त्रिंशिकाविज्ञप्तिभाष्यम्

विकिस्रोतः तः
त्रिंशिकाविज्ञप्तिभाष्यम्
[[लेखकः :|]]


(३८)
नमो बुद्धाय ॥

पुद्गलधर्मनैरात्म्ययोरप्रतिपन्नविप्रतिपन्नानामविपरीतपुद्गलधर्मनैरात्म्यप्रतिपादनार्थं त्रिंशिकाविज्ञप्तिप्रकरणारम्भः ।

पुद्गलधर्मनैरात्म्यप्रतिपादनं पुनः क्लेशज्ञेयावरणप्रहाणार्थम् । तथा ह्यात्मदृष्टिप्रभवा रागादयः क्लेशाः पुद्गलनैरात्म्यावबोधश्च सत्कायदृष्टेः प्रतिपक्षत्वात्तत्प्रहाणाय प्रवर्तमानः सर्वक्लेशान् प्रजहाति । धर्मनैरात्म्यज्ञानादपि ज्ञेयावरणप्रतिपक्षत्वात्ज्ञेयावरणं प्रहीयते । क्लेशज्ञेयावरणप्रहाणमपि मोक्षसर्वज्ञत्वाधिगमार्थम् । क्लेशा हि मोक्षप्राप्तेरावरणमिति अतस्तेषु प्रहीणेषु मोक्षोऽधिगम्यते । ज्ञेयावरणमपि सर्वस्मिन् ज्ञेये ज्ञानप्रवृत्तिप्रतिबन्धभूतमक्लिष्टमज्ञानम् । तस्मिन् प्रहीणे सर्वाकारे ज्ञेयेऽसक्तमप्रतिहतञ्च ज्ञानं प्रवर्तत इत्यतः सर्वज्ञत्वमधिगम्यते ।

अथ वा धर्मपुद्गलाभिनिविष्टाश्चित्तमात्रं यथाभूतं न जानन्तीत्यतो धर्मपुद्गलनैरात्म्यप्रदर्शनेन सफले विज्ञप्तिमात्रेऽनुपूर्वेण प्रवेशार्थं प्रकरणारम्भः ।

अथ वा विज्ञानवद्विज्ञेयमपि द्रव्यत एवेति केचिन्मन्यन्ते । विज्ञेयवद्विज्ञानमपि संवृतित एव न परमार्थत इत्यस्य द्विप्रकारस्याप्येकान्तवादस्य प्रतिषेधार्थः प्रकरणारम्भः ॥

(४०)
आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । १ ब्

लोकशास्त्रयोरिति वाक्यशेषः ।

विज्ञानपरिणामेऽसौ । १

आत्मधर्मोपचार इति संबध्यते । आत्मा धर्माश्चोपचर्यन्त इत्यात्मधर्मोपचारः । स पुनरात्मप्रज्ञप्तिर्धर्मप्रज्ञप्तिश्च । विविध इत्यनेकप्रकारः । आत्मा जीवो जन्तुर्मनुजो माणव इत्येवमादिक आत्मोपचारः स्कन्धा धातव आयतनानि रूपं वेदना संज्ञा संस्कारा विज्ञानमित्येवमादिको धर्मोपचारः ।

अयं द्विप्रकारोऽप्युपचारो विज्ञानपरिणाम एव न मुख्ये आत्मनि धर्मेषु चेति । कुत एतत् । धर्माणामात्मनश्च विज्ञानपरिणामाद्बहिरभावात् । कोऽयं परिणामो नाम । अन्यथात्वम् । कारणक्षणनिरोधसमकालः कारणक्षणविलक्षणः कार्यस्यात्मलाभः परिणामः । तत्रात्मादिविकल्पवासनापरिपोषाद्रूपादिविकल्पवासनापरिपोषाच्चालयविज्ञानादात्मादिनिर्भासो विकल्पो रूपादिनिर्भासश्चोत्पद्यते । (४२) तमात्मादिनिर्भासं रूपादिनिर्भासञ्च तस्माद्विकल्पाद्बहिर्भूतमिवोपादायात्माद्युपचारो रूपादिधर्मोपचारश्चानादिकालिकः प्रवर्तते विनापि बाह्येनात्मना धर्मैश्च । तद्यथा तैमिरिकस्य केशोण्डुकाद्युपचार इति । यच्च यत्र नास्ति तत्तत्रोपचर्यते । तद्यथा बाहीके गौः ।

एवं विज्ञानस्वरूपे बहिश्चात्मधर्माभावात्परिकल्पित एवात्मा धर्माश्च न तु परमार्थतः सन्तीति विज्ञानवद्विज्ञेयमपि द्रव्यत एवेत्ययमेकान्तवादो नाभ्युपेयः ।

उपचारस्य च निराधारस्यासंभवादवश्यं विज्ञानपरिणामो वस्तुतोऽस्तीत्युपगन्तव्यो यत्रात्मधर्मोपचारः प्रवर्तते । अतश्चायमभ्युपगमो न युक्तिक्षमो विज्ञानमपि विज्ञेयवत्संवृतित एव न परमार्थत इति । संवृतितोऽप्यभावप्रसङ्गान्न हि संवृतिर्निरुपादाना युज्यते ।

तस्मादयमेकान्तवादो द्विप्रकारोऽपि निर्युक्तिकत्वात्त्याज्य इत्याचार्यवचनम् । एवञ्च सर्वं विज्ञेयं परिकल्पितस्वभावत्वाद्वस्तुतो न विद्यते विज्ञानं पुनः प्रतीत्यसमुत्पन्नत्वाद्द्रव्यतोऽस्तीत्यभ्युपेयम् । प्रतीत्यसमुत्पन्नत्वं पुनर्विज्ञानस्य परिणामशब्देन ज्ञापितम् ।

कथमेतद्गम्यते विना बाह्येनार्थेन विज्ञानमेवार्थाकारमुत्पद्यत इति । बाह्यो ह्यर्थः स्वाभासविज्ञानजनकत्वेन विज्ञानस्यालम्बनप्रत्यय इष्यते न कारणत्वमात्रेण समनन्तरादिप्रत्ययाद्विशेषाप्रसङ्गात् ।

(४४)

सञ्चितालम्बनाश्च पञ्चविज्ञानकायास्तदाकारत्वात् । न च सञ्चितमवयवसंहतिमात्रादन्यद्विद्यते । तदवयवानपोह्य सञ्चिताकारविज्ञानाभावात् । तस्माद्विनैव बाह्येनार्थेन विज्ञानं सञ्चिताकारमुत्पद्यते ।

न च परमाणव एव संचितास्तस्यालम्बनं परमाणूनामतदाकारत्वात् । न ह्यसञ्चितावस्थातः सञ्चितावस्थायां परमाणूनां कश्चिदात्मातिशयः । तस्मादसञ्चितवत्सञ्चिता अपि परमाणवो नैवालम्बनम् ।

अन्यस्तु मन्यते । एकैक परमाणुरन्यनिरपेक्ष्योऽतीन्द्रियो बहवस्तु परस्परापेक्षा इन्द्रियग्राह्याः । तेषामपि सापेक्षनिरपेक्षावस्थयोरात्मातिशयाभावादेकान्तेनेन्द्रियग्राह्यत्वमतीन्द्रियत्वं वा ।

यदि च परमाणव एव परस्परापेक्षा विज्ञानस्य विषयीभवन्ति । एवं सति योऽयं घटकुड्याद्याकारभेदो विज्ञाने स न स्यात्प्ररमाणूनामतदाकारत्वात् । न चान्यनिर्भासस्य विज्ञानस्यान्याकारो विषयो युज्यतेऽतिप्रसङ्गात् । न च परमाणवः स्तम्भादिवत्परमार्थतः सन्त्य् । अर्वाङ्मध्यपरभागसद्भावात् ।

तदनभ्युपगमे वा पूर्वदक्षिणापरोत्तरादिदिग्भेदो यः स परमाणोर्न स्यात् । ततश्च विज्ञानवत्परमाणोरप्यमूर्तत्वमदेशस्थत्वञ्च प्रसज्यते । एवं बाह्यार्थाभावाद्विज्ञानमेवार्थाकारमुत्पद्यते स्वप्नविज्ञानवदित्यभ्युपेयम् । वेदनादयोऽपि नातीतानागतास्तदाकारविज्ञानजनका निरुद्धाजातत्वात् । न च वर्तमाना वर्तमानजनका उत्पद्यमानावस्थायामसत्त्वात् । (४६) उत्पन्नावस्थायां विज्ञानस्यापि तदाकारेणोत्पन्नत्वान्न किञ्चित्कर्तव्यमस्तीति मनोविज्ञानमप्यनालम्बनमेवोत्पद्यते ।

अन्यस्त्वाह । असत्यात्मनि मुख्ये धर्मेषु चोपचारो न युज्यते । उपचारो हि त्रिषु सत्सु भवति नान्यतमाभावे मुख्यपदार्थे तत्सदृशेऽन्यस्मिन् विषये तयोश्च सादृश्ये । तद्यथा मुख्येऽग्नौ तत्सदृशे च माणवके तयोश्च साधारणे धर्मे कपिलत्वे तीक्ष्णत्वे वा सत्यग्निर्माणवक इत्युपचारः क्रियते । अत्र ह्यग्निर्माणवक इति जातिर्द्रव्यं वोपचर्यते । उभयथाप्युपचाराभावः ।

तत्र तावन्न जातेः साधारणं कपिलत्वं तीक्ष्णत्वं वा । न च साधारणधर्माभावे माणवके जातेरुपचारो युज्यतेऽतिप्रसङ्गात् । अतद्धर्मत्वेऽपि जातेस्तीक्ष्णत्वकपिलत्वयोर्
जात्यविनाभावित्वान्माणवके जात्युपचारो भविष्यति । जात्यभावेऽपि तीक्ष्णत्वकपिलत्वयोर्माणवके दर्शनादविनाभावित्वमयुक्तम् । अविनाभावित्वे चोपचाराभावोऽग्नाविव माणवकेऽपि जातिसद्भावात् । तस्मान्न माणवके जात्युपचारः संभवति ।

नापि द्रव्योपचारः सामान्यधर्माभावात् । न हि योऽग्नेस्तीक्ष्णो गुणः कपिलो वा स एव माणवके । किं तर्हि ततोऽन्यः । विशेषस्य स्वाश्रयप्रतिबद्धत्वान्न विनाग्निगुणेनाग्नेर्माणवके उपचारो युक्तः । अग्निगुणसादृश्याद्युक्त इति चेत् । एवमप्यग्निगुणस्यैव तीक्ष्णस्य कपिलस्य वा माणवकगुणे तीक्ष्णे कपिले वा सादृश्यादुपचारो युक्तो न तु माणवकेऽग्नेर्गुणसादृश्येनासंबन्धात् । तस्माद्द्रव्योपचारोऽपि नैव युज्यते ।

(४८)

मुख्योऽपि पदार्थो नैवास्ति तत्स्वरूपस्य सर्वज्ञानाभिधानविषयातिक्रान्तत्वात् । प्रधाने हि गुणरूपेणैव ज्ञानाभिधाने प्रवर्तेते तत्स्वरूपासंस्पर्शात् । अन्यथा च गुणवैयर्थ्यप्रसङ्गः । न हि ज्ञानाभिधानव्यतिरिक्तोऽन्यः पदार्थस्वरूपपरिच्छित्त्युपायोऽस्तीत्यतः प्रधानस्वरूपविषयज्ञानाभिधानाभावान्नैव मुख्यः पदार्थोऽस्तीत्यवगन्तव्यम् । एवं यावच्छब्दे संबन्धाभावाज्ज्ञानाभिधानाभाव एवञ्चाभिधानाभिधेयाभावान्नैव मुख्यः पदार्थोऽस्ति । अपि च सर्व एवायं गौण एव न मुख्योऽस्ति । गौणो हि नाम यो यत्राविद्यमानेन रूपेण प्रवर्तते । सर्वश्च शब्दः प्रधानेऽविद्यमानेनैव गुणरूपेण प्रवर्तते अतो मुख्यो नास्त्येव । तत्र यदुक्तमसत्यात्मनि मुख्ये धर्मेषु चोपचारो न युक्त इति तदयुक्तम् ।

विज्ञानपरिणामः कति प्रभेद इति न ज्ञायते । अतस्तत्प्रभेदोपदर्शनार्थमाह ।

परिणामः स च त्रिधा ॥ १

यत्रात्माद्युपचारो धर्मोपचारश्च स पुनर्हेतुभावेन फलभावेन च भिद्यते । तत्र हेतुपरिणामो यालयविज्ञाने विपाकनिष्यन्दवासनापरिपुष्टिः । फलपरिणामः पुनर्विपाकवासनावृत्तिलाभादालयविज्ञानस्य पूर्वकर्माक्षेपपरिसमाप्तौ या निकायसभागान्तरेष्वभिनिर्वृत्तिः । निष्यन्दवासनावृत्तिलाभाच्च या प्रवृत्तिविज्ञानानां क्लिष्टस्य च मनस आलयविज्ञानादभिनिर्वृत्तिः । तत्र प्रवृत्तिविज्ञानं कुशलाकुशलमालयविज्ञाने विपाकवासनां निष्यन्दवासनाञ्चाधत्ते । अव्याकृतं क्लिष्टञ्च मनो निष्यन्दवासनामेव ।

(५०)
योऽसौ त्रिविधः परिणाम उक्तोऽसावपि न ज्ञायते । अतस्तद्भेदप्रदर्शनार्थमाह ।

विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च । २ ब्

इति । स एष त्रिविधः परिणामो विपाकाख्यो मननाख्यो विषयविज्ञप्त्याख्यश्च । तत्र कुशलाकुशलकर्मवासनापरिपाकवशाद्यथाक्षेपं फलाभिनिर्वृत्तिर्विपाकः । क्लिष्टं मनो नित्यं मननात्मकत्वान्मननाख्यम् । रूपादिविषयप्रत्यवभासत्वाच्चक्षुरादिविज्ञानं षट्प्रकारमपि विषयविज्ञप्तिः ।

तत्स्वरूपनिर्देशमन्तरेण न तत्प्रतीयते इत्यतो यस्य यत्स्वरूपं तद्यथाक्रमं प्रदर्शयन्नाह ।

तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् २ द्

इति । तत्रेति योऽयमनन्तरोक्तस्त्रिविधः परिणामः । आलयाख्यमित्यालयविज्ञानसंज्ञकं यद्विज्ञानं स विपाकपरिणामः । तच्च सर्वसांक्लेशिकधर्मबीजस्थानत्वादालयः । आलयः स्थानमिति पर्यायौ । अथ वालीयन्ते उपनिबध्यन्तेऽस्मिन् सर्वधर्माः कार्यभावेन तद्वालीयते उपनिबध्यते कारणभावेन सर्वधर्मेष्वित्यालयः । विजानातीति विज्ञानम् । सर्वधातुगतियोनिजातिषु कुशलाकुशलकर्मविपाकत्वाद्विपाकः । सर्वधर्मबीजाश्रयत्वात्सर्वबीजकम् । यदि प्रवृत्तिविज्ञानव्यतिरिक्तमालयविज्ञानमस्ति ततोऽस्यालम्बनमाकारो वा वक्तव्यः । न हि निरालम्बनं निराकारं वा विज्ञानं युज्यते । नैव तन्निरालम्बनं निराकारं वेष्यते । किं तर्ह्य्(५२) अपरिच्छिन्नालम्बनाकारम् । किं कारणम् । यस्मादालयविज्ञानं द्विधा प्रवर्तते । अध्यात्ममुपादानविज्ञप्तितो बहिर्धापरिच्छिन्नाकारभाजनविज्ञप्तितश्च ।

तत्राध्यात्ममुपादानं परिकल्पितस्वभावाभिनिवेशवासना साधिष्ठानमिन्द्रियरूपं नाम च । अस्यालम्बनस्यातिसूक्ष्मत्वाद्

असंविदितकोपादिस्थानविज्ञप्तिकञ्च तत् । ३ ब्

असंविदितक उपादिर्यस्मिनसंविदितका च स्थानविज्ञप्तिर्यस्मिन् तदालयविज्ञानमसंविदितकोपादिस्थानविज्ञप्तिकम् ।

उपादानमुपादिः । स पुनरात्मादिविकल्पवासना रूपादिधर्मविकल्पवासना च । तत्सद्भावादालयविज्ञानेनात्मादिविकल्पो रूपादिविकल्पश्च कार्यत्वेनोपात्त इति तद्वासनात्मादिविकल्पानां रूपादिविकल्पानाञ्चोपादिरित्युच्यते । सोऽस्मिन्निदं तदिति प्रतिसंवेदनाकारेणासंविदित इत्यतस्तदसंविदितकोपादिरित्युच्यते ।

आश्रयोपादानञ्चोपादिः । आश्रय आत्मभावः साधिष्ठानमिन्द्रियरूपं नाम च । तस्य पुनर्यदुपादानमुपगमनमेकयोगक्षेमत्वेन तदुपादिः ।

तत्र कामरूपधात्वोर्द्वयोर्नामरूपयोरुपादानम् । आरूप्यधातौ तु रूपवीतरागत्वाद्रूपविपाकानभिनिर्वृत्तेर्नामोपादानमेव । किन् तु वासनावस्थमेव तत्र रूपं न विपाकावस्थम् । तत्पुनरुपादानमिदन्तया प्रतिसंवेदयितुमशक्यमित्यतोऽसंविदित इत्युच्यते ।

(५४)
स्थानविज्ञप्तिर्भाजनलोकसंनिवेशविज्ञप्तिः । साप्यपरिच्छिन्नालम्बनाकारप्रवृत्तत्वादसंविदितेत्युच्यते ।

कथं विज्ञानमपरिच्छिन्नालम्बनाकारं भविष्यतीति । अन्यविज्ञानवादिनामपि निरोधसमापत्त्याद्यवस्थासु तुल्यमेतत् । न च निरोधसमापत्त्याद्यवस्थासु विज्ञानं नैवास्तीति शक्यते प्रतिपत्तुम् । युक्तिविरोधात्सूत्रविरोधाच्चेति ।

तत्रालयाख्यं विज्ञानम् (२ )

इत्युक्तं विज्ञानञ्चावश्यं चैत्तैः संप्रयुक्तमित्यतो वक्तव्यं कतमैः कतिभिश्च तेभ्यः संप्रयुज्यते । तथा किं तैः सर्वदा संप्रयुज्यते । उत नेत्यत आह ।

सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् ३ द्

इति । सदेति यावदालयविज्ञानं तावदेभिः स्पर्शमनस्कारवेदनासंज्ञाचेतनाख्यैः पञ्चभिः सर्वत्रगैर्धर्मैरन्वितम् । वेदना वित् ।

तत्र स्पर्शस्त्रिकसंनिपाते इन्द्रियविकारपरिच्छेदः । वेदनासंनिश्रयदानकर्मकः । इन्द्रियविषयविज्ञानानि त्रीण्येव त्रिकम् । तस्य कार्यकारणभावेन समवस्थानं त्रिकसंनिपातः । तस्मिन् सति तत्समकालमेवेन्द्रियस्य सुखादिवेदनानुकूलो यो विकारस्तेन (५६) सदृशो विषयस्य सुखादिवेदनीयाकारपरिच्छेदो यः स स्पर्शः । इन्द्रियं पुनर्येन विशेषेण सुखदुःखादिहेतुत्वं प्रतिपद्यते स तस्य विकारः । स्पर्शः पुनरिन्द्रियविकारसादृश्येनेन्द्रियं स्पृशतीन्द्रियेण वा स्पृश्यत इति स्पर्श उच्यते । अत एव विषयविकारपरिच्छेदात्मकोऽपीन्द्रियविकारपरिच्छेद उक्तः । वेदनासंनिश्रयत्वमस्य कर्म । एवं ह्युक्तं सूत्रे सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखं वेदितमिति विस्तरः ।

मनस्कारश्चेतस आभोगः । आभुजनमाभोगः । आलम्बने येन चित्तमभिमुखीक्रियते । स पुनरालम्बने चित्तधारणकर्मकः । चित्तधारणं पुनस्तत्रैवालम्बने पुनः पुनश्चित्तस्यावर्जनम् । एतच्च कर्म चित्तसन्ततेरालम्बननियमेन विशिष्टं मनस्कारमधिकृत्योक्तं न तु यः प्रतिचित्तक्षणं तस्य हि प्रतिक्षणमेव व्यापारो न क्षणान्तरे ।

वेदना अनुभवस्वभावा । सा पुनर्विषयस्याह्लादकपरितापकतदुभयाकारविविक्तस्वरूपसाक्षात्करणभेदात्त्रिधा भवति । सुखा । दुःखा । अदुःखासुखा च ।

एवं त्वन्ये मन्यन्ते । शुभाशुभानां कर्मणां फलविपाकं प्रत्यनुभवन्त्यनेनेत्यनुभवः । तत्र शुभानां कर्मणां सुखोऽनुभवः फलविपाकः । अशुभानां दुःखः । उभयेषामदुःखासुखः ।

अत्र चालयविज्ञानमेव शुभाशुभकर्मविपाकः । तत्संप्रयुक्तैवोपेक्षा परमार्थतः शुभाशुभानां कर्मणां फलविपाकः । सुखदुःखयोस्तु कुशलाकुशलकर्मविपाकजत्वाद्विपाकोपचारः ।

तत्र सुखोऽनुभवो यस्मिन्नुत्पन्ने वियोगेच्छा निरुद्धे च पुनः संयोगेच्छा जायते । दुःखोऽनुभवो यस्मिन्नुत्पन्ने वियोगेच्छा निरुद्धे च पुनरसंयोगेच्छा । अदुःखासुखो यस्मिन्नुत्पन्ने निरुद्धे चोभ्यं न जायते ।

संज्ञा विषयनिमित्तोद्ग्रहणम् । विषय आलम्बनम् । निमित्तं तद्विशेषो नीलपीताद्यालम्बनव्यवस्थाकारणम् । तस्योद्ग्रहणं निरूपणं नीलमेतन्न पीतमिति ।

(५८)
चेतना चित्ताभिसंस्कारो मनसश्चेष्टा यस्यां सत्यामालम्बनं प्रति चेतसः प्रस्पन्द इव भवत्ययस्कान्तवशादयःप्रस्पन्दवत् ।

वेदना त्रिविधा सुखा दुःखा अदुःखासुखा च । धर्माश्चतुः प्रकाराः कुशला अकुशला अनिवृताव्याकृता निवृताव्याकृताश्च । तत्रालयविज्ञाने विदिति सामान्योपदेशेन न विज्ञायते तिसॄणां वेदनानां कतमा वेदना । तथा तदपि किं कुशलमकुशलमनिवृताव्याकृतं निवृताव्याकृतमिति न विज्ञायत इत्यत आह ।

उपेक्षा वेदना तत्रानिवृताव्याकृतञ्च तत् । ४ ब्

तत्रेत्यालयविज्ञानमेव प्रकृतत्वात्संबध्यते । उपेक्षैवालयविज्ञाने वेदना न सुखा न दुःखा तयोः परिच्छिन्नालम्बनाकारत्वाद्रागद्वेषानुशयितत्वाच्च ।

अनिवृताव्याकृतञ्च तत् । (४ )

आलयविज्ञानमिति प्रकृतम् । तत्रानिवृतग्रहणं निवृतव्यवच्छेदार्थम् । अव्याकृतग्रहणं कुशलाकुशलव्यवच्छेदार्थम् ।

मनोभूमिकैरागन्तुकैरुपक्लेशैरनावृतत्वादनिवृतम् । विपाकत्वाद्विपाकं प्रति कुशलाकुशलत्वेनाव्याकरणादव्याकृतम् ।

(६०)
तथा स्पर्शादयः । ४

यथालयविज्ञानमेकान्तेन विपाकोऽपरिच्छिन्नालम्बनाकारं सदा स्पर्शादिभिरन्वितं तत्र चोपेक्षैव वेदनानिवृताव्याकृतञ्च तथा स्पर्शादयोऽप्येकान्तेन विपाका एवापरिच्छिन्नालम्बनाकाराश्च । आत्मानं हित्वेतरैश्चतुर्भिरालयविज्ञानेन च नित्यमनुगतास्तेषु चोपेक्षैव वेदनानिवृताव्याकृताश्चालयविज्ञानवत् । न हि विपाकेन संप्रयुक्तानामविपाकत्वमपरिच्छिन्नालम्बनाकारेण च परिच्छिन्नालम्बनाकारत्वं संभवति । एवमन्यत्रापि वाच्यम् ॥

किं पुनस्तदालयविज्ञानमेकमभिन्नमासंसारमनुवर्तते । उत संतानेन । न हि तदेकमभिन्नमनुवर्तते क्षणिकत्वात् ।

किं तर्हि ।

तच्च वर्तते स्रोतसौघवत् ॥ ४

तच्चेत्यालयविज्ञानमेव संबध्यते । तत्र स्रोतो हेतुफलयोर्नैरन्तर्यप्रबन्धेन प्रवृत्तिः । उदकसमूहस्य पूर्वापरभागाविच्छेदेन प्रवाह ओघ इत्युच्यते । यथा ह्योघस्तृणकाष्ठगोमयादीनाकर्षयङ्गच्छत्येवमालयविज्ञानमपि पुण्यापुण्यानेञ्ज्यकर्मवासनानुगतं स्पर्शमनस्कारादीनाकर्षन् स्रोतसासंसारमव्युपरतं प्रवर्तत इति ।

तस्यैवं श्रोतसा प्रवृत्तस्य कस्यामवस्थायां व्यावृत्तिरित्याह ।

तस्य व्यावृत्तिरर्हत्त्वे । ५

किं पुनरर्हत्त्वम् । यद्योगादर्हन्नित्युच्यते । कस्य पुनर्योगादर्हन्नित्युच्यते । क्षयज्ञानानुत्पादज्ञानलाभात् । तस्यां ह्यवस्थायामालयविज्ञानाश्रितदौष्ठुल्यनिरवशेषप्रहाणादालयविज्ञानं व्यावृत्तं भवति । सैव चार्हदवस्था । उक्तः सविभङ्गो विपाकपरिणामः ।

(६२)
इदानीं मननाख्यां द्वितीयं परिणाममाह । तदाश्रित्य प्रवर्तत इति विस्तरः । तत्र यथा चक्षुरादिविज्ञानानां चक्षुरादय आश्रयत्वेन रूपादयश्चालम्बनत्वेन प्रसिद्धा नैव क्लिष्टस्य मनस आश्रय आलम्बनं वा प्रसिद्धम् ।

न च विज्ञानमाश्रयालम्बननिरपेक्षं युज्यत इत्यतः क्लिष्टस्य मनस आश्रयालम्बनप्रतिपादनार्थं निरुक्तिप्रतिपादनार्थञ्चाह ।

तदाश्रित्य प्रवर्तते ।
तदालम्बं मनोनाम विज्ञानं मननात्मकम् ॥ ५ च्द्

तदाश्रित्य प्रवर्तत इति तच्छब्देनालयविज्ञानमभिसंबध्यते । तद्वासनाश्रयो ह्यालयविज्ञानमतस्तदाश्रित्य प्रवर्तते सन्तानेनोत्पद्यत इत्यर्थः । अथ वा यस्मिन् धातौ भूमौ वालयविज्ञानं विपाकस्तदपि क्लिष्टं मनस्तद्धातुकं तद्भूमिकं चेति तत्प्रतिबद्धवृत्तित्वात्तदाश्रित्य प्रवर्तते ।

तदालम्बमित्यालयविज्ञानालम्बनमेव सत्कायदृष्ट्यादिभिः संप्रयोगादहं ममेत्यालयविज्ञानालम्बनत्वात् । कथं पुनर्यत एव चित्तादुत्पद्यते तदेव तदालम्बनं भवति । यथा तदनिच्छतां केषांचित्कस्याञ्चिदवस्थायां यत एव चित्तान्मनोविज्ञानमुत्पद्यते तदालम्बनमेव तदुत्पद्यते ।

मनोनाम विज्ञानमिति मन इति नाम आख्या यस्य विज्ञानस्य तदालयविज्ञानमाश्रित्य प्रवर्ते तदालम्बनं च मनोनामेत्यनेनालयविज्ञानात्प्रवृत्तिविज्ञानाच्च व्यवच्छिनत्ति । तत्पुनः किं स्वभावमित्याह । मननात्मकमिति । एवं मननात्मकत्वान्मन इत्युच्यते नैरूक्तेन विधिना ।

(६४)
विज्ञानस्वरूपत्वादवश्यं तच्चैत्तैः संप्रयुज्यते । इदं तु न ज्ञायते कतमैस्तच्चैत्तैः कियद्भिः कियन्तं कालं वा संप्रयुज्यत इत्यत आह ।

क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा । ६ ब्

चैत्ता हि द्विप्रकाराः क्लेशास्तदन्ये च । तदन्येभ्यो व्यवच्छेदार्थमाह क्लेशैरिति । क्लेशा अपि षट् । न च तैः संप्रयुज्यतेऽतश्चतुर्भिरित्याह । सहितमिति संप्रयुक्तम् ।

क्लेशा अपि द्विविधाः । अकुशला निवृताव्याकृताश्च । अकुशलेभ्यो विशेषार्थमाह निवृताव्याकृतैरिति । न हि निवृतेन विज्ञानेनाकुशलानां संप्रयोगः संभवति । निवृताः क्लिष्टत्वात् । अव्याकृताः कुशलाकुशलत्वेनाव्याकरणात् । सदेति सर्वकालम् । यावत्तदस्ति तावत्तैः संप्रयुक्तम् ।

सामान्यनिर्देशाद्विशेषतो न ज्ञायन्त इति विशेषतो निर्दिशति ।

आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः ॥ ६ द्

उपादानस्कन्धेष्वात्मेति दर्शनमात्मदृष्टिः सत्कायदृष्टिरित्यर्थः । मोहोऽज्ञानम् । आत्मन्यज्ञानमात्ममोहः । आत्मविषये मान आत्ममानोऽस्मिमान इत्यर्थः । आत्मनि स्नेह आत्मस्नेह आत्मप्रेमेत्यर्थः । तत्रालयविज्ञानस्वरूपे संमूढः सन्नालयविज्ञाने आत्मदृष्टिमुत्पादयति । आत्मदर्शनाद्या चित्तस्योन्नतिः सोऽस्मिमानः । एतस्मिंस्त्रये सत्यात्माभिमते वस्तुनि योऽभिष्वङ्गः स आत्मस्नेहः ।

(६६)
आह च ।

अविद्यया चात्मदृष्ट्या चास्मिमानेन तृष्णया ।
एभिश्चतुर्भिः संक्लिष्टं मननालक्षणं मनः ॥
विपर्यासनिमित्तं तु मनः क्लिष्टं सदैव तत् ।
कुशलाव्याकृते चित्ते सदाहङ्कारकारणम् ॥

एते ह्यात्ममोहादयः क्लेशा मनोवन्नवभूमिकाः ।

इह च सामान्येनाभिधानान्न ज्ञायते किं स्वभूमिकैरेव संप्रयुज्यते । उतान्यभूमिकैरपीत्यत आह ।

यत्रजस्तन्मयैर्७

इति । यत्र जातो यत्रजः । तन्मयैरिति यत्र धातौ भूमौ वा जातस्तद्धातुकैस्तद्भूमिकैरेव च संप्रयुज्यते । नान्यधातुकैरन्यभूमिकैर्वा ।

किं पुनश्चतुर्भिरेव क्लेशैः संप्रयुज्यते । नेत्याह ।

अन्यैः स्पर्शाद्यैश्च । ७

संप्रयुज्यत इति संबध्यते । चशब्दः समुच्चयार्थः । स्पर्शाद्यैरिति स्पर्शमनस्कारवेदनासंज्ञाचेतनाभिः । एते हि पञ्च धर्माः सर्वत्रगत्वात्सर्वविज्ञानैः संप्रयुज्यन्ते । एतैरपि यत्र जातस्तन्मयैरेव संप्रयुज्यते नान्यधातुभूमिकैः ।

(६८)
अथ वान्यैरिति मूलविज्ञानसंप्रयुक्तेभ्यो व्यवच्छेदार्थम्
। मूलविज्ञाने ह्यनिवृताव्याकृताः स्पर्शादयः । क्लिष्टे तु मनसि मनोवन्निवृताव्याकृताः ।

यदि तत्क्लिष्टं मनः कुशलक्लिष्टाव्याकृतावस्थास्वविशेषेण प्रवर्तते न तस्य तर्हि निवृत्तिरस्ति । अनिवृत्ते च तस्मिन् कुतो मोक्ष इति कथं न मोक्षाभावः प्रसज्यते । न प्रसज्यते यस्माद्

अर्हतो न तत् ।
न निरोधसमापत्तौ मार्गे लोकोत्तरे न च ॥ ७ च्द्

अर्हतस्तावदशेषक्लेशप्रहाणात्क्लिष्टं मनो नैवास्ति । तद्धि भावाग्रिकभावनाप्रहातव्यक्लेशवदर्हत्त्वप्राप्त्यानन्तर्यमार्गेणैव प्रहीयते । तदन्यक्लेशवदर्हत्त्वावस्थायान्नैव विद्यते । आकिञ्चन्यायतनवीतरागस्याप्यनागामिनो निरोधसमापत्तिलाभिनो मार्गबलेन निरोधसमापत्तेर्लभ्यत्वां मार्गवन्निरोधसमापत्त्यवस्थायामपि निरुध्यते । निरोधाच्च व्युत्थितस्य पुनरालयविज्ञानादेव प्रवर्तते ।

मार्गे लोकोत्तरे न चेति (७ )

लोकोत्तरग्रहणं लौकिकव्यवच्छेदार्थम् । लौकिके तु मार्गे क्लिष्टं मनः प्रवर्तत एव । नैरात्म्यदर्शनस्यात्मदर्शनप्रतिपक्षत्वान्न लोकोत्तरमार्गे प्रवर्तितुमुत्सहेत । विपक्षप्रतिपक्षयोरयौगपद्याल्लोकोत्तरमार्गे तन्निरुध्यते । तस्मादपि व्युत्थितस्य पुनरालयविज्ञानादेवोत्पद्यते ।

(७०)
द्वितीयः परिणामोऽयम् ८

उद्दिष्टो निदिष्टश्चेति निगमयति ।

द्वितीयपरिणामान्तरं तृतीयः परिणामो वक्तव्य इत्यत आह ।

तृतीयः षड्विधस्य या ।
विषयस्योपलब्धिः सा ८ च्

तृतीयो विज्ञानपरिणाम इति वाक्यशेषः । षड्विधस्येति षट्प्रकारस्य रूपशब्दगन्धरसस्प्रष्टव्य धर्मात्मकस्य विषयस्य या उपलब्धिर्ग्रहणं प्रतिपत्तिरित्यर्थः ।

सा पुनः किं कुशलाकुशलाव्याकृतेत्यत आह ।

कुशलाकुशलाद्वया ॥ ८

कुशलाकुशलाद्वयेत्यव्याकृतापि । अलोभाद्वेषामोहैः संप्रयुक्ता कुशला । लोभद्वेषमोहैः संप्रयुक्ताकुशला । कुशलाकुशलैरसंप्रयुक्ताद्वया न कुशला नाकुशलेत्यर्थः ।

सा पुनः कीदृशैश्चैतसिकैः संप्रयुज्यते । कियन्तो वा तत्संप्रयोगिणश्चैतसिका इत्यत आह ।

सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ ।
संप्रयुक्ता तथा क्लेशैरुपक्लेशैस्त्रिवेदना ॥ ९

(७२)
य एते सर्वत्रगादय उद्दिष्टास्ते न विज्ञायन्त इत्यतस्तत्प्रदर्शनार्थमाह ।

अद्याः स्पर्शादयः । १०

आदौ निर्दिष्टत्वादाद्याः सर्वत्रगा इत्यर्थः । तथा हि ।

सदास्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् (३ द्)

इति प्रथमतो निर्दिष्टाः । स्पर्श एषामादिरिति स्पर्शादयः । ते पुनः स्पर्शमनस्कारादयः पञ्च धर्माः सर्वचित्तमनुगच्छन्तीति सर्वत्रगाः । तथा ह्येत आलयविज्ञाने क्लिष्टे मनसि प्रवृत्तिविज्ञानेषु चाविशेषेण प्रवर्तन्ते ।

विनियतानधिकृत्याह ।

छन्दाधिमोक्षस्मृतयः सह ।
समाधिधीभ्यां नियताः । १० च्

विशेषे नियतत्वाद्विनियताः । एषां हि विशेष एव विषयो न सर्वः ।

तत्र छन्दोऽभिप्रेते वस्तुन्यभिलाषः । अभिप्रेते वस्तुन्यभिलाष इति प्रतिनियतविषयत्वं ज्ञापितं भवत्यनभिप्रेते छन्दाभावात् । दर्शनश्रवणादिक्रियाविषयत्वेन यदभिमतं वस्तु तदभिप्रेतम् । तत्र दर्शनश्रवणादिप्रार्थना छन्दः । स च वीर्यारम्भसंनिश्रयदानकर्मकः ।

अधिमोक्षो निश्चिते वस्तुनि तथैवावधारणम् । निश्चितग्रहणमनिश्चितप्रतिषेधार्थम् । युक्तित आप्तोपदेशतो वा यद्वस्तु असंदिग्धं तन्निश्चितम् । येनैवाकारेण तन्निश्चितमनित्यदुःखाद्याकारेण तेनैवाकारेण तस्य वस्तुनश्चेतस्यभिनिवेशनम् । एवमेतन्नान्यथेत्यवधारणमधिमोक्षः । स चासंहार्यताकर्मकः । अधिमुक्तिप्रधानो हि स्वसिद्धान्तात्परप्रवादिभिरपहर्तुं न शक्यते ।

(७४)
स्मृतिः संस्तुते वस्तुन्यसंप्रमोषश्चेतसोऽभिलपनता । संस्तुतं वस्तु पूर्वानुभूतम् । आलम्बनग्रहणाविप्रणाशकारणत्वादसंप्रमोषः । पूर्वगृहीतस्य वस्तुनः पुनः पुनरालम्बनाकारस्मरणमभिलपनता । अभिलपनमेवाभिलपनता । सा पुनरविक्षेपकर्मिका । आलम्बनाभिलपने सति चित्तस्यालम्बनान्तर आकारान्तरे वा विक्षेपाभावादविक्षेपकर्मिका ।

समाधिरुपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । उपपरीक्ष्यं वस्तु गुणतो दोषतो वा । एकाग्रता एकालम्बनता । ज्ञानसंनिश्रयदानकर्मकः । समाहिते चित्ते यथाभूतपरिज्ञानात् ।

धीः प्रज्ञा । साप्युपपरीक्ष्य एव वस्तुनि प्रविचयो योगायोगविहितोऽन्यथा वेति । प्रविचिनोतीति प्रविचयः । यः सम्यङ्मिथ्या वा संकीर्णस्वसामान्यलक्षणेष्विव धर्मेषु विवेकावबोधः । युक्तिर्योगः । स पुनराप्तोपदेशोऽनुमानं प्रत्यक्षञ्च । तेन त्रिप्रकारेण योगेन यो जनितः स योगविहितः । स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च ।

तत्राप्तवचनप्रामाण्याद्योऽवबोधः स श्रुतमयः । युक्तिनिध्यानजश्चिन्तामयः । समाधिजो भावनामयः ।

अयोगोऽनाप्तोपदेशोऽनुमानाभासो मिथ्या प्रणिहितश्च समाधिः । तेनायोगेन जनितोऽयोगविहितः । उपपत्तिप्रतिलम्भिको लौकिकव्यवहारावबोधश्च न योगविहितो नायोगविहितः । एषा च संशयव्यावर्तनकर्मिका । संशयव्यावर्तनं प्रज्ञया धर्मान् प्रविचिन्वतो निश्चयलाभादिति ।

एते हि पञ्च धर्माः परस्परं व्यतिरिच्यापि प्रवर्तन्ते । एवञ्च यत्राधिमोक्षस्तत्र नावश्यमितरैरपि भवितव्यम् । एवं सर्वत्र वाच्यम् । उक्ता विनियताः ॥

(७६)
तदनन्तरोद्दिष्टास्त्विदानीं कुशला वक्तव्या इत्यत आह ।

श्रद्धाथ ह्रीरपत्रपा ॥ १०
अलोभादित्रयं वीर्यं प्रश्रब्धिः साप्रमादिका ।
आहिंसा कुशलाः । ११ ब्च्

एत एकादश धर्मा इति वाक्यशेषः ।

तत्र श्रद्धा अस्तित्वगुणवत्त्वशक्यत्वेषु कर्मफलसत्यरत्नेष्वभिसंप्रत्ययः प्रसादश्चेतसोऽभिलाषः । श्रद्धा हि त्रिधा प्रवर्तते । सति वस्तुनि गुणवत्यगुणवति वा संप्रत्ययाकारा । सति गुणवति च प्रसादाकारा । सति गुणवति च प्राप्तुमुत्पादयितुं वा शक्येऽभिलाषाकारा । चेतसः प्रसाद इति । श्रद्धा हि चित्तकालुष्यवैरोधिकीत्यतस्तत्संप्रयोगे क्लेशोपक्लेशमलकालुष्यविगमाच्चित्तं श्रद्धामागम्य प्रसीदतीति चेतसः प्रसाद उच्यते । सा पुनश्छन्दसंनिश्रयदानकर्मिका ।

ह्रीरात्मानं धर्मं वाधिपतिं कृत्वावद्येन लज्जा । सद्भिर्गर्हितत्वादनिष्टविपाकत्वाच्च पापमेवावद्यम् । तेनावद्येन कृतेनाकृतेन वा या चित्तस्यावलीनता लज्जा सा ह्रीः । इयं च दुश्चरितसंयमसंनिश्रयदानकर्मिका ।

अपत्राप्यं लोकमधिपतिं कृत्वावद्येन लज्जा । लोके ह्येतद्गर्हितं मां चैवं कर्माणं विदित्वा गर्हिष्यतीत्यश्लोकादिभयादवद्येन लज्जते । इदमपि दुश्चरितसंयमसंनिश्रियदानकर्मकम् ।

(७८)
अलोभो लोभप्रतिपक्षः । लोभो नाम भवे भवोपकरणेषु च यासक्तिः प्रार्थना च । तत्प्रतिपक्षोऽलोभो भवे भवोपकरणेषु वानासक्तिः वैमुख्यञ्च । अयञ्च दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।

अद्वेषो द्वेषप्रतिपक्षो मैत्री । द्वेषो हि सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्वाघातः । अद्वेषो द्वेषप्रतिपक्षत्वात्सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्वनाघातः । अयमपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।

अमोहो मोहप्रतिपक्षो यथाभूतसंप्रतिपत्तिः । मोहः कर्मफलसत्यरत्नेष्वज्ञानम् । मोहप्रतिपक्षत्वादमोहस्तेष्वेव कर्मफलसत्यरत्नेषु संप्रतिपत्तिः । अयमपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।

वीर्यं कौसीद्यप्रतिपक्षः कुशले चेतसोऽभ्युत्साहः । न तु क्लिष्टे । क्लिष्टे तूत्साहः कुत्सितत्वात्कौसीद्यमेव । एतच्च कुशलपक्षपरिपूरणपरिनिष्पादनकर्मकम् ।

प्रश्रब्धिर्दौष्ठुल्यप्रतिपक्षः कायचित्तकर्मण्यता । दौष्ठुल्यं कायचित्तयोरकर्मण्यता सांक्लेशिकधर्मबीजानि च । तदपगमे प्रश्रब्धिसद्भावात् । तत्र कायकर्मण्यता कायस्य स्वकार्येषु (८०) लघुसमुत्थानता यतो भवति । चित्तकर्मण्यता सम्यङ्मनसिकारसंप्रयुक्तस्य चित्तस्याह्लादलाघवनिमित्तं यच्चैतसिकं धर्मान्तरं यद्योगाच्चित्तमव्याहतमालम्बने प्रवर्ततेऽतस्तच्चित्तकर्मण्यतेत्युच्यते । कायस्य पुनः स्प्रष्टव्यविशेष एव प्रीत्याहृतः कायप्रश्रब्धिर्वेदितव्या । प्रीतमनसः कायः प्रश्रभ्यत इति सूत्रे वचनात् । इयं तद्वशेनाश्रयपरावृत्तितोऽशेषक्लेशावरणनिष्कर्षणकर्मिका ।

साप्रमादिका । सहाप्रमादेन प्रवर्तत इति साप्रमादिका । का पुनरसौ । उपेक्षा । कुत एतत् । एकान्तकुशलत्वात्सर्वकुशलानां चेह निर्देशाधिकाराच्छ्रद्धादिवत्साक्षादनिर्देशात्तद्व्यतिरिक्तान्यकुशलाभावाच्
चोपेक्षैव विज्ञायते ।

तत्राप्रमादः प्रमादप्रतिपक्षः । अलोभाद्यावद्वीर्यमप्रमादः । यानलोभादीन्निश्रित्याकुशलान् धर्मान् प्रजहाति तत्प्रतिपक्षांश्च कुशलान् धर्मान् भावयति तेऽलोभादयोऽप्रमादः । अत एव प्रमादप्रतिपक्षः प्रमादस्यातो विपरीतत्वात् । स पुनर्लौकिकलोकोत्तरसंपत्तिपरिपूरणकर्मकः ।

उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता । एभिस्त्रिभिः (८२) पदैरुपेक्षाया आदिमध्यावसानावस्था द्योतिता । तत्र लयौद्धत्यं वा चेतसो वैषम्यम् । तस्याभावादादौ चित्तसमता । ततोऽनभिसंस्कारेणाप्रयत्वेन समाहितस्य चेतसो
यथायोगं समस्यैव या प्रवृत्तिः सा चित्तप्रशठता । सा पुनरवस्था लयौद्धत्यशङ्कानुगताचिरभावितत्वात् । ततो भावनाप्रकर्षगमनात्तद्विपक्षदूरीभावात्तच्छङ्काभावे लयौद्धत्यप्रतिपक्षनिमित्तेष्वाभोगमकुर्वतोऽनाभोगावस्था चित्तस्यानाभोगता । इयञ्च सर्वक्लेशोपक्लेशानवकाशसंनिश्रयदानकर्मिका ।

अविहिंसा विहिंसाप्रतिपक्षः । वधबन्धनादिभिः सत्त्वानामविहेठनमविहिंसा सत्त्वेषु करुणा । कं रुणद्धीति करुणा । कमिति सुखस्याख्या सुखं रुणद्धीत्यर्थः । कारुणिको हि परदुःखदुःखी भवतीति । इयं चाविहेठनकर्मिका । उक्ता एकादश कुशलाः ।

तदनन्तरोद्दिष्टास्तु क्लेशा इत्यतस्तानधिकृत्याह ।

क्लेशा रागप्रतिघमूढयः ॥ ११
मानदृग्विचिकित्साश्च १२

इति । रागश्च प्रतिघश्च मूढिश्च रागप्रतिघमूढयः ।

(८४)
तत्र रागो भवभोगयोरध्यवसानं प्रार्थना च । स पुनर्दुःखसंजननकर्मकः । दुःखमत्रोपादानस्कन्धास्तेषां कामरूपारूप्यतृष्णावशादभिनिर्वृत्तेः । अतो रागस्य दुःखसंजननं कर्म निर्दिश्यते ।

प्रतिघः सत्त्वेष्वाघातः सत्त्वेषु रूक्षचित्तता येनाविष्टः सत्त्वानां वधबन्धनादिकमनर्थञ्चिन्तयति । स पुनरस्पर्शविहारदुश्चरितसंनिश्रियदानकर्मकः । स्पर्शः सुखम् । तेन सहितो विहारः स्पर्शविहारः । न स्पर्शविहारोऽस्पर्शविहारः । दुःखसहित इत्यर्थः । आघातचित्तस्यावश्यं दौर्मनस्यसमुदाचाराच्चित्तं तप्यते । चित्तानुविधानाच्च कायोऽपि तप्यत एवेति सर्वेर्यापथेषु सदुःखसविघातोऽस्पर्शविहारो भवति । प्रतिहतचित्तस्य च न किञ्चिद्दुश्चरितं विदूर इति प्रतिघोऽस्पर्शविहारदुश्चरितसंनिश्रयदानकर्मक उक्तः ।

मोहोऽपायेषु सुगतौ निर्वाणे तत्प्रतिष्ठापाकेषु हेतुषु तेषां चाविपरीते हेतुफलसंबन्धे यदज्ञानम् । अयञ्च संक्लेशोत्पत्तिसंनिश्रियदानकर्मकः । तत्र क्लेशकर्मजन्मात्मकस्त्रिविधः संक्लेशः । तस्योत्पत्तिः पूर्वपूर्वसंक्लेशनिमित्तादुत्तरोत्तरस्य संक्लेशस्यात्मलाभः । तस्योत्पत्तेः संनिश्रयदानकर्म । (८६) मूढस्यैव हि मिथ्याज्ञानसंशयरागादिक्लेशपौनर्भविककर्मजन्मनां प्रवृत्तेर्नामूढस्येति ।

मानः । मानो हि नाम सर्व एव सत्कायदृष्टिसमाश्रयेण प्रवर्तते । स पुनश्चित्तस्योन्नतिलक्षणः । तथा ह्यात्मात्मीयभावं स्कन्धेष्वध्यारोप्यायमहमिदं ममेत्यात्मानं तेन तेन विशेषेणोन्नमयति । अन्येभ्योऽधिकं मन्यते । स चागौरवदुःखोत्पत्तिसंनिश्रयदानकर्मकः । अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोरप्रश्रितिता दुःखोत्पत्तिः पुनरत्र पुनर्भवोत्पत्तिः । स च पुनश्चित्तोन्नतिस्वरूपाभेदेऽपि चित्तोन्नतिनिमित्तभेदात्सप्तधा भिद्यते । मानोऽतिमान इत्येवमादि ।

हीनात्कुलविज्ञानवित्तादिभिः श्रेयानस्मि कुलविज्ञानवित्तादिभिरिति या चित्तस्योन्नतिः सदृशेन वा कुलादिभिरेव सदृशोऽस्मीति या चित्तस्योन्नतिः स मानः ।

अतिमानः । कुलविज्ञानवित्तादिभिः सदृशात्त्यागशीलपौरुषादिभिः श्रेयानस्मि श्रेयसा वा कुलविद्यादिभिः सदृशोऽस्मि विज्ञानवित्तादिभिरित्ययमतिमानः ।

श्रेयसः कुलविज्ञानवित्तैरहमेव श्रेयानस्मि कुलविज्ञानवित्तैरिति या चित्तस्योन्नतिरयं मानातिमानः ।

(८८)
अस्मिमानः । पञ्चसूपादानस्कन्धेष्वात्मात्मीयरहितेष्वात्मात्मीयाभिनिवेशाद्या चित्तस्योन्नतिः सोऽस्मिमानः ।

अभिमानः । अप्राप्त उत्तरे विशेषाधिगमे प्राप्तो मयेति या चित्तस्योन्नतिः सोऽभिमानः ।

ऊनमानः । बह्वन्तरविशिष्टात्कुलविद्यादिभिरल्पान्तरहीनोऽस्मि कुलविद्यादिभिरिति या चित्तस्योन्नतिरयमूनमानः ।

मिथ्यामानः । अगुणवतो गुणवानस्मीति या चित्तस्योन्नतिः स मिथ्यामानः । अगुणा हि दौःशील्यादयस्ते यस्य विद्यन्ते सोऽगुणवान् । तस्माद्गुणवानस्मीत्यनेन हि दानशीलाद्यभावेऽपि गुणवत्त्वमभ्युपगतं भवतीत्यतो निर्वस्तुकत्वान्मिथ्यामान इत्युच्यते ।

दृगिति सामान्यनिर्देशेऽपि क्लेशाधिकारात्पञ्चैव क्लेशात्मिकाः सत्कायदृष्ट्यादिका दृष्टयः संबध्यन्ते । न लौकिकी सम्यग्दृष्टिरनास्रवा वा । आसां तु क्लिष्टनितीरणाकारत्वादविशेषेऽप्यालम्बनाकारभेदात्परस्परतो भेदः ।

तत्र सत्कायदृष्टिर्यत्पञ्चसूपादानस्कन्धेष्वात्मात्मीयदर्शनम् ।

अन्तग्राहदृष्टिस्तेष्वेव पञ्चसूपादानस्कन्धेष्वात्मात्मीयत्वेन गृहीतेषु यदुच्छेदतः शाश्वततो वा दर्शनम् ।

मिथ्यादृष्टिः । यया मिथ्यादृष्ट्या हेतुं वापवदति फलं क्रियां वा सद्वा वस्तु नाशयति सा सर्वदर्शनपापत्वान्मिथ्यादृष्टिरित्युच्यते ।

दृष्टपरामर्शः पञ्चसूपादानस्कन्धेष्वग्रतो विशिष्टतः श्रेष्ठतः परमतश्च यद्दर्शनम् ।

(९०)
शिलव्रतपरामर्शः पञ्चसूपादानस्कन्धेषु शुद्धितो मुक्तितो नैर्याणिकतश्च यद्दर्शनम् ।

विचिकित्सा । कर्मफलसत्यरत्नेषु विमतिः । विविधा मतिर्विमतिः स्यान्न स्यादिति । प्रज्ञातश्चेयं जात्यन्तरमेवोक्ता ।

उक्ताः षट्क्लेशास्तदनन्तरोद्दिष्टास्त्विदानीमुपक्लेशा वक्तव्या इत्यत आह ।

क्रोधोपनाहने पुनः ।
म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया ॥ १२ च्द्
शाठ्यं मदोऽविहिंसाह्रीरत्रपा स्त्यानमुद्धतः ।
आश्रद्ध्यमथ कौसीद्यं प्रमादो मुषिता स्मृतिः ॥ १३
विक्षेपोऽसंप्रजन्यञ्च कौकृत्यं मिद्धमेव च ।
वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा ॥ १४

तत्र क्रोधो वर्तमानमपकारमागम्य यश्चेतस आघातः । अयं चाघातस्वरूपत्वात्प्रतिघान्न भिद्यते । किं त्वस्य प्रतिघस्यावस्थाविशेषे प्रज्ञप्तत्वात्प्रतिघांशिकः । वर्तमानमपकारमागम्य यश्चेतस आघातः सत्त्वासत्त्वविषयो दण्डदानादिसंनिश्रयदानकर्मकश्च स क्रोध इति प्रज्ञप्यते ।

उपनाहो वैरानुबन्धः । क्रोधादूर्ध्वं ममानेनेदमपकृतमित्यस्य वैरात्मकस्यानुशयस्यानुत्सर्गः प्रबन्धेन प्रवर्तनमुपनाहः । अयञ्चाक्षान्तिसंनिश्रयदानकर्मकः । अक्षान्तिरपकारामर्षणं प्रत्यपकारचिकीर्षा च । अयमपि क्रोधवत्प्रद्वेषावस्थाविशेषे प्रज्ञप्यते । अतः प्रज्ञप्तिसन्नेव वेदितव्यः ।

म्रक्ष आत्मनोऽवद्यप्रच्छादना । छन्दद्वेषभयादीन्निराकृत्य काले तद्धितैषिणा चोदकेन तत्त्वमेवंकारीत्यनुयुक्तस्य मोहांशिक्यवद्यप्रच्छादना म्रक्षः । मोहांशिकत्वं तु म्रक्षस्य प्रच्छादनाकारत्वात् । अयञ्च कौकृत्यास्पर्शसंनिश्रयदानकर्मकः । (९२) धर्मतैषा यदवद्यं प्रच्छादयतः कौकृत्यमुत्पद्यते कौकृत्याच्चावश्यं दौर्मनस्येन संप्रयोगादस्पर्शविहार इति ।

प्रदाशश्चण्डवचोदाशिता । चण्डं वचः प्रगाढं पारुष्यं मर्मघट्टनयोगेन । दशनशीलो दाशी । तद्भावो दाशिता । अयञ्च भावप्रत्ययः स्वार्थिकः । चण्डेन वचसा प्रदशतीति चण्डवचोदाशिता । अयञ्च क्रोधोपनाहपूर्वकश्चेतस आघातस्वभाव इति प्रतिघांशिक एव न द्रव्यतो विद्यते । अयञ्च वाग्दुश्चरितप्रसवकर्मकः । अस्पर्शविहारकर्मकश्च तद्वतः पुद्गलस्य दुःखसंवासत्वात् ।

ईर्ष्या परसंपत्तौ चेतसो व्यारोषः । लाभसत्काराध्यवसितस्य लाभसत्कारकुलशीलश्रुतादीन् गुणविशेषान् परस्योपलभ्य द्वेषांशिकोऽमर्षकृतश्चेतसो व्यारोष ईर्ष्या । स्वमाश्रयं व्याप्य रोषो व्यारोषः । दौर्मनस्यसंप्रयोगात्तत्पूर्वकश्चास्पर्शविहार इति दौर्मनस्यास्पर्शविहारकर्मिकोच्यते ।

मात्सर्यं दानविरोधी चेतस आग्रहः । उपात्तं वस्तु धर्मामिषकौशलात्मकं येन पूजानुग्रहकाम्ययार्थिनेऽनर्थिने वा दीयते तद्दानम् । तस्मिन् सति दानाभावात्तद्विरोधीत्युच्यते । लाभसत्काराध्यवसितस्य जीवितोपकरणेषु रागांशिकश्चेतस आग्रहोऽपरित्यागेच्छा मात्सर्यम् । इदं चासंलेखसंनिश्रयदानकर्मकम् । असंलेखः पुनर्मात्सर्येणानुपयुज्यमानानामप्युपकरणानां संनिचयाद्वेदितव्यः ।

माया परवञ्चनायाभूतार्थसंदर्शनता । लाभसत्कारध्यवसितस्य परवञ्चनाभिप्रायेणान्यथावस्थितस्य शीलादेरर्थस्यान्यथा प्रकाशना । इयञ्च सहिताभ्यां रागमोहाभ्यामभूतान् गुणान् प्रकाशयतस्तयोः समुदितयोः प्रज्ञप्यत इति क्रोधादिवत्प्रज्ञप्तित एव न द्रव्यत इति मिथ्याजीवसंनिश्रयदानकर्मिका ।

(९४)
शाठ्यं स्वदोषप्रच्छादनोपायसंगृहीतञ्चेतसः कौटिल्यम् । स्वदोषप्रच्छादनोपायः परव्यामोहनम् । तत्पुनरन्येनान्यत्प्रतिसरन् विक्षिपत्यपरिस्फुटं वा प्रतिपद्यते । अत एव शाठ्यं म्रक्षाद्भिद्यते । स हि स्फुटमेव प्रच्छादयति न काक्वा । इदमपि
लाभसत्काराध्यवसितोपायाभ्यां रागमोहाभ्यां स्वदोषप्रच्छादनार्थं परव्यामोहनाय प्रवर्तते । तयोरेव सहितयोः प्रज्ञप्यते । इदञ्च सम्यगववादलाभपरिपन्थकर्मकम् । सम्यगववादस्य यो लाभो योनिशो मनसिकारस्तस्यान्तरायं करोति ।

मदः स्वसंपत्तौ रक्तस्योद्धर्षश्चेतसः पर्यादानम् । कुलारोग्ययौवनबलरूपैश्वर्यबुद्धिमेधाप्रकर्षः स्वसंपत्तिः । उद्धर्षो हर्षविशेषः । येन हर्षविशेषेण चित्तमस्वतन्त्रीक्रियते तेन तदात्मतन्त्रीकरणात्पर्यात्तं भवतीत्येतदुक्तञ्चेतसः पर्यादानमिति । अयञ्च सर्वक्लेशोपक्लेशसंनिश्रयदानकर्मकः ।

विहिंसा सत्त्वविहेठना । विविधैर्वधबन्धनताडनतर्जनादिभिः सत्त्वानां हिंसा विहिंसा । विहेठ्यन्तेऽनया सत्त्वा वधबन्धनादिभिर्दुःखदौर्मनस्योत्पादनादिति सत्त्वविहेठना । सा पुनः प्रतिघांशिकी निर्घृणता सत्त्वेषु चित्तरूक्षता सत्त्वविहेठनकर्मिका विहिंसेत्युच्यते ।

आह्रीक्यं स्वयमवद्येनालज्जा । तस्मिन् कर्मण्यात्मानमयोग्यं मन्यमानस्यापि यावद्येनालज्जा साह्रीक्यं ह्रीविपक्षभूतम् ।

अनपत्राप्यं परतोऽवद्येनालज्जा । लोकशास्त्रविरुद्धमेतन्मया क्रियत इत्येवमवगच्छतोऽपि या तया पापक्रिययालज्जा सापत्राप्यविपक्षभूतमनपत्राप्यम्


एतच्च द्वयमपि सर्वक्लेशोपक्लेशसाहाय्यकर्मकम् । रागद्वेषमोहप्रकारेषु सर्वासत्कार्यप्रभवहेतुषु रागद्वेषयोरयौगपद्याद्यथासंभवं प्रज्ञप्यते न तु स्वतन्त्रमस्ति ।

(९६)
स्त्यानञ्चित्तस्याकर्मण्यता स्तैमित्यम् । स्तिमितस्य भावः स्तैमित्यं यद्योगाच्चित्तं जडीभवति स्तिमितं भवति नालम्बनं प्रतिपत्तुं समुत्सहते । एतच्च सर्वक्लेशोपक्लेशसहाय्यदानकर्मकम् । मोहांशे प्रज्ञप्तत्वाच्च मोहांशिकमेव न पृथग्विद्यते ।

औद्धत्यं चित्तस्याव्युपशमः । व्युपशमो हि शमथस्तद्विरुद्धोऽव्युपशमः । स पुनरेष रागानुकूलं पूर्वहसितरसितक्रीडिताद्यनुस्मरतश्चेतसोऽव्युपशमहेतुः शमथपरिपन्थकर्मकः ।

आश्रद्ध्यां कर्मफलसत्यरत्नेष्वनभिसंप्रत्ययः श्रद्धाविपक्षः । श्रद्धा ह्यस्तित्वगुणवत्त्वशक्यत्वेष्वभिसंप्रत्ययः प्रसादोऽभिलाषश्च यथाक्रमम् । अश्रद्धा तद्विपर्येणास्तित्वगुणवत्त्वशक्यत्वेष्वनभिसंप्रत्ययोऽप्रसादोऽनभिलाषश्च । कौसीद्यसंनिश्रयदानकर्मकम् । अश्रद्दधानस्य प्रयोगच्छन्दाभावात्कौसीद्यसंनिश्रयदानकर्मकत्वम् ।

कौसीद्यं कुशले चेतसोऽनभ्युत्साहो वीर्यविपक्षः । कुशले कायवाङ्मनःकर्मणि निद्रापार्श्वशयनसुखमागम्य यो मोहांशिकश्चेतसोऽनभ्युत्साहः । एतच्च कुशलपक्षप्रयोगपरिपन्थकर्मकम् ।

प्रमादो यैर्लोभद्वेषमोहकौसीद्यैः क्लेशाद्रागद्वेषमोहादिकाच्चित्तं न रक्षति कशलं च तत्प्रतिपक्षभूतं न भावयति । तेषु लोभद्वेषमोहकौसीद्येषु प्रमादः प्रज्ञप्यते । अयञ्चाकुशलवृद्धिकुशलपरिहाणिसंनिश्रयदानकर्मकः ।

मुषिता स्मृतिः क्लिष्टा स्मृतिः । क्लिष्टेति क्लेशसंप्रयुक्ता । इयञ्च विक्षेपसंनिश्रयदानकर्मिका ।

(९८)
विक्षेपो रागद्वेषमोहांशिकश्चेतसो विसारः । विविधं क्षिप्यतेऽनेन चित्तमिति विक्षेपः । यै रागद्वेषमोहैश्चित्तं समाध्यालम्बनाद्बहिः क्षिप्यते तेषु यथासंभवं विक्षेपः प्रज्ञप्यते । एष च वैराग्यपरिपन्थकर्मः ।

असंप्रजन्यं क्लेशसंप्रयुक्ता प्रज्ञा ययासंविदिता कायवाक्चित्तचर्या अभिक्रमप्रतिक्रमादिषु वर्तते करणीयाकरणीयाज्ञानात् । एतच्चापत्तिसंनिश्रयदानकर्मकम् ।

कौकृत्यं चेतसो विप्रतिसारः । कुत्सितं कृतमिति कुकृतम् । तद्भावः कौकृत्यम् । इह तु कुकृतविषयश्चेतसो विलेखः कौकृत्यं चैतसिकाधिकारात् । एतच्च चित्तस्थितिपरिपन्थकर्मकम् ।

मिद्धमस्वतन्त्रवृत्तिचेतसोऽभिसंक्षेपः । वृत्तिरालम्बने प्रवृत्तिः । सास्वतन्त्रा चेतसो यतो भवति तन्मिद्धम् । कायसन्धारणासमर्था वा वृत्तिश्चेतसोऽस्वतन्त्रा सा यतो भवति तन्मिद्धम् । अभिसंक्षेपश्चेतसश्चक्षुरादीन्द्रियद्वारेणाप्रवृत्तिः । एतच्च मोहांशे प्रज्ञपनान्मोहांशिकं कृत्यातिपत्तिसंनिश्रयदानकर्मकञ्च ।

वितर्कः पर्येषको मनोजल्पः प्रज्ञाचेतनाविशेषः । पर्येषकः किमेतदिति निरूपणाकारप्रवृत्तः । मनसो जल्पो मनोजल्पः । जल्प इव जल्पः । जल्पोऽर्थकथनम् । चेतनाप्रज्ञाविशेष इति चेतनायाश्चित्तपरिस्पन्दात्मकत्वात्प्रज्ञायाश्च गुणदोषविवेकाकारत्वात् । तद्वशेन चित्तप्रवृत्तेः कदाचिच्चित्तचेतनयोर्वितर्कः प्रज्ञप्तिः कदाचित्प्रज्ञाचेतसोर्यथाक्रममनभ्यूहाभ्युहावस्थयोः । अथ वा चेतनाप्रज्ञयोरेव वितर्कः प्रज्ञप्तिस्तद्वशेन चित्तस्य तथाप्रवृत्तत्वात् । स एव चित्तस्यौदारिकता । औदारिकतेति स्थूलता वस्तुमात्रपर्येषणाकारत्वात् ।

(१००)
एष च नयो विचारेऽपि द्रष्टव्यः । विचारोऽपि हि चेतनाप्रज्ञाविशेषात्मकः । प्रत्यवेक्षको मनोजल्प एव । इदं तदिति पूर्वाधिगतनिरूपणात् । अत एव च चित्तसूक्ष्मतेत्युच्यते ।

एतौ च स्पर्शास्पर्शविहारसंनिश्रयदानकर्मकौ । अनयोश्चौदारिकसूक्ष्मतया व्यवस्थापनात्पृथक्करणम् ।

द्वये द्विधेति । (१४ )

द्वयञ्च द्वयञ्च द्वये । ते पुनः कौकृत्यमिद्धे वितर्कविचारौ च । एते च चत्वारो धर्मा द्विधा क्लिष्टा अक्लिष्टाश्च ।

तत्राकुशलमकृत्वा कुशलञ्च कृत्वा यश्चेतसो विलेखस्तत्संक्लिष्टं कौकृत्यम् । यत्कुशलमकृत्वाकुशलञ्च कृत्वा तत्कौकृत्यमक्लिष्टम् ।

मिद्धमपि क्लिष्टचित्ताविद्धं क्लिष्टचित्तसंप्रयुक्तं च क्लिष्टम् । अक्लिष्टचित्ताविद्धमक्लिष्टचित्तसंप्रयुक्तञ्चाक्लिष्टम् ।

कामव्यापादविहिंसादिवितर्काः क्लिष्टाः । नैश्क्रम्यादिवितर्का अक्लिष्टाः । एवं परोपघातोपायविचारः क्लिष्टः । परानुग्रहोपायविचारोऽक्लिष्टः ।

तत्र ये कौकृत्यमिद्धवितर्कविचाराः क्लिष्टास्त एवोपक्लेशा नेतरे ।

तत्र यथा रूपशब्दाद्युपलब्धिः षट्प्रकारा यथासंभवं सर्वैश्चैतसिकैः संप्रयुज्यते सर्वत्रगैर्विनियतैः कुशलैः क्लेशैरुपक्लेशैश्च एवं त्रिवेदना तिसृभिश्च वेदनाभिः संप्रयुज्यते सुखया दुःखया अदुःखासुखया च । सौमनस्यदौर्मनस्योपेक्षास्थानीयेषु रूपादिषु तदुत्पत्तेः कुशला अकुशला अव्याकृता च । आलयविज्ञानन् तु सर्वत्रगैः पञ्चभिरेव संप्रयुज्यते नान्यैः । तत्र चोपेक्षैव वेदना अनिवृताव्यकृतञ्च । क्लिष्टं मनः सर्वत्रगैः पञ्चभिश्चतुर्भिश्च क्लेशैरात्ममोहादिभिः सदा संप्रयुज्यते । तत्रोपेक्षैव वेदना निवृताव्याकृतञ्चेति ।

(१०२)
इदमिदानीञ्चिन्त्यते । किं पञ्चानाञ्चक्षुर्विज्ञानादीनां युगपदालम्बनप्रत्ययसान्निध्येऽप्यालयविज्ञानादेकस्यैवोत्पत्तिर्भवति न द्वयोर्न बहूनां वा । यथैके मन्यन्ते । न द्वयोर्न बहूनां वा युगपत्समनन्तरप्रत्ययाभावादेकस्यैव विज्ञानस्योत्पत्तिर्भवति । न चैकं विज्ञानं बहूनां समन्तरप्रत्ययत्वं प्रतिपत्तुमुत्सहते । उतानियमेन ।

यद्येकस्यैव प्रत्ययसांनिध्यमेकमेवोत्पद्यते । एवं द्वयोर्बहूनाञ्च प्रत्ययसांनिध्ये उत्पत्तिर्भवतीत्यत आह ।

पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्भवः ।
विज्ञानानां सह न वा तरङ्गाणां यथा जले ॥ १५

पञ्चानामिति चक्षुरादिविज्ञानानां तदनुचरमनोविज्ञानसहित्ःन्ःम् । पञ्चानां चक्षुरादिविज्ञानानां बीजाश्रयत्वात्तदुत्पत्तेर्गतिषु जन्मोपादानाच्चालयविज्ञानं मूलविज्ञानमित्युच्यते । यथाप्रत्ययमुद्भव इति यस्य यस्य यः प्रत्ययः संनिहितस्तस्य तस्य नियमेनोद्भव आत्मलाभः । सह न वेति युगपत्क्रमेण वा । तरङ्गाणां यथा जल इत्यालयविज्ञानात्प्रवृत्तिविज्ञानानां युगपदयुगपच्चोत्पत्तौ दृष्टान्तः । यथोक्तम् ।

तद्यथा विशालमते महत उदकौघस्य वहतः सचेदेकस्य
तरङ्गस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवत्येकमेव
तरङ्गं प्रवर्तते । सचेद्द्वयोस्त्रयाणां संबहुलानां
तरङ्गाणामुत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति यावत्
संबहुलानि तरङ्गाणि प्रवर्तन्ते । न च तस्योदकौघस्य स्रोतसा
वहतः समुच्छित्तिर्भवति । न पर्युपयोगः प्रज्ञायते ।
एवमेव विशालमते तदोघस्थानीयमालयविज्ञानं संनिश्रित्य
प्रतिष्ठाय सचेदेकस्य चक्षुर्विज्ञानस्योत्पत्तिप्रत्ययः
प्रत्युपस्थितो भवत्येकमेव चक्षुर्विज्ञानं प्रवर्तते ।
सचेद्द्वयोस्त्रयाणां सचेत्पञ्चानां विज्ञानानामुत्पत्तिप्रत्ययः
प्रत्युपस्थितो भवति सकृद्यावत्पञ्चानां प्रवृत्तिर्भवति ।

(१०४)
अत्र गाथा ।

आदानविज्ञान गभीरसूक्ष्मो ओघो यथा वर्तति सर्वबीजो ।
बालान एषो मयि न प्रकाशि मा हैव आत्मा परिकल्पयेयुर्

इति । न हि विज्ञानप्रतिनियमेनालम्बनप्रत्ययवत्समनन्तरप्रत्यय इष्यते । सर्वविज्ञानोत्पत्तौ सर्वस्य विज्ञानस्य तत्समनन्तरप्रत्ययत्वाभ्युपगमात् । अत एकस्मादपि समनन्तरप्रत्ययादालम्बनप्रत्ययसान्निध्ये द्वयोर्बहूनां वा विज्ञानानामुत्पत्तिर्न विरूध्यते । किञ्चात्र कारणं यत्समनन्तरप्रत्ययप्रतिनियमाभावे
पञ्चानाञ्च युगपदालम्बनप्रत्ययसान्निध्य एकेनैवोत्पत्तव्यं न पञ्चभिरपीति । तस्मादलम्बनसद्भावे पञ्चानामपि चोत्पत्तिरित्यभ्युपेयम् ।

इदमीदानीं वक्तव्यम् । किं मनोविज्ञानं चक्षुरादिविज्ञानैः सह प्रवर्तते विना च । उत नैवेत्यत आह ।

मनोविज्ञानसंभूतिः सर्वदासंज्ञिकादृते ।
समापत्तिद्वयान्मिद्धान्मूर्च्छनादप्यचित्तकात् ॥ १६

इति । सर्वदेति सर्वकालं चक्षुरादिविज्ञानैः सह विना चेत्यर्थः । अस्योत्सर्गस्येममपवादमारभते ।

आसंज्ञिकादृते
समापत्तिद्वयान्मिद्धान्मूर्च्छनादप्यचित्तकादिति । (१६ द्)

तत्रासंज्ञिकमसंज्ञिसत्त्वेषु देवेषूपपन्नस्य यश्चित्तचैतसिकानां धर्माणां निरोधः ।

समापत्तिद्वयमसंज्ञिसमापत्तिर्निरोधसमापत्तिश्च ।

(१०६)
तत्रासंज्ञिसमापत्तिः । तृतीयाद्ध्यानाद्वीतरागस्योर्ध्वमवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेण मनोविज्ञानस्य तत्संप्रयुक्तानाञ्च चैत्तानां यो निरोधः सोऽत्रासंज्ञिसमापत्तिरित्युच्यते । निरुध्यतेऽनेनेति निरोधः
। स पुनः ससंप्रयोगस्य मनोविज्ञानस्य समुदाचारनिरोधः । आश्रयस्यावस्थाविशेषः । स च समापत्तिचित्तादनन्तरञ्चित्तान्तरोत्पत्तिविरुद्ध आश्रयः प्राप्यत इति समापत्तिरित्युच्यते । निरोधसमापत्तिराकिञ्चन्यायतनवीतरागस्य शान्तविहारसंज्ञापूर्वकेण मनसिकारेण ससंप्रयोगस्य मनोविज्ञानस्य क्लिष्टस्य च मनसो यो निरोधः । इयमप्यसंज्ञिसमापत्तिवदाश्रयस्यावस्थाविशेषे प्रज्ञप्यते ।

अचित्तकं मिद्धं गाढमिद्धोपहतत्वादाश्रयस्य तावत्कालं मनोविज्ञानाप्रवृत्तेरचित्तकमित्युच्यते ।

अचित्तिका मूर्च्छा । आगन्तुकेनाभिघातेन वातपित्तश्लेष्मवैषम्येण वा यदाश्रयवैषम्यं
मनोविज्ञानप्रवृत्तिविरुद्धं तत्राचित्तिका मूर्च्छोपचर्यते ।

एताः पञ्चावस्था वर्जयित्वा तदन्यासु सर्वास्ववस्थासु मनोविज्ञानप्रवृत्तिर्वेदितव्या । एवमासंज्ञिकादिषु मनोविज्ञाने निरुद्धे तदपगमे पुनः कुत उत्पद्यते यतस्तस्य कालक्रिया न भवति । तत्पुनरालयविज्ञानादेवोत्पद्यते । तद्धि सर्वविज्ञानबीजकमिति ।

यत्र विज्ञानपरिणामे आत्मधर्मोपचारः स पुनस्त्रिधेत्युद्दिश्य विस्तरेण त्रिविधोऽपि निर्दिष्टः ।

(१०८)
इदानीमात्मधर्मोपचारो यः प्रवर्तते स विज्ञानपरिणाम एव न विज्ञानपरिणामाच्च पृथगस्त्यात्मा धर्मा चेति यत्प्रतिज्ञातं तत्प्रसाधनार्थमाह ।

विज्ञानपरिणामोऽयं विकल्पो यद्विकल्प्यते ।
तेन तन्नास्ति तेनेदं सर्वं विज्ञाप्तिमात्रकम् ॥ १७

इति । योऽयं विज्ञानपरिणामस्त्रिविधोऽनन्तरमभिहितः सोऽयं विकल्पः । अध्यारोपितार्थाकारास्त्रैधातुकाश्चित्तचैत्ता विकल्प उच्यते । यथोक्तम् ।

अभूतपरिकल्पस्तु चित्तचैत्तास्त्रिधातुका इति ।

तेन त्रिविधेन विकल्पेनालयविज्ञानक्लिष्टमनःप्रवृत्तिविज्ञानस्वभावेन ससंप्रयोगेण यद्विकल्प्यते भाजनमात्मास्कन्धधात्वायतनरूपशब्दादिकं
वस्तु तन्नास्तीत्यतः स विज्ञानपरिणामो विकल्प उच्यते । असदालम्बनत्वात् ।

कथं पुनरेतद्विज्ञायते तदालम्बनमसदिति । यद्धि यस्य कारणं तस्मिन् समग्रे चाविरुद्धे च तदुत्पद्यते नान्यथा । विज्ञानञ्च मायागन्धर्वनगरस्वप्नतिमिरादावसत्यप्यालम्बने जायते । यदि च विज्ञानस्यालम्बनप्रतिबद्ध उत्पादः स्यादेवं सति मायादिष्वर्थाभावान्न विज्ञानमुत्पद्यते ।

(११०)
तस्मात्पूर्वकान्निरुद्धात्तज्जातीयविज्ञानाद्विज्ञानमुत्पद्यते । न बाह्यादर्थात्तस्मिन्नसत्यपि भावात् । दृष्टा चाभिन्नेऽप्यर्थे प्रतिपत्तॄणां परस्परविरुद्धा प्रतिपत्तिः । न चैकस्य परस्परविरुद्धानेकात्मकत्वं युज्यते । तस्मादध्यारोपितरूपत्वाद्विकल्पस्यालम्बनमसदिति प्रतिपत्तव्यम् ।

अनेन तावत्समारोपान्तं परिहृत्यापवादान्तपरिजिहीर्षया आह ।

तेनेदं सर्वं विज्ञाप्तिमात्रकम् (१७ द्)

इति । तेनेति तस्मात् । यस्मात्परिणामात्मकेन विकल्पेन यद्विकल्प्यते तेन तन्नास्ति तस्माद्विषयाभावात्सर्वं विज्ञप्तिमात्रकम् । सर्वमिति त्रैधातुकमसंस्कृतञ्च । मात्रशब्दस्तदधिकविषयव्यवच्छेदार्थः । ककारः पादपूरणार्थः ।

यदि सर्वं विज्ञप्तिमात्रकमेव न ततोऽन्यः कर्ता करणं वास्ति कथं मूलविज्ञानादनधिष्ठितादसति करणे विकल्पाः प्रवर्तन्त इत्याह ।

सर्वबीजं हि विज्ञानं परिणामस्तथा तथा ।
यात्यन्योन्यवशाद्येन विकल्पः स स जायते ॥ १८

तत्र सर्वधर्मोत्पादनशक्त्यनुगमात्सर्वबीजं विज्ञानमित्यालयविज्ञानम् । विज्ञानं ह्यसर्वबीजमप्यस्तीत्यतः सर्वबीजमित्याह । विज्ञानादन्यदपि कैश्चित्प्रधानादि सर्वबीजं कल्प्यत इति विज्ञानमित्याह । अथ वा । एकपदव्यभिचारेऽपि विशेषणविशेष्यत्वदर्शनान्नायं दोषः ।

परिणामस्तथा तथा यात्यन्योन्यवशादिति । (१८ च्)

पूर्वावस्थातोऽन्यथाभावः परिणामः । तथा तथेति तस्य तस्य विकल्पस्यानन्तरोत्पादनसमर्थावस्थां प्राप्नोतीत्यर्थः ।

(११२)
अन्योन्यवशादिति । तथा हि चक्षुरादिविज्ञानं स्वशक्तिपरिपोषे वर्तमाने शक्तिविशिष्टस्यालयविज्ञानपरिणामस्य निमित्तं सोऽपि आलयविज्ञानपरिणामश्चक्षुरादिविज्ञानस्य निमित्तं भवति । एवमन्योन्यवशाद्यस्मादुभयं प्रवर्तते तस्मादालयविज्ञानादन्येनानधिष्ठितादनेकप्रकारो विकल्पः स स जायते । तत्र च वर्तमाने जन्मनि यथालयविज्ञानात्प्रवृत्तिविज्ञानस्योत्पत्तिर्भवति तथाख्यातम् ।

इदानीं विज्ञप्तिमात्रे अनागतं जन्म वर्तमानजन्मनिरोधे सति यथा प्रतिसंधीयते तत्प्रदर्शयन्नाह ।

कर्मणो वासना ग्राहद्वयवासनया सह ।
क्षीणे पूर्वविपाकेऽन्यं विपाकं जनयन्ति तत् ॥ १९

इति । पुण्यापुण्यानेञ्ज्यचेतना कर्म । तेन कर्मणा यदनागतात्मभावाभिनिर्वृत्तये आलयविज्ञाने सामर्थ्यमाहितं सा कर्मवासना । ग्राहद्वयं ग्राह्यग्रहो ग्राहकग्राहश्च । तत्र विज्ञानात्पृथगेव स्वसन्तानाध्यासितं ग्राह्यमस्तीत्यध्यवसायो ग्राह्यग्राहः । तच्च विज्ञानेन प्रतीयते विज्ञायते गृह्यत इति योऽयं निश्चयः स ग्रहकग्राहः । पूर्वोत्पन्नग्राह्यग्राहकग्राहाक्षिप्तमनागततज्जातीयग्राह्यग्राहकग्राहोत्पत्तिबीजं ग्राहद्वयवासना । तत्र कर्मवासनाभेदाद्गतिभेदेनात्मभावभेदो बीजभेदादङ्कुरभेदवत् ।

(११४)
ग्राहद्वयवासना तु सर्वकर्मवासनानां यथास्वमाक्षिप्तात्मभावोत्पादने प्रवृत्तानां सहकारित्वं प्रतिपद्यते । तद्यथा अबादयो बीजस्याङ्कुरोत्पत्ताविति ।

एवञ्च न केवलाः कर्मवासना ग्राहद्वयवासनाननुगृहीता विपाकञ्जनयन्तीत्युक्तं भवति । अत एवाह । ग्रहाद्वयवासनया सहेति ।

क्षीणे पूर्वविपाकेऽन्यं विपाकं जनयन्ति तदिति । (१९ द्)

पूर्वजन्मोपचितेन कर्मणा य इति विपाकोऽभिनिर्वृत्तस्तस्मिन् क्षीण इत्याक्षेपकाले पर्यन्तावस्थिते यथाबलं कर्मवासना ग्राहद्वयवासनासहिता उपभूक्ताद्विपाकादन्यं विपाकं तदेवालयविज्ञानं जनयन्ति । आलयविज्ञानव्यतिरेकेणान्यस्य विपाकस्याभावात् । क्षीणे पूर्वविपाक इत्यनेन शाश्वतान्तं परिहरति । अन्यं विपाकं जनयन्तीत्युच्छेदान्तम् ।

चक्षुरादिविज्ञानव्यतिरिक्तमालयविज्ञानमस्ति । तदेव च सर्वबीजकं न चक्षुरादिविज्ञानमिति कुत एतत् । आगमाद्युक्तितश्च । उक्तं हि भगवताभिधर्मसूत्रे ।

(११६)
अनादिकालिको धातुः सर्वधर्मसमाश्रयः ।
तस्मिन् सति गतिः सर्वा निर्वाणाधिगमोऽपि च ॥

न चालयविज्ञानमन्तरेण संसारप्रवृत्तिर्निवृत्तिर्वा युज्यते । तत्र संसारप्रवृत्तिर्निकायसभागान्तरेषु प्रतिसन्धिबन्धः । निवृत्तिः सोपधिशेषो निरुपधिशेषश्च निर्वाणधातुः । तत्रालयविज्ञानादन्यत्संस्कारप्रत्ययं विज्ञानं न युज्यते । संस्कारप्रत्ययविज्ञानाभावे प्रवृत्तेरप्यभावः ।

संसारस्यालयविज्ञानानभ्युपगमे प्रतिसन्धिविज्ञानं वा संस्कारप्रत्ययं परिकल्प्येत संस्कारपरिभाविता वा षड्विज्ञानकायाः । तत्र ये संस्काराः प्रातिसंधिकविज्ञानप्रत्ययत्वेनेष्यन्ते तेषाञ्चिरनिरुद्धत्वान्निरुद्धस्य चासत्वादसतश्च प्रत्ययत्वाभावान्न संस्कारप्रत्ययं प्रतिसन्धिविज्ञानं युज्यते । प्रतिसन्धौ च नामरूपमप्यस्ति न केवलं विज्ञानम् । तत्र विज्ञानमेव संस्कारप्रत्ययं न नामरूपमिति का तत्र युक्तिः । तस्मात्संस्कारप्रत्ययं नामरूपमिति वाक्तव्यम् । न तु विज्ञानमिति । (११८) कतमदन्यद्विज्ञानप्रत्ययं नामरूपम् । यदुत्तरकालमिति चेत्तस्य प्रातिसन्धिकनामरूपात्क आत्मातिशयो यतस्तदेव विज्ञानप्रत्ययं न पूर्वम् । पूर्वञ्च संस्कारप्रत्ययं नोत्तरमिति । अतश्च संस्कारप्रत्ययं नामरूपमेवास्तु किं प्रतिसन्धिविज्ञानेनाङ्गान्तरेण परिकल्पितेन । तस्मान्न प्रतिसन्धिविज्ञानं
संस्कारप्रत्यत्ययं युज्यते ।

संस्कारपरिभाविता वा षड्विज्ञानकाया अपि न संस्कारप्रत्ययं विज्ञानं युज्यते । किं कारणम् । न हि विज्ञानं विपाकवासनां निष्यन्दवासनां वा स्वात्मन्याधातुं समर्थं स्वात्मनि कारित्रविरोधात् । नाप्यनागते तस्य तदानुत्पन्नत्वात् । अनुत्पन्नस्य चासत्त्वात् । नाप्युत्पन्ने पूर्वस्य तदा निरुद्धत्वात् । अचित्तिकासु च निरोधसमापत्त्याद्यवस्थासु पुनः संस्कारपरिभावितचित्तोत्पत्त्यसंभवाद्विज्ञानप्रत्ययं नामरूपं न स्यात् । तदभावाट्षडायतनं न स्यात् । एवं यावज्जातिप्रत्ययं जरामरणं न स्यात् । ततश्च संसारप्रवृत्तिरेव न स्यात् ।

तस्मादविद्याप्रत्ययाः संस्कारास्तदधिवासितञ्चालयविज्ञानं संस्कारप्रत्ययं विज्ञानम् । तत्प्रत्ययं प्रतिसन्धौ नामरूपमित्येषैव नीतिरनवद्या ।

संसारनिवृत्तिरपि आलयविज्ञाने असति न युज्यते । संसारस्य हि कर्मक्लेशाश्च कारणं तयोश्च क्लेशाः प्रधानम् । तथा हि क्लेशाधिपत्यात्कर्म पुनर्भवाक्षेपसमर्थं भवति नान्यथा । तथाक्षिप्तपुनर्भवोऽपि कर्म क्लेशाधिपत्यादेव पुनर्भवो भवति नान्यथा । एवञ्च क्लेशा एव संसारप्रवृत्तेः प्रधानत्वान्मूलम् । अतस्तेषु प्रहीणेषु संसारो विनिवर्तते नान्यथा । न चालयविज्ञानमन्तरेण तत्प्रहाणं युज्यते ।

(१२०)
कथं पुनर्न युज्यते । संमुखीभूतो वा क्लेशः प्रहीयते बीजावस्थो वा । तत्र संमुखीभूतः प्रहीयत इत्यनिष्टिरेवेयम् । तत्प्रहाणमार्गस्थानाद्बीजावस्थोऽपि नैव प्रहीयते । न हि प्रतिपक्षात्तदानीं किञ्चिदन्यदभ्युपगम्यते यत्र क्लेशबीजं व्यवस्थितं तत्प्रतिपक्षेण प्रहीयेत । अथ प्रतिपक्षचित्तमेव क्लेशबीजानुषक्तमिष्यते । न हि तत्क्लेशबीजानुषक्तमेव तत्प्रतिपक्षो भवितुमर्हति । न चाप्रहीणक्लेशबीजानां संसारनिवृत्तिः संभवति । तस्मादवश्यमालयविज्ञानं तदन्यविज्ञानसहभूभिः क्लेशोपक्लेशैर्भाव्यते स्वबीजपुष्ट्याधानत इत्यभ्युपेयम् । ये पुनश्चित्तत एव संततिपरिणामविशेषाद्यथाबलं वासनावृत्तिलाभे सति क्लेशोपक्लेशाः प्रवर्तन्ते तेषाञ्चालयविज्ञानव्यवस्थितं बीजं तत्सहभुवा क्लेशप्रतिपक्षमार्गेणापनीयते । तस्मिंश्चापनीते न पुनस्तेनाश्रयेण क्लेशानामुत्पत्तिरिति सोपधिशेषो निर्वाणधातुः प्राप्यते । पूर्वकर्माक्षिप्तजन्मनिरोधे च ततोऽन्यजन्माप्रतिसंधानान्निरुपधिशेषो निर्वाणधातुः । न हि कर्म विद्यमानमपि क्लेशेषु प्रहीणेषु सहकारिकारणभावात्पुनर्भवमभिनिर्वर्तयितुं समर्थम् ।

एवमालयविज्ञाने सति संसारप्रवृत्तिर्निवृत्तिश्च नान्यथेत्यवश्यं चक्षुरादिविज्ञानव्यतिरिक्तमालयविज्ञानं तदेव च सर्वधर्मबीजानुगतं न चक्षुरादिविज्ञानमित्यभ्युपगन्तव्यम् । विस्तरविचारस्तु पञ्चस्कन्धकोपनिबन्धाद्वेदितव्यः ॥

(१२२)
यदि विज्ञप्तिमात्रमेवेदं कथं न सूत्रविरोधः । सूत्रेषु हि त्रयः स्वभावा उक्ताः परिकल्पितः परतन्त्रः परिनिष्पन्नश्च । नास्ति विरोधः । विज्ञप्तिमात्र
एव सति स्वभावत्रयव्यवस्थानात् । कथमित्यत आह ।

येन येन विकल्पेन यद्यद्वस्तु विकल्प्यते ।
परिकल्पित एवासौ स्वभावो न स विद्यते ॥ २०

आध्यात्मिकबाह्यविकल्प्यवस्तुभेदेन विकल्पानामानन्त्यं प्रदर्शयन्नाह । येन येन विकल्पेनेति ।

यद्यद्वस्तु प्रकल्प्यते । आध्यात्मिकं बाह्यं वान्तशो यावद्बुद्धधर्मा अपि । परिकल्पित एवासौ स्वभाव इति । अत्र कारणमाह । न स विद्यत इति ।

यद्वस्तु विकल्प्यविषयस्तद्यस्मात्सत्ताभावान्न विद्यते । तस्मात्तद्वस्तु परिकल्पितस्वभावमेव । न हेतुप्रत्ययप्रतिबद्धस्वभावम् । तथा ह्येकस्मिन् वस्तुनि तदभावे च परस्परविरुद्धानेकविकल्पप्रवृत्तिर्दृष्टा । न च तदेकं वस्तु तदभावो वा परस्परविरुद्धानेकस्वभावो युज्यते । तस्मात्सर्वमिदं विकल्पमात्रमेव तदर्थस्य परिकल्पितरूपत्वात् । उक्तं च सूत्रे ।

न खलु पुनः सुभूते धर्मास्तथा विद्यन्ते यथा बालपृथग्जना अभिनिविष्टा इति ।

परिकल्पितानन्तरं परतन्त्रस्वभावो वक्तव्य इति । अत आह ।

परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः । २१ ब्

अत्र च विकल्प इति परतन्त्रस्वरूपमाह । प्रत्ययोद्भव इत्यनेनापि
परतन्त्राभिधानप्रवृत्तिनिमित्तमाह । तत्र परिकल्पः कुशलाकुशलाव्याकृतभेदभिन्नास्त्रैधातुकाश्चित्तचैत्ताः ।

(१२४)
यथोक्तम् ।

अभूतपरिकल्पस्तु चित्तचैत्तास्त्रिधातुका इति ।

परैर्हेतुप्रत्ययैस्तन्त्र्यत इति परतन्त्र उत्पाद्यत इत्यर्थः । स्वतोऽन्यहेतुप्रत्ययप्रतिबद्धात्मलाभ इति यावदुक्तं भवति । उक्तः परतन्त्रः ।

परिनिष्पन्नः कथमित्यत आह ।

निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या ॥ २१ द्

अविकारपरिनिष्पत्त्या स परिनिष्पन्नः । तस्येति परतन्त्रस्य पूर्वेणेति परिकल्पितेन तस्मिन् विकल्पे ग्राह्यग्राहकभावः परिकल्पितः । तथा हि तस्मिन् विकल्पे ग्राह्यग्राहकत्वमविद्यमानमेव परिकल्प्यत इति परिकल्पितमुच्यते । तेन ग्राह्यग्राहकेण परतन्त्रस्य सदा सर्वकालमत्यन्तरहितता या स परिनिष्पन्नस्वभावः ॥

अत एव स नैवान्यो नानन्यः परतन्त्रतः । २२ ब्

अत एव स नैवेति परिकल्पितेन स्वभावेन परतन्त्रस्य सदा रहितता परिनिष्पन्नः । रहितता च धर्मता । सा च धर्मता धर्मान्नान्या नानन्या युज्यते । परिनिष्पन्नश्च परतन्त्रधर्मतेत्यतः परतन्त्रात्परिनिष्पन्नो नान्यो नानन्य इति बोद्धव्यः । यदि हि परिनिष्पन्नः परतन्त्रादन्यः स्यादेवं न परिकल्पितेन परतन्त्रः शून्यः स्यात् । अथानन्य एवमपि परिनिष्पन्नो न विशुद्धालम्बनः स्यात्परतन्त्रवत्संक्लेशात्मकत्वात् । एवं परतन्त्रश्च न क्लेशात्मकः स्यात् । परिनिष्पन्नादनन्यत्वात्परिनिष्पन्नवत् ।

(१२६)
अनित्यतादिवद्वाच्यो २२

नान्यो नानन्य इति वाक्यशेषः । यथा ह्यनित्यता दुःखतानात्मता च । संस्कारादिभ्यो
नान्या नानन्या । यदि संस्कारेभ्योऽनित्यता अन्या । एवं तर्हि संस्कारा नित्याः स्युः । अथानन्या एवमपि संस्काराः प्रध्वंसाभावरूपाः स्युरनित्यतावत् । एवं दुःखतादिष्वपि वाच्यम् ।

यदि ग्राह्यग्राहकभावरहितः परतन्त्रः कथमसौ गृह्यते अगृह्यमाणो वा कथमस्तीति विज्ञायते । अत आह ।

नादृष्टेऽस्मिन् स दृश्यते ॥ २२

नादृष्टेऽस्मिन्निति परिनिष्पन्नस्वभावे स दृश्यत इति परतन्त्रः स्वभावः । निर्विकल्पलोकोत्तरज्ञानदृश्ये परिनिष्पन्ने स्वभावे अदृष्टे अप्रतिविद्धे असाक्षात्कृते तत्पृष्ठलब्धशुद्धलौकिकज्ञानगम्यत्वात्परतन्त्रोऽन्येन ज्ञानेन न गृह्यते । अतः परिनिष्पन्नेऽदृष्टे परतन्त्रो न दृश्यते । न पुनर्लोकोत्तरज्ञानपृष्ठलब्धेनापि ज्ञानेन न दृश्यते ।

तथा निर्विकल्पप्रवेशायां धारण्यामुक्तम् ।

तत्पृष्ठलब्धेन ज्ञानेन मायामरीचिस्वप्नप्रतिश्रुत्कोदकचन्द्रनिर्मितसमान् सर्वधर्मान् प्रत्येतीति ।

अत्र च धर्माः परतन्त्रसंगृहीता अभिप्रेताः । परिनिष्पन्नश्चाकाशवदेकरसः । ज्ञानञ्च यथोक्तं

निर्विकल्पेन ज्ञानेनाकाशसमतया तान् सर्वधर्मान् पश्यतीति परतन्त्रधर्माणां तथतामात्रदर्शनात् ॥

(१२८)
यदि द्रव्यमेव परतन्त्रः कथं सूत्रे सर्वधर्मा निःस्वभावा अनुत्पन्ना अनिरुद्धा इति निर्दिश्यन्ते । नास्ति विरोधः यस्मात् ।

त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् ।
सन्धाय सर्वधर्माणां देशिता निःस्वभावता ॥ २३

त्रय एव स्वभावा न चतुर्थोऽस्तीति ज्ञापनार्थं संख्यानिर्देशः । स्वेन स्वेन लक्षणेन विद्यमानवद्भवतीति स्व्भावः ।

त्रिविधा निःस्वभावता लक्षणनिःस्वभावता उत्पत्तिनिःस्वभावता परमार्थनिःस्वभावता च । सर्वधर्माः परिकल्पितपरतन्त्रपरिनिष्पन्नात्मकाः ।

इदानीं त्रिविधस्य स्वभावस्य या यस्य निःस्वभावता तां तस्य प्रदर्शयन्नाह ।

प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः ।
न स्वयंभाव एतस्येत्यपरा निःस्वभावता ॥ २४
धर्माणां परमार्थश्च स यतस्तथतापि सः । २५ ब्

प्रथमः परिकल्पितः स्वभावोऽयं च लक्षणेनैव निःस्वभावस्तल्लक्षणस्योत्प्रेक्षितत्वात् । रूपलक्षणं रूपम् । अनुभवलक्षणा वेदनेत्यादि । अतश्च स्वरूपाभावात्खपुष्पवत्स्वरूपेणैव निःस्वभावः ।

(१३०)
अपरः पुनरिति परतन्त्रस्वभावः । न स्वयंभाव एतस्य मायावत्परप्रत्ययेनोत्पत्तेः । अतश्च यथा प्रख्याति तथास्योत्पत्तिर्नास्तीत्यतोऽस्योत्पत्तिनिःस्वभावतेत्युच्यते ।

धर्माणां परमार्थश्च स यतस्तथापि स इति । (२५ ब्)

परमं हि लोकोत्तरज्ञानं निरुत्तरत्वात्तस्यार्थः परमार्थः । अथ वाकाशवत्सर्वत्रैकरसार्थेन वैमल्याविकारार्थेन च परिनिष्पन्नः स्वभावः परमार्थ उच्यते । स यस्मात्परिनिष्पन्नः स्वभावः सर्वधर्माणां परतन्त्रात्मकानां परमार्थः । तद्धर्मतेति कृत्वा तस्मात्परिनिष्पन्न एव स्वभावः परमार्थनिःस्वभावाता परिनिष्पन्नस्याभावस्वभावत्वात् ।

किं पुनः परमार्थाभिधानेनैव परिनिष्पन्नोऽभिधातव्यः । नेत्याह । किं तर्हि

तथतापि सः । (२५ )

अपिशब्दान्न केवलं तथताशब्देनैवाभिधातव्यः । किं तर्हि यावन्तो धर्मधातुपर्यायाः सर्वैस्तैरप्यभिधातव्य इति ॥

सर्वकालं तथाभावात्२५

तथता । तथा हि पृथग्जनशैक्षाशैक्षावस्थासु सर्वकालं तथैव भवति । नान्यथेति तथतेत्युच्यते ।

किं पुनस्तथतावत्परिनिष्पन्न एव विज्ञप्तिमात्रता । उतान्या विज्ञप्तिमात्रता । अत आह ।

सैव विज्ञप्तिमात्रता ॥ २५

(१३२)
सुविशुद्धलक्षणावबोधाद्यथोक्तम् ।

नाम्नि तिष्ठति तच्चित्तं तदा तन्मात्रदर्शनात् ।
नाम्नि स्थानाच्च विज्ञप्तावुपलम्भः प्रहीयते ॥
नोपलम्भं तदा धातुं स्पृशते भावनान्वयात् ।
सर्वावरणविमोक्षं विभुत्वं लभते तदा ॥

इति । सैव विज्ञप्तिमात्रतेत्यनेन वचनेनाभिसमय उक्तः ।

यदि विज्ञप्तिमात्रमेवेदं कस्माच्चक्षुःश्रोत्रघ्राणरसनस्पर्शनैः रूपशब्दगन्धरसस्पर्शान् गृह्णातीत्यस्य भवतीत्यत आह ।

यावद्विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठते ।
ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते ॥ २६

अथ वा यास्ताः कर्मवासना ग्राहद्वयवासनासहिताः

क्षीणे पूर्वविपाकेऽन्यं विपाकं जनयन्तीत्य्(१९ द्)

उक्तं तस्मात्कथं प्रहाणमप्रहाणं चेत्यत आह ।

(१३४)
यावद्विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ट्ःत (२६ ब्)

इति विस्तरः । यावच्चित्तधर्मतायां विज्ञप्तिमात्रसंशब्दितायां विज्ञानं नावतिष्ठते किं तर्हि ग्राह्यग्राहकोपलम्भे चरति । ग्राहद्वयं ग्राह्यग्राहो ग्राहकग्राहश्च । तस्यानुशयस्तदाहितमनागतग्राहद्वयोत्पत्तये बीजमालयविज्ञाने । यावदद्वयलक्षणे विज्ञप्तिमात्रत्वे योगिनश्चित्तं न प्रतिष्ठितं भवति तावद्ग्राह्यग्राहकानुशयो न विनिवर्तते न प्रहीयत इत्यर्थः । अत्र च बहिरुपलम्भाप्रहाणेनाध्यात्मिकोपलम्भाप्रहाणं दर्शितमिति । अतोऽस्यैवं भवत्यहं चक्षुरादिभिः रूपादीन् गृह्णामीति ।

इदमिदानीं वक्तव्यं किमर्थरहितचित्तमात्रोपलम्भाच्चित्तधर्मतावस्थानम् । नेत्याह । किं तर्हि ।

विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भतः ।
स्थापयन्नग्रतः किञ्चित्तन्मात्रे नावतिष्ठते ॥ २७

इति अथ वा यः पुनराभिमानिकः श्रुतमात्रकेण जानीयदहं विज्ञप्तिमात्रतायां शुद्धायां स्थित इति तद्ग्रहव्युदासार्थमाह ।

विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भत इत्य्(२७ ब्)

आदि । विज्ञप्तिमात्रमेवेदमर्थरहितं न बाह्योऽर्थोऽस्तीत्येवमुपलम्भतो ग्रहणतः चित्रीकरणत इत्यर्थोऽग्रत इत्यभिमुखं (१३६) स्थापयन्निति यथाश्रुतं मनसा
बहुप्रकारत्वाद्योगाचारालम्बनानां किंचिदित्याहास्थिसंकलिकं वा विनीलकं वा विपूयकं वा विपडुमकं वा व्याध्मातकादिकं वा तन्मात्रे नावतिष्ठते विज्ञानोपलम्भाप्रहाणात् ।

कदा पुनर्विज्ञानग्राहस्य प्रहाणं चित्तधर्मातायाञ्च प्रतिष्ठितो भवतीत्यत आह ।

यदा त्वालम्बनं ज्ञानं नैवोपलभते तदा ।
स्थितं विज्ञप्तिमात्रत्वे ग्राह्याभाभावे तदग्रहात् ॥ २८

यस्मिन् काले देशनालम्बनमववादालम्बनं प्राकृतं वा रूपशब्दाद्यालम्बनं ज्ञानं बहिश्चित्तान्नोपलभते न पश्यति न गृह्णाति नाभिनिविशते यथाभूतार्थदर्शनान्न तु जात्यन्धवत्तस्मिन् काले विज्ञानग्राहस्य प्रहाणं स्वचित्तधर्मतायां च प्रतिष्ठितो भवति । अत्रैव कारणमाह ।

ग्राह्याभावे तदग्रहादिति । (२८ )

ग्राह्ये सति ग्राहको भवति न तु ग्राह्याभाव इति । ग्राह्याभावे ग्राहकाभावमपि प्रतिपद्यते । न केवलं ग्राह्याभावम् । एवं हि (१३८) समसमालम्ब्यालम्बकं निर्विकल्पं लोकोत्तरं ज्ञानमुत्पद्यते । ग्राह्यग्राहकाभिनिवेशानुशयाः प्रहीयन्ते स्वचित्तधर्मतायां च चित्तमवस्थितं भवति ।

यदैवं विज्ञप्तिमात्रतायां चित्तमवस्थितं भवति तदा कथं व्यपदिश्यत इत्याह ।

अचित्तोऽनुपलम्बोऽसौ ज्ञानं लोकोत्तरञ्च तत् ।
आश्रयस्य परावृत्तिर्द्विधादौष्ठुल्यहानितः ॥ २९
स एवानास्रवो धातुरचिन्त्यः कुशलो ध्रुवः ।
सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः ॥ ३०

इति । तदनेन श्लोकद्वयेन दर्शनमार्गमारभ्योत्तरविशेषगत्या फलसंपत्तिरुद्भाविता विज्ञप्तिमात्रताप्रविष्टयोगिनः । तत्र ग्राहकचित्ताभावाद्ग्राह्यार्थानुपलम्भाच्

चाचित्तोऽनुपलम्भोऽसौ । (२९ )

(१४०)
अनुचितत्वाल्लोके समुदाचाराभावान्निर्विकल्पत्वाच्च लोकादुत्तीर्णमिति

ज्ञानं लोकोत्तरञ्च तदिति । (२९ )

तस्य ज्ञानस्यानन्तरमाश्रयस्य परावृत्तिर्भवतीति ज्ञापनार्थमाह ।

आश्रयस्य परावृत्तिरिति । (२९ )

आश्रयोऽत्र सर्वबीजकमालयविज्ञानम् । तस्य परावृत्तिर्या दौष्ठुल्यविपाकद्वयवासनाभावेन निवृत्तौ सत्यां कर्मण्यताधर्मकायाद्वयज्ञानभावेन परावृत्तिः ।

सा पुनराश्रयपरावृत्तिः कस्य प्रहाणात्प्राप्यते । अत आह ।

द्विधादौष्ठुल्यहानितः । (२९ )

द्विधेति क्लेशावरणदौष्ठुल्यं ज्ञेयावरणदौष्ठुल्यञ्च । दौष्ठुल्यमाश्रयस्याकर्मण्यता । तत्पुनः क्लेशज्ञेयावरणयोर्बीजम् । सा पुनराश्रयपरावृत्तिः श्रावकादिगतदौष्ठुल्यहानितश्च प्राप्यते यदाह विमुक्तिकाय इति ।

बोधिसत्त्वगतदौष्ठुल्यहानितश्च प्राप्यते यदाह

धर्माख्योऽयं महामुनेरिति । (३० )

द्विधा आवरणभेदेन सोत्तरा निरुत्तरा चाश्रयपरावृत्तिरुक्ता ।

अत्र गाथा ।

ज्ञेयमादानविज्ञानं द्वयावरणलक्षणम् ।
सर्वबीजं क्लेशबीजं बन्धस्तत्र द्वयोर्द्वयोः ॥

इति । द्वयोरिति श्रावकबोधिसत्त्वयोः । आद्यस्य क्लेशबीजमितरस्य द्वयावरणबीजं तदुद्घातात्सर्वज्ञतावाप्तिर्भवतीति ।

(१४२)
स एवानास्रवो धातुरिति (३० )

स एवाश्रयपरावृत्तिरूपः । अनास्रवो धातुरित्युच्यते निर्दौष्ठुल्यत्वात् । सर्वास्रवविगत इत्यनास्रवः । आर्यधर्महेतुत्वाद्धातुः । हेत्वर्थो ह्यत्र धातुशब्दः ।

अचिन्त्यस्तर्कागोचरत्वात्प्रत्यात्मवेद्यत्वाद्दृष्टान्ताभावाच्च । कुशलो विशुद्धालम्बनत्वात्क्षेमत्वादनास्रवधर्ममयत्वाच्च । ध्रुवो नित्यत्वादक्षयतया । सुखो नित्यत्वादेव यदनित्यं तद्दुःखमयं च नित्य इति तस्मात्सुखः ।

क्लेशावरणप्रहाणाच्छ्रावकाणां विमुक्तिकायः ।

स एवाश्रयपरावृत्तिलक्षणो धर्माख्योऽप्युच्यते महामुनेर्भूमिपारमिताभावनया क्लेशज्ञेयावरणप्रहाणात् । आश्रयपरावृत्तिसमुदागमान्महामुनेर्धर्मकाय इत्युच्यते । संसारापरित्यागात्तदनुपसंक्लेशत्वाद्बोधिसत्त्वानां सर्वधर्मविभुत्वलाभतश्च धर्मकाय इत्युच्यते । महामुनेरिति परमौनेययोगाद्बुद्धो भगवान्महामुनिरिति ॥

त्रिंशिकाविज्ञप्तिभाष्यं समाप्तम् ॥ कृतिराचार्यस्तिरमतेः ॥