्वेषयविद्वेषय फडिति व्याहरेत् ।
उच्चाटयोच्चाटय ठठेति व्याहरेत् ।
स्तम्भय-
स्तम्भय खखेति व्याहरेत् ।
मारयमारय नमः
संपन्नाय नमः संपन्नाय स्वाहा पोषयपोषय
परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः
शिवायेत्युपनिषत् ॥ २ ॥
इति द्वितीयः खण्डः ॥ २ ॥
य एवं वेद ।
अनुष्टुप् छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ओमिति बीजम् ।
स्वाहेति शक्तिः ।
द्रामिति कीलकम् ।
अष्टमूर्त्यष्टमन्त्रा भवन्ति ।
यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
पूतो भवति ।
गायत्र्या शतसहस्रं जप्तं भवति ।
महारुद्रशतसहस्रजापी भवति ।
प्रणवायुतकोटिजप्तो भवति ।
शतपूर्वाञ्छतापरान्पुनाति ।
स पङ्क्तिपावनो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति ।
गोहत्यादिपातकैर्मुक्तो भवति ।
तुलापुरुषादिदानैः प्रपापानतः पूतो भवति ।
अशेषपापान्मुक्तो भवति ।
भक्ष्याभक्ष्यपापैर्मुक्तो भवति ।
सर्वमन्त्रयोगपारीणो भवति ।
स एव ब्राह्मणो भवति ।
तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् ।
सोऽनन्तफलमश्नुते ।
स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति दत्तात्रेयोपनिषत्समाप्ता ॥

अधिकाध्ययनाय[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=दत्तात्रेय_उपनिषद्&oldid=37912" इत्यस्माद् प्रतिप्राप्तम्