तर्कशास्त्रम्

विकिस्रोतः तः
तर्कशास्त्रम्
[[लेखकः :|]]


तर्कशास्त्रम् ।

अथ प्रथमं प्रकरणम् ।

(शास्त्रमाह) भवान्मन्यतेऽस्मद्वचनमन्याय्यमिति चेद्भवतोऽपि वचनमन्याय्यम् । यदि भवद्वचनमन्याय्यं, तदास्मद्वचनं न्याय्यम् । यदि [भवतोच्यते] भवद्वचनं न्याय्यं, परमस्मद्वचनमन्याय्यं तन्न युक्तम् । किञ्च यदन्याय्यं तदेतत्स्वतो न्याय्यं, तस्माद्यदन्याय्यं तन्नास्ति । यदि स्वतोऽन्याय्यं तदेतदन्याय्यमसच्चैव, तस्मादहमन्याय्य[वादी] इति चेद्भवतोच्यते तदयुक्तम् ।

अन्यच्च । मम वचनमन्याय्यमिति चेद्भवतोच्यते, ततो भवानज्ञ इति स्पष्टम् । कुत इति चेत् । यदन्याय्यं तन्निराभासम् । वचनं न्यायाभावाद्भिन्नमभिन्नं वा ? । अभिन्नं चेद्वचनमपि नास्तीति मम वचनमन्याय्यमिति भवता कथमुच्यते । अथ भिन्नं, ततो वचनं न्याय्यमिति मम वचनमन्याय्यमिति कथं भवतोच्यते । वचनस्वलक्षणखण्डनाच्च । भवत्खण्डनवचनमस्मद्वचनस्य समकालीनमसमकालीनं वा? समकालीनं चेदस्मद्वचनखण्डनेऽसमर्थं, यथा गोशृङ्गेऽश्वकर्णौ वा परस्परं खण्डयितुं न शक्नुवतः । समकालीनत्वात् । असमकालीनञ्चेद्, भवतः खण्डनं पूर्वमस्मद्वचनं पश्चात् । अथास्मद्वचनानुच्चारणात्, किं भवता खण्ड्यते? । तस्माद्भवतः खण्डनमसिद्वम् । अथास्मद्वचनं (त्श्४) पूर्वं, भवतः खण्डनं तु पश्चाद्, एवं तर्ह्यस्मद्वचनसिद्वत्वात्कस्य खण्डनं भविष्यति? । समकालीनञ्चेत्, ततोऽस्मद्वचनं भवतश्च खण्डनमित्येतयोरेतत्खण्डनमेतच्च खण्डनीयमिति विशेषो न स्यात् । यथा नदीसमुद्रवारिसंयोगकाले विशेषासम्भवः ।

अपरञ्च । भवतः खण्डनं स्वखण्डनार्थमस्वखण्डनार्थं वा? स्वखण्डनार्थञ्चेत्, ततः स्वतः स्वार्थहीनं भवेदस्मद्वचननु सिद्धम् । अस्वखण्डनार्थञ्चेद्, असिद्धम् । कुत इति चेत्, स्वार्थतः खण्डनासिद्वेः । सिद्धञ्चेत्, स्वार्थहानिः परार्थसिद्विश्च ।

किञ्चास्मद्वचनमन्याय्यमिति चेद्, वचनमेव न भवेत् । वचनञ्चेन्नैवान्याय्यम् । अन्याय्यमिति चेत्, तद्विरुद्वम् । यथा कुमारी पुत्रवतीति । यतो यदि कुमारी पुत्रवतीति न सम्पद्यते । यदि पुत्रवती, तर्हि नैव कुमारी । कुमारीति पुत्रवतीति चोभयं विरुद्वम् । तस्मान्मम वचनमन्याय्यमिति चेद्भवतोच्यते तदयुक्तम् । एतत्पुनः प्रत्यक्षविरुद्वम् । भवानस्माकं वचनं श्रुत्वान्याय्यं मन्यते चेत्, तत्तर्हि श्रुतत्वात्प्रत्यक्षसिद्धम् । प्रत्यक्षं हि बलवत्तरं तस्माद्भवद्वचनहानिः । यथा कश्चिन्मन्येत श्रोत्रविज्ञानतः शब्दस्यानुपलब्धिरथ श्रोत्रविज्ञानतः शब्दस्योपलब्धिः प्रत्यक्षसिद्वेति, तदा प्रत्यक्षस्य बलवत्तरत्वात्तद्वचनहानिः ।

अनुमानविरुद्धं चैतत् । मम वचनमनुमानेनोपलभ्यते चेत्ततो न्याय्यमिति स्पष्टम् । अन्याय्यं हि वचनं नैव विद्यते । यदि वचनमस्ति तदा न्याय्यमिति ज्ञायते । यथा कश्चिन्मन्येत शब्दोऽनित्यो हेतुमत्त्वात् । यच्च हेतुमत्तदनित्यं, (त्श्५) यथा घटः । स हेतुमत्त्वादनित्यः । यदि हेतुमांस्तदानित्यः शब्दो, यदि नित्यो नैव हेतुमान् । इत्यनित्यतानुमानसिद्वा । अनुमानबलान्नित्यतहानिः । न्याय्यमिति, यद्वचनं तन्न्याय्यम् । यन्न्याय्यमित्यनुमानसिद्धं, तदन्याय्यमिति प्रतिषिद्वम् । लोकविरुद्वं चैतत् । यद्भवतोक्तं मम वचनमन्याय्यमिति तल्लोकविरुद्वम् । कस्मादिति, लोके हि चतुर्विधन्यायसत्वात् । [तथा हि] हेतुफलन्यायः सापेक्षन्यायः साधनन्यायस्तथतान्यायश्च ।

हेतुफलन्यायः । यथा बीजमङ्कुरश्च ।

सापेक्षन्यायः । यथा दीर्घं ह्रस्वं, पिता पुत्रः । साधनन्यायः । यथा पञ्चावयववाक्यं साधनार्थम् । तथतान्यायस्त्रिविधः । यथानात्मतथतानित्यतातथता निरोधतथता च । इह लोके वचनं फलं, न्यायो हेतुरिति । इह लोके यदा फलं दृष्टं तदा सहेतुकं ज्ञातम् । यदा वचनमुपलब्धं, तदा न्याय्यं ज्ञातम् । यन्मम वचनमन्याय्यमिति भवतोक्तं तल्लोकविरुद्वम् । अन्याय्यं वचनमित्यस्य नास्त्यवकाशः ।

यद्भवतोक्तं मम वचनमन्यहिसंवादित्वादिति तदिदमिदानीं भवता सार्धं विचार्य निर्धार्यते । यदि कश्चिदन्यद्वदेत्तदा तस्य दोषः स्यत् । भिद्यते भवतः प्रतिज्ञास्मत्प्रतिज्ञातः । अथ तद्भवतः स्वोक्तम् । तदान्यदुक्तम् । तस्माद्भवानेव दोषमापद्यते । यदि भवदर्थोऽस्मदुक्तादन्यस्तदान्यत्वदोषो भवत एव न तु मम । यदि नान्यत्, तर्हि मत्पक्षतुल्यमेव, तेन नास्त्यन्यत्वम् । अथोच्यते ममान्यदिति तन्मिथ्या । अन्यच्चान्यस्मान्नान्यदित्यनन्यत्वम् । (त्श्६) यद्यन्यदन्यस्मादन्यत्, ततोऽन्यन्न भवेत् । यथा मनुष्यो गोरन्यो न गौर्भवति, यद्यन्यदन्यस्मादन्यत्, तदा तदेकं भवेत् । यद्येकं ततो नान्यत्, तत्किमुच्यते ममान्यदिति । अतश्चैतन्याय्यमिति । अहं न्यायमवलम्ब्य भवता विवदे । तस्मादन्यथाहं वदामि । यद्यावयोर्भेद एव न स्यान्न तदा भवता विवादोऽहं तु भवदर्थमेव वदामि ।

सर्वमुक्तमन्यदिति चेद्, भवतापि किञ्चिदुक्तमिति भवानप्यन्यद्वदतीति दोषो भवत एव । यदि भवतो वाक्यं नान्यत्, तर्हि ममापि वचनं नान्यदिति यद्भवतोक्तमहमन्यद्वदामीति तदयुक्तम् । अथ भवद्वचनं मिथ्यैव । शेषं पूर्ववत् । यद्(भवतो)क्तं मम वचनमसिद्धमिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते । यदि वचनमसिद्धं, तदा तदेव वचनमसिद्धम् । यदि वचनस्यासिद्धत्वं, तदा वचनमेव न प्राप्तम् । अथ वचनं न प्राप्तं, कथं भवतोच्यते मया यदुक्तं तदसिद्धमिति । अथ वचनं प्राप्तं तत्सिद्वमेव स्यात् । यदि मदुक्तमसिद्धमिति भवतोच्यते तदयुक्तम् । यदि सर्वं वचनमसिद्ध, तर्हि भवदुक्तं मम खण्दनमप्यसिद्धम् । यदि भवदुक्तं खण्डनमसिद्धं न स्यात्, तर्हि मम वचनमपि नैवासिद्धम् । यदि (भवतो)च्यते मदुक्तमसिद्धं तदयुक्तम् । यदसिद्धं तत्स्वत एव सिद्धम् । तस्मान्नास्त्यसिद्धम् । यद्यसिद्ध न स्वतः सिद्धं, तदासिद्धं न स्यात् । यदि सिद्धं, नास्त्यसिद्धं, ततो यद्(भवतो)क्तं मदुक्तमसिद्धमिति तन्निरवकाशम् । यदि भवतोच्यते मम खण्डनमननुभाषणमेव तदा न मम मतस्योपलब्धि । (त्श्७) अथ नोपलभ्यते मम मतं, ततो मम खण्डनं कर्तुं न शक्यते । तदिदानीं (भवता सार्धं)विचार्य निर्धार्यते । यदि भवान्मत्खण्डनं नानुभाषते, तदा भवान् खण्डनं वक्तुं न शक्नोति । किं पुनर्मन्यते भवान् खण्डनमननुभाष्य खण्डनं शक्यं, अथवा खण्डनमनुभाष्य खण्डनं शक्यम् । यदि तावद्(भवान्) अननुभाष्य (खण्डनं वक्तुं शक्नोति), अहमप्यननुभाष्य खण्डनं वक्तुं शक्नुयाम् । अथवा खण्डनमनुभाष्य खण्डनं वक्तुं शक्यं, तदा सदैव खण्डनानुभाषणं स्यात् । कुतः? खण्डनात्पुनः खण्डनस्योत्पन्नत्वात् । तदा खण्डनानवस्था । न च स कालो विद्यते यत्र न खण्डनानुभाषणम् । [अतः] यत्र खण्डनं वक्तुं शक्यते स कालो नास्ति ।

अपरञ्च खण्डनमिति खण्डनान्नाम । यदि तत्खण्डनानुभाषणान्नाम खण्डनमिति वक्तुं शक्यते, अननुभाष्य तु खण्डनमिति वक्तुं ज शक्यते । ततः पूर्वखण्डनस्य नाम पश्चादनुभाषणं प्राप्तम् । परवर्तिखण्डनं नाम न तावदनुभाषणं प्राप्नोति । तृतीयन्तु द्वितीयस्य खण्डनस्य नामानुभाषणं प्राप्तम् । चतुर्थं तृतीयस्य खण्डनस्य नामानुभाषणं प्राप्तम् । इति सदानुभाषणादनवस्था । अननुभाष्य खण्डनं नाम वक्तुं शक्यमिति चेद्, अननुभाष्यापि ततः प्रथमं खण्डनं नाम वक्तुं शक्यम् । प्रथमं खण्डनं नामाननुभाष्य खण्डनं नाम वक्तुं शक्यमिति चेत्, द्वितीयमपि खण्डनं नामाननुभाष्य खण्डनं नाम वक्तुं शक्यते । द्वितीयं खण्डनं नामाननुभाष्य खण्डनमिति वक्तुं शक्यत इति चेत्, प्रथमं खण्डनं (त्श्८) नामाप्यननुभाष्य खण्डनं नाम वक्तुं शक्येत । किन्तु प्रथमं खण्डनं नामावश्यमनुभाष्यम् । तस्मात्खण्डनं नाम वक्तुं शक्यते । अथ द्वितीयं खण्डनं नामाप्यवश्यमनुभाष्यं, तदा खण्डनं नाम वक्तुअं शक्यते नत्वननुभाष्य वक्तव्यम् । यदि पुनः खण्डनमननुभाष्य वदेत्, खण्डनस्य निग्रहस्थानापत्तिः । यदि भवान् स्वखण्डनं नानुभाषते, ततो भवदुक्तखण्डनस्य निग्रहस्थानापत्तिः । यदि भवान् खण्डनमननुभाष्य खण्डनं वदेत्, खण्डनं वदंश्च निग्रहस्थाने न पतेत्, तदाहमपि खण्डनमननुभाष्य खण्डनं वदन्न निग्राह्यः । किञ्च यदा भवद्वचनं मम[मतं] खण्डयति, तदाहमनुभाषे । यदा त्वहं भवन्मतं खण्डयामि तदा भवानप्यनुभाषते । अथ परस्परानुभाषणं, न तदा खण्डनप्रतिष्ठापनम् । यदि परस्परानुभाषणं, तदा सम्यगर्थहानिः । यथा पोतावन्योन्यसम्बद्वौ समुद्रवेलासमये परस्परसंघर्षेण दोलायमानौ ।

अपरञ्च । सर्वे शब्दा यदा मुखान्निर्गतास्तदा नष्टा एवेति कथं मद्वचनानुभाषणम्? । अथ शब्दो विनाशधर्मा । अपुनरागमनात्पुनर्भाषणमशक्यम् । अथ शब्दः स्थितिशीलस्तदानुभाषणमशक्यं, नित्यत्वात् । नष्ट इति चेन्, न किञ्चिदनुभाषितव्यं तदभावात् । शब्दो नष्ट इति चेत्, त्वदनुभाषणायैतन्मे वचनमिति यद्भवान् ब्रवीति स कुतर्क एव ।

यद्(भवतो)क्तं मद्वचनं पूर्व, [भवत] खण्डनं तु पश्चादिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते । यदि मद्वचनं पूर्वं, खण्डनन्तु पश्चादिति तन्याय्यम् । कुत इति (त्श्९) चेन्, मद्वचनं पूर्वं भवद्वचनं तु पश्चादिति । यद्यस्मद्वचनं परवर्तिवचनं खण्डयति, ततोऽस्मदर्थो विशिष्यते भवद्वचनस्य तु हानिः । किञ्च यद्युच्यते भवता सर्वाणि वचनानि पूर्ववर्तीनि खण्डनन्तु परवर्तीति, तदा भवानपि पूर्वमेव वचनं वदतीति पश्चात्खण्डनं भवेत् । यदि भवद्वचनस्य पूर्ववर्तित्वेऽपि पश्चात्खण्डनं नास्ति, तर्हि मद्वचनस्य पूर्ववर्तित्वेऽपि, पश्चात्खण्डनं न स्यात् । यच्च खण्डनं पूर्वस्य परवर्तीति स्वभावतः पूर्वस्य खण्डनं न पश्चादस्ति । यदि स्वभावत एव पूर्वस्य खण्डनं पश्चात्स्यात्, तदा पूर्वं पश्चादित्युभे न स्याताम् । तस्माद्यद्भवतोक्तं पूर्वस्य खण्डनं परभावीति तदयुक्तम् । यदि स्वभावतः पूर्वस्य खण्डनं न पश्चात् । हेत्वभावात् । तदा पूर्वस्यापि खण्डनं परभावि न भवेत् । यद्भवतोक्तं मद्वचनं पूर्वं, खण्डनं तु परभावि तन्मिथ्या ।

यदभिहितं भवता, मया हेत्वन्तरमुक्तमिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते । यदि पूर्वहेतुं परित्यज्य हेत्वन्तरप्रतिष्ठापनान्निग्रहस्थानमापद्यते, तदा भवान्निग्रहस्थानमापन्नः । कथमिति चेद्, भवता पूर्वहेतुं परित्यज्य हेत्वन्तरप्रतिष्ठापनात् । यदि हेत्वन्तरप्रतिष्ठापनाद्भवतो न निग्रहस्थानत्वापत्तिस्तदा ममापि तथा । किञ्च मदुक्तहेतुतो भवदुक्तहेतोर्भेदः । यद्यन्यं हेतुं वदामि तन्मम न्याय्यम् । यद्यन्यं हेतुं न वदेयं, ततो भवद्धेतुं वदेयम् । ततो न प्रतिपक्षतया विरोधोऽपि त्वावयोस्तुल्यवचनतैव । यदि सदृश एव हेतुरावाभ्यां प्रतिष्ठापितः, तदा भवानस्मद्धेतुं खण्डयतीति स्वहेतुमेव खण्डयति ।

(त्श्१०)
अपि च यदि सर्वाणि वचनानि हेत्वन्तराणि स्युस्तदाभवदुक्तानि वचनान्यपि हेत्वन्तराणि भवेयुः । ततश्च भवतो निग्रहस्थानापत्तिः । अथ वचनान्युच्चारयन्नपि न भवान्निग्राह्यस्तर्हि यद्भवतोक्तं हेतुं प्रतिष्ठापयन्नहं निग्राह्य इति तदयुक्तम् ।

यद्भवतोक्तमर्थान्तरं वदामीति तदिदानीं (भवता सार्धं) विचार्यं निर्धार्यते । अन्या मे प्रतिज्ञा, अन्या च भवत इति यत्तन्न्याय्यमेव । अथाहं भवतः प्रतिपक्षतया विरोधीत्यर्थान्तरं ब्रवीमि । यदि मतमस्मदर्थो भवदर्थादनन्यस्तदास्मदर्थो भवदर्थप्रतिपक्षतया न विरुद्वो । यदि भवानस्मदर्थं खण्डयति, तर्हि भवतः स्वार्थस्यैव खण्डनं भवेत् । यदर्थान्तरं न तत्स्वयमर्थान्तरम । तस्मान्नास्त्यर्थान्तरम् । यदि त्वर्थान्तरं स्वयमेवार्थान्तरं, न तदार्थान्तरम् । तस्माद्यद्भवतोक्तमहमर्थान्तरं वदामीति न युक्तम् । अपरञ्च यदुक्तं सर्वं तदर्थान्तरञ्चेत्तदा भवदुक्तमप्यर्थान्तरं भवेत् । यदि भवदुक्तमर्थान्तरं न भवेत्तदा यद्भवता प्रतिज्ञातं सर्वमर्थान्तरमिति तदयुक्तम् ।

यद्(भवतो)क्तमहं पूर्वचनादनन्यद्वचनं वदामीति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते । अस्मत्प्रतिज्ञा भवत्प्रतिज्ञायाः प्रतिपक्षभावेन विरुद्धा । यदस्मत्प्रतिज्ञा भवत्प्रतिज्ञायाः प्रतिपक्षभावेन विरुद्वा, तन्न्याय्यम् । कुत इति चेत् । सर्वत्राहं भवदर्थखण्डनार्थं वदामि, तस्मादस्मद्वचनमनन्यत् । यदि मयार्थान्तरमुक्तं, तर्हि भवत्प्रतिज्ञास्मदर्थादन्या । यद्यहमर्थान्तरं वदामि तदा (त्श्११) भवदर्थं वदामि । एवन्तावन्नाहं भवद्विरुद्दो । ततश्च यदि भवान्मां खण्डयति, तर्हि स्वार्थस्यैव खण्डनम् ।

अन्यच्च । यथा मया पूर्वमुक्तमनित्यः शब्द इति । एतानि वचनानि विनाशस्वभावानि क्षयस्वभावानि च । इदानीमन्यद्वचनमुच्चर्यते । ततश्च यद्भवतोक्तं भवान् पूर्ववचनं वदतीति तन्मिथ्या ।

अपरञ्च । यद्भवतोक्तं मदुक्तमनन्यदिति । तत्र यद्यहमन्यद्वदामि तदा तदन्ययत् । यद्यहमनन्यद्वदामि तदनन्यत् । यद्यहं तद्वदंस्तन्न साधयितुं शक्नोमि, तदा यद्भवतोक्तमनन्यदिति तद्युक्तम् । यच्च (भवतो)क्तं मया सर्वमुक्तं नानुज्ञायत इति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते । सर्वं नानुज्ञायत इति यदुक्तं भवता एतद्वचनं सर्वस्मिन्नन्तर्भवति न वा? । यदि तावत्सर्वस्मिन्नन्तर्भवति तदा भवान् स्वयं स्वोक्तं नानुजानाति । यदि स्वयं नानुजानात्यस्मदर्थः स्वत एव सिद्धो भवेद्भववचनस्य तु हानिः स्यात् । अथ सर्वस्मिन्नान्तर्भवति तदा तस्य सर्वत्वमेव न स्यात् । यदि सर्वत्वमेव न भवेत्, तदा भवता यदननुज्ञातं तत्सर्वम् । यदि सर्वमननुज्ञातं तदास्मदर्थो भवता नैवाननुज्ञातः । अस्मदर्थः सिद्धो भवतस्तु सर्वस्य प्रतिषेधः ।

इति प्रथमं प्रकरणम् ।


(त्श्१२)
अथ द्वितीयं प्रकरणम् ।

(शास्त्रमाह) खण्डनस्य त्रिविधदोषापत्तिः । विपरीनखण्डनमसत्खण्डनं विरुद्धखण्डनञ्चेति । यदि खण्डनमेतत्त्रिविधदोषोपेतं तदा निग्रहस्थानम् ।

[तत्र] विपरीतखण्डनम् । यदि प्रतिष्ठापितं खण्डनं सम्यगर्थेन न संयुक्तं स्यात्तदा तद्विपरीतखण्डनमित्युच्यते । विपरीतखण्डनं दशविधम् । (१)साधर्म्यखण्डनम् (२) वैधर्म्यखण्डनम् (३) विकल्पखण्डनम् (४) अविशेषखण्डनम् (५) प्राप्त्यप्राप्तिखण्डनम् (६) अहेतुखण्डनम्(७) उपलब्धिखण्डनम् (८) संशयखण्डनम् (९) अनुक्तिखण्डनम् (१०) कार्यभेदखण्डनम् ।

१. [तत्र] साधर्म्यखण्डनम् । वस्तुसाधर्म्यप्रत्यवस्थानं साधर्म्यखण्डनमित्युच्यते ।

(शास्त्रमाह) शब्दोऽनित्यः प्रत्यनोत्पन्नत्वाद्यथा घटः प्रयत्नोत्पन्नः । उत्पन्नश्च विनष्टः । शब्दोऽपि तथेति शब्दोऽनित्य इति स्थापिते प्रतिवादी प्राह । यदि घटसाधर्म्याच्छब्दोऽनित्यस्तदाकाशसाधर्म्याच्छब्दो नित्यः स्यात् । ततश्चाकाशवच्छब्दो नित्य इति । [अत्र] साधर्म्यममूर्तत्वम् ।

(शास्त्रं पुनराह) शब्दोऽनित्यः प्रयत्नोत्पन्नत्वात् । यन्नित्यं न तत्प्रयत्नेनोत्पन्नं यथाकाशं नित्यं न प्रयत्नेनोत्पन्नम् । शब्दस्तु न तथा । तस्माच्छब्दोऽनित्य इति स्थापिते प्रतिवादी प्राह । यदि (शब्दस्य) नित्याकाशवैधर्म्यच्छब्दोऽनित्य इति, तदा किं प्राप्तम्? । यद्याकाशसाधर्म्यं (त्श्१३) ततो नित्य एव शब्द इति । साधर्म्यं चामूर्तत्वं तस्मान्नित्यः ।

(शास्त्रमाह) एते खण्डने विपरीतेऽसिद्धे च (खण्डने) । कुत इति चेत् । ऐकान्तिकैकरसधर्मस्थापनं हि हेतुरिति मन्यते । सर्वधर्माणां प्रयत्नोत्पन्नत्वेनानित्यतावर्णनात् । सोऽनित्यतावर्णकहेतुरैकान्तिकैकरसस्तस्मादनित्यतानपसरणीयैव । तत्सामानजातीयं चिख्यापयिषतया घटाद्युदाहरणमुक्तम् ।

प्रतिवादी त्वनैकान्तिकैकरसार्थप्रत्यवस्थानेन खण्डनं भाषते यथा यदि भवान् साधर्म्येण शब्दस्यानित्यतां स्थापयति तदाहमपि वैधर्म्येण शब्दस्य नित्यतां प्रतिष्ठापयामि । यदि च भवदर्थः सिद्धो ममाप्यर्थः सिद्धो भवेदिति ।

(शास्त्रमाह) भवतः खण्डनमयुक्तम् । कुत इति चेत् । भवत्प्रयुक्तस्य हेतोरनैकान्तिकनित्यत्वानित्यत्वाव्याप्तिवर्णनात् । अस्माभिस्त्रिलक्षणो हेतुः स्थापितः । तद्यथा पक्षधर्म्मः सपक्षसत्वं विपक्षव्यावृत्तिश्च । तस्माद्वेतुसिद्धिरनपसरणीया । भवद्धेतुस्तु न तथा तस्माद्भवत्खण्डनं विपरीतम् । यदि भवता प्रतिष्ठापितो हेतुरस्मद्धेतुतुल्योभवेत्तदा सम्यक्खण्डनं सिध्येत । यद्यनित्यताप्रतिज्ञा नित्यतां खण्डयति तदा [नित्यता-] खण्डनसिद्धिः । कुत इति चेत् । नित्यतास्थापकहेतुनानित्यतास्थापकहेतुः खण्ड्यते चेत्, तदानित्यताविपर्यासदोषो व्यक्तीकर्तुं न शक्यत इति प्रसिद्धम् । नित्यताहेतोरनैकान्तिकैकरसत्वादनित्यताहेतोरैकान्तिकैकरसत्वाच्च ।

(त्श्१४)
२. वैधर्म्यखण्डनम् । वस्तुवैधर्म्यप्रत्यवस्थानं वैधर्म्यखण्डनमित्युच्यते ।

(शास्त्रमाह) अनित्यः शब्दः । कस्मात्? कृतकत्वात् । यत्कृतकं तदनित्यम् । यथाकाशं नित्यमकृतकत्वात् । शब्दस्य तथात्वाभावाच्छब्दोऽनित्यः ।

प्रतिवादी प्राह । यदि शब्दो नित्याकाशविधर्म्यादनित्य इति, तदा किं प्राप्तम् । यदि घटवैधर्म्यं शब्दस्य, तदा स नित्य इति । तद्वैधर्म्यममूर्तत्वम् । घटो मूर्तस्तस्माद्घटोऽनित्यः शब्दस्तु नित्यः ।

(शास्त्रमाह) शब्दोऽनित्यः कृतकत्वात् । यथा घटोऽनित्यः कृतकत्वात्, तथा शब्दोऽपि ।

प्रतिवादी प्राह । यदि घटसाधर्म्याच्छब्दस्यानित्यता भवता स्थापिता, तदा किं प्राप्तम्? । शब्दो नित्य एव घटवैधर्म्याद्वैधर्म्यममूर्तत्वम् । घटस्तु मूर्तः ।

(शास्त्रमाह) विपरीत एते खण्डने । कुत इति चेत् । अस्मत्स्थापितानित्यताहेतोरैकान्तिकैकरसत्वात् । भवत्प्रतिष्ठापितनित्यताहेतोस्त्वनैकान्तिकैकरसत्वान्नित्यत्वानित्यत्वव्याप्तिवर्णनात् । तस्मादनिश्चितहेतुरैकान्तिकहेतुं खण्डयितुं न शक्नोति । योऽस्माभिः स्थापितो हेतुः कृतकत्वाच्छब्दोऽनित्य इति तस्य (हेतोः) पक्षधर्म्मः सपक्षसत्त्वं विपक्षव्यावृत्तिश्च । त्रयलक्षणसम्पन्नत्वात्सोऽनपसरणीयः । यः पुनर्भवत्प्रतिष्ठापितो हेतुः शब्दो नित्योऽमूर्तत्वादिति तस्य पक्षधर्मः सपक्षे विपक्षे च वर्तत इत्यसिद्धो हेतुः ।

३. विकल्पखण्डनम् । साधर्म्ये वैधर्म्यप्रत्यवस्थानं विकल्पखण्डनमुच्यते ।

(त्श्१५)
(शास्त्रमाह) शब्दोऽनित्यः प्रत्यत्नेनोत्पन्नत्वाद्घटवदिति शब्दस्यानित्यता ।

प्रतिवादी प्राह । भवाञ्छब्दस्य प्रयत्नेनोत्पन्नत्वाद्घटवत्साधर्म्यं स्थापयति । अस्ति पुनस्तद्वैधर्म्यम् । पक्कत्वमपक्वत्वं, चाक्षुषत्वमचाक्षुषत्वमित्यादि एवं घटशब्दयोः प्रत्येकं विशेषः । शब्दः प्रयत्नेनोत्पन्नत्वान्नित्यः घटस्तु प्रयत्नेनोत्पन्नोऽप्यनित्यः । तस्माच्छब्दो नित्यः ।

विपरीतमेतत्खण्डनम् । कुत इति चेत् । अस्मत्स्थापितहेतुरनित्यताव्यावृत्तो नित्यताव्यावृत्तः । एतद्धेतुस्थापनमनित्यतानुमानार्थम् । यथाग्न्यनुमानार्थं धूमः प्रयुज्यते । धूमो ह्यग्न्यव्यावृत्तः । तस्मादस्मत्स्थापितहेतुः सिद्वोऽनपसरणीयश्च ।

भवता शब्दस्यापक्व इति विशेषणं प्रयुज्यते । ततश्च नित्य इति । तदेच्छाद्वेषदुःखसुखवाय्वादीन्यपक्वानि न पुनरेतानि नित्यानि । तस्मादपक्वत्वं नित्यताहेतुत्वेन न प्रतिष्ठापयितव्यम् । न चाचाक्षुषत्वमपि नित्यताहेतुत्वेन प्रतिष्ठापयितव्यम् । कुत इति चेत् । इच्छद्वेषदुःखसुखवाय्वादीन्यचाक्षुषाणि न पुनर्नित्यानि । भवद्धेतुः सपक्षे विपक्षे च वर्तते तस्मादसाधकः । भवद्धेतुर्मम (हेतो) स्तुल्यो मत्प्रतिज्ञायाश्च खण्डनासमर्थ इति चेत् । अस्मत्स्थापनं त्रिविधहेतुसमाश्रितं तस्मादतुल्यम् । यदतुल्यं तुल्यमिति भवतोक्तं तस्माद्भवतः खण्डनं विपरीतम् ।

४. अविशेषखण्डनम् । एकसाधर्म्यख्यापनात्सर्वस्याविशेषेण प्रत्यवस्थानमविशेषखण्डनमुच्यते ।

शब्दोऽनित्यः कारणभेदेन शब्दस्य भेदाद्दीपवत् । (त्श्१६) यदि वर्तिका महती ज्योतिर्महत् । यदि वर्तिका क्षुद्रा ज्योतिरपि क्षुद्रम्, इति स्थापिते । प्रतिवादी प्राह यदि साधर्म्याद्यथा घटाद्यनित्यं शब्दोऽपि तथा स्यात्तदा सर्वस्य सर्वेणाविशेषप्रसङ्गः । कुत इति चेत् । सर्वस्य सर्वेण साधर्म्यात् । साधर्म्यं किं पुनश्चेत् । सत्तैकत्वं प्रमेयत्वमित्येतत्साधर्म्यमुच्यते । सधर्माण्यपि सर्वाणि वस्तूनि विशेष्टवस्तुभ्यो भिन्नानीति चेच्छब्दोऽपि तथा । घटादिसधर्मापि शब्दो नित्यो घटस्त्वनित्यः । कुत इति चेत् । सत्त्वादिसाधर्म्येऽपि स्वभावविशेषसम्भवात् । यथा दीपः शब्दो मनुष्योऽश्व इत्यादि । इति साधर्म्यसमाश्रितमनुमानमसिद्धम् ।

विपरीतमेतत्खण्डनं कुत इति चेत् । सर्वेषां न मया सत्त्वादिसाधर्म्यं प्रतिषिद्वमपि तु तेषां विशेष एवावधार्यते । साधर्म्यसम्पत्तित्रैविध्यमनित्यतां स्थापयति । तच्चास्माभिरनित्यतासाधनायोच्यते न तु साधर्म्यमात्रमुपादीयते न खल्वस्ति सा कापि युक्तिर्या नैवं विचार्यते । कस्मादिति चेत् । नैकमपि विद्यते तादृशं यदन्यवस्तुनो न सदृशं न च विशिष्टं स्यात् । तस्माद्यदि साधर्म्यमस्ति तदा तत्सपक्षवर्ति सर्वविपक्षव्यावृत्तम् । यदि तदुपादानेन हेतुस्थापनं, सिद्धो हेतुरेष । साधर्म्यमात्रेण हेतुप्रतिष्ठापनं त्वसिद्धं तस्माद्विपरीतम् ।

पुनश्चानित्यः शब्दः कृतकत्वाद्घटवत् । तस्माच्छब्दोऽनित्यः ।

प्रतिवादी प्राह । हेतुः प्रतिज्ञा चाभावान्न भिद्येते । को नामार्थो हेतुसमुत्पादस्य । हेत्वसंयोगे शब्दस्यानुत्पाद (त्श्१७) इति । अनुत्पन्नत्वादभाव एवेत्येतस्यार्थः । कथं नाम शब्दोऽनित्य इति । अनुत्पन्नः शब्द उत्पत्तिमुपलभत उत्पन्नो विनश्यति । विनाशाच्चाभाव एवेत्येतस्यार्थः । इति हेतुः प्रतिज्ञा चाभाववत् ।

विपरीतमेतत्खण्डनम् । कुत इति चेत् । अस्मत्प्रतिज्ञाया अभावः प्रध्वंसाभावात्मकः । अस्मत्स्थापितहेतोरभावः प्रागभावः । प्रागभावः सर्वलोकप्रसिद्धत्वात्सिद्धोऽनित्यताहेतुत्वेन स्थापितः । प्रध्वंसाभावः सांख्याद्यप्रसिद्वत्वादसिद्धः । अर्थो हि सिद्धेन हेतुना स्थाप्यते ।

यदि सिद्धा प्रतिज्ञोपादीयतेऽसिद्धस्तु हेतुर्भवतः खण्डनस्य विपर्यासोऽधिकतरो भवेत् । सर्वेषां वस्तूनां पूर्वमभूत्वा पश्चादभाव इति मयोक्तम् । तस्माच्छब्दः पूर्वमसंश्चेत्पश्चादप्यसन् । यदि पूर्वमसत्त्वं भवतोऽननुज्ञातं तदैतद्भवता चिन्त्यताम् । यदि पूर्वं शब्दः सन्नेव न चास्ति प्रतिबन्धस्तदा कस्माच्छ्रोत्रेण नोपलभ्यते । तस्मात्पूर्वमसत्त्वं नागपदवदिति ज्ञायते । यदि कञ्चिद्विशिष्टबुद्धिरभिमतमर्थं साधयितुं न शक्नोति, इष्टसाधनं च न युक्तिसम्पन्नं सोऽर्थो निरसनीयः ।

५. प्राप्त्यप्राप्तिखण्डनम् । हेतुः साध्यं प्राप्नोति न वा? । यदि तावत्साध्यं प्राप्नोति तदासाधकः । अथ हेतुः साध्यं न प्राप्नोति तदाप्यसाधकः । एतत्प्राप्त्यप्राप्तिखण्डनमुच्यते ।

प्रतिवादी प्राह । यदि हेतुः साध्यं प्राप्नोति तदा साध्येन संसर्गात्साध्यं न साधयति । यथा नदीवारि समुद्रवारिप्रविष्टं न पुनर्नदीवारि, हेतुस्तद्वदसाधकः । (त्श्१८) यदि साध्यमसिद्धं, तदा हेतुरप्रापकः । यदि प्रापकस्तदा किं सिद्धस्यार्थस्य हेतुना । तस्माद्धेतुरसिद्धः । अथ न प्राप्नोति तदा सोऽन्यवस्तुवदसाधकं, तस्मद्धेतुरसिद्धः । यदि हेतुरप्रापकस्तदासमर्थः । यथाग्निरप्राप्य दहनासमर्थोऽसिश्चाप्राप्य छेदनासमर्थः ।

विपरीतमेतत्खण्डनम् । द्विविधो हेतुः । उत्पत्तिहेतुर्व्यञ्जनहेतुश्च । यदि भवतः खण्डनमुत्पत्तिहेतुसमाश्रितं तदा सिद्धं खण्डनम् । यदि व्यञ्जनहेतुसमाश्रितं तदा विपरीतम् । कस्मादिति चेत् । उक्तं मया यद्धेतुः साध्यं नोत्पादयत्यपि तु परप्रतिपादनार्थं साध्यं व्यनक्त्यव्यावृत्तत्वात् । साध्यसत्त्वेऽपि साध्यस्य यथार्थज्ञानं न जायते । कुत इति चेत् । मोहात् । तस्माद्व्यञ्जनहेतुरित्युच्यते । यथा रूपसत्त्वेऽपि प्रदीपप्रयोजनं तद्व्यञ्जनार्थं न तु तदुत्पत्त्यर्थम् । तस्माद्व्यञ्जनहेतावुत्पत्तिखण्डनं विपरीतखण्डनम् ।

६. अहेतुखण्डनम् । त्रैकाल्ये हेतोरसम्भव इत्यहेतुखण्डनमुच्यते ।

प्रतिवादी प्राह । किं हेतुः साध्यात्पूर्वं पश्चाद्युगपद्वा । यदि तावद्धेतुः प्राक्साध्यञ्च पश्चात्तदासति साध्ये, हेतुः कस्य साधकः? । अथ पश्चात्, साध्यञ्च प्राक्, तदा सिद्धे साध्ये किं हेतुना? । अथ युगपत्तदाहेतुः । यथा युगपत्सद्भावाङ्गोः शृङ्गे दक्षिणं वामं वा परस्परोत्पादके इत्ययुक्तम् । तस्माद्यौगपद्यञ्चेत्तदा हेतुत्वासम्भवः ।

विपरीतमेतत्खण्डनम् । कुत इति चेत् । यत्पूर्वं समुत्पन्नं (त्श्१९) तदेव हेतुना व्यज्यते यथा दीपः विद्यमानान्येव वस्तूनि व्यनक्ति न त्वविद्यमानानि वस्तून्युत्पादयति । भवान् पुनरुत्पत्तिहेतुना मे व्यञ्जकहेतुं खण्डयति तस्माद्विपरीतमेतत्खण्डनं, न तु सिद्धम् ।

अथ मन्यसे यद्येष हेतुर्व्यञ्जकहेतुर्भवति ज्ञानाभावे स कस्य हेतुः । तस्माद्व्यञ्जकहेतुरसिद्ध इति कृते खण्डने, तदा प्राप्तिक्रियासम्भवे हेतुर्नाम नोपपद्यते क्रियासद्भावे तु हेतुर्नामोपपद्यते । यदा व्यञ्जनक्रिया तदैव हेतुर्नामोपपद्यते । तदुक्तं भवति पूर्वं हेतुर्नाम नोपपद्यते पश्चात्तु हेतुर्नामोपपद्यते । यच्चाभिहितं हेतुः प्राक्क्रिया तु पश्चादिति तददोषम् । अथैवं सति, क्रियाया हेतुतोऽनुत्पत्तिरिति चेदेतत्खण्डनमसिद्धम् । कस्मादिति चेत् । एतत्प्रागेव [सद्] वस्तु पश्चाद्धेतुर्नामोपपद्यते । वस्तुनि विनष्टे पश्चात्क्रियोत्पत्तिरिति चेत्, तदैतत्खण्डनं सिध्यति न त्वेवमुच्यते, पूर्वं भावेऽपि [हेतोरिति] नामानुपपत्तिः पश्चात्तु नामोपपत्तिः । तस्मात्फलस्य हेतुत उत्पत्तिः ।

७. उपलब्धिखण्डनम् । विशिष्टहेतुनानित्यतावर्णनादेषोऽहेतुरिति उपलब्धिखण्डनमुच्यते ।

प्रतिवादी प्राह । यदि प्रयत्न[आनन्तरीयक]त्वाच्छब्दोऽनित्यस्तदा यत्र प्रयत्नो न विद्यते तत्र नित्यताप्रसङ्गः । यथा विद्युद्वाय्वादीन्यप्रयत्न [आनन्तरीयक]आण्यनित्येषु चान्तर्भूतानि तस्मादनित्यत्वे साध्ये न प्रयत्नमात्रं समाश्रयणीयं प्रयत्नस्यासाधनत्वात् । साधनञ्चेद्यत्र यत्र प्रयत्नो नास्ति तत्र तत्र नित्यतायाः सम्भवः । यथाग्निं विना न धूमस्थितिः । धूमोऽग्नेः सद्धेतुर्धूमाग्न्योरव्यतिरेकात् । (त्श्२०) प्रयत्नस्तु न तथा, तस्मादसिद्धो हेतुः । किञ्च प्रयत्नो नानित्यतास्थापनासमर्थः । कुत इति चेत् । व्याप्त्यभावात् । व्याप्तिसम्भवे ह्यनित्यतास्थापनोपपत्तिः । व्याप्त्यसम्भवे त्वनित्यतास्थापनानुपपत्तिः । यथा कस्यचित्प्रतिज्ञा स्यात्सर्वे तरवो दिव्यचेतना इति । कस्मादिति चेत् । तरूणां निद्रासम्भवाच्छिरीषवत् । तत्राह खण्डयिता । तरूणां दिव्यचेतनासिद्धा । कस्मात्? हेतोर्व्याप्त्यभावात् । शिरीष एव स्वपिति न त्वपरे तरवः । स स्वप्नो न सर्वांस्तरून् व्याप्नोति तस्मात्सर्वेषां तरूणां दिव्यचेतनत्वप्रतिष्ठापने स्वप्नोऽसमर्थः । प्रयत्नोऽपि तथा सर्वेषामनित्यानामव्यापकत्वादनित्यतास्थापनेऽसमर्थः ॥

विपरीतमेतत्खण्डनम् । मयैवं नोक्तम् । नैतदुच्यते मया यत्प्रयत्नः सर्वानित्यताख्यापने समर्थो हेतुरन्ये तु हेतवोऽसमर्थाः । यद्यन्योऽनित्यताख्यापने समर्थो हेतुर्विद्यते तदाहं सुखी । अस्मदर्थसिद्धेः । अस्मत्स्थापितो हेतुः ख्यापनसमर्थः, अन्योऽपि हेतुः ख्यापनसमर्थः । तस्मात्प्रतिज्ञा सिद्धा । यथा धूमेनाग्निरनुमितः । यदि कश्चिद्वदेत्प्रभयाग्निरपि सिद्धोऽस्मदर्थेऽपि तथासम्भवः । प्रयत्नोत्पत्तिरनित्यताख्यापनसमर्था । यद्यन्येऽपि हेतवोऽनित्यताख्यापनसमर्था, अनित्यतापि सिद्धा । तस्माद्विपरीतं खण्डनं भवतः । अस्मन्मताखण्डनात् । यद्यहं ब्रवीमि यद्यदनित्यं तत्तत्सर्वं प्रयत्नसमुत्पन्नमिति तदा प्रयत्नोत्पत्तिहेतोरव्यापित्वादसिद्धत्वमिति भवता खण्डनं वक्तव्यम् । तदैतच्च खण्डनं विशिष्यते । यदाहं ब्रवीमि शब्दाबिकमनित्यं प्रयत्नसमुत्पन्नत्वात्तदा यत्सर्वमनित्यं (त्श्२१) तत्प्रयत्नसमुत्पन्नमिति नोच्यते । तस्माद्विपरीतं खण्डनं भवतः ।

८. संशयखण्डनम् । विपक्षसाधर्म्यात्संशयवादेन खण्डनम् ।

अनित्यः शब्दः प्रयत्नसमुत्पन्नत्वात् । यद्यत्प्रयत्नसमुत्पन्नं तत्तदनित्यं घटवत् । इति स्थापिते प्रतिवादी प्राह । यत्समुत्पन्नं तत्प्रयतेन व्यक्तं यथा मूलकीलकोदकं प्रयत्नेन व्यक्तं न तु प्रयत्नेन समुत्पन्नम् । शब्दोऽपि तथा । तस्मात्प्रयत्नद्वारा हेतुस्थापनमनियतमनुत्पन्न उत्पन्ने च भावात् । तस्मात्तं हेतुमाश्रित्य शब्दे संशयोत्पत्तिः । कथं च शब्दोऽवधार्यते? किं घतवदसमुत्पन्नः समुत्पद्यते मूलकीलोदकवत्समुत्पन्नो वा व्यज्यते? तस्मदनैकान्तिकता । तस्मादुत्पत्तिहेतोः संशयोत्पादकत्वादसाधकत्वमिति ज्ञेयम् । कस्मात् । उत्पादकत्वाद्व्यक्तीकरणाच्च ।

विपरीतमेतत्खण्डनम् । कुत इति चेत् । नोक्तमस्माभिर्यच्छब्दः प्रयत्नेन व्यक्तः । अपि तु यतः प्रयत्नेन समुत्पन्नस्तस्माच्छब्दोऽनित्य इति । पुनर्भवता किं खण्ड्यते । यदि (भवतो)च्यते प्रयत्नकार्यं द्विविधमुत्पत्तिरभिव्यक्तिश्च । उत्पत्तिर्घटादिवदभिव्यक्तिर्मूलकीलो दकादिवत् । शब्दोऽपि प्रयत्नकार्यः । तस्मात्तस्मिन्नित्यतानित्यतासंशयोत्पत्तिरिति । तदयुक्तम् । कुत इति चेत् । मूलकीलोदकादेरप्रयत्नकार्यत्वात् । मूलकीलोदकाभिव्यक्तिः प्रयत्नकार्य्येति चेत् । एतदस्मन्मतं न खण्डयति । अभिव्यक्तिरनुत्पन्ना प्रयत्नेनोत्पत्ति लभते । तस्मात्प्रयत्नकार्यमेकविधं सदैवनित्यत्वादिति भवत्खण्डनमयुक्तम् । (त्श्२२) अथ मन्यसे यत्प्रयत्न-[कार्यं] तद्द्विधम् । अनित्यं नित्यञ्च । घटोत्पत्तिरनित्या घटध्वंसो नित्यः । शब्दोऽपि तथेति । एष संशयोऽयुक्तः । कस्मात्? असिद्धत्वात् । यदि भवतो घटध्वंसस्य ध्वंसे सद्भावस्ततः सद्भावाद्ध्वंसाभावः स्यात् । यदि ध्वंसेऽभावस्तदा ध्वंसोऽभाव एव । कुत इति चेत् । भावाभावात् । अन्धकारवत् । अन्धकारे ज्योतिषोऽभावः तस्मादन्धकारः । ध्वंसोऽपि तथा । ध्वंसे भावाभावः तस्माद्ध्वंसभाव इति चेत् । तदयुक्तं खपुष्पबन्ध्यापुत्रशशविषाणेषु भावाभावात्तेषामपि सद्भावप्रसङ्गः । यदि खपुष्पादीनां सद्भावो भवता नानुज्ञायते, तदा घटध्वंसस्यापि तथात्वम् । तस्मात्सद्भाव इति न वक्तव्यम् । तस्मात्प्रयत्नकार्यमेकविधं सदैवानित्यत्वात् । तस्मादयुक्तो भवतः संशयः । अप्रतिपत्तिश्चेद्भवतः प्रतिपादनार्थमहं व्यञ्जनहेतुं वदामि । अनित्यः शब्दः । कस्मात् । प्राग्व्यवधानाभावात्प्रयत्नेनोत्पत्तिनिष्पत्तिः । तस्मादनित्यः शब्दो घटवदिति ज्ञातम् । यत्प्रयत्नेनोपलभ्यते यच्च प्रयत्नेन क्रियते तदुभयं भिन्नमिति भवता प्रतिष्ठापितम् । तदयुक्तम् । कोऽयमर्थो यत्प्रयत्नेनोपलभ्यते तदनित्यमिति । कस्मात् । यस्मादनुत्पन्नं समुत्पद्यते समुत्पन्नञ्च विनश्यति । तस्मान्मूलकीलोदकादेस्तथाप्यनित्यतासम्भवः । यच्चोच्यते यदभिव्यक्तं नित्यमिति तस्य किं प्रयोजनम् ।

९. अनुक्तिखण्डनम् । पूर्वमनुक्तत्वादनित्यताभाव एतदनुक्तिखण्डनम् ।

प्रतिज्ञा पूर्ववत् । प्रतिवादी प्राह । प्रयत्न इति वचनं शब्दस्यानित्यताहेतुरिति चेत्तदा किं प्राप्यते? (त्श्२३) प्रयत्न इत्यनुक्ते तदा शब्दो नित्यः । एतदेव प्राप्यते, पूर्वकाले नित्ये सति कथमधुनानित्यः स्यात् ।

विपरीतमेतत्खण्डनम् । कस्मात् । अस्माभिः स्थापितो हेतुरभिव्यक्त्यर्थो नोत्पत्त्यर्थो न वा विनाशार्थः । यद्यस्मत्स्थापितस्य हेतोर्विनाशः स्यात्तदा भवत्खण्डनं विशिष्येत । यदा हेतुर्मयानुक्तस्तदा शब्दस्यानित्यतानभिव्यक्तेति चेद्भवत्खण्डनम् । एतत्खण्डनाभास एव । यदि विनाशहेतुना मां खण्डयति भवान् तद्विपरीतखण्डनं स्यात् ।

१०. कार्यभेदखण्डनम्- कार्य्यभेदाद्घटवतच्छब्द इति न वक्तव्यम् । एतत्कार्यभेदखण्डनमुच्यते ।

अनित्यः शब्दः कृतकत्वाद्घटवदिति स्थापिते प्रतिवादी प्राह घटशब्दयोः कार्यभेदः । कार्यभेदात्तुल्यानित्यतानुपपत्तिः ।

विपरीतमेतत्खण्दनम् । कस्मात्? । अनित्य शब्दो घटसमानकार्यत्वादिति नोक्तं मया । अपि तु सर्वाणि वस्तूनि तुल्येन न्यायेन कृतकत्वादनित्यानीत्येवमुक्तम् । न तु समानकार्यापेक्षत्वाद्घटवच्छब्दोऽनित्य इति । धूमो भिन्नोऽप्यग्निव्यञ्जकः । घटोऽपि तथा शब्दस्यनित्यताव्यञ्जकः ।

अन्यच्च परणोक्तं कार्यविशेषखण्डनम् । अन्यदस्ति येनोच्यते नित्यः शब्द आकाशसमाश्रितत्वात् । आकाशो नित्यः । यत्किञ्चिदाकाशसमाश्रितं तन्नित्यम् । यथा परमाणोः पारिमाण्डल्यम् । परमाणुर्नित्यः पारिमाण्डल्यञ्च परमाणुसमाश्रितं, तस्मात्पारिमाण्डल्यं नित्यम् । शब्दोऽपि तद्वदाकाशसमाश्रितत्वान्नित्यः । अन्यच्च । नित्यः शब्दः । कस्मात् । श्रावणत्वात् । यथा शब्दत्वं (त्श्२४) श्रवणग्राह्यं नित्यञ्च, तथा शब्दोऽपि तस्मान्नित्यः । एतत्प्रतिज्ञान्तरम् ।

वैशेषिक आह । यदि नित्यं हेतुना स्थाप्यते, ततो हेतुक्रियत्वादनित्यम् । तस्माच्छब्दोऽनित्यः ।

विपरीतमेतत्खण्डनम् । कस्मात्? न मयोक्तं हेतुना नित्यतोत्पन्नेति, अपि तु हेतुरनित्यतां व्यनक्ति । परस्याज्ञानात्परस्य प्रतिपादनार्थमस्मत्स्थापितहेतुर्व्यञ्जनहेतुर्न त्वुत्पत्तिहेतुः । भवत्खण्डनमुत्पत्तिहेतोरेव । तस्माद्विपरीतम् ।

किञ्च प्रतिज्ञाखण्डने भवदुक्ते न मयानुज्ञाते । कुत इति चेत् । नास्माभिरनित्यतेष्टा प्रतीता वा । तस्मादुक्तो मयैषोऽर्थः ।

एतद्दशविधं विपरीतखण्डनमुच्यते । विपर्ययेण तद्दोषस्थापनात् । यदि खण्डनं तत्तुल्यं भवेत्तदा विपरीतखण्डनापत्तिः ।

अपरमसत्खण्डनम् । मिथ्यावचनादसत् । मिथ्यावचनं त्वयथार्थमनर्थकञ्च । एतदुच्यतेऽसत्खण्डनम् । असत्खण्डनं त्रिविधमवर्ण्य(व्यञ्जक) खण्डनमर्थापत्ति(व्यञ्जक)खण्डनं, प्रतिदृष्ट(आर्थव्यञ्जक)खण्डनञ्च ।

१. अवर्ण्य(व्यञ्जक)खण्डनम् ।

प्रत्यक्षविषये यद्धेत्वन्वेषणं तदवर्ण्यखण्डनमुच्यते ।

अनित्यः शब्दः । कुत इति चेत् । कृत्रिमत्वाद्घटवदिति स्थापिते प्रतिवादी प्राह । अस्माभिर्दृष्टं यद्घटः कृत्रिमः । केन हेतुना तदनित्यतानुमीयते । यदि हेतुं विना (त्श्२५) घटस्य नित्यता स्थापिता शब्दोऽपि नित्येताहेतुमन्तरेण नित्यो भवेत् ।

असत्तत्खण्डनम् । कस्मात्? । यत्[पूर्वमेव]प्रतीतं न तस्य हेतुना साधनम् । यदि प्रतीयते यद्वटः सहेतुकोऽनित्यश्चेति किमनित्यताहेत्वन्म्वेषणेन । तस्मादसदेतत्खण्डनम् ।

२. अर्थापत्ति(व्यञ्जक)खण्डनम् । विपक्षेऽर्थापत्तिरेतदर्थापत्तिखण्डनम् ।

आत्मा न विद्यते । कुत इति चेत् । अनभिव्यक्तत्वाद्वन्ध्यापुत्रवदिति स्थापिते प्रतिवादी प्राह । तदेतदर्थादापत्तिर्यद्यभिव्यक्तं सदनभिव्यक्तं त्वसदिति । अथाभिव्यक्तं कदाचित्सत्कदाचिदस । अनभिव्यक्तं तद्वत् । अलातचक्रमरीचिगन्धर्वनगरवत् । तदभिव्यक्तम् । तत्सद्भावस्थापनं त्वशक्यम् । यद्यभिव्यक्तस्य सद्भावस्थापनमशक्यं तदानभिव्यक्तस्यासद्भावप्रतिष्ठापनं [सुतराम] शक्यम् ।

असत्तत्खण्डनम् । कोऽसौ न्यायो येनैतदर्थादापत्तिर्भवेत् । यदनभिव्यक्तं तदत्यन्तमसदिति नैतदर्थादापद्यते । अभिव्यक्तं द्विविधमनर्थापत्तिरर्थापत्तिश्च । यदि वृष्टिर्भवति तदा मेघेनापि भवितव्यम् । मेघे सत्यपि तु कदाचिदृष्टिर्भवति कदाचिन्न भवतीत्यनैकान्तिकता । धूमेनाग्नेरनुमानम् । नात्रार्थादापत्तिः । धूमे दृष्टे सत्यग्निरनुमीयते धूमे त्वसति अग्नेरभावः । अनर्थापत्तिरियम् । कस्मादिति चेत् । तप्तायःपिण्डे लोहिताङ्गारे च धूमाभावेऽप्यऽग्नेः सद्भावः । तस्मादभिव्यक्तेष्वर्थापत्तिखण्डनमभूतम् ।

अन्यच्च । रूपमेवालातचक्रमरीचिगन्धर्वनगराणीति प्रतिभातीन्द्रियभ्रमाच्चित्तविपर्यासेन । तच्च वर्तमान एव (त्श्२६) सदनागते त्वसत् । रूपमात्रमिन्द्रियभ्रमाच्चित्तविपर्यासेन कदाचित्सद्[वस्तीव] प्रकाशते । यदुक्तं भवताभिव्यक्तस्य सत्त्वमनैकान्तिकं तदयुक्तम् । किञ्च बन्ध्यापुत्रदृष्टान्तेनायमेवार्थो मया निश्चीयते । यदभिव्यक्तिस्थानान्न प्रभ्रंशते तद्वस्त्वभाव एव । बन्ध्याउत्रवत् । यच्चानभिव्यक्तिस्थानात्प्रभ्रंशते नैषो मे दृष्टान्तः । अण्वाकाशादिषु तु कदाचिदभिव्यक्तिः कदाचिदनभिव्यक्तिः । भवदर्थापत्तिः प्रति मयार्थापत्तिरुक्ता । यदभिव्यक्तिस्थानादेकान्तेन प्रभ्रंशते तद्वस्तु सदेव । अलातचक्रादिषु चक्रमेवानैकान्तिकम् । तच्च चक्रस्यानैकान्तिकता यत्प्रवर्तनकाले सत्, स्थितिकाले चासत् । तस्मात्नेयमर्थापत्तिः । अनर्थापत्तावर्थापत्तिखण्डनं चेदेतत्खण्डनमसत् । पुनरन्यथाप्यर्थापत्तिखण्डनं वदन्ति । यदि घटसाधर्म्यादनित्यः शब्द इत्यर्थादापन्नं तदासाधर्म्यान्नित्यः । असाधर्म्यं यच्छब्दः श्रवणग्राह्योऽमूर्तश्च घटस्तु चक्षुर्ग्राह्यो मूर्तश्च । असाधर्म्याच्छब्दो नित्यः ।

एवंविधखण्डनं साधर्म्यखण्डनतोऽर्थापत्तिखण्डनाविशेषान्न मयानुज्ञातम् ।

३. प्रतिदृष्टान्तखण्डनम् । प्रतिदृष्टान्तबलात्साधनम् । एतदुच्यते प्रतिदृष्टान्त (व्यञ्जक) खण्डनम् ।

अनित्यः शब्दोऽनित्यघटसाधर्म्यादिति चेत् । तदाहमपि तस्य नित्यतां व्यक्तीकरोमि । यथा नित्याकाशसाधर्म्यान्नित्यः शब्दः । यदि नित्यतासाधर्म्यान्नित्यताप्राप्तिस्तदानित्यतासाधर्म्यात्कथमनित्यता ।

असत्तत्खण्डनम् । कुत इति चेत् । अभावमात्र वस्त्वाकाशमुच्यते । (त्श्२७) यदि सतो नित्यवं सिद्धस्तदा दृष्टान्तः सद खण्डनम् । किन्त्वत्रामतो नित्यता । आकाशमसद्वस्त्वेर नैतन्नित्यमनित्यं वा वक्तुं शक्यते । असिद्धो दृष्टान्त एतस्य खण्डनस्य । अदृष्टान्ते दृष्टान्तताकल्पनात् । तस्मादसदेतत्खण्डनम् । यदि कश्चिन्मन्यते सद्वस्त्वेवाकाशो नित्यश्च । एतद्विपरीतखण्डनं नतु सत्खण्डनम् । कस्मात्? । अमूर्तत्वस्यनैकान्तिकत्वात् । आकाशोऽमूर्तो नित्यश्च चित्तसुखदुःखेच्छादिकन्त्वमूर्तमनित्यम् । अमूर्तः शब्दः किमाकाशवन्नित्यो भवेच्चित्तसुखादिवदनित्यो वा । अमूर्तत्वमनैकान्तिकत्वादसिद्धो हेतुः । तस्माद्विपरीतमेत्खण्डनम् । अपरं च सहेतुकत्वाच्छब्दोऽनित्यः । वस्तु सहेतुकञ्चेत्तदानित्यमिति ज्ञेयं घटादिवदिति स्थापिते । प्रतिवादी प्राह । अस्मिन्नर्थे संशयः । कस्मादिति चेत् । घटोत्पादः सहेतुकोऽनित्यः । घटध्वंसस्तु सहेतुको नित्यः । शब्दस्य सहेतुकत्वाच्छब्दे संशयोत्पत्तिः । सहेतुकघटोत्पादवदनित्यः सहेतुकघटध्वंसवन्नित्यो वा ।

असदेत्खण्डनम् । कस्मात्? यद्यसद्द्रव्यं नित्यमुच्यते दण्डाघातविनष्टवस्तूनामपि नित्यतापत्तिः ।

किञ्च शब्दोऽनित्यः । कुतः ऐन्द्रियकत्वात् । घटादिवदिति स्थापिते । प्रतिवादी प्राह । अत्रापि संशयसम्भवः । यद्यैन्द्रियकः सामान्यवत्तदा नित्यतापत्तिः । यदि शब्द ऐन्द्रियकस्तदा सामान्यवन्नित्यः । यदि सामान्यवन्न नित्यो भवेत्, तदा घटदृष्टान्तेनानित्यो न भवेत् ।

असदेतत्खण्डनम् । कस्मात् । यदि गवादिसामान्यं गवादिव्यतिरिक्तं स्यात्तदा पृथक्त्वेन ग्राह्यं द्रष्टव्यञ्च (त्श्२८) सामान्यन्तु गवादिव्यतिरिक्तं पृथक्त्वेन गृह्यते न च दृश्यते । तस्मादनित्यमिति ज्ञेयम् ।

अन्यच्च । आत्मा न विद्यते । कुत इति चेत् । अनभिव्यक्तत्वात् । सर्पश्रवणवत् । इति स्थापिते प्रतिवादी प्राह । समुद्रबिन्दुपरिमाणं हिमालयगुरुत्वञ्च मदेव किन्त्वनभिव्यक्ते । आत्मनोऽपि तथात्वसम्भवः । सन्नेव किन्त्वनभिव्यक्तः । तस्मादनभिव्यक्तिहेतुर्नात्माभावं स्थापयितुं समर्थः ।

सङ्ख्यापरिमाणस्य सञ्चितादपृथक्त्वम् । तत्परिमेयसञ्चितमनुक्रमेणेयदितीयदिति च प्रदर्श्यते । तत्सङ्ख्यापरिमाणं स्मृतिधारणार्थं, एकं, दश, सहस्रं नियुतमित्याद्युच्यते । समुद्रबिन्दुपरिमाणस्य हिमालयगुरुत्वस्य चापृथक्त्वेन सत्वाभावात् । यद्यपरखण्डनं तत्खण्डनसदृशं तद्दोषस्थापनादसत्खण्डनमित्युच्यते ।

विरुद्धखण्डनम् । अर्थविसंवादकं विरुद्धमित्युच्यते, यथा प्रभान्धकारौ स्थितिगती विसंवादके । तद्विरुद्धखण्डनमित्युच्यते ।

विरुद्धखण्डनं त्रिविधम् । अनुत्पत्तिखण्डनं, नित्यताखण्डनं, स्वार्थविरुद्धखण्डनञ्च ।

१. अथानुत्पत्तिखण्डनम् । प्रागुत्पत्तेः प्रयत्ननिरपेक्षत्वान्नित्य इत्यनुत्पत्तिखण्डनम् ।

प्रतिवादी प्राह । यद्यनित्यः शब्दः प्रयत्न[आनन्तरीयक]त्वात्तदा प्रागुत्पत्तेरप्रयत्न[आनन्तरीयक]त्वान्नित्यः ।

विरुद्धं तत्खण्डनम् । कुत इति चेत् । उत्पत्तेः पूर्वं शब्दोऽसन्नेव । असंश्चेत्, कथं नित्यः । यदि कश्चिद्वदेद्वन्ध्यापुत्रः (त्श्२९) कृष्णो बन्ध्यापुत्रः श्वेत इति तदपि सिद्धं भवेत् । यद्यसन्नित्यतानुपपत्तिः । यदि नित्योऽसत्तानुपपत्तिः । असन्नित्यमिति स्वतो विरुद्धम् । एतदसत्खण्डनेष्वर्थापत्तिसमम् । कस्मात् । असत्खण्डनात् । शब्दोऽनित्यः प्रयत्न[आनन्तरीयकत्वा]दिति स्थापित एतदर्थादापद्यते । अप्रयत्न[आनन्तरीय]कत्वान्नित्य इति तदसत् । कुतः । प्रयत्न[आनन्तरीय] कं त्रिविधम्, नित्यमनित्यमसच्च । नित्यमाकाशवत् । अनित्यं विद्युदादिवत् । असदाकाशकुसुमादितिव । एतत्रितयमप्रयत्न[आनन्तरीय] कं भवता त्वेकेन प्रकारेण नित्यमिति मन्यते । तस्मादसत् ।

२. नित्यताखण्डनम् । नित्यमनित्यभावान्नित्यः शब्दः । एतन्नित्यताखण्डनमुच्यते ।

प्रतिवादी प्राह । अनित्ये नित्यमनित्यता, सर्वधर्माणां स्वभावानिरासात् । अनित्ये नित्यमनित्यत्वभावान्नित्यता सिद्धा ।

विरुद्धमेतत् । कस्मात् । यद्यनित्यं नित्यतालाभः कथम् । यदि कश्चिद्वदेदन्धकारे प्रभास्तीति तद्वचनमपि सिद्धं भवेत् । तन्नैवेति चेत्ततो भवत्खण्डनमपि विरुद्धमसच्च । कस्मादिति चेत् । अनित्यतेति पृथग्धर्मोऽनित्येन न सम्बद्धः यो नित्यो मन्तव्यः । अनित्यता नैव पृथग्भावः । यद्यनुत्पन्नं वस्तूत्पत्तिं लभत उत्पन्नन्तु विनश्यति ततोऽनित्यमित्युच्यते । अनित्यमसदिति चेद्यदनित्येन नित्यं श्थापितं तस्याप्यसत्ताप्रसङ्गः ।

३. स्वार्थविरुद्धम् । यदि परार्थस्वण्डने स्वार्थहानिस्तदा तत्स्वार्थविरुद्धखण्डनमुच्यते ।

(त्श्३०)
अनित्यः शब्दः कृतकत्वादङ्कुरादिवदिति स्थापिते । प्रतिवादी प्राह । यदि हेतुरनित्यतां प्राप्नोति तदानित्यतातुल्यः । यद्यनित्यतां न प्राप्नोति तदानित्यतासाधनासमर्थः । तस्मादसिद्धो हेतुरिति ।

यदि तावत्तव खण्डनं मत्प्रतिज्ञां प्राप्नोति, मत्प्रतिज्ञातुल्यत्वेऽस्मदर्थखण्डनासमर्थम् । अथ न मत्प्रतिज्ञां प्राप्नोति तथाप्यस्मदर्थखण्डनासमर्थम् । तस्माद्भवत्खण्डने भवदर्थहानिः ।

प्रतिवादी पुनराह । यदि हेतुः पूर्वं प्रतिज्ञा तु पश्चात्, तदा प्रतिज्ञाभावे स कस्य हेतुः । अथ प्रतिज्ञा पूर्वं हेतुस्तु पश्चात्तदा, सिद्धायां प्रतिज्ञायां किं हेतुनेत्येषोऽप्यसिद्धो हेतुः ।

यदि भवत्खण्डनं पूर्वमस्मत्प्रतिज्ञा तु पश्चादस्मदर्थाभावे किं भवता खण्ड्यते । यद्यस्मत्प्रतिज्ञा पूर्वं भवत्खण्डनं तु पश्चात्तदास्मत्प्रतिज्ञायां स्थापितायां किं भवत्खण्डनेन । भवानस्मत्खण्डनानुज्ञानादस्मत्खण्डनोपादानेन मा खण्डयतीति चेत्तदयुक्तम् । कस्मादिति चेत् । मया प्रकटितं यद्भवत्खण्डनं भवदर्थमेव प्रतिषेधति न तु भवत्खण्डनमवलम्ब्यास्मदर्थो प्रतिष्ठापितः । अपरखण्डने तत्खण्डनतुल्ये सति तद्दोषप्रतिष्ठापनं विरुद्धखण्डनमुच्यते ।

सम्यक्खण्डनं पञ्चविधम् । इष्टार्थदूषणम्, अनिष्टार्थव्यक्तिः, प्रसङ्गव्यक्तिः, विषमार्थव्यक्तिः, मर्वान्यायसिद्धिलाभव्यक्तिः ।

प्रतिवादी प्राह । अस्त्यात्मा संघातस्य परार्थत्वात् । (त्श्३१) यथा शयनासनादिसंघातः परार्थः । चक्षुरादीन्द्रियसंघातोऽपि परार्थः । परस्त्वात्मा । तस्मादस्त्यात्मेति ज्ञातम् ।

नास्त्यात्मा । कुत इति चेत् । एकान्तानभिव्यक्तत्वात् । यदेकान्तानभिव्यक्तं तदसदेव । यथानीश्वरपुरुषस्य द्वितीयो मूर्धा । द्वितीयो मूर्धा रूपगन्धादिमूर्धाकारतो न पृथक्मन्तव्यः । तस्मादसन् । आत्मनोऽपि तथात्वसम्भवः । चक्षुरादीन्द्रियेषु न हि स पृथगभिव्यक्तः । तस्मादसन् । अस्त्यात्मेति चेत्तदयुक्तम् । तदिष्टदूषणमुच्यते ।

यदि पुनर्भवान् वदति यदात्मलक्षणमविशेष्यं, स तु सन्निति तदा द्वितीयो मूर्धविशेष्योऽपि सन्नेव भवेत् । द्वितीयो मूर्धा सन्निति भवता चेन्न प्रतिपाद्यते तदात्मन्यपि तथा प्रतिपत्तव्यम् । इयमुच्यतेऽनिष्टार्थव्यक्तिः ।

यदि भवन्मते उभौ तुल्यमेवाविशेष्यौ । न्यायासमाश्रयाच्चात्मा सन्न पुनर्द्वितीयो मूर्धा । तदाहमपि न्यायासमश्रयात्सन्नेव द्वितीयो मूर्धा न त्वात्मेति चेद्वदेयमेषोऽर्थः सिद्वो भवेत् । अथास्मदर्थो न सिद्धो भवदर्थोऽपि न सिद्व इत्युच्यते प्रसङ्गव्यक्तिः ।

अन्यच्च । आत्मा द्वितीय इव मूर्धाविशेष्यः न त्वसन्निति चेत्तदा वैषम्यदोषो भवन्मूर्ध्यापतेत् । यदि कश्चिद्वदेद्वन्ध्यापुत्रः सालङ्कारो बन्ध्यापुत्रो निरलङ्कार इति तदपि सिद्धं भवेत् । यदि कश्चिदेवं वदेत्तदा वैषम्यदोषापत्तिः । भवतोऽपि तथात्वसम्भवः । इयं वैषम्यदोषव्यक्तिः । अथोच्यते न्यायासमाश्रयान्नियतमेवास्त्यात्मा, न्यायासमाश्रयान्नियतमेव नास्ति द्वितीयो मूर्धेति सिद्धं च तद्वचनमिति तदा (त्श्३२) मूर्खबालान्यायवचनान्यपि सिध्येयुर्यथाकाशो दृश्यः, शीतोलोऽग्निः, ग्राह्योः वायुरित्यादि मूर्खवचनानिन्यायासमाश्रितान्यपि भवत्साध्यवत्सिद्धानि भवेयुः । असिद्धानि चेद्भवदर्थोऽप्येवं स्यात् । इयमुच्यते सर्वान्यायसिद्धिलाभव्यक्तिः ॥

इति द्वितीयं प्रकरणम् ।


(त्श्३३)
अथ तृतीयं प्रकरणम् ।

द्वाविंशतिविधा निग्रहस्थानापत्तिः । १ प्रतिज्ञाहानिः, २ प्रतिज्ञान्तरम्, ३ प्रतिज्ञाविरोध, ४ प्रतिज्ञासंन्यासः, ५ हेत्वन्तरम्, ६ अर्थान्तरम्, ७ निरर्थकम्, ८ अविज्ञातार्थम्, ९ अपार्थकम्, १० अप्राप्तकालं, ११ न्यूनम्, १२ अधिकम्, १३ पुनरुक्तम्, १४ अननुभाषणम्, १५ अज्ञानम्, १६ अप्रतिभा, १७ विक्षेपः (व्याजैर्दूषणपरिहारः) १८ मतानुज्ञा (परदूषणानुज्ञा), १९ पर्यनुयोज्योपेक्षणम् (निग्रहस्थानप्राप्तस्य निग्रहस्थानापत्त्युपेक्षणम्), २० निरनुयोज्यानुयोगः (अस्थाने निग्रहस्थानाभियोगः), २१ अपसिद्धान्तः, २२ हेत्वाभासाश्चेति द्वाविंशतिबिधानि निग्रहस्थानानि । यदि कस्यचिन्निग्रहस्थानापत्तिर्भवेत्, न पुनस्तेन सह वादः कर्तव्यः ।

१. प्रतिज्ञाहानिः । स्वप्रतिज्ञायां प्रतिपक्षाभ्यनुज्ञेति प्रतिज्ञाहानिः ।
नित्यः शब्दः । कस्मात् । अमूर्तत्वात् । आकाशवत् । इति स्थापितेऽपरः प्राह । शब्द आकाशसाधर्म्यन्नित्य इति चेत्ततो यदि वैधर्म्यं स्यात्, तदानित्यः । वैधर्म्यञ्च शब्दस्य सहेतुकत्वमाकाशस्य त्वहेतुकत्वमिति । शब्द ऐन्द्रियक आकाशस्त्वनैन्द्रियकः । तस्माच्छब्दोऽनित्य इति प्रत्यवस्थित इदमाह । साधर्म्यं वैधर्म्यं वा न मया समालोच्यते । नित्यसाधर्म्यं तु मयोक्तम् । यदि नित्यसधर्मा तदा नित्य इति ।

(त्श्३४)
अत्रापरः । नित्यसाधर्म्यमनैकान्तिकम् । अमूर्तान्यनित्यान्यपि बस्तूनि विद्यन्ते । यथा सुखदुःखादीनि । तस्मादसिद्धो हेतुः । वैधर्म्यं तु सर्वमनित्यं नित्यव्यतिरिक्तमिति निश्चितं व्यनक्ति । तस्मादनित्यतासाधने समर्थमित्युक्ते ब्रूयात् । अनित्यं सहेतुकम् । नित्यं त्वहेतुकमिति मयापि प्रतिपादितम् । इति प्रतिज्ञाहानिनिग्रहस्थानापत्तिः ।

२. प्रतिज्ञान्तरम् । प्रतिज्ञातार्थप्रतिषेधे परेण कृते धर्मान्तरविकल्पादर्थनिर्देशः प्रतिज्ञान्तरमुच्यते ।

नित्यः शब्दः । कस्मात् । अस्पर्शत्वात् । आकाशवदिति स्थापिते अपरः प्राह । अस्पर्शत्वहेतुना नित्यः शब्द इति भवता स्थापितम् । अस्पर्शत्वहेतुश्चानैकान्तिकः । चित्तेच्छक्रोधाद्यस्पर्शमप्यनित्यम् । शब्दोऽप्यस्पर्शस्तस्मादनैकान्तिकता । आकाशादिवन्नित्यश्चित्तादिवदनित्यो वेत्यस्पर्शत्वमनैकान्तिकमेव । तस्माद्भवद्धेतुरसिद्धः । यदि हेतुरसिद्धस्तदा प्रतिज्ञाप्यसिद्धेति प्रसिद्धमिति प्रत्यवस्थित इदमाह । शब्दो नित्यता चेति न मम प्रतिज्ञा । अपि तु नित्यता शब्देन संबद्धा, शब्दश्च नित्यतथा सम्बद्ध इत्यस्मत्प्रतिज्ञा । यो मया निर्दिष्टः शब्दः स रूपादिनिषेधार्थः ।

या च मया निर्दिष्टा नित्यता, सा नित्यतानिषेधार्था । नित्यता शब्दान्न व्यतिरिच्यते रूपादिभ्यस्तु व्यतिरिच्यते । शब्दो नित्यताया न व्यतिरिच्यते श्रोत्रग्राह्यादिकात्तु व्यतिरिच्यते । यद्यस्मान्न व्यतिरिच्यते, तत्तेन सम्बद्धम्, एषास्मत्प्रतिज्ञा । मया न शब्दो न च नित्यता स्थाप्यते । भवान् पुनः शब्दञ्च नित्यताञ्च खण्डयति (त्श्३५) न तु मम प्रतिज्ञां खण्डयति । इयमुच्यते प्रतिज्ञान्तरानग्रहस्थानापत्तिः ।

३. प्रतिज्ञाविरोधः । हेतुप्रतिज्ञयोर्विरोधः प्रतिज्ञाविरोध इत्युच्यते ।

प्रतिवादी प्राह । नित्यः शब्दः । कस्मात् । सर्वस्यानित्यत्वात् । आकाशवत् । इति स्थापितेऽपरः प्राह भवतोक्तं सर्वमनित्यं तस्मान्नित्यः शब्द इति । अथ शब्दः सर्वस्मिन्नन्तर्भवति न वा । सर्वस्मिन्नन्तर्भवति चेत् । सर्वस्यानित्यत्वाच्छब्दोऽप्यनित्यः । सर्वस्मिन्नान्तर्भवति चेत्तदा सर्वमित्यसिद्धम् । कुत इति चेत् । शब्दस्यासङ्ग्रहात् । हेतुवचने प्रतिज्ञाहानिः । प्रतिज्ञावचने च हेतुहानिः । तस्माद्भवतोऽर्थोऽसिद्धः । इयं प्रतिज्ञाविरोधनिग्रहस्थानापत्तिरुच्यते ।

४. प्रतिज्ञासंन्यासः । परेण स्वप्रतिज्ञाप्रतिषेधे कृते संन्यासोऽसमर्थनेति प्रतिज्ञासंन्यासः ।

नित्यः शब्दः । कुतः । ऐन्द्रियकत्वात् । यथा सामान्यमैन्द्रियकं नित्यञ्च । शब्दोऽप्यैन्द्रियकत्वान्नित्यः । इति स्थापितेऽपरः प्राह नित्यः शब्द ऐन्द्रियकत्वादिति भवतोक्तम् । अथ यदैन्द्रियकं तदनित्यलक्षणाक्रान्तं घटादिवत् । घटो ह्यैन्द्रियकत्वादनित्यः । तस्माच्छब्दोप्यनित्य इति । यद्भवतोक्तं सामान्यवन्नित्यमिति तदयुक्तम् । तथा हि गवादिसामान्यं गवादेरभिन्नं भिन्नं वा । अभिन्नञ्चेद्, गौरेव सन् सामान्यं त्वसत् । भिन्नञ्चेद्, गोर्व्यतिरिक्तं सामान्यं प्रकाशेत न तु गोर्व्यतिरिक्तं सामान्यं प्रकाशते तस्माद्दृष्टान्तो न नित्यतासाधकः । प्रतिज्ञा चासिद्धा । (त्श्३६) इति दूषणे कृते प्रतिवादी प्राह केनैतत्स्थापितम् । इयं प्रतिज्ञासन्न्यासनिग्रहस्थानापत्तिरित्युच्यते ।

५. हेत्वन्तरम् । अविशेषहेतौ स्थापिते पश्चाद्धेत्वन्तरोक्तिरिति हेत्वन्तरम् ।

नित्यः शब्दः । कस्मात् । द्विरनभिव्यक्तत्वात् । यन्नित्यं तत्सर्वं सकृदभिव्यक्तमाकाशवत् । शब्दस्यापि तथात्वम् । इति स्थापितेऽपरः प्राह । नित्यः शब्दो द्विरनभिव्यक्तत्वात् । आकाशवदिति न त्वेष हेतुर्युक्तः । कुत इति चेद्द्विरनभिव्यक्तस्य नित्यतानैकान्तिकत्वात् । यथा वायोः स्पर्शस्य च सकृदेवाभिवक्तवापि वायुरनित्यः । शब्दोऽपि तथेति प्रत्यवस्थित इदमाह । शब्दो वायुविलक्षणः । वायुर्हि त्वगिन्द्रियग्राह्यः । शब्दस्तु श्रवणग्राह्यः । तस्माच्छब्दो वायुविलक्षण इति ।

अत्रापरः प्राह । पूर्वमुक्तं भवता शब्दो नित्यो द्विरनभिव्यक्तत्वादित्यधुना तूच्यते शब्दो वायुविलक्षणः पृथगिन्द्रियग्राह्यत्वादिति प्रथमहेतुत्यागेन भवत हेत्वन्तरं प्रतिष्ठापितम् । तस्माद्भवतो हेतुरसिद्धः । इयं हेत्वन्तरनिग्रहस्थानापत्तिरुच्यते ।

६. अर्थान्तरम् । प्रकृतार्थाप्रतिसम्बद्धार्थाभिधानमर्थान्तरम् ।

नित्यः शब्दः । कस्मात् । रूपादिपञ्चस्कन्धा दशहेतुप्रत्ययाः । एतदुच्यते अर्थान्तरम् ।

७. निरर्थकम् । यदा वाद इष्टस्तदा मन्त्रभाषणमिति निरर्थकिअम् ।

(त्श्३७)
८. अविज्ञातार्थम् । परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमित्यविज्ञातार्थम् ।

यदि कश्चिद्धर्मं वक्ति परिषत्तु प्रतिवादी च जिज्ञासावपि त्रिरभिहितं ज्ञातुमसमर्थौ । यथा (कश्चिद्वदेद्) अणुरमूर्तः सुखोत्पादकः दुःखोत्पादकोऽप्राप्तो सापकर्षोत्कर्षः समितोऽसन्न्यासो न विनाशः । शब्दो नित्यः कस्मात् । अनित्यस्य नित्यत्वात् । इयमविज्ञातार्थनिग्रहस्थानापत्तिरुच्यते ।

९. अपार्थकम् । पौर्वापर्य्यासम्बन्धोऽपार्थकम् । यथा कश्चिद्वदेत् । दशविधं फलं त्रिविधः कंबल एकविधं पानभोजनमेतदपार्थकमुच्यते ।

१०. अप्राप्तकालम् । प्रतिज्ञायां दुष्टायां पश्चाद्धेतुस्थापनमप्राप्तकालम् ।

नित्यः शब्दः । यथा पारिमाण्डल्याश्रयस्य परमाणोर्नित्यत्वात्पारिमाण्डल्यं नित्यं शब्दस्यापि तथात्वसम्भव इति कृतेऽपरः प्राह । भवता नित्यतास्थापने हेतुर्नोक्तः, पञ्चावयवन्यूनवचनस्थापनाद्भवदर्थोऽसिद्ध इति दूषित इदं प्राह । अस्ति मे हेतुर्नाम्ना तु नोक्तः । कोऽयं हेतुरिति चेत् । नित्याकाशाश्रयत्वमिति ।

अत्रापरः । यथा गृहे दग्धे तत्परित्राणायोदकान्वेषणं तथानवसरेऽर्थरक्षणाय हेतुस्थापनम् । एतदप्राप्तकालमुच्यते ।

११. न्यूनम् । पञ्चावयवा अन्यतमेन हीना इति न्यूनम् । प्रतिज्ञा हेतुरुदाहरणमुपनयनं निगमनमिति पञ्चावयवाः ।

(त्श्३८)
यथा (कश्चिद्वदत्य) नित्यः शब्द इत्ययं प्रथमोऽवयवः । कृतकत्वादिति द्वितीयोऽवयवः । यद्वस्तु कृतकं तदनित्यं यथा घटः कृतकोऽनित्यश्चेति तृतीयोऽवयवः । शब्दोऽपि तथेति चतुर्थोऽवयवः । तस्माच्छब्दोऽनित्य इति पञ्चमोऽवयवः । पञ्चावयवानामन्यतमेन न्यूनता न्यूननिग्रहस्थानापत्तिरित्युच्यते ।

१२. अधिकम् । बहुहेतूदाहरणोक्तिरधिकम् । यथा (कश्चिद्वदे) च्छब्दोऽनित्यः । कस्मात्? । प्रयत्नानन्तरीयकत्वादमूर्तत्वादैन्द्रियकत्वादुत्पादविनाशाभ्यां वाच्यत्वाच्चैतद्धेतुबाहुल्यमित्युच्यते । अपि च शब्दोऽनित्यः कृतकत्वाद्घटवत्पटवत्गृहवत्कर्म्मवत् । एतद्दृष्टान्तबाहुल्यमित्युच्यते ।

वादी प्राह । भवता हेतूदाहरणबहुल्यमुक्तम् । यद्येको हेतुः साधनासमर्थस्तदा कथमेकहेतुप्रयोगः । अथ साधनसमर्थस्तदा किं हेतुबाहुल्येन उदाहरणबहुल्येऽपि तथात्वसम्भवः । तद्बाहुल्योक्तेरप्रयोजनत्वात् ।

१३. पुनरुक्तम् । पुनरुक्तं त्रिविधं, शब्दपुनरुक्तं, अर्थ पुनरुक्तं, अर्थापत्तिपुनरुक्तञ्च । शब्दपुनरुक्तं यथा (कश्चिद्वदे) च्छक्रः शक्रः । अर्थपुनरुक्तं यथा (कश्चिद्वदेत्) चक्षुरक्षि । अर्थापत्तिपुनरुक्तं यथा (कश्चिद्वदेत्) सत्यं संसारो दुःखं सत्यं निर्वाणं सुखम् । प्रथममेव वचनं वक्तव्यं द्वितीयं त्वप्रयोजनम् । कस्मात् । पूर्ववचनस्य स्पष्टार्थत्वात् । पूर्ववचनस्यार्थ स्पष्टश्चेद्, द्वितीयवचनेन किं स्पष्टं भवेत् । यदि न किञ्चित्प्रकटयितव्यं तदा तदप्रयोजनम् । एतत्पुनरुक्तमित्युच्यते ।

१४. अननुभाषणम् । परिषदा विज्ञातायाः प्रतिज्ञायास्त्रिरभिहिताया (त्श्३९) अपि यदि कश्चित्प्रत्युच्चारणासमर्थस्तदाननुभाषणम् ।

१५. अज्ञानम् । परिषदा विज्ञाताया अपि प्रतिज्ञायाः केनचिदविज्ञानमज्ञानमुच्यते ।

१६. अप्रतिभा । यदि परस्य प्रतिज्ञां न्यायवदीक्षते दूषणे चासमर्थस्तदाप्रतिभा ।

अपरे तु वदन्ति । अज्ञानेऽप्रतिभायाञ्चोभयत्रानिग्रहस्थानापत्तिः । कस्मात्? । यदि कश्चिदर्थं न विजानाति दूषणे चासमर्थस्तेन सह वादो न कर्तव्य इति ।

एते त्वतिमन्दे निग्रहस्थाने । अन्येषु निग्रहस्थानेषु, सदोषस्य वचनस्य विविधेनोपायेनोद्धरणं शक्यम् । अत्र तूभयत्र न कश्चिदुपाय उद्धरणसमर्थः । एष मनुष्यः पूर्वं पाण्डित्यगौरवं स्थापयति, पश्चात्तु पाण्डित्यं प्रकटयितुमशक्तः ।

१७. विक्षेपः । स्वप्रतिज्ञाया दोषं ज्ञात्वा व्याजैः परिहारः कार्यान्तरकथनम् । यथाहं स्वयं रोगी, अहं परं रोगिनं द्रष्टुमिच्छामि । तदा तु यदि नापक्रामति परदूषणनिराकरणं न कल्पयति । कस्मात् । बन्धुस्नेहापगमभयात् । इति विक्षेपनिग्रहस्थानापत्तिरुच्यते ।

१८. मतानुज्ञा । परदूषणे स्वपक्षदोषाभ्युपगम इति मतानुज्ञा । यदि कश्चित्परेण दूषणे कृते, स्वपक्षदोषमनुजानाति, यथा मम दोष एवं भवतोऽपीत्यभ्युपगच्छन् । इयं मतानुज्ञोच्यते ।

१९. पर्यनुयोज्योपेक्षणम् । यदि कश्चिन्निग्रहस्थानं प्राप्नुयात्, तस्य निग्रहापत्त्यनुद्भावनं तद्दूषणेच्छया तु (त्श्४०) दूषणस्थापनम् । तदर्थे च हीने किं प्रयोजनं दूषणेन । असिद्धमेतद्दूषणम् । एतदुच्यते पर्यनुयोज्योपेक्षणम् ।

२०. निरनुयोज्यानुयोगः । कस्यचिदनिग्राह्यत्वेऽपि निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः । अन्यच्च । प्रतिवादिनि स्वप्रतिज्ञाहान्यापन्ने स्वपक्षभिन्नार्थोपादानेनास्थाने परनिग्रहस्थानद्योतनम् । अयमपि निरनुयोज्यानुयोगः ।

२१. अपसिद्धान्तः । पूर्वं चतुर्विधे सिद्धान्ते स्वयमङ्गीकृतेऽपि पश्चाच्चेद्यथासिद्धान्तं न ब्रूयादयमपसिद्धान्तः ।

२२. हेत्वाभासाः । यथा पूर्वमुक्तास्त्रिविधाः । असिद्धोऽनेइकान्तिको विरुद्धश्चेति हेत्वाभासाः ।

असिद्धः । यथा कश्चित्स्थापयेदश्व आगच्छति । कस्मात् । शृङ्गदर्शनात् । अश्वोऽशृङ्ग इति शृङ्गहेतुरसिद्धोऽश्वागमनस्थापनासमर्थः ।

अनैकान्तिकः । यथा कश्चित्स्थापयेत्गौरागच्छति । कस्मात् । शृङ्गदर्शनात् । यः सशृङ्ग स गौरित्यनैकान्तिकः छागरुर्वादीनां सशृङ्गत्वात् । शृङ्गहेतुरनैकान्तिकः । तस्माद्गवागमनस्थापनासमर्थः ।

विरुद्धः । यथा कश्चित्स्थापयेत्प्रभाते रात्रिः । कस्मात् । अरुणोदयात् । अरुणोदयो रात्र्या विरुद्धः । अरुणोदयहेतू रात्रिस्थापनासमर्थः । यदि केनचिदेष हेतुः प्रयुज्यते तदा हेत्वाभासनिग्रहस्थानापत्तिः ।

इति तृतीयं प्रकरणम् ।
समाप्तश्चायं ग्रन्थ ।

"https://sa.wikisource.org/w/index.php?title=तर्कशास्त्रम्&oldid=393868" इत्यस्माद् प्रतिप्राप्तम्