तन्त्रसारसङ्ग्रहः

विकिस्रोतः तः
तन्त्रसारसङ्ग्रहः
[[लेखकः :|]]

॥ श्रीः ॥
श्रीमदानन्दतीर्थभगवत्पादप्रणीतसर्वमूसग्रन्थाः
----------------------------

(1)तन्त्रसारसङ्ग्रहः
॥ श्रीमद्धनुमद्भिममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मिहयग्रीवाय नमः ॥

प्रथमोऽध्यायः

जयत्यब्जभवेशेन्द्रवन्दितः कमलापतिः ।
अनन्तविभवानन्दशक्तिज्ञानादिसङ्गुणः ॥ 1 ॥

विधिं विधाय सर्गादौ तेन (2)पृष्टोऽब्जलोचनः ।
आह देवो रमोत्सङ्गविलसत्पादपल्लवः ॥ 2 ॥

अहमेकोऽकिलगुणो वाचकः (3)प्रणवो मम ।
अकाराद्यतिशान्तन्तः सोऽयमष्टाक्षरो मतः ॥ 3 ॥

स (4)विश्वतैजसप्राज्ञतुरूयात्मान्तरात्मनाम्(5) ।
परमात्मज्ञानात्मयुजां मद्रूपाणां च वाचकः ॥ 4 ॥

तद्रूपभेदाः पञ्चशन्मूर्तयो मम चापराः ।
पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः ॥ 5 ॥

द्विरष्टपञ्चकचतुःपञ्चेत्येवाष्टवर्गगाः ।
अजः(6) आनन्द(7) इन्द्रेशानुग्र(8) ऊर्ज (9)ऋतुम्भरः ॥ 6 ॥

ॠघलृशौ लॄजिरैकात्मैर(10) (11)ओजोभृदौरसः ।
(12)अन्तोऽर्धगर्भः (13)कपिलः खपतिर्गरुडासनः ॥ 7 ॥

(14)घर्मो ङसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः(15) ।
झाटितारिर्ञमष्टङ्की ठलको (16)डलको ढरी ॥ 8 ॥

णात्मा (17)तारस्थभो दण्डी धन्वी नम्यः परः फली ।
बली (18)भगो (19)मनुर्यज्ञो(20) (21)रामो लक्ष्मीपतिर्वरः ॥ 9 ॥

शान्तसंवित् षड्गुणश्च सारात्मा (22)हंसळाळुकौ ।
पञ्चाशन्मूर्तयस्त्वेता ममाकारादिलक्षकाः ॥ 10 ॥

नारायणाष्टाक्षरश्च ताराष्टाक्षरभेदवान् ।
आद्येस्तारचतुवर्णैर्भिन्न व्याहृतयः क्रमात् ॥ 11 ॥

अनिरुद्धादिकास्तासां देवता व्युत्क्रमेण वा ।
ताश्चतुमूर्तयस्त्वेव द्वादशार्णपदोदिताः ॥ 12 ॥

नारायणाष्टाक्षराच्च व्याहृतिब्यस्तथैव च ।
विभेदो द्वादशार्णानां केशवाद्याश्च देवताः ॥ 13 ॥

नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात्पुनः ।
वेदमाता तु गायत्री द्विगुणा द्वादशाक्षरात् ॥ 14 ॥

चतुर्विंशन्मूर्तयोऽस्याः कथिता वर्णदेवताः ।
तद्बेदः पौरुषं रूक्तं वेदाः पुरुषसूक्तगाः ॥ 15 ॥

वैदिकास्सर्वशब्दाश्च तस्मात् (23)सर्वाभिधोऽस्म्यहम् ।
पञ्चाशद्वर्णभिन्नाश्च सर्वशब्दा अतोऽपि च ॥ 16 ॥

(24)ऋषिश्च देवतैकोऽहं तारादीनां विशेषतः ।
छन्दो मदीया गायत्री ताराष्टाक्षरयोर्मता ॥ 17 ॥

उद्यद्भास्वात्समाभासश्चिदानन्दैकदैहवान् ।
चक्रशङ्खगदापद्मधरो ध्येयोऽहमीश्वरः ॥ 18 ॥

लक्ष्मूधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।
ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥ 19 ॥

सेव्यमानोऽधिकं भक्त्या नित्यनिःशेषशक्तिमान् ।
(25)मूर्तयोऽष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ।
युक्ताः प्रदीपवर्णाश्च सर्वाभरणभूषिताः ॥ 20 ॥

तादृग्रूपाश्च पञ्चाशज्ज्ञानमुद्राभयोद्यताः ।
(26)टङ्की दण्डी च धन्वी च तत्तद्युक्तास्तु वामतः ॥ 21 ॥

वासुदेवादिकाः शुक्लरक्तपीतासितोज्जवलाः(27) ।
शङ्खचक्रगदाब्जेतः(28) प्रथमो मुसली हली ॥ 22 ॥

सशङ्खचक्रस्त्वपरस्तृतीयः शार्ङ्गबाणवान् ।
सशङ्खचक्रस्तुर्यस्तु चक्रशङ्खासिचर्मवान् ॥ 23 ॥

केशवो मधुरूदनः सह्कर्षणदामोदरौ ।
सवासुदेवप्रद्युम्ना (29)दक्षोच्चकरशङ्खिनः ॥ 24 ॥

विष्णुमाधवानिरुद्धपुरुषोत्तमाधोक्षजाः ।
जनार्दनश्च वामोच्चकरस्थितदरा मताः ॥ 25 ॥

गोविन्दश्च त्रिविक्रमस्सश्रीधरहृषीकपाः ।
नृसिंहश्चाच्युतश्चैव वामाधःकरशङ्किनः ॥ 26 ॥

वामनः सनारायणः पग्मनाभ उपेन्द्रकः ।
हरिः कृष्मश्च दक्षाधःकरे शङ्खधरा मताः ॥ 27 ॥

शङ्खचक्रगदापद्मधारश्चैते हि सर्वशः ।
क्रमव्युत्क्रमपद्मादिगदादिव्युत्क्रमस्तथा ।
अर्धक्रमः सान्तरश्च षट्सु षट्स्वरिपूर्विणाम् ॥ 28 ॥

वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ॥ 29 ॥

समासव्यासयोगेन व्याहृतीनां चतुष्टयम् ।
सत्यं चाङ्गानि(30) तारस्य (31)प्रोच्यन्तेऽष्टाक्षरस्य च ॥ 30 ॥

कृद्वमहावीरद्युल्कसहस्रहितोल्ककाः ।
चतुर्थ्यन्ता हृदादीनि पृथग्रूपाणि तानि च ॥ 31 ॥

विष्णोरेपात्यभेदेऽपि तदैश्चर्यात्तदन्यवत् ।
चक्रशङ्खवराभीतिहस्तान्येतानि (32)सर्वशः ॥ 32 ॥

मूलरूपसवर्णानि कृष्णवर्णा शिखोच्यते ।
चतुर्विंशन्मूर्तयश्च मूलरूपसवर्णकाः ॥ 33 ॥

आदिवर्णत्रयं नाभिहृच्छिरस्सु यथाक्रमम् ।
न्यसनीयं च तद्विर्णदेवेताध्यानपूर्वकम् ॥ 34 ॥

(33)पज्जानुनाभिहृदयवाङ्नासानेत्रकेषु च ।
अष्टाक्षरणां न्यासः स्यात् व्याहृतीनां प्रजापतिः ॥ 35 ॥

मुनिश्च्छन्दस्तु गायत्री देवता भगवान् हरिः ।
उद्यदादित्यवर्णश्च ज्ञानमुद्राभयोद्यतः ॥ 36 ॥

तारेण व्याहृतीभिस्च ज्ञेयान्यङ्गानि पञ्च च ।
नाभिहृत्केषु सर्वेषु चतस्रो व्याहृतीर्न्यसेत् ॥ 37 ॥

द्वादशार्णस्य जगती च्छन्दोऽन्यत्तारवत्स्मृतम् ।
अच्छवर्णोऽभयवरकरो ध्येयोऽमितद्युतिः ॥ 38 ॥

पदैर्व्यस्तैः समस्तैश्च ज्ञेयान्यङ्गानि पञ्च च ।
अष्टाक्षराणां स्थानेषु बाह्वोरूर्वोश्च विन्यसेत् ॥ 39 ॥

विश्वामित्रस्तु सन्ध्यार्थे तदन्यत्र प्रजापतिः(34) ।
मुनिर्देवस्तु सवितृनामा स्रष्टत्वतो हरिः ॥ 40 ॥

(35)प्रोद्यदादित्यवर्णश्च सूर्यण्डलमध्यगः ।
चक्रशङ्खधरोऽङ्कस्थदोर्द्वयो ध्येय एव च ॥ 41 ॥

सताराश्च व्याहृतयो गायत्र्यङ्गानि पञ्च च ।
दोःपत्सन्दिषु साग्रेषु नाभिहृन्मुखकेषु च ॥ 42 ॥

वर्णन्यासश्च कर्तव्यस्तारवन्नखिलं स्मृतम् ।
पञ्चाशदक्षराणां च पुंसूक्तस्यापि सर्वशः ॥ 43 ॥

अनुष्टुभश्च त्रिष्टुप् च झन्दोऽस्य त्रिष्टुभोऽपि वा ।
विष्णुशब्दश्चतुर्थ्यन्ता हृदयेतः षडक्षरः ॥ 44 ॥

तारवत्सर्वमस्यापि श्यामो ध्येयो हरिः स्वयम् ।
वर्णा एव षङङ्गानि षणयोर्भेदयोगतः ॥ 45 ॥

पज्जानुनाभिहृन्नासाकेषु न्यासश्च वर्णशः ।
(36)एते तु सर्वमन्त्राणां मूलमन्त्रा विशेषतः ॥ 46 ॥

एतज्ज्ञानात्समस्तं च ज्ञातं स्याच्छव्दगोचरम् ।
एतज्जपात्समस्तानां मन्त्राणां जापको भवेत् ॥ 47 ॥

पूज्यश्च भगवान्नित्यं चक्राब्जादिकमण्डले ।
(37)हृदये वा चले वाऽपि जले वा केवले स्थले ॥ 48 ॥

(38)अष्टाक्षरेण सम्पूज्य प्रथमं देवतां पराम्(39) ।
मध्ये सव्ये गुरूंश्चैव दक्षिणे सर्वदेवताः ॥ 49 ॥

पुनः सव्ये (40)सर्वगुरूनाग्नेयादिषु च क्रमात् ।
गरुडं व्यासदेवं च दुर्गां चैव सरस्वतीम् ॥ 50 ॥

(41)धर्मं ज्ञानं च वैराग्यमैश्वर्यं चैव कोणगान् ।
तदन्तः (42)पूर्वादिक्पूर्वमधर्मादींश्च पूजयेत् ॥ 51 ॥

अपूजिता अधर्मादिदातारस्ते तथाऽभिधाः ।
निर्ऋतिश्चैव दुर्गा च कामो रुद्रश्च देवताः ॥ 52 ॥

यमवायुशिवेन्द्राश्च ज्ञेया धर्मादिदेवताः ।
परमः पुरुषो मध्ये शक्तिराधाररूपिणी ॥ 53 ॥

(43)कूर्मोऽनन्तश्च पृथिवी क्षीरसागर एव च(44)
श्वेतद्वीपो (45)मणटपश्च दिव्यरत्नमयो महान् ॥ 54 ॥

पद्मेतत्त्रयं देवी रमैव बहुरूपिणी ।
सूर्यसोमहुताशाश्च पद्मे श्रीस्त्रिगुणात्मिका ॥ 55 ॥

(46)आत्मान्तरात्मपरमज्ञानात्मानश्च(47) मूर्तयः ।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च ॥ 56 ॥

प्रह्वी सत्या तथेशानाऽनुग्रहा चेति शक्तयः(48) ।
अष्टदिक्षु च मध्ये च स्वरूपाण्येव ता हरेः(49) ॥ 57 ॥

ततोऽनन्तं योगपीठस्वरूपं पूजयेद्धरेः ।
(50)तत्रावाह्य(51) हरिं चार्घ्यं पाद्यमाचमनीयकम् ॥ 58 ॥

मधुपर्कं पुनश्चाचां स्नानं (52)वासरो(53) विभूषणम् ।
उपवीतासने दत्वा गन्धपुष्पे(54) तथैव च(55) ॥ 59 ॥

(56)लक्ष्मीघरे (57)यजेत्तत्र पार्श्वयोरुभयोर्हरेः ।
हृदयादींस्तथेन्द्रादिदिक्ष्वस्त्रं कोणकेषु च ॥ 60 ॥

वासुदेवादिकान् दिक्षु (58)केषवादींस्ततः परम् ।
(59)मत्स्यं कूर्मं वराहं च(60) नारसिंहं च वामनम् ॥ 61 ॥

भार्गवं राघवं कृष्णं बुद्धं कल्किनमेव च ।
(61)अनन्तं विश्वरूपं च तद्बहिः पूजयेत्क्रमात् ॥ 62 ॥

(62)अनन्तब्रह्मवाय्वीशान्वीशं चाग्रे प्रपूजयेत् ।
वारुणीं चैव गायत्रीं भारतीं गिरिजामपि ॥ 63 ॥

कोणेषु वीन्द्रवामे च (63)सौपर्णीं पूजयेदपि ।
इन्द्रादीन् (64)शेषविध्यन्तान् सभार्यान् सपरिग्रहान्(65) ॥ 64 ॥

(66)धूपदीपौ ततो दत्वा (67)नैवेद्यं मूलमन्त्रतः ।
अनेन क्रमयोगेन जुहुयात्संस्कृतेऽनले(68) ॥ 65 ॥

पुष्पाञ्जलिश्च (69)होमश्च मूलेनाष्टोत्तरं शतम् ।
सकृत्सकृत्पुष्पमन्यैर्होमस्तस्य चतुर्गुणः ॥ 66 ॥

विसर्जयित्वा नैवेद्यं (70)मूलेन त्रिः समर्च्य च ।
(71)धूपदीपौ पुनर्दत्वा पुनर्मूलेन(72) पूर्ववत् ॥ 67 ॥

(73)अर्चयित्वा पुनर्ध्यात्वा (74)जपेटष्टोत्तरं शतम् ।
पुर्ध्यायेद्धरिं सर्वदेवदेवेश्वरं प्रभुम्(75) ॥ 68 ॥

जपध्यानहुतार्तादीनेवं यः कुरुते सदा ।
धर्मार्थकाममोक्षाणां भाजनं स्यात्स एव हि ॥ 69 ॥

सर्वेत्तमं हरिं ज्ञात्वा य एवं भक्तिपूर्वकम् ।
जपध्यानादिभिर्नित्यं पूजयेन्नास्य दुर्लभम् ॥ 70 ॥

(76)भक्तिं कृत्वाऽन्यदेवेषु ब्रह्मरुद्रादिकेष्वपि ।
सर्वोत्कर्षमविज्ञाय विष्णोर्याति तमो ध्रुवम् ॥ 71 ॥

न यज्ञा न च तीर्थानि नोपवासव्रतानि च ।
दैवतानि च सर्वाणि त्रातुं तं शक्नुयुः क्वचित् ॥ 72 ॥

हरिर्हि सर्वदेवानां परमः पूर्णशक्तिमान् ।
स्वतन्त्रोऽन्ये तद्वशा हि सर्वेऽतः स जगद्गुरुः ॥ 73 ॥

ब्रह्मादयश्च तद्भक्त्या भागिनो भोगमोक्षयोः ।
तस्माज्ज्ञेयश्च पूज्यश्च वन्द्यो ध्येयः सदा हरिः ॥ 74 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे प्रथमोऽध्यायः ॥

----*----

F.N.

1. `ततिः प्रकाशो विस्तारस्तन्त्रं चेत्यभिधीयत' इति तन्त्रमालायाम् ।
-भा.ता.3/34/5
तनुते येन कार्यं तत् तन्त्रं साधनमुच्येत ।
कारणानां स्वशक्तर्वा प्रधानं साधनं यतः ॥ ब्रह्मतर्के
-भा.ता.3/7/3

2. जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय च ।
पृच्छन्ति साधवो यस्मात् तस्मात् पृच्छसि पार्थिव ॥
-इति भागवततात्पर्योद्धृतप्रमाणवचनम् ॥

3. आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः । -छान्दोग्योपनिषद्भाष्ये 1/5
`प्रणवः सर्ववेदेषु' इति गीता (7/8) वेद्यं पवित्रमाङ्कारः ॥ गी.(9/17)
अक्षराणामकारोऽस्मि । इति (गीता 10/33)
"वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पुथुः"॥
"ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः" ॥ -इति विष्णुसहस्रनामसु
अशोकस्तारणस्तारः ॥ -इति विष्णुसहस्रनामसु
तारयेद्यद्भावम्भोधेः स्वजपासक्तमानसान् ।
ततस्तार इति ख्यातः ॥ (स्कन्दे काशीखण्डे)
तरत्यनेन संसारं इति तारः ओंङ्कारः -इति न्यायसुधायाम् (1/1/1)
ओमशेषगुणोधार इति नारायणोऽप्यसौ (ऋग्भाष्ये)
अतोत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ॥ (अनुव्याख्याने)
ओंकार भगवान् विष्णुस्त्रिधामा वचसां पतिः ॥ -इति विष्णुपुराणे
ओमित्याक्रियते यस्मादोकारो भगवान् परः ॥ -प्रमाणवचनम् । गी.ता
वेदस्थः प्रणवाख्योऽसावात्मनं यत्प्रणैत्यतः ॥ -प्रमाणवचनम् गी.ता.7/8
ओमितं ब्रह्म ओमितीदं सवम् । -तैत्तिरीयोपनिषत् ।
ओंकारेण सर्वा वाक् संतृण्णा ।
ओंकारेण सर्वा वाक् संतृण्णा ।
ओंकार एवेदं सर्वम् । -छान्दोग्योपनिषत् ।
ओंतत्सदिति निर्देषो ब्रह्मणस्त्रिविधः स्मृतः । (गीता 17/23)
ओतं जगद्यत्र स्वयं च पूर्णो वेदोक्तरूपोऽनुपचारतश्च ।
सर्वैः शुभैश्चाभियुतो न चान्यैः ओंतत्सदित्येनमथो वदन्ति ॥
-इति गीताभाष्योद्धृतऋग्वेदखिलम् (17/23)
विप्राश्च वेदाश्च यज्ञाश्च यस्मादेताः परस्परम् ।
विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः ॥
ओतमस्मिन्निदं सर्वंमिति चोक्तः स ओमिति । प्रमाणवचनम्
-गी.भा. 17/23

"ॐ नामानमुपसीत तदर्थगुणपूर्वकम् । ओतत्वादवनान्मानादधिकोच्चत्वकारणात् । आनन्दादोजसश्चैव भरणादोमुदाहृतः" इति समन्वये । `ओतमस्मिन् जगत्सर्वमत्युच्चश्चाखिलैर्गुणैः । इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः । उच्चत्वाद्गीयमानत्वात्स्थानादुद्गीथ उच्यते । ॐमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फृटम् । विष्णोरोमितिनाम्नोऽस्य व्याख्यानमधिकोच्चता । अकारेणाधिकं प्रोक्तमुकारेणाच्चमुच्यते । तथा मितं सर्ववेदैर्मकारेणाभिधीयते । अधिकोच्चमितिज्ञातमोमित्यस्यार्थ ईरितः ।
-इति छान्दोग्यभाष्योद्धृत सारनिर्णयवचनम्
सृष्टिकर्ता ब्रह्मनामा योऽसृजच्चतुराननम् ।
अन्तर्यामी विरिञ्चस्य सोऽकारार्थो जनार्दनः ॥
वैकुण्ठलोक आस्ते स द्वितीयवपुषा हरिः ।
उकारवाच्यः स विभुर्नृसिंहो रुद्रनामकः ।
रौद्रत्वात् स शिवस्यापि मकारार्थः प्रकीर्तितः ॥
एवं त्र्यात्मकं विष्णुं प्रणवोऽयं क्रियात्मकः ।
एक पृथिगिवाचष्टे बिन्दुर्वक्त्यनिरुद्धकम् ॥
प्रद्युम्नाद्यान्नदपूर्वाः सर्वान्नारायणात्ककान् ।
पद्मनाभादिका एव मूर्तीर्नारायणोत्तराः ।
प्रमवोऽयं वदत्यष्टौ तस्मान्नान्याभिधायकः ॥
-इति तत्त्वसारे ।
अकारो विष्णुरुद्धिष्टः उकारस्तु महेश्वरः ।
मकारस्तु स्मृतो ब्रह्मा प्रणवस्तु त्रयार्थकः ॥
-इति च
अत्रोक्तब्रह्मविष्णुशिवाख्यरूपाणि विष्णारेव-तदुक्तं म.भा.ता.नि.3/20,21

चतुर्थपादो गायत्र्याः प्रणवः समुदाहृतः ।
अकाराद्यतिशान्तान्तः प्रणवोऽष्टाक्षरो मतः ।
-बृहद्भाष्योद्धृतगायत्रीसंहिता ।
अष्टाक्षरां शोमितपाणिपादां चतुमुखीं त्रिशिखामेकश्रुङ्गीम् ।
आद्यात्मजां विश्वसृजां स्वरूपां ज्ञात्वा बुधास्त्वमृतत्वं व्रजन्ति ॥
-वायुप्रोक्ते
प्रणवः अकारोकारमकारनादबिन्दुकलाशान्तादिशान्तरूपाष्टक्षरात्मकः।
-इति बृहदारण्यकभाष्यभावबोधे ।
ओमित्येदक्षरं परं ब्रह्म । तदेवोपासितव्यम्। एतदेव सूक्ष्माष्टाक्षरं भवति । तदेतदष्टात्मकोऽष्टधा भवति। अकारः प्रथमाक्षरो भवति। उकारो द्वितीयाक्षरो भवति। मकारस्तृयाक्षरो भवति। बिन्दुस्तुरीयाक्षपो भवति । कला षष्ठाक्षरो भवति। कलातीता सप्तमाक्षरो भवति। तत्परश्चाष्टमाक्षरो भवति। ताकरत्वात्तारको भवति। तदेव ब्रह्मं त्वं विद्धिः । तदेवोपासितव्यम् ।
-इति तारसारोपनिषत्
मन्त्रशास्त्रसिद्धनादरूपवर्णाभिव्यक्तिद्वारा ।
-इति श्रीराघवेन्द्रतीर्थकृतऋग्र्थमञ्जर्याम् (5/7)

4. विश्वश्च तैजसः प्राज्ञस्तुरूयश्चाक्षरदेवताः ।
कृष्णौ रामौ नृसिंहश्च वराहो विष्णुरेव च ॥
परञ्च्यातिः परंब्रह्म वासुदेव इति क्रमात् ।
अकारादेस्तथा शान्तातिशान्तान्तस्य देवताः ॥ -इति यतिप्रणवकल्पे

5. आत्मान्तरात्मा परमात्मेति मूर्तित्रयं हरेः ।
जाग्रत्स्वप्रसुषुप्तीनां सृष्ट्यादेश्च प्रवर्तकम् ॥
-इति भागवततातापर्योद्धृतत्रैकाल्यवचनम्(11/29/7)

6. अजः सर्वेश्वरः सिद्धः -(वि.स)
अजो महार्हः स्वाबाव्यो -(वि.स.)
आनन्दत्वादनामाऽसौ उत्कृष्टत्वादुनामकः ।
एतन्नामद्वयं विष्णोर्ज्ञात्वा पापैः प्रमुच्यते ॥
-इति भागवततात्पर्योद्धृतप्रमामवचनम्(10/94/19)


7. आनन्दो नन्दनो नन्दनः सत्यधर्मा त्रिविक्रमः । (वि.स)

8. उग्रः संवत्सरो दक्षः - (वि.स.)

9. ऋतंम्भरः (हृ.)

10. एकात्मा ऐरः । (हृ.)

11. ओजस्तेजोद्युतिधरः (वि.स.)

12. अन्तस्तद्धर्मोपदेशात् । (ब्रह्मसूत्रम्)

13. सनन्सनातनतमः कपिलः कपिरव्य(प्य)यः ॥ -विष्णुसहस्रनामसु
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ॥ -विष्णुसहस्रनामसु
सिद्धानां कपिलो मुनिः ॥ -गी (1260/)

14. घर्मा समन्तात् (ऋ. 114/1)

15. विष्वक्सेनो जनार्दनः । (वि.सि)

16. डरको (पा.) हृ.च.

17. अशोकस्तारमस्तारः शूरः शौरिर्जनेश्वरः ॥ -(वि.स)
भूर्भुवःस्वस्तरुस्तारः ।(वि.स.)

18. ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ -इति बृहद्भाष्ये ।

19. विश्वकर्मा मनुस्त्वष्टा - (वि.स.)

20. यज्ञ ईज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः -(वि.स)
यज्ञो यज्ञपतिर्यज्वा य5बुग्यज्ञसाधनः । (वि.स)
यज्ञार्थत् कर्मणोऽन्यत्र -(गी.3/9)
यज्ञो वे विष्णुः । (तैत्तिरियसंहिता)

21. रामो विरामो विरजो - (वि.स)

22. मरीचिर्दमनो हंसः - (वि.स)
हंसः शुचिषत् -कठोपनिषत् (5/2)

23. सर्वाभिधो ह्ययम् (हृ.)

24. ऋषिच्छन्दोदैवतानि ब्रूयात् तस्य क्रमात् सुधीः ।
अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात्॥ इति यतिप्रणवकल्पे ।
ऋषिर्नारायणस्तस्य देवता श्रीश एव च ।
छन्दस्तु दैवी गायत्री प्रणवी बीजमुच्यते ॥
एवमष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थसाधकः ॥
सर्वदुःखहरः श्रीमान् सर्वमन्त्रात्मकः शुभः ॥
-इति पाद्मे (उत्तरखण्डे 254,18-10)
नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी ।
तथाऽपि नरके घोरे पतन्तीत्येतदद्भुतम् ॥
-कृष्णामृतमहार्णवे
देवर्षिच्छन्दांसि सम्यगेव विचारयेत् ।
मृत्युः स्याद्देवताज्ञाने छन्दोऽज्ञाने तु निष्फलम् ॥
-स्मृतिः ॥

25. मूर्तयोऽष्टावभिध्येयाः (पा.)हृ.

26. टङ्की धन्वी च दण्डी च (पा.)हृ

27. शुक्लं तु वासुदेवाख्यमनिरुद्धं तु नीलकम् ।
सङ्कर्षणं पिङ्गलं प्रद्युम्नं हरितं स्मृतम् ।
नारायणं लोहितं स्यात्पञ्चरूपाण्यजे हरौ ।
पञ्चभेदविभिन्नो यस्त्वभिन्नोऽपि स्वरूपतः ।
-बृहदाण्यकोपनिषद्भाष्ये

28. चक्रशङ्खगदाब्जेतः (पा.प्र.); शङ्खचक्रगदापद्मधराः
-द्वादशस्तोत्रे (1/6)

29. दक्षोर्ध्वकरशङ्खिनः (प्र.)

30. अह्गान्युक्तानि योगदीपिकायाम् (66-68)
अङ्गन्योसेंऽङ्गमन्त्रेभ्यः परमाङ्गानि निर्द्दिशेत् ।
हृदयं शिरोऽपि तु शिखा कवचास्त्राणि तानि च ॥
सोद्देशानि नमः स्वाहा वौषट्हुंफट् पराणि च ।
षडङ्गानि तु नेत्राभ्यां वषडित्यस्त्रतः पुरा ॥
न्यासस्थानानि विज्ञेयान्यङ्गानि हृदयादितः । इति ।

31. प्रोच्यते (हृ.)

32. वर्णशः । (पा.)

33. तदुक्तं हयशीर्षे -मूर्धाक्षिनासामुखहृन्नाभिजानुपदेषु च ।
सृष्टिन्यासोऽयमुद्दिष्टः संहारश्चरणादिकः ॥
मुर्धान्तस्थितिरप्युक्ता शिरआदिहृदन्तका ॥ इति ।
सृष्टिन्यासे तु, शिरोक्षिनासावाक् हृत्सु नाभिजानुपदेषु च ।
अष्टाक्षरस्य वर्णानां न्यासोऽनुक्रम ईरितः । इति

34. `अभिमानिनी तु गायत्र्या मुख्या श्रीः परिकीर्तिता ।
ब्रह्माण्यमुख्यतो ज्ञेया सा तु ब्रह्माणमाश्रिता ।
ब्रह्मा तु मुख्यगायत्रीं सा परोरज आश्रयेत्' इति च ।
-ब्रृहदारण्यकोपनिषद्भाष्ये

35. ध्येयः सदा सवितृमण्डलध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥
-इति ऐतरेयभाष्योद्धृतनृसिंहपुराणवचनम् ।(62/17)

36. तदुक्तं माधवतीर्थस्मृतौ -
संध्यासु मन्त्रा इम एव जप्यास्तारो यतीनां प्रथमो हि मन्त्रः ।
सावित्र उक्तस्च तथा परेषां द्विजन्मनां शश्वदनिन्दितानाम् । इति ।(छ.टीका)
उक्तं च वासुदेवस्मृतौ-
तारोऽष्टवर्णो द्विषडक्षरोऽन्यः षडक्षरो व्यागृतयः क्रमेणः ।
पञ्चाशदर्णाः सवितुश्च पत्नीं पुंसूक्तमष्टाविति मूलमन्त्राः ।इति(छ.टीका)
नारायणाष्टाक्षरं च वैष्णवं च षडक्षरम् ।
द्वादशार्णो व्याहृतिश्च षडेने मनवोऽखिलैः।
मुमुक्षुभिः सदा जप्या यतिभिस्तत एव हि ॥
-इति विष्णुतीर्थीये

37. `हृदये सर्वशो वयापी प्रादेशः पुरुषोत्तमः ।
जीवानां स्थानमुद्दिष्टः सर्वदैव सनातनः ।
हृत्कर्णिकामूलगतः सोऽङ्गुष्ठाग्रप्रमाणकः ।
मूलेश इति नामास्मिन्सर्वे जीवाः प्रतिष्ठिताः ।
अह्गष्ठमात्रे पुरुषे कर्णिकाग्रस्तिते हरौ ।
प्रविशन्ति सुषुक्तौ तु प्रबुध्यन्ते ततस्तथा ।
सोऽयं त्रिरूपो भगवान्हृदयाख्यः प्रकीर्तितः' इति च ।
-इति बृहद्भाष्ये

38. मध्ये नारायणं देवं पूजयेद् वामतो गुरून् ।
दक्षिणे देवताः सर्वाः गुरुभ्यः पूर्वपूर्ववत् ॥
मूलगुरुं सर्वगुरुमनुज्ञाभक्तिपूर्वकम् ।
आशपेभ्योऽग्निकोणेभ्यो गरुहं काममेव च ॥
दुर्गां सरस्वतीं मध्ये परमं पुरुषं यज्ञेत् ।
आग्रेयादिषु कोणेषु दिक्षु धर्मादिकान् न्यसेत् ॥
धर्मादयः पादरूपा पीठस्य फलकाः परे ।
परं ब्रह्मैव मध्ये वै क्रमादुत्तरमुत्तरम् ॥
आधारशक्तिं कूर्मं चाप्यनन्तं पृथिवीं तथा ।
कन्दं नाळं तथा पद्मं श्रीरसागरमेव च ॥
श्वेदद्वीपो मण्डपश्च दिव्यरत्नमयं शुभम् ।
पद्मं तु मध्यतः पूज्यं सतारं मण्डलत्रयम् ॥
गुणयात्रात्मिका श्रीश्च तथाऽऽत्मादिचतुष्टयम् ।
विमलाद्या अष्टदिक्षु पुरुषश्चेति शक्तयः ।
मध्येऽनन्तं योगपीठस्वरूपं मूलमन्त्रतः ॥ इति विष्णुतीर्थीये

39. उक्तेषु वक्ष्यमाणेषु स्थानेष्वन्येषु सर्वशः ।
पूजाविधौ च देवानां पीठावरणयोर्वदेत् ॥
तत्तन्नाम चतुर्थ्यन्तं प्रणवादि नमोऽन्तकम् ॥
-इति पद्यमालायाम् ।

40. गुरुपूजनं नाम तद्ध्यानमेव । द्येयगुणा उक्ताः आगमे-
श्वेताम्बरधरा गौरा गुरवः पुस्तकान्विताः ।
व्याख्यानमुद्रया युक्ताः ध्यायन्तो वै निजं हरिम् ।
ध्यातव्याः पूजनादौ च तद्ध्यानाज्ज्ञानवान् भवेत् ॥
-इति विष्णुतीर्थीये

41. धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः ।
वायुर्देवोऽत्रासुराणामैश्वर्यं गुण एव हि ॥ -ऐतरेयोपनिषद्भाष्ये

42. देवसाधकयोरन्तः पूर्वा सा दिगिहोत्यते ।....तथा
देवस्य मुखमारभ्य दिशं प्रांचीं प्रकल्पयेत् ॥
तदादिपरिवारणामङ्गाद्यावरणस्थितिः ॥
इति नृसिंहपुराणे ।

43. बिभर्त्यण्डं हरिः कूर्म अण्डे चाप्युदकं महत् ।
उदके कूर्मरूपस्य वायुः पुच्छं समाश्रितः ॥
य एव कूर्मरूपेम वायुरण्डोदके स्थितः ।
विष्णुना कूर्मरूपेण धारितोऽनन्तधारकः ॥ (बृहद्भाष्ये)
`सप्तस्कन्धगतो लोकान्यो बिभर्ति महाबल' इति हरिवंशेषु ।
-इति च बृहदारण्यकोपनिषद्भाष्यम्

44. `त्रयः कूर्मा अत्र विवक्षिताः' इति ॥ -तत्त्वकणिकायाम्

45. मण्डपश्च(पा.)

46. आत्मान्तरात्मपरमात्म.....(हृ.)

47. पञ्चरात्रे च-आत्मनमन्तरात्मानं परमात्मानमेव च ।
ज्ञानात्मानं तथा बूज्य पद्मे पूर्वादिषु क्रमात् ॥ इति ।

48. `इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः ।
स्वरूपभूता अपि तु भेदवद्व्यावहारिकी'
-इति प्रकाससंहितावचनान्नित्यगृहीतशक्तित्वमेव ॥ -भा.ता. 2/4/12

विमलोत्कर्षणी ज्ञाना क्रिया योगा तथैव च ।
प्रह्वी सत्या तथेशाना महिष्यः। परमात्मनः ॥ (इति पाद्मे उत्तरखण्डे.)

इच्छाद्या मोचिकाद्याश्च अणिमाद्याश्च शक्तयः ।
प्रदिष्टा वासुदेवाद्या दामोदरपरास्तथा ।
अह्गानि विमलाद्यास्तु प्रह्याद्यात्मादिका मता ।
एवं षोडशभिश्चैव पश्चभिश्च हरिः स्वयम् ।
चतुर्भिश्च वृतो नित्यं तत्स्वरूपाश्च शक्तयः' इति ब्रह्मतर्के ॥
-भा.ता.3/6/2
`इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा ।
शक्तिशक्तिमतोश्चापि न भेदः कश्चनेष्यते' इति ॥ भ.ता.1/1/18

49. नारायणः परं ब्रह्म वासुदेवादिकास्तथा ।
नरसिंवराहौ च परञ्च्योतिर्हरेर्नव ।
इन्दिरा च रमा लक्ष्मीर्हिरण्या गगना तथा ।
रक्ता रक्ततरा भूतिर्विभूतिश्च विधिरेव च ।
कर्ता विरिञ्चो भूतेशः शतानन्दश्च ता नव ।
धनञ्जयमृते चैव वायोस्तु नवमूर्तयः ।
शोषोऽनन्तो नरश्चैव लक्ष्मणो बल एव च ।
सङ्कर्षणो नीलवासा जगद्रक्षो जलेशयः ।
सुपर्णो नीलवासा जगद्रक्षो जलेशयः ।
सुपर्णो गरुजश्चैव वैनतेयो महाशनः ।
नववर्णः पञ्चवर्णः पन्नगाशोऽमृताकरः ।
तथैव सर्ववेदात्मा सुपर्णो नवधा स्मृतः' इति च ॥
-भा.ता.11/16/32

50. पीठपूजां बिधायाथ तत्रावाह्येति सूत्रतः ।
हरिमावाहयेद्भक्त्या तद्विधिः प्रोच्यतेऽधुना ॥
अधोमुखं हृत्कमलं वायुबूजेन चोन्मुखम् ॥
कुर्यात् ततोऽस्य मुकुलं ज्ञानार्केण विकालयेत् ॥
तत्कर्णिकास्थितं देवं नारायणमजं विभुम् ॥
उद्यद्बास्वदिति ध्यात्वा सपुष्पतुळसीकरः ।
कृताञ्जलिपुटो भूत्वा आत्मेत्येकामृचं पठेत् ॥
मूलमन्त्रं ततो जप्त्वा यद्यात्मार्थं प्रपूजयेत् ।
एह्येहि मम हृत्पद्मस्थित श्रीपुरुषोत्तम ।
आवाहयामि पीठे त्वां प्रतिमायां रमापते ॥
द्विरुच्चार्यैवमावाह्य तमावाहनमुद्रया ॥
ततस्तु प्रार्थनामुद्रां विधाय प्रार्थयेद्धरिम् ।
यागावसानपर्यन्तमत्र स्थित्वा जनार्दन ।
भक्तस्य मम पूजां त्वं गृहीत्वा पाहि मां विभो ॥
सम्प्रार्थ्यैवं स्वबिम्बाख्यं मुद्रा आवाहनादिकाः ।
षण्मूलमन्त्रपूर्वं तु तं तमर्थमुदूरयेत् ॥
आवाहनं स्थापनं च सांनिद्ध्यं सन्निरोधनम् ।
संमुखीकरणं चैव ह्यवकुण्ठनमेव च ॥
प्रदर्श्यैताश्च षण्मुद्राः स्नानार्थं प्राक्थयेत् ततः ।
परार्थं यदि पूजा स्यात् सूर्याग्न्यन्तर्गतं हरिम् ।
आवाह्य पूर्ववत्कार्यं सर्वमावाहनादिकम् ॥
-इति पद्यमालायाम् 59-68

51. आत्मार्थे हृद्गतं विष्णुं परार्थे सूर्यगं हरिम् ।
तथा देवासये सूर्यमण्डलान्तर्गतं हरिम् ॥
सालग्रामे विशेषो।ञस्ति स्वयंव्यक्ते तथैव च ।
बिम्बिमूर्त्या सहैक्येन तत्रस्थं भावयेद्धरिम् ॥ इति ।
-तत्त्वकणिकायाम् ।

52. वासो विभूषणे (हृ.)

53. वासः वस्त्राभिमानी प्राणः । `प्राणस्य वस्त्रबुद्ध्या तु' इत्युक्तेः ।

54. न त्वविहितपत्रादि। तस्यापराधत्वोक्तेर्वाराहादौ ॥
-इति गीताभाष्ये 9/25

55. एहि श्रीभगवन् विष्णो स्नानार्थं मज्जनालयम् ।
सम्प्रार्थ्यैवमिदं विष्णुरित्यृचा पादुकार्पणम् ॥
स्नानालयं समायान्तं ध्यात्वा नारायणं प्रभुम् ।
स्थापयेत् स्नानपीठे तं भद्रं कर्णेभिरित्यृचा ॥
पुनस्तत्रापि षण्मुद्राः कुर्यादावाहनादिकाः ।
ततोऽर्घ्यं मूलमन्त्रेण पाद्यमाचमनीयकम् ॥
मधुपर्कं ततो दद्यात् पुनराचमनं ततः ।
आप्यायस्व दधिक्राoणो घृतं मिमिक्ष इत्यृचः ॥
मधुवाता तथा स्वदुरिति मन्त्रान् समूलकान् ।
क्रमेणैतान् पठन् पञ्चामृतेन स्रापयेद्धरिम् ॥
पयो दधि घृतं क्षौद्रं शर्करा पञ्चमामृतम् ।
ततः शुद्धोदकस्नानं कारयेत्परमात्मनः ॥
पौरुषं वैष्णवं घार्मं पवस्वेति त्रिवर्गकम् ।
य इन्दोरेकवर्गश्च समपद्रादूर्मिरेव च ॥
जितन्ते इति च स्तोत्रं पठन् संस्नापयेद् हरिम् ।
ततोऽङ्गमार्जनं वस्त्रं पीतं च परिधानकम् ॥
ततः सकर्णभूषाश्च नूपराद्याः किरीटकम् ।
ध्यात्वैव भूषणं किञ्चिन्नवमप्यर्पयेत् सुधीः ॥
यज्ञोपवीतं दत्वा तमासने चोपवशयेत् ।
अभिषेकात् पुरा वाऽपि पश्चाद् वा परमात्मनि ।
तत्त्वन्यासादि ध्यानान्तं पूजां कृत्वा समारभेत् ॥
आसनस्थं हरिं स्पृष्ट्वा मूलद्वादशकं जपेत् ।
अर्पयेद्गन्धपुष्पाणि मूलेन तुलसीं तथा ॥
-इति पद्यमालयाम् 69-80

56. आवरणपूजायाऋ प्राक् आयुधपूजा आभरणपूजा च कार्येत्युक्तं पद्यमालायाम् । (81-83)
ततश्चक्रायुधादीनि पूजयेत् क्रमशो दश। दुर्गा चक्राधिदेवी स्यात् श्रीश्च शङ्खाधिदेवता ॥ वायुर्गदाधिदेवः स्याद् भूमिः पद्माभिमानिनी । दुर्गैव खढ्गदेवी स्याच्छार्ङ्गं चैव सरस्वती ॥ पञ्च प्राणाः बाणा विरिञ्चः कौस्तुभात्मकः। श्रीरेव वनमालायां लक्ष्मीः श्रीवत्ससंस्थिता ॥
-इति पद्यमालायाम् 81-83

57. श्रियं वामे भुवं दक्षे तन्मुखन्यस्तलोचने ।
हृदयादीन् तथेन्द्रादीन् दिक्ष्वस्त्रं कोणकेषु च॥
आत्मादीन् वासुदेवादीन् दिक्षप केशवपूर्वकान् ।
यथायेग्यं स्थितान् दिक्षु मत्स्यादीश्च तथैव हि ॥
सानन्तं विश्वरूपं स्यात् शङ्खपद्मनिधीन् यजेत् ।
दक्षे वामे पृष्ठे पुरतो हरुडं हरेः ॥
शङ्खचक्रगदाब्जानि यजेज्जिक्ष्वायुधझानि च ॥
वारुणीं चैव गायत्रीं भारतीं गिरिजामपि ।
कोणेषु विन्द्रवामे च सौपर्णी पूजयेदपि ॥
इन्द्रादीन् शेषविध्यन्तान् सभार्यान् सपरिग्रहान् ।
अनन्तं वरुणस्यापि निर्ऋतेर्मध्यतो यजेत् ॥
इन्देशानयोर्मध्ये ब्रह्माणं वै प्रपूजयेत् ।
सर्वानाभिमुखान् विष्णोः कृताञ्जलिपुटान् यजेत् ॥
पाद्यादिकं त्रयं दत्वा धूपदीपं च दापयेत् ॥ -इति विष्णुतीर्थीये ।
अथावरणपूजायां लक्ष्मीं वामे हरेर्यजेत् ॥
धरां तु पश्चिमे पार्श्वे ततः पूर्वादिदिक्षु च ॥
कृद्धोल्काय वीरोल्काय महोल्काय नमस्ततः ।
द्यूल्काय च नमस्कुर्यादुदीच्यां दिशि च क्रमात् ॥
सहस्रोल्कायेति चतुर्नम अग्न्यादिकोणतः ।
पुनः पूर्वदिगष्टासु वासुदेवादिकान् यजेत् ॥
मायां जयां कृतिं शान्तिं यजेत् कोणेषु च क्रमात् ।
केशवाद्यास्ततो मूर्तीर्द्वादश क्रमशो यजेत् ॥
दिशि द्वे द्वे कोण एक ईशे दामोदरो भवेत् ।
सङ्कर्षणादि कृष्णान्ता मूर्तयो द्वादश क्रमात् ॥ -पद्यमालायाम् (84-88)
वामाङ्कसंस्थिता देवी महालक्ष्मीर्महेश्वरी ।
-इति पाद्मे। उत्तरखण्डे 255/391

58. केशवादींश्च राशिषु - क्वचित् (पा.)
केशवादींश्च राशिषु - इति योगदीपिकायाम् (3/28)

59. मत्स्यकूर्मवराहांश्च । (हृ.)

60. मत्स्यादिमूर्तयोऽपयेवं द्वादशान्तं क्रमात् यजेत् ।
ऐशान्यां विश्वरूपः स्यात्क्रमेणानेन पूजयेत् ।
-इति पद्यमालायाम् 89

61. अनन्तस्तत्र तूपात्यो विश्वरूपोऽन्त्य उच्यते॥
-इति योगदीपिकायाम् । 3/29

62. तद्वहिः पृष्ठतोऽनन्तं ब्रह्मामं सव्यतो यजेत् ।
पुरो वायुं च गरुडं रुद्रं दक्षिणतो यजेत् ॥
तद्वामतो वारुणीं च गायत्रीं भारतीं तथा ॥
सुपर्णीमप्युमामञ्चेत् ततस्तत्र हरिं स्मरेत् ॥
-योगदीपिकायाम् ।(30,31)

63. सुपर्णीं प्रयजेदपि ॥ (पा.)

64. उक्तं च योगदीपिकायाम् - "अध ऊर्ध्वमहिर्विधिरिति" (3/34)।
यद्वा इन्द्रेशानयोर्मध्ये चतुर्मुखं वरुणनिर्ऋत्योर्मध्ये शेषम् । उक्तं च विष्णुतीर्थीये
अनन्तं वरुणस्यापि निर्ऋतेर्मध्यतो यजेत् ।
देवेन्द्रेशानयोर्मध्ये ब्रह्माणं च प्रपूजयेत् ॥
सर्वानभिमुखान्विष्णोः कृताञ्जलिपृटान्यजेत् ॥ इति ।
अत्र लोकपालमन्त्रोद्धारप्रकार उक्तो योगदीपिकायाम् (3/31-34)
तद्बहिर्दशदिक्ष्वर्च्याः इन्द्राग्नी यमनैर्ऋती ।
वरुणो वायुसोमेशा अनन्तब्रह्मनामकाः ॥
ताराद्यः स्वयमुद्देश्याः मन्त्रांस्तांस्तानुदीरयेत् ।
सुरतेजःप्रेतरक्षोजलप्राणपदानि तु ॥
नक्षत्रविद्या नागाक्या लोकेत्येकैमेव तु ।
उक्त्वाऽधिपतिमुद्दिश्य तथोक्त्वा विष्णुपार्षदम् ॥
इन्द्रेशानयोर्मध्ये ऊर्ध्वदिशि, चतुर्मुखम्, वरुणनिर्ऋत्योर्मध्ये अधोदिशि शेषं पूजयेदिति उभयोः पक्षयोरविरोध इति ज्ञेयम् ।

65. सर्वानभिमुखान् विश्णोः कृताञ्जलिपृटान् यजेत् ।
पाद्यादिकत्रयं दत्वा धूपदीपं च दापयेत् ॥ इति विष्णुतीर्थीये (3/100)
पूजयित्वा ततः पूज्या द्वादश द्वारपालकाः ।
प्रतमो वज्रनाभश्च हरीशश्च ततः परम् ॥
तृतीयो गाङ्गतनयस्ततः शङ्खनिधीश्वरः ॥
विरूपाक्षोऽन्तिमश्चैव नमःशब्देन पूजयेत् ॥
-इति आवरणपूजानन्तरं द्वारपालपूजा चोक्ता पद्यमालायाम् 92-94

66. वनस्पत्युद्भवेत्यादिमन्त्रैर्मूलपुरः सरैः ।
धूपं दत्वा ततो दीपं दद्यान्मूलमुदीरयेत् ॥
साज्यं त्रिविर्तिमन्त्रेण ततो नैवेद्यमर्पयेत् ।
-इति पद्मालायाम् 95,96

67. देवस्याग्रे भुवं शोध्य श्रीबूजं तत्र संलिखेत् ।
नैवेद्यमुपरि स्थाप्य शुद्धतोयेन प्रोक्षयेत् ।
सौवर्णैरिति मन्त्रेण मूलमन्त्रेम मन्त्रयेत् ॥
अमृतस्राविणीं धेनुं नैवेद्योपरि चिन्तयेत् ।
धेनुमुद्रां प्रदर्श्योच्चां सुरभ्यै नम इत्यपि ॥
हुंफडन्तं सह स्वाहेत्युक्त्वा मुद्रां सुदर्शनीम् ।
गारुडीं चाथ सन्दर्श्य गृहीत्वाऽथ(तु) करे जलम् ॥
परिषिञ्चामि सत्यं त्वर्तेनेति च क्रमाद्वदेत् ।
परितः सिञ्चयेत्तोयं तत आपोशनं क्षिपेत् ॥
सुधारसं सुविपुलमापोशनमिदं तव ।
गृहाण कलशानीतं यथेष्टमुपभुज्यताम् ॥
इति मन्त्रमुदीर्याथ देवदक्षिणहस्तके ।
लक्ष्म्या प्रदीयमानं च सुधारसमयं शुभम् ॥
आपोशनमिदं ध्यात्वाऽमृतोपस्तरणमसि ।
इत्युक्त्वाऽऽपोशनोच्छिष्टं जलं प्रात्रान्तरे क्षिपेत् ॥
ततः प्राणात्मने पूर्वमुक्त्वा नारायणाय च ।
स्वाहान्तमति पञ्चैता आहुतीः क्रमशो वदन् ॥
शङ्खतोयं क्षिपेत् पात्रे प्रत्याहुत्यैकपात्रकम् ।
मधुवाता तथा स्वादु भोजं त्वेति पठेदृचः ॥
पानीयमर्पयेत् पश्चात् ततो जवनिकां क्षिपेत् ।
भुञ्जानं चिन्तयन्मूलं जपेदष्टोत्तरं शतम् ।
उतरापोशनं पश्चादमृतापिधानमसि ॥
इत्युक्त्वाऽपोशनोच्छिष्टं जलं पात्रान्तरे क्षिपेत् ।
वामे गाण्डूषपात्रं स्यात् तत्र गण्डूषमर्पयेत् ॥
हस्तप्रक्षालनं दत्वा पश्चादाचमनं क्षिपेत् ।
मूलेन पुष्पत्रितयमर्पयित्वा ततो वदेत् ।
पूगीफलं सखदिरचूर्णकर्पूरसंयुतम् ॥
नागवल्लीदलैर्युक्तं ताम्बूलं गृह्यतां विभो ।
इति ताम्बूलकं दद्यान्नाकस्येति च दक्षिणाम् ॥
-इति पद्यमालायाम् नैवेद्यप्रकारः । 96-110 ।
नैवेद्यं नास्ति चेद् धूपदीपौ नैव प्रदीयताम् ॥ -इति विष्णुतीर्थीये ।
पूजाकाले तु नैवेद्यं नो चेति पुष्पादिनैव तु ।
कल्पनीयं तथा चोक्तं हरिणैवार्जुनाय वै ॥ इति च विष्णुतीर्थीये (3/128)
नैवेद्यविषये विशेष उक्तः श्रीमदाचार्यैः--
सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वातन्त्र्यतः सदा ।
स्वार्थं समर्पयेद्विष्णौ यथा प्राणे सुराः पुराः ॥
-इति छान्दोग्यभाष्ये (5/9)

68. सानुयागा तद्रहिता द्विविधाऽर्चा प्रकीर्तिता ।
तत्राद्याऽत्यन्तफलदा द्वितीया सफला मता ॥
-इति नारदीये (छ.)

69. तच्चोक्तं विष्णुतीर्थीये -
अथाद्नौ जुहुयाद्विद्वान् वायव्येनाग्निकोणके ।
उपलिप्य शिचौ देशे कुण्डे वा स्थण्डिलेऽपि वा ॥
संस्कृत्य विधिवद्भूमौ समादध्याद्धुताशनम् । (3/111)
गर्भाधानादि संस्कारानग्नेः कुर्यात्पृथक् पृथक् ॥
व्याहृतीभिस्तथाऽऽज्येन कुर्यात्पूर्णाहुतीः सुधीः (3/113)॥ इति ।

70. तदुक्तम् योगदीपिकायाम्-
विशेषमनत्रानादेशे मूलमन्त्रः प्रशस्यते । (2/81)
ॐ नमोनारायणायेति मूलमन्त्र उदाहृतः ॥ इति ॥

71. ताम्बूलं च सकर्पूरं धूपदीपौ च पूर्ववत् ।
नीराजनमथो दत्वा पुनः पूर्ववदर्चयेत् ॥ -इति विष्णुतीर्थीये (3/120)
जयत्यादि पठन्मन्त्रान पुनर्धूपं समर्पयेत् ।
अर्चतेत्यादिकान् मन्त्रान् पठन्नीराजयेद्धरिम् ॥ -इति पद्यमालायाम् 111

72. पुष्पाण्यष्टौ समर्प्याथ मूलमन्त्रेण वैष्णवः ।
वेदमन्त्रैश्च पौराणैरर्पयेत् कुसुमाञ्जलिम् ।
चामरं दर्पणं छत्रं वाहनादि निवेदयेत् ।
महाराजोपचारांश्च गीतवादित्रनृत्यकान् ॥ -पद्यमालायाम्-112,113
अहिंसा सत्यमस्तेयं ब्रह्मचयापरिग्रहौ शौचं तुष्टिः सर्वममर्पणमित्यष्टभावपुष्पाणि । -सुमध्वविजयभावपर्रकाशिकायाम्
(1.अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते (ततः परम्) ॥
ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं च सप्तमम् ।
सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः ॥ -इति योगदीपिका3/73,74)अहिंसा प्रथमं पुष्पं पुष्पमुन्द्रियनिग्रहः ।
सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते ।
ज्ञानपुष्पं तपः पुष्पं ध्यानपुष्पन्तु सप्तमम् ।
सत्यञ्चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः ॥ -इति सु.म.भा.प्र.(14/37)
आराधयामि मणिसन्निभमात्मबिम्बे मायापुरे हृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकं भावाष्टपुष्पपविधिना हरिमर्चयामि ॥
-इति भीमवचनत्वेन सुमध्वविजयभावप्रकाशिकायामुद्धृतभावपुष्पसमर्पणमन्त्रः ।

73. जितमित्यादिमन्त्रेम प्रदक्षिणनुतिस्तुतीः ।
कृत्वा तु चतुरावृत्त्या ततो देवं क्षमापयेत् ॥ (3/121)

74. आरुह्य वेदिकां पश्चात् पूजासाद्गुण्यकारकम् ।
मूलमन्त्रं हरिं देवमात्मा देवेत्यृचं पठेत् ।
तत आवाहनीं मुद्रां व्युत्क्रमेण विधाय च ।
एह्येहीति पुनः प्रोच्य पिनरावाहयेद् हृदि ॥
तथैव परपूजायां ख्यादौ तं निधापयेत् ॥ इति पद्ममालायाम् । 119,120

75. नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् ।
तथाऽपि मत्कृता पूजा तत्प्रसादेन नान्यथा ॥
तद्बक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः ॥
कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा ॥ ब्रह्मतर्के । -गी.ता.(3/27)

76. नित्यातिदुःखमनिवृत्ति सुखव्यपेतमन्धन्तमो नियतमेति हरावभक्तः ।
भक्तोऽपि कञ्जजगीरीशमुखेषु सर्वधर्मार्णवोऽपि निखिलागमनिर्णयेन ॥
(म.भा.ता.नि.13-133)



द्वितीयोऽध्यायः

यस्य कस्यापि मन्त्रस्य (1)न्यासः पञ्चशदक्षरैः ।
वीर्यदः केऽभितो वक्त्रमक्षिकर्णेषु नासयोः ॥ 1 ॥

गण्डयोरोष्ठयोर्दन्तपङ्क्त्योर्मूर्धनि वाचि च ।
दोःपत्सन्धिषु साग्रेषु पार्श्वयोः पृष्ठगुह्ययोः ॥ 2 ॥

तुन्दे च हृदि धातूनां सप्तके प्राणजीवयोः ।
सक्षकारान् न्यसेद्वर्णन् नृसिंहः (2)क्षरसस्य देवता ॥ 3 ॥

जपे न्यासे च विहितः क्षोऽक्षराणां सदाऽन्ततः ।
प्राणायामो रेचयित्वा पूरयित्वा च कुम्भके ॥ 4 ॥

(3)तारैस्त्रिद्वादशावृत्तैर्द्वयेकद्वादशकेन वा ।
तत्तन्मन्त्रेण वा कार्यो गायत्र्या दशतारकैः ॥ 5 ॥

(4)आदावेव जपे कुर्याच्छोषणं दहनं प्लपतिम् ।
वाय्वग्निवारुणैर्बीजैर्ध्यात्वा तन्मण्डले हरिम् ॥ 6 ॥

एकपञ्चाशद्वार्णानां चतुर्विंशतिमूर्तयः ।
आत्माद्या वासुदेवाद्या विश्वाद्या मस्त्यकच्छपौ ॥ 7 ॥

कोलो नृसिंहः सवटिर्जामदग्न्यरघीद्वहौ ।
वासिष्ठयादवौ कृष्णावात्रेयो बुद्धकल्किनौ ॥ 8 ॥

(5)शिंशुमारश्चेति शतं कलाः (6)कलशनामकाः ।
एताभिः सहिता मूलमूर्तिं कुम्भोदके सुधीः ॥ 9 ॥

(7)पूर्वोक्तविधिनाऽभ्यर्च्य(8) प्रतिमां शिष्यमेव (9)च ।
(10)स्नापयेत्पूर्वमर्चायां जपोऽनूनः सहस्रतः ॥ 10 ॥


मूलमन्त्रस्य चाङ्गानां न्यासः स्नानादनन्तरम् ।
प्रतिमायां सन्निधिकृच्छिष्ये माहात्म्यकृद्भवेत् ॥ 11 ॥

कलशः(11) कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं (12)बलम् ।
योग्यतां पापहानिं च पुण्यवृद्धिं च (13)साधयेत् ॥ 12 ॥

(14)उपसर्गेषु जातेषु (15)दैवभूतात्महेतुषु ।
आयुषे वाऽथ शान्त्यै वा श्रिये वा पुण्यवृद्धये ॥ 13 ॥

योग्यतायै मनत्रसिद्धयै विष्णोः प्रीत्यर्थमेव वा ।

जुहुयात्सहस्रमयुतं लक्षं कोटिमथापि वा ॥ 14 ॥

पूर्ववत्संस्कृते वह्नौ ध्यात्वा देवं जनार्दनम् ।
कृत्वा त्रिमेखलं कुण्डं चतुर्विंशाङ्गुलोच्छ्रितम् ॥ 15 ॥

तावत्स्वातं चतुष्कोणमुच्छ्रितं द्वादशैव वा ।
द्व्यङ्गुलं त्र्यङ्गुलं वाऽपि चतुरङ्गुलमेव वा ॥ 16 ॥

विस्तारो मेखलानां स्यादन्त्या वा चतुरङ्गुला ।
(16)चतुर्विशाङ्गुलं वा तद्विस्तारो द्वादशैव वा ॥ 17 ॥

अश्वत्थपत्राकृतिः स्यान्मूलतो द्वादसाङ्गुला ।
योनिः खाते च विनता प्रविष्टा द्व्यङ्गुलं तथा ॥ 18 ॥

तदात्मनि हरिं(17) ध्यात्वा कुण्डे देवीं श्रियं तथा ।
विष्णुवीर्यात्मकं बह्निं निक्षिपेत्प्रणवेन (18)हि(19) ॥ 19 ॥

(20)कुर्यात्क्रियाः षोडश च व्याहृतीभिः पृथक् पृथक् ।
बह्नेस्तद्गहरेः प्रीतिं कुर्वन् द्वव्यैर्यजेत्ततः ॥ 20 ॥

आज्येन वा पायसेन समिद्भिः क्षीरिणामथ ।
(21)किलैर्वाऽथ तण्डुलैर्वाऽपि मधुरैस्त्रिभिरेव वा ॥ 22 ॥

(22)ब्रह्मवृक्षसमिद्भिर्वा समिद्भिर्वाऽम़तोद्भवैः ।
अमृताः समिधो ज्ञेयाः सर्वत्र चतुरङ्गलाः ॥ 23 ॥

एवमेव तु (23)दीक्षायामाज्येनैवाहुतिक्रिया ।
पूजा च कार्या विधिवत्पूर्वं सर्वहुतेष्वपि(24) ॥ 24 ॥

(25)गुरवे दक्षिणां दद्याल्लक्षे लक्षे शतं सुधीः ।
आत्मनैव कृते होमे शक्तितो (26)गुरुदक्षिणाम्(27) ॥ 25 ॥

॥ इति श्रीमदानन्दतीरथबगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे द्वितीयोऽध्यायः ॥ 2 ॥


F.N.

1. इदं ज्ञानं हरेः पूजा हरेरेवोदितं सदा ।
हर्यधीनं च सर्वत्र त्वेवं न्यासो हरौ स्मृतः ॥
-इति भागवततत्पर्योद्धृतप्रमामवचनम् ॥ 11/19/1

2. क्षकाररूपैकाक्षरवृसिंहमन्त्रराजप्रतिपाद्यनुसिंहदेवताध्यानं तु-
हृग्याकाशेऽष्टपत्रे सरसिभुवि गुहायां सदा कर्णिकायां
दीप्यन्तं सूर्यकोटिप्रबमजरमजं नित्यमानन्दमूर्तिम् ।
इन्दूनां कोटिभासा परिगतमथ पज्जानुसंसक्तबाहु-
द्वन्द्वं शङ्खारिबाहुं सुविवृतवदनं नारसिंहं नतोऽस्मि ॥ (छ.टीका)

3. तारत्रिद्वादशावृत्तै...(हृ.); तारैस्त्रिर्द्वादशावृत्तै....(पा.)

4. अभिवन्द्य हरिं चैव गुरुं चापि यथाक्रमम् ।
अथात्मशुद्धये कुर्याच्छाषणं दहनं प्लुतिम् ॥ -इति विष्णुतीर्थीये 3/70

वाय्वग्निवरुणानां च बीजानि यरवाः क्रमात् ।
प्रत्येकं सम्पुटीकृत्य प्रणवेन च विन्दुना ॥ -इति पद्यमालायाम् 31

ततश्च ब्रह्महत्येति ध्यायेत्स्वं पापपूरुषम् ।
आनीय नाभिदेशं तं वायुबीजेन शोषयेत् ॥
हृद्यग्निबीजतो दग्ध्वा भस्म वामनसा त्यजेत् ।
वारुणेनाथ बीजेन शिरःस्थामृतधारया ॥
प्लावयेत्सर्वगात्राणि कृत्वाऽऽत्मानं ततो हृदी ॥ -इति च पद्यमालायाम् ।

5. दोषस्य शर्वरीपुत्रः सिंशुमारो हरेः कला । -इति भागवते -6/6/16

6. नैनेद्यप्रोक्षणार्थं च पञ्चरात्रप्रपूरणे ॥
पानाद्यर्थं पृथक् चैकं कलशत्रितयं भवेत् ॥
पाणिप्रक्षालनार्थं तु गन्धाद्यर्थमिति द्वयम् ।
पञ्चैते कलशाः प्रोक्ता गन्धार्थं द्वौ पुनः पृथक् ।
सम्भवे सप्त कलशाः पञ्च वाऽथ त्रयो द्वयम् ।
असम्भवे च सर्वेषां भिन्नपात्राणि कारयेत् ।
एकस्माद्वाऽपि पञ्चात्तं कलशं पूजयेद् बुधः ॥
-इति कलशासङ्ख्या उक्ता पूजाविषये पद्यमालायाम् 47-49
कलशदेवता इति सामान्योक्तेः "आहूय पूजयेदेताः स्नानीयकलशे बुधः" इति पञ्चरात्रोक्तेश्च। पूर्णकलशे तु एकोत्तरशतमूर्तिनामानाहनम् । "एताभिः सहितां मूलमूर्ति कुम्भोदके सुधीः" इति कुम्भोदके विशेषोक्तेः। कुम्भोदके आवाहनं तु शिंशुमारमारभ्याजादिपर्यन्तम् । पूर्वोक्तक्रमवैपरीत्येन "सतारं शिंशुमाराद्यं प्रतिलोमं कलाशतम्" इति योगदीपिकोक्तेः ।
-इति तन्त्रसार(छ.)टीकायाम्
शिंशुमारादिभिः पूर्ण आवहेत्कलशे सुधीः ।
अजादिमूर्तिभिः प्राज्ञः अभिषेकं समाचरेत् ॥ -पञ्चरात्रे(छ.)

7. इमं मे चाथ गङ्गे चेत्यादि मन्त्रानिदीरयेत् ।
सर्वक्षेत्रेति मन्त्रेण कलशं प्रार्थयेत्ततः ॥
शङ्खचक्रगदापद्मधेनुतार्क्ष्यादिमुद्रिकाः ॥
प्रदर्श्य मूलमन्त्रं च द्विषड्वारं जपेत्ततः ॥
-इति पद्यमालायाम् कलशपूजाविधिः 50-95

8. तदनन्तरं शङ्खपूजा - पूजावसरे -
कलशोदकपूर्णं तु ततः शङ्खं प्रपूजयेत् ।
त्वं पुरेत्यादिकान् मन्त्रान् पठित्वा प्रार्थयेत्ततः ॥
जपेत् त्रिः शङ्खगायत्रीं पुनः शङ्खादिमुद्रिकाः ।
दर्शयित्वाऽष्टबारं च मूलमन्त्रं जपेत्ततः ॥
-इति पद्यमालायाम् 52,53

9. वा (पा.)

10. शिष्यदीक्षाविधिः योगदीपिकायामुक्तः (1/13-73)
ईदृशः पुरुषो योगमर्हत्येव विशेषतः ॥ -इति योगदीपिकायाम्(1/72)
अभिषेकात्पुरा वाऽपि पश्चाद्वा परमात्मनि ।
तत्त्वन्यासादिध्यानान्तं कृत्वा पूजां समारभेत् ॥

11. कीर्तिमायुश्च (पा.) हृ.

12. भगम् (पा.)

13. कारयेत् (पा.)

14. .................दुःस्वप्नाश्चाशोभनाः ।
कथ्यन्ते मुण्डितैः सार्धं सम्भाषा सह वर्तनम् ॥
स्वयं मुण्डश्च बिभ्राणो जीर्णं नीलं तथाऽम्बरम् ।
कन्थां रक्तां तथा नीलां पुष्पमालां च मूर्धनि ॥
गर्दभारोहणं भग्नयानाधिष्ठानमब्जज ।
छिन्नछत्रधरो वाऽपि महिषारोहणं तथा ॥
दक्षिणाभिमुखो गच्छन् उष्ट्रवाहादिरोहणम् ।
दष्टश्च कपिभिर्देहे सृगालैर्वा वृकैस्तथा ॥
कर्णपादशिरश्छैदो दन्तानां पातनं तथा ।
नववस्त्रधरः पीडा भटैः पाशेन बन्धनम् ॥
विधवालिङ्गनं नीचैः पाषण्डैः प्रतिलोमजैः ।
वर्तनं गोपुरादीनां पतनं शाखिनामपि ॥
तिरगारोहणं भुक्तिः बौद्धाद्यालयसेवनम् ।
महिरापायिभिः पापरोगिभिः कितवैः सह ॥
वर्तनं दीपनिर्वापं देवानामुत्सवं तथा ।
ग्रामादिदाहो भक्ष्याणां पलादीनां च भक्षणम् ॥
मधूच्छिष्टं प्रतिच्छाया यात्रा युद्धोद्यमं भटैः ।
अभ्यङ्गं तैललाभं च मरीचं वलणं तथा ॥
लोकयन् एवमादीनि स्वप्नं शान्तिं समाचरेत् ।
जपहोमादिभिर्विद्वान्...........॥ इति पञ्चरात्रे ॥ -(तत्त्वकणिका ।)

स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदित्यवोचाम तौ यत्र विहीयेति चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जीष्टाः व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति सम्परेतोऽस्यात्मा न चिरमिव जीविष्यतीति विद्यात्स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यच्च दूरक इति सप्त जपेदादित्प्रत्नस्य रेतस इत्येका यत्र ब्रह्मा पवमानेति षळुद्वयं तमसस्परीत्येकाऽथापि तत्र च्छिद्र इवादित्यो दृश्यते रथनाभिरिवाभिख्यायेत च्छिनद्रां वा च्छायां पश्येत्तदप्येवमेव विद्यादथाप्यादर्शे बोधके वा जिह्यशिरसं वाऽशिरसं वाऽऽत्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्वेन वा दृश्येयातां तदप्येवमेव विद्यादथाप्यपिधायाक्षिणी उपेक्षेत तद्यथा वटकताणि सम्पतन्तीव दृश्यन्ते तदप्येवमेव विद्यादथाप्यपिधायाक्षिणी उपेक्षेत तद्यथा वटरकाणि सम्पतन्तीव दृष्यन्ते तानि यदा न पश्येत्तदपेयेवमेव विद्यादथाप्यपिधाय कर्णा उपशृणुयात्य एषोऽग्नेरिव प्रज्वलतो रश्स्येवोपब्दिस्तं यदा न शृणुयात्तदप्येवमेव विद्यादथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्महामेधे वा मरीचीरिव पश्येत तदप्येवमेव विद्यादधापि यत्र भूमिं ज्वन्तीमिव पश्येत तदप्येवमेव विद्यादिति प्रत्यक्षदर्शनान्यथ स्वाप्नाः पुरुषं कृष्णं कृष्मदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दयत्यशु वायुरेनं प्रवहति सुवर्णं खादित्यवाऽपगिरति मध्वश्नाति विसानि भक्षयत्येकपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्मं धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो ब्राजयति स यद्येतेषां किञ्चित्पश्येदुपोष्य पायसं स्थलीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्युचं हुत्वाऽन्येनान्नेन ब्राह्मणान् भोजयित्वा चरुं स्वयं प्राश्नीयात्स योऽतोऽश्रुतोऽगतोऽगतोऽमतोऽनतोऽटृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरषः स म आत्मेति विद्यात् ॥
-इति एतरेयोपनिषत्।(3/2/4)
सूर्यमण्डलगो विष्णुर्देहे चक्षुषि संस्थितः ।
अनिरुद्धश्च हृदये न च भेदोऽनयोः क्वचित् ॥
अन्येषामपि रूपाणामिति विद्याद्विचक्षणः ।
द्विरूपः स यदा विष्णुरपगच्छति देहतः ॥
तदैव दुर्निमित्तानि जायन्ते नान्यदा क्वचित् ।
तस्मात्तेषां दर्शने तु कर्तव्यं पारलौकिकम् ॥
सर्वमेव जपेच्चैव यदन्तीत्यादिका ऋचः ।
ऋग्भिः षड्भिर्वायुरेव पवमानादिना मतः ॥...........
उद्वयं त्वितिमन्त्रेण स्तुत्यो वायोपरीश्वरः ।
अपमृत्युभयं तस्य यदन्तीत्यृग्जपाद्व्रजजेत् ॥
कालमृत्युक्यदि भवेत्तथा जन्मादिकं भयम् ।
अनयाभिः कर्मतः पूतो यत्र ब्रह्मेति वैष्णवम् ॥
लोकं व्रजेत्तताऽन्याभ्यां विष्णुर्मोक्षसुखप्रदः ।.......
तौ यदाऽस्माच्छरिराद्विहीयेते तदैवैतानि निमित्तानि पश्यतीति नियमः ।
न तु तदा पश्यत्येवेति...............
अर्चिषोंऽशा मधु वर्तुलास्तु नाम्ना वटरकाः स्मृताः । -इति शब्दनिर्णये
`बृहत्तमं मधु यदि सहापूपं प्रभक्षयेत् ।
स्वप्ने तस्याचिरान्मृत्यू रक्तब्जे वा शिरोधृते' -इति ब्रह्माण्डे
रात्र्यास्तु देवता दुर्गा दुःस्वप्ने सा प्रपूजिता ।
पायसेन हरेन्मृत्युं रात्रिसूक्तादकालिकम् ॥
यदि कालिकमृत्युः स्यात्पदं सा परमं नयेत् ।
सहैव विष्णुना भक्तं विष्णोस्तद्वेदिनं तथा ॥
रतिदत्वात्परो विष्णुर्मुख्यतो रात्रिरुच्यते ।
तदाश्रयत्वाद्दुर्गाऽपि रात्रिरित्याभिधीयते ॥
तस्मादुभौ सहैवेज्यौ भक्त्या दुःस्पप्नदर्शने ॥...........
यदन्तीत्याद्यृचः सर्वा अपि दुःस्पप्नदर्शने ॥
जप्या एव विशेषोऽयं होमो दुःस्वप्नदर्शने ।
परोक्षज्ञानिनो विष्णुरापरोक्ष्यं व्रजेत्त्वरन् ॥
अपरोक्षदृशः प्रीतः सुखाधिक्यं करोत्यजः ।
मुक्तस्य द्विविधैस्तस्माज्जपो योगस्च सर्वथा ॥
कर्तव्यो न्यासिभी रात्रीसूर्तं जप्यं त्रिशोऽञ्जसा।
इत्यैतरेयसंहितायाम् ॥ 4 -इति ऐतरेयभाष्ये (3/2/4)
तद् यत्तत् सत्यमसौ स अदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योन्यस्मिन् प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन प्रतिष्ठितः प्राणैरयममुष्मिन स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति नैवमेते रश्मयः प्रत्यायन्ति ॥ -इति बृहदारण्यकोपनिषत् 7/3/7

दक्षिणाक्षिस्थितो विष्मुर्यदाऽस्मादुत्क्रमिष्यति ।
तदैव म्नियमाणस्तु जीवः पश्येद्विरश्मिकम् ।
सूर्यस्य मण्डलं नास्य प्रतीयन्ते हि रश्मयः ।
तत्क्षणे नियमेनैव केषाञ्चिप्तभिर्दिनैः ।
-इति बृहद्भाष्ये (7/3/7)
(उसर्गविषये विशेष उक्तः श्लो. 2/13)

15. दिव्यन्तरिक्षभौमास्तु बार्हस्पत्ये उक्ताः-
स्वर्भानुकेतुनक्षत्रग्रहतारार्कचन्द्रजम् ।
दिवि चोत्पद्यते यस्मात्तदिव्यमिह भाषितम् ॥
यदभ्रसन्ध्यादिग्दाहपरिवेषादयस्तथा ।
यदन्तिरिक्षसञ्जातं नाभसं तत्प्रचक्षते ॥
भूमावुत्पद्यते यत्तु तद्भौमं परिकीर्तितम् । इति। (छ.)

16. चतुर्विशाङ्गुला वा (पा.)

17. ध्यायेत् इति क्वचित् ।

18. ह (पा); ति इति क्वचित् ।

19. गर्बाधानं कृकं स्वामिन्निति बद्धाञ्जलिः स्मरेत् ।
एवं पुंसवनं कार्यं सीमन्तोन्नयनं तथा ॥
अथ विष्णुबलिं चैव जातकर्म ततः परम् ।
उपनिष्क्रामणं नामकरणं च ततः परम् ॥
अन्नप्राशनचौले च तथोपनयनं महत् ।
महाव्रतानि चत्वारि विवाहो विहृतिर्वसोः ॥
षोजशैताः क्रिया कार्याः......॥ -इति योगदीपिकायाम् (7/56-58)

20. गर्बाधानं पुंसवनं सीमन्तो वैष्णवो बलिः ।
जातकं नाम निष्कामोऽन्नाषनं चौलकर्म च ॥
उपनीतिर्महानाम्नी महान्रतमतः परम् ।
उपनिषच्च गोदानं समावर्तनमेव च ॥
विवाहश्चैवमित्येताः कुर्यात्तु षोडशक्रियाः । इति । -विष्णुतीर्थीये

21. तिलैर्वाऽपि (पा.)

22. ब्रह्मपत्र...(पा.)

23. दीक्षायामाज्येनैव हुतिक्रिया (पा.)

24. विष्णुदीक्षाविधिश्च संक्षेपत उक्तः तत्त्वसारे-
दीक्षां वक्ष्ये प्रसंक्षिप्तामशक्तावार्यसंमताम् ।
मुहूर्त्ते सर्वतोभद्रं नवकुम्भं निधाय च ॥
सोदकं गन्धपुष्पादिनाऽकर्चितं वस्त्रसंयुतम् ।
ततः कलावाहनादिपूजां तत्र विधाय च ॥
ततो देवार्यनं कृत्वा हुवेदष्टोत्तरं शतम् ।
शिष्यं स्वलङ्कृतं वेद्यामुपाग्निपवेशयेत् ॥
मन्त्रितं पोक्षिणीतोयैरथ कुम्भोदकेन च ।
मूलमन्त्रैः कलामन्त्रैरभिषिच्य न्यसेन्मनुम् ॥
तत्त्वादीन्यस्य के हस्तं स्थाप्य मन्त्रं वदेदथ ॥ इति ।
गणेशपूजादिकं योगदीपिकायामुक्तम्-
शङ्खचक्रगदापद्मधरं नारायणं त्विह ।
प्रसाद्य स्थण्डिले विघ्नं दीपाद्यैः पूजयेत्सुधीः ॥
नान्दीपूजां ततः कृत्वा पुण्याहं वाचयेद्दूजैः ॥ (6/24,25) इति ।
अहुत्वैता असन्तर्प्य महत्कर्म न चाचरेत् ।
ग्रहयज्ञमकुर्वाणो विघ्नैश्च परिभूयते ॥ इति ।

25. ऋषभान् गजमिश्रास्तु क्षत्रियो गुरुदक्षिणाम् ।
विप्रो दद्याद्वृषानेव वैश्यो गाः प्रतिविद्यकम् ॥ -इति मानसंहितायाम्
-इति गुरुदक्षिणाविषये विशेष उक्तः बृहद्भाष्ये ॥ (61/1)

26. गुरुदक्षिणा (पा.)


27. पूरयित्वा तु पृथिवीं रत्नैः सप्तसमुद्रिणीम् ।
दत्वाऽपि गुरवे नैव पूर्यते गुरुदक्षिणा ।
-छान्दोग्योपनिषद्भाष्ये 3/11



तृतीयोऽध्यायः

(1)प्रतिष्ठां कारयन् विष्णोः कुर्यात् सुप्रतिमां बुधः ।
(2)लोहैर्वा शिलया दार्वा मृदा (3)वाऽपि यथाक्रमम् ॥ 1 ॥

षण्णवत्यङ्गुलां योग आसीनामथवा स्थिताम् ।
शयानां वा मुमुक्षूणां व्याचक्षाणां निजां स्थितिम् ॥ 2 ॥

मुखादूर्ध्वं द्व्यङ्गुलोच्चां नवाङ्गुललसन्मुखाम् ।
सुवृत्तत्र्यङ्गुलग्रीवामास्तनाच्च षडङ्गुलमाम् ॥ 3 ॥

पञ्चादसाङ्गुलां नाभेरासार्धदशकाङ्गुलाम् ।
वृषणादामूलतश्च सार्धद्व्यङ्गुलमायताम् ॥ 4 ॥

तावदा गुदतो दीर्घां चैत्यादाष्टादशाङ्गुलाम् ।
तता द्व्यङ्गुलचैत्यां च द्वाविशज्जह्घया युताम् ॥ 5 ॥

आरभ्‌य (4)गुल्फमध्यंच सहार्धचतुरङ्गुलाम् ।
षडङ्गुलोच्चप्रपदां (5)सार्धद्व्यङ्गुलमेव च ॥ 6 ॥

प्रपदोच्चयुतामन्ते द्व्यङ्गुलप्रपदोच्छ्रयाम् ।
त्र्यङ्गुलद्व्यङ्गुलामर्धहीनमध्याङ्गुलामपि ॥ 7 ॥

(6)त्रिपदाङ्गुलहीनान्यां ततस्तादृशतत्पराम् ।
पादोनोच्चाङ्गुष्ठनखां तदर्धतदनन्तराम् ॥ 8 ॥

क्रमशः पादहीनानयां रक्तपादनखां शुभाम् ।
विस्तारः प्रपदस्यापि षडङ्गलु ईरितः ॥ 9 ॥

अङ्गुष्ठपरिणाहस्तु चतुरङ्गलं ईरितः ।
(7)त्र्यङ्गुलं तु (8)तदन्यस्य व्रीह्यर्धोनाः क्रमात् पराः ॥ 10 ॥

दशाङ्गुलं जङ्घमूलं (9)मध्यं तु त्र्यह्गुलाधिकम् ।
सप्तादशाङ्गुलं तूर्ध्वं जानुरष्टादशाङ्गुलः ॥ 11 ॥

ऊर्वन्तोऽपि तथा ज्ञेयो मध्यं द्विर्द्वादशाङ्गुलम् ।
चतुरङ्गिलाधिकं मूलं गुह्यं सार्धचतुष्टयम् ॥ 12 ॥

सार्धत्रयं परीणाहाद्वृषणं चतुरङ्गुलम् ।
सप्ताङ्गुलं परीणाहाद्वृत्तं प्रोक्तं समस्तशः ॥ 13 ॥

अष्टत्रिंशाङ्गुलं कट्याः परीणाह उदाहृतः ।
सुवृत्तत्वं तथा श्रोण्योः पीनत्वं च समस्तशः ॥ 14 ॥

विस्तारश्च तथा कट्याः सुप्रतिष्ठितता पदोः ।
कट्याश्चैवाङ्गुलाधिक्यं नाभेरध उदाहृतम् ॥ 15 ॥

नाभिः सार्धाह्गुलस्चैव (10)गम्भीरोऽर्धाह्गुलोन्नतः ।
वृत्तः प्रदक्षिणश्चैव द्विचत्वारिंशदङ्गुलम् ॥ 16 ॥

मध्यं स्तने परीणाहः षडङ्गुलमतोऽधिकः ।
एकोनविंशाङ्गुलं तदुरोविस्तारलक्षणम् ॥ 17 ॥

पादोनमङ्गुलं चैव भुजाभ्यां सह सार्धकम् ।
अंसयोर्विस्तृतीश्चैव पृथगष्टाह्गुला मता ॥ 18 ॥

सप्ताङ्गुलोच्छ्रयः कक्षादुपरि स्कन्धयोर्मतः ।
अष्टत्रिंशाह्गुलञ्चैव हस्तयोर्मानमुच्यते ॥ 19 ॥

अष्टादसाङ्गुलो बाह्वोः (11)परिणाह उदाहृतः ।
क्रमादूनं तदन्ते तु सार्धाष्टाङ्गुलमीरितम् ॥ 20 ॥

साङ्गुलस्य (12)तलः सार्झनवाङ्गुल उदाहृतः ।
समं तदुभयं ज्ञेयं तथैव (13)तलविस्तृतिः ॥ 21 ॥

(14)अर्धाङ्गुलोन्नता मध्या द्वयोः सार्धाङ्गुलोन्नता ।
कनिष्ठिकायास्तस्यास्तु (15)व्रीहिमात्राधिकः परः ॥ 22 ॥

सार्धत्रयपरीणाहौ मध्यज्येष्ठावुदाहृतौ ।
अन्यौ व्रीहितदर्धोनावन्या सार्धद्वायाङ्गुला ॥ 23 ॥

पादोनान्तपरीणाहाः (16)सर्वे ज्येष्टां विना स्मृताः ।
वक्षोविस्तारसगृशः परिणाहो (17)गलस्य च ॥ 24 ॥

ललाटकुक्षिकण्ठास्तु दीर्घरेखात्रयान्विताः ।
वृत्तो (18)गलो बाहवश्च स्तनावङ्गुलयस्तथा ॥ 25 ॥

(19)रक्तास्तलनखाश्चैव नेत्रान्तोऽधर एव च ।
उत्तरोष्ठस्च जिह्वा च नखौ पादोनकाह्गुलौ ॥ 26 ॥

अर्धाङ्गुलौ तथा मध्यावन्येऽष्टांशक्रमोनकाः ।
नासिकाया अधस्ताच्च नासिका च रराटिका ॥ 27 ॥

समा मानेन नासाया उच्चत्वेनैव मापने ।
अर्धाङ्गुलाधिकं सर्वं मुखस्य तु भविष्यति ॥ 28 ॥

चतुरङ्गुलं तथैवास्यं सार्धव्रीह्यधरं स्मृतम् ।
उत्तरं व्रीहिमात्रं तु तदूर्ध्वं चाधरोपमम् ॥ 29 ॥

सार्धाङ्गुलमधः प्रोक्तमधरादध एव च ।
आस्यापार्श्वद्वयं प्रोक्तमाकर्णात्तु षडङ्गुलम् ॥ 30 ॥

सप्ताङ्गुलं नासिकायाः पार्श्वमाकर्णतः स्मृतम् ।
सपादाह्गुलमुच्चा च नासिका परीकीर्तता ॥ 31 ॥

अर्धाङ्गुले पुटे तस्या मध्यं च (20)समुदाहृतम् ।
नासिका व्रीहिविस्तारा चक्षुषी (21)चाङ्गुलत्रये ॥ 32 ॥

अङ्गलं चैव विस्तीर्णे फुल्लेऽर्धं च तदन्यथा ।
चतुरङ्गुलौ भ्नुवौ चैव तथाऽर्धाङ्गुलविस्तृतौ ॥ 33 ॥

असंहतौ च निबिडौ तथा पक्ष्म सुनीलकम् ।
कर्णौ च त्र्यह्गुलं सार्धद्वायविस्तारसंयुतौ ॥ 34 ॥

सकुण्डलं(22) तावदेव विवरं सम्प्रकीर्तितम् ।
तथा (23)द्व्यङ्गुलविस्तारो लताभ्यां सह कथ्यते ॥ 35 ॥

कर्णपूरयुतौ कर्णावुत्पलाभ्यां च संयुतौ ।
(24)नीलालकसहस्रेण युक्तं तन्मुखपङ्कजम् ॥ 36 ॥

ललाटं सुविशालं च तथा सार्धनवाङ्गुलम् ।
विस्तारौ मूर्ध्नि वृत्तं च शिरः छत्राकृति स्मृतम् ॥ 37 ॥

दीर्घाश्च कुञ्चिताग्राश्च नीलाः केशा हरेर्मताः ।
मुखमानेन चैवोच्चं(25) किरीटं केशवस्य हि ॥ 38 ॥

कुण्डले मकराकारे वक्षश्चैव सकौस्तुभम् ।
सश्रीवत्सं (26)दक्षिणतः (27)पीनतुङ्गुमुदाहृतम् ॥ 39 ॥

हारग्रैवेयसहितमुपवीतयुतं तथा ।
बाहवस्च (28)सकेयीरकङ्कणादमुद्रिकाः ॥ 40 ॥

समद्यबन्धं मध्यं च नितम्बे पीतमम्बरम् ।
काञ्चीगुणश्च पदयोर्नूपुरे (29)चातिसुस्वने ॥ 41 ॥

अह्गुलीयानि च पदोः कृतिभिः साधु कारयेत् ।
सोत्तरीयं च चक्राद्यैरायुधैश्च समन्वितम् ॥ 42 ॥

(30)अनुन्नतैरविरलैर्दन्तैर्युक्तं च सुस्मितम् ।
समदृष्टियुतं कार्यं (31)श्लक्ष्णं चैव मनोहरम् ॥ 43 ॥

प्रतिमार्थं व्रजन्पञ्चध्वनिभिर्मङ्गलैर्युतः(32) ।
गत्वा शुचिस्थलं तत्र शिलां चैव परिक्षयेत् ॥ 44 ॥

(33)ध्वनिभेदेन विज्ञाय शिलां गर्भवतीं त्यजेत् ।
मूलमन्त्रं जपन् विष्णुं ध्यायंस्तिष्ठेदुपोषितः ॥ 45 ॥

(34)वार्क्षी चेद्यज्ञवृक्षस्य सारेणैव तु कारयेत् ।
बलिदानं च सङ्क्षेपविधानेनैव कथ्यते ॥ 46 ॥

अस्य सङ्क्षेपशास्त्रत्वान्न विस्तरविरोधिता ।
दत्वोपहारं हरये तद्भूतेभ्यो बलिं हरेत् ॥ 47 ॥

प्राच्येभ्यो विष्णुभूतेभ्य इत्याद्यखिलदिक्षु च ।
आदाय विष्णुभूतेभ्यो (35)लोकपेभ्यस्तथा हरेः ॥ 48 ॥

अनुज्ञामुद्वरेद् वृक्षं शिलां वा प्रतिमाकृते ।
प्रतिमां पिण्डिकां पीठं शिलाभिस्तु त्रिजातिभिः ॥ 49 ॥

(36)स्वरस्थूलत्वभेदेन पुंस्त्र्याद्या (37)जातिभिः शिलाः ।
(38)पुंशिलां प्रतिमार्थं तु स्त्रीशिलां पीठक्लृप्तये ॥ 50 ॥

वेदमह्गलघोषेण वाद्यैस्तत्प्रतिमां हरेत् ।
प्रागुदक्प्रवणे देशे कुर्याद्देवालयं सुधीः ॥ 51 ॥

(39)रामावृते दक्षिणतः पश्टाद्गिर्यग्र एव व ।
मद्ये वा ग्रामपुरयोर्विशाले सुशुचौ तथा ॥ 52 ॥

ऐशानीं दिशमेकां तु विनोदकविवर्जिते ।
जलाशयस्य मध्ये वा (40)शिलावृक्षादिवर्जिते ॥ 53 ॥

श्माशानादिकदेशानां विदूरे सुमानोहरे ।
किष्कुद्वादशतोऽनुनं कुर्याद्देवासयस्थलम् ॥ 54 ॥

द्विगुणं चतुर्गुणं वापि शतकिष्कुप्रमामकम् ।
कृत्वा भूशोधनं सम्यक् सार्धपुंमानत्स्त्वधः ॥ 55 ॥

केशाङ्गारास्थिवल्मीकलोष्टाश्मादिविर्जिते ।
हरिं तत्रापि सम्पूज्य बलिं दत्वा च पूर्ववत् ॥ 56 ॥

मृद्दारुशैलैर्लोहैर्वा कुर्याद्देवालयं दृढम् ।
दीर्घाश्च(41) कलमास्तिस्रस्तिर्यगष्टयवोदराः ॥ 57 ॥

अङ्गुल्या मध्यरेखायाः समा लक्षणतः स्मृताः ।
स्वाङ्गुल्या मध्यरेखा तु प्रतिमादिषु लक्षणम् ॥ 58 ॥

ह्रस्वमध्योच्चभेदेन तत्तन्मानं समस्तशः ।
प्रादेशहस्तपुरुषमानं(42) सामान्यलक्षणम् ॥ 59 ॥

प्रतिमाध्यर्थकं (43)द्वारमूर्ध्वमध्यं च विस्तृतिः ।
प्रतिमार्धप्रमाणेन पीठास्योच्चत्वमिष्यते ॥ 60 ॥

उन्नतिः पिण्डिकायास्तु चतुरङ्गुलमानतः ।
त्र्यङ्गुलं द्व्यङ्गुलं वाऽपि गृहान्तःप्रतिमासमम् ॥ 61 ॥

(44)उच्चं पर्यक् च क्रमश उच्चत्वं मध्यतः स्मृतम् ।
तावदुच्चं बहिश्चैव यद्येकशिखरं भवेत् ॥ 62 ॥

अर्धोच्चमथवाऽपि स्यादधस्तात् प्रतिमोन्नतम् ।
ततो द्विगुणमानं वा सार्धप्रतिममेव वा ॥ 63 ॥

शिखरान्तरे तु प्रतिमामानं तद्गल उच्यते ।
(45)तत्त्रिपादं तदर्धं वा तदध्यर्धमथापि वा ॥ 64 ॥

(46)वर्तुलं पद्मसदृशं हस्तिपृष्ठसमं तथा ।
(47)चतुरस्रं चाष्टकोणं विमानं परिकीर्तिकम् ॥ 65 ॥

प्रतिमाया दशगुणं विंशद्गुणमथापि वा ।
वर्तुलं शिखरं त्वेकं किरीटाकृतिमद्भवेत् ॥ 66 ॥

सभयाऽपि समेतं वा पृथकलभमथापि वा ।
द्विसभं त्रिसभं वापि (48)सगोपुरमथापि वा ॥ 67 ॥

प्रकारवृत्तयुक्तं वा सप्तप्रकारमेव वा ।
सह्मवृत्तं किष्कुमात्रं बहिर्वा चतुरस्रकम् ॥ 68 ॥

ततः परं किष्कुमात्रं सभाया अन्तरं यदि ।
ततस्तावत्तृतीयायाः सार्धमेव ह्युदाहृतम् ॥ 69 ॥

किष्कुत्रकं च शक्रादेः स्थानं तद्वृत्ततः स्मृतम् ।
ततस्तु मण्टपं कुर्यात्प्रतिष्टायाः सुलक्षणम् ॥ 70 ॥

(49)पूजयेद्वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा ।
देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः ॥ 71 ॥

(50)पातितो दैवतैर्भूमौ(51) चतुरस्राकृतिः स्थितः ।
कृत्वाऽष्टकाष्टकोष्टानि मध्ये ब्रह्मा चतुष्टये ॥ 72 ॥

पूज्यो द्वये द्वये शक्रो यमे वरुण एव च ।
सोमश्च पूज्याः कोणेषु वह्न्याद्याः कोणदेवताः ॥ 73 ॥

पुनस्त्रयो त्रये कामं धातारं सविधातृकम् ।
स्कन्दं च पूजयेत्कोणे सूर्यं चैव विनायकम् ॥ 74 ॥

कालं कुबेरं च बहिः प्रत्येकं दिक्षु पूजयेत् ।
हारिं हरिं गभीरं च गाहनं गहनं (52)गुहम् ॥ 75 ॥

(53)भानुमङ्गारकं चैव पूर्वस्यां दिशि पूजयेत् ।
(54)दारुमं विदरिं द्योतं प्रद्योतं द्योतनं हिरम् ॥ 76 ॥

मृत्युं शनैश्वरं चैव दक्षिणस्यां प्रपूजयेत् ।
पुष्करं क्षरणं क्षारिं विक्षणं क्षोभणं क्षणम् ॥ 77 ॥

चार्वङ्गं भार्गवं चैव (55)पश्चिमायां प्रपूजयेत् ।
चारं विचारं (56)प्रचरं सञ्चारं चरणं चरम् ॥ 78 ॥

बृहस्पतिं बुधं चैवाप्युत्तरस्यां प्रपूजयेत् ।
एवमेव विमानस्य कृतेः प्रागपि पूजयेत् ॥ 79 ॥

सप्तपर्णमयं साधु करयेन्मण्‍डपं ततः ।
सप्तहस्तं द्विषड्ढस्तमथवा द्विगुणं ततः ॥ 80 ॥

चतुर्गुणं वा सम्यक् तु (57)चतुरस्रं संहाजिरम् ।
अन्यच्च मण्टपं दीर्घं पञ्चहस्तं तु कारयेत् ॥ 81 ॥

त्रिचतुष्कोष्ठकं तत्र मध्ये प्रागायतं शुभम् ।
कारयेन्मण्डलं साधु (58)हस्तमात्रं (59)तु विस्तृतम् ॥ 82 ॥

तत्र द्वादशपात्राणि स्थापयेत्पालिकादिकम् ।
पालिकास्तु चतुर्विंशत्यङ्गुलोच्छ्रयसंयुताः ॥ 83 ॥

अष्टादशाङ्गुलाश्चैव तथा पञ्चमुखा इति ।
द्वादशाङ्गुलकाश्चैव शरावाः पश्चिमानुगाः ॥ 84 ॥

तत्र विष्णुं चतुर्मूर्तिं पूजयेद्भक्तितस्त्रिशः ।
सप्तधान्यानि तेषअवेव पूरयेदङ्कुरार्थतः(60) ॥ 85 ॥

(61)तत्र नित्यं बलिं दद्याद्विषअणवे दशरात्रकम् ।
ब्रह्मशङ्करगीर्वाणपितृगन्धर्वयक्षकैः ॥ 86 ॥

भूतैश्च पायसेनैव तथा पद्माक्षतेन च ।
अन्नापूपेन पुष्पान्नैरन्नलाजाक्षतैरपि ।
सक्तुभिश्च क्रमेणैव देवान्तं पायसेन वा ॥ 87 ॥

(62)तदैव प्रतिमायाश्च कारयेदधिवासनम्(63) ।
पञ्चगव्ये सप्तरात्रं क्षिप्त्वा पुरुषसूक्ततः ॥ 88 ॥

(64)वेदांश्च चतुरः सम्यक् पारयेयुर्द्विजोत्तमाः ।
प्रच्यादिद्वारगौ द्वौ द्वावेकैकं तु दशावराः ।
यथालब्धं यथावित्तमथवा विष्णुतत्पराः ॥ 89 ॥

त्रयोदशात्र कुण्डानि परितः कारयेद्बुधः ।
उक्तलक्षणयुक्तानि प्रधानं त्वग्निकोणके ।
साक्षात्तु कोणगाद्धस्तमात्रमन्तरतः सुधीः ॥ 90 ॥

आज्याहुतिं तेषु कुर्यात् प्रत्येकं (65)लक्षसङ्ख्यया ।
प्रत्येकमयुतं वाऽपि प्रधाने लक्षसङ्ख्यकम् ॥ 91 ॥

अर्धं तदर्धमथवा मूलमन्त्रेण मन्त्रवित् ।
पञ्चविंशतितत्वार्थे प्रधाने जुहुयात् पुरः ॥ 92 ॥

प्रत्येकं तु सहस्रं वा प्रत्येकं शतमेव वा ।
शतं पुरुषसूक्तेन गायत्र्या च सहस्रकम् ।
कृत्वा जलाधिवासं च पूर्वं वा पञ्चगव्यतः ॥ 93 ॥

चक्राब्जं भद्रकं वाऽपि मण्टपे मण्डलं शुभम् ।
पद्मं वृत्तत्रयं चक्रं राशयो (66)वीथिका तथा ॥ 94 ॥

शोभोपशोभिकाश्चैव चक्राब्जस्य तु लक्षणम् ।
(67)चतुरस्रं विना चक्रं विशेषो भद्रके स्मृतः ॥ 95 ॥

सहस्रमर्धं पादं वा कलशांस्तत्र पूजयेत् ।
शतं तदर्धं पादं वा वित्ताभावे निगद्यते ॥ 96 ॥

क्वाथेन क्षीरवृक्षाणां तथा पञ्चामृतैरपि ।
पञ्चगव्येन शुद्धेन जलेन च पृथक् पृथक् ॥ 97 ॥

पूरयेत्कलशान्मध्यं शुद्धोदेनैव पूरयेत् ।
ब्राह्मस्यैव चतुर्हिक्षु गन्धोदानां चतुष्टयम् ॥ 98 ॥

(68)चतुर्दले सिते पद्मचतुष्के मण्डले स्थिते ।
पूर्वादिक्रमयोगेन रसक्वाथशुभोदकान् ॥ 99 ॥

गन्धांश्च स्थापयेत्पञ्चगव्यं शुद्धान्तरे न्यसेत् ।
पृथक् चतुर्दलं पद्मं रक्तं कृत्वाऽल्पकं सुधीः ॥ 100 ॥

पञ्चशत्वे तु गन्धोदं सर्वमध्ये निधापयेत् ।
ब्राह्मस्य पुरस्त्वेकं शार्वं संस्थपयेद्बृहत् ॥ 101 ॥

अष्टदिक्ष्वष्टपद्मेषु पञ्चकं पञ्चकं न्यसेत् ।
अनेन क्रमयोगेन कलशा अखिला अपि ॥ 102 ॥

तत्तद्द्रव्यमयास्तत्र तत्र स्थाप्यस्तुं बाह्यतः ।
तदैवाङ्कुरपात्राणि परितस्तत्र विन्यसेत् ॥ 103 ॥

कुशोदकं च कार्पूरं कौङ्कुमं चान्दनं तथा ।
तुहिनोदं (69)हरिद्रोदमौशीरं (70)कोष्ठसार्षपम् ॥ 104 ॥

नदीसङ्गमजं चैव ताडाकं कौप्यमेव वा ।
निर्झरोदमिति प्रोक्ता विशेशकलशास्त्विमे ।
शुद्धोदद्वयमप्येतन्महातीर्थसमुद्भवम् ॥ 105 ॥

(71)चतुर्विंशतिमूर्तिनां वर्णमूर्तिंस्थाऽपराः ।
आवाहयेच्चतत्वे तु क्रमव्युत्क्रमतस्तु ताः ॥ 106 ॥

वर्णमूर्तीः पुनश्चैव द्विचतुर्वारमेव च ।
सहस्रकलशादित्वे जपेन्मन्त्रांश्च शक्तितः ॥ 107 ॥

(72)ततस्तु पञ्चघोषैश्च वेदघोषस्तथाऽऽदरात् ।
आनीय प्रतिमां स्नानं कारयेत्प्रणवेन तु ॥ 108 ॥

मन्त्रैः पुरुषसूक्तान्तैः विश्वतश्चक्षुषा तथा ।
पुनश्चाष्टाक्षरेणैव (73)प्रणवेन च भक्तितः ॥ 109 ॥

स्नापयित्वा गन्धजलैर्गन्धपुष्पादिभिः पुनः ।
अलङ्कृत्य स्थापयेत्तु प्रतिमां प्रणवेन तु ॥ 110 ॥

जपेदष्टाक्षरं मन्त्रं तत्तन्मूर्तिमनुं तथा ।
अष्टोत्तरशतं मन्त्री ध्यायेत्तेजोमयीं(74) पुनः ॥ 111 ॥

प्रतिमां प्रतिमान्तस्थां तन्मध्ये परमं वपुः ।
चिदानन्दरसं (75)पूर्णगुणसम्पूर्णमुत्तमम् ॥ 112 ॥

पञ्चविंशतितत्त्वानां देवतास्तदनन्तरम् ।
स्‌थापयेत् प्रतिमामध्ये परितः केशवस्य तु ॥ 113 ॥

तत्रात्वाहार्षसूक्तं च घर्मसूक्तं च वैष्णवम् ।
सूक्तं च विश्वकर्मीयं पौरुषं सूक्तमेव च ॥ 114 ॥

जप्त्वा चैव निजं मन्त्रं पुनरष्टाक्षरं सुधीः ।
प्रणवं च जपेद्विष्णुं ध्यायन्नुत्तमरूपिणम् ॥ 115 ॥

ततस्तु कलशैर्बाह्यक्रमेणैव जनार्दनम् ।
स्नापयेदुक्तमन्त्रैस्तु मध्यमं प्रणवेन तु ॥ 116 ॥

अष्टार्णेन निजेनापि तथा पुरुषसूक्ततः ।
आवहनं च स्नपनं (76)पञ्चगव्येन(77) मध्यवत् ।
पूर्वाद्युत्तरपर्यन्तः कलशक्रम उच्यते ॥ 117 ॥

जप्त्वा पुनश्च तन्मन्त्रान् पूजयेच्च विधानतः ।
द्वारलोकपतिभ्यश्च बलिं दत्वा यथाक्रमम् ॥ 118 ॥

वस्त्ररत्नहिरण्योद्यैलङ्कृत्य विभूतितः ।
गुरवे दक्षिणां दद्यात्कोटिं लक्षं सहस्रकम् ॥ 119 ॥

शतमर्धं तदर्धं वा निःस्वो भक्त्या क्षमापयेत् ।
तदर्धमृत्विजां चैव तदर्धं पारणाकृताम् ॥ 120 ॥

आश्वभ्य आश्वपाकेभ्यो दद्यादन्नं समस्तशः ।
पुरस्तात्परतश्चैव सप्तरात्रं निरन्तरम् ॥ 121 ॥

सुवर्णवस्त्ररत्नाद्यैरागताभ्यागतानपि ।
पूजयेच्छक्तितो भक्त्या प्रीयतां भगवनिति ॥ 122 ॥

(78)गीतनृत्यैश्च वाद्यैश्च पुराणैरितिहासकैः ।
(79)सूक्तैर्मङ्गलघोषैश्च वैदिकैर्दिनसप्तकम् ॥ 123 ॥

नयेत्ततो महाराजविभूत्याऽवभृथं सुधीः ।
कारयेद्देवदेवस्य (80)स्वाध्यायैर्गितनृत्तकैः ॥ 124 ॥

महानदीसह्गमे तु तीर्थे (81)चातिप्रशस्तके ।
(82)स्नापयेत्पूर्ववन्मन्त्रैः पुंसूकक्तान्तैः स्मरन् हरिम् ॥ 125 ॥

ततः पूर्ववदागत्य प्रवेश्य पुरुषोत्तमम् ।
पूजयित्वा विधानेन दत्वा दानानि शक्तितः ॥ 126 ॥

गुरं च भक्त्या सम्पूज्य स्वीकुर्यादिशिषस्ततः ।
शतप्रस्तादनूनं तु नैवेद्यं प्यसोत्तरम् ॥ 127 ॥

दिनेष्वेतेषु दातव्यं सघृतं ससितादिकम् ।
पश्चादपि याथाशक्ति पूजा कार्या हरेः सदा ॥ 128 ॥

जीर्णालयोद्धृतौ चैव तत्त्वमन्त्रान् स्वकं तथा ।
(83)प्रतिलोमेन जप्त्वैव मूर्तौ सङ्कोचयेद्धरिम्(84) ॥ 129 ॥

उक्तेनैव विधानेन तदर्धविभवैः सुधीः ।
पादमात्रैरपि हरिं स्नापयित्वा यथेदितम् ॥ 130 ॥

एतेनैव विधानेन कृत्वा देवालयं पुनः ।
स्नापयेत्पुण्डरीकाक्षं द्विगुणेन (85)प्रवाहणात् ॥ 131 ॥

विभवेनानुलोमेन जुपेन्मन्त्रान् पुनस्तथा ।
आराधयेज्जगन्नाथं ध्यायन् भक्त्या यथोदितम् ॥ 132 ॥

यात्राऽपि पूर्ववत्तत्रापयुत्सवेषु च सर्वशः ।
कलशोक्तविधानेन पूजा बलिहृतिस्तथा ॥ 133 ॥

उत्सवेषु सदा कार्या कलशश्चोत्सवादनु ।
यात्रा स्नानं च कर्तव्यं सम्यगुक्तविधाननः ॥ 134 ॥

(86)चोरचण्डालपतितश्वोदक्यादिप्रवेशने ।
शवाद्युपहतौ चैव पूजाविच्छेदने तथा ॥ 135 ॥

स्नपनोक्तेन मार्गेण (87)प्रयश्चित्तकृतिः स्मृताः ।
सर्वत्र विष्णुगायत्र्या होमः स्यादयुतावरः(88) ॥ 136 ॥

नावाव्याद्यभिधानानु विद्महे धीमहे तथा ।
प्रचोदयात्तृतीयाधस्तन्नो गायत्रिनामिका ॥ 137 ॥

दुर्गाशिवस्कन्दसूर्यविनायकमुखानपि ।
स्थापयेदुक्तमार्गेण तत्तन्मन्त्रैः स्मरन् हरिम् ॥ 138 ॥

गोलकद्वितयं विष्णोस्त्रितयं (89)वाऽपि कीर्तितम् ।
अन्यदेवप्रतिष्ठासु तदन्तश्चिन्तयेद्धरिम् ॥ 139 ॥

विष्णुस्मृतिविहीना तु पूजा स्यादासुरी तथा ।
गृह्णन्ति देवता नैतां ततः स्याद्देशविप्लवः ।
वयाधिचोरादिभिस्तस्मादन्तर्ध्येयो हरिः सदा ॥ 140 ॥

विष्णुभक्तिविहीनस्य गतिः स्यान्न शुभा क्वचित् ।
भक्तस्याप्यन्यदेवेषु तस्माद्ध्येयो हरिः सदा ॥ 141 ॥

संस्मृतो भगवान् विष्णुः सर्वमङ्गलमङ्गलः ।
समस्ताभूष्टदायी स्यात्तेन ध्येयोऽखिलैर्जनैः ॥ 142 ॥

(90)पुरुषोऽव्यक्तं च महानहङ्कारो मनस्तथा ।
दशेन्द्रियाणि शब्दाद्या भूतेताः पञ्चविंशतिः ॥ 143 ॥

तत्त्वाख्याः कालमाये च नियतिर्मतिरेव च ।
विद्या कला प्रवृतिश्च द्वात्रिंशत्तत्त्वसङ्ग्रहः ॥ 144 ॥

स्फूर्त्तिः संवित्प्रतिष्ठा च (91)शक्तिरित्यपराणि च ।
महालक्ष्मीस्वरूपाणि ह्येकादश विदो विदुः ।
विष्णोरपि हि रूपाणि तन्नाम्नैकादशैव तु ॥ 145 ॥

प्रधानोपमवर्णानि द्विभुजान्यप्यशेषतः ।
कृताञ्जलिपृटान्येव प्रधानं तं हरिं प्रति ॥ 146 ॥

सर्वण्येतानि तत्त्वानि ब्रह्मा तु पुरुषः स्मृतः ।
महांश्चाव्यक्तनान्मी तु ब्रह्माणी सम्प्रकीर्तिता ॥ 147 ॥

(92)एवं वायुरपि ज्ञेयो भारती चापि तत्त्रयम् ।
रुद्रोऽहङ्कार उद्दिष्टः स्कन्देन्द्रौ मन उच्यते ॥ 148 ॥

(93)अहङ्कारः शेषवीन्द्रावपि विद्वद्भिरीरितौ ।
दिग्वायुसूनुसूर्याश्च वरुणस्चाश्चिनावपि ॥ 149 ॥

(94)वह्निदक्षाविन्द्रसूनुर्मित्रश्चैव मनुस्तथा ।
इन्द्रियाख्याः शब्दनामा बृहस्पतिरुदाहृतः ॥ 150 ॥

अन्ये तु सूनवो वायो रुद्रस्यापि प्रकीर्तिताः ।
एतेषु भगवान् विष्णुः (95)प्रधानतनुरेव तु(96) ॥ 151 ॥

(97)ध्येयः परात्मनोर्मध्ये तत्त्वनाम तदर्थयोः ।
जपे न्यासे नमोंऽन्तस्तु स्वाहान्तो होमकर्मणि ॥ 152 ॥

त्रिचतुः षट्दशावृत्तिरेतेषां तु हुतादिके ।
न्यासोऽङ्गुलीषूरुबाहुमध्येषु व्युत्क्रमे स्मृतः ।
क्रमे विपर्ययेणात्र शक्त्यादित्वं प्रकीर्तितम् ॥ 153 ॥

ऋषिच्छन्दोदेवताङ्गध्यानानुक्तौ प्रधानवत् ।
ज्ञेया(98) मन्त्राः समस्तास्ते पृथङ्मोक्षादिदायकाः ॥ 154 ॥

तन्त्रमार्गास्तु हरिणा ह्यसङ्ख्याः कीर्तिता अपि ।
तेष्वयं सुगमो मार्गः सफलश्चानुतिष्ठताम् ॥ 155 ॥

यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते ।
तावत् समस्तं (99)कथितं ह्यस्मिंस्तन्त्रे यथाविधि ॥ 156 ॥

प्रीयतेऽनेन मार्गेण पूजितो मुक्तिदो भवेत् ।
कामदश्च स्वभक्तानां भगवान् पुरुषोत्तमः ॥ 157 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे तृतीयोऽध्यायः ॥
---o----

F.N.

1. `प्रतिष्ठा प्रतिमा प्रोक्ता प्रतिरूपेण संस्थितेः ।
प्रतिमाऽधिकसादृश्यान्मुख्या विष्णोः सदा रमा । -बृहद्भाष्ये
`प्रतिमाद्यं हरित्वेन पृथिव्याद्यमथापि वा ।
इन्द्रियप्राणजीवाद्यमथवा य उपासते ।
मिथ्योपास्तिमतां तेषां निष्कृतिर्न कदाचन ।
अतिदुःखे पतन्त्यद्धा तमस्यन्धे पतङ्गवत्' इत्युपासनानिर्णये ।
-बृहद्भाष्ये
`स्थानमायतनं प्रोक्तं प्रतिष्ठा धारकः पुमान्'इति च ॥ -बृहद्भाष्ये

2. जङ्गमेषु च वृक्षेषु नैव तादृक्शिलादिषु ।
तस्माद्वृक्षादिषु रसश्चित्तं चलनवत्सु च ॥
दृश्यते न शिलाद्येषु सन्निधिर्न हि तादृशी ।
शिलाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम् ॥
नैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः ।
विशेषोऽयं पदार्थानां न तु विष्णोः कथञ्चन ॥
यत्र विष्णुर्गुणाधिक्यं दर्शयेद्वस्तु तद्वरम् ।
गुमपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः ॥
वृक्षेभ्योऽप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः ।
तेब्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः ॥ -इत्यादि च ।
-ऐतरेयोपनिषद्भाष्यम्

3. `शिलावत्प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृताः' इति च । भा.ता.7/15/42
`प्रतिमावद्धरेरूपं तिर्यङ्नरसुरादयः ।
साक्षाद्रूपाणि मत्स्यादीन्याभिन्नान्येव सर्वदा' इति च ॥ -भा.ता.11/17/5
मृदा च मणिरक्नैश्च ताम्नेण रजतेन वा ॥
कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा ॥
पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम् ॥
-इति महाभारते आश्वेधिके वैष्णवधर्मपर्वणि युधिष्ठिरं प्रति श्रीवासुदेववचनम् ।
उक्तं च पद्मसंहितायाम्-
हिरण्मयीं प्रतिकृतिः सर्वसम्पत्करी भवेत्।
वित्तं पशुश्च विजयं विज्ञानं राजती फलम् ॥
ताम्ना धर्म च वृद्धिं च करोति बहुसौख्यदा ।
खेदप्रदा शिलाजा च तेजोदा दारुजा तथा ॥
शुभा प्रोक्ता मृण्मयी च पैत्तली शत्रुनाशीनी ॥ इति। (छ.)

4. गुम्फमद्धैव (हृ.);गुल्फमध्ये च (पा.)

5. सार्धत्र्यङ्गुलमेव च ( हृ.)

6. त्रिपादा.....(पा.)हृ.

7. त्र्यङ्गुलस्तु तदन्य स्याद् (हृ.)

8. तदन्यस्याः -(र.पा.)

9. तन्मध्ये (पा.)

10. गम्भीरोऽर्धाङ्गुलोऽन्ततः । (पा.)

11. परिणाह इति (क्वचित्)।

12. तळ (हृ.)

13. तळविस्तृतिः (पा.)

14. अर्धाङ्गुलोन्नता मध्याद् द्वयोः सार्धाङ्गुलोन्नता ॥ (पा.)

15. व्रीहिमानाधिकः (पा.)हृ.

16. अङ्गुलिशब्दः पुल्लिङ्गोऽप्यस्ति (तत्त्वकणिका)

17. गळस्य च (पा.)

18. गळो (पा.)

19. रक्तास्तळनखाश्चैव (पा.)

20. परिकीर्तितम् (पा.)

21. अङ्गुलत्रये (हृ.)

22. सकुण्डलौ (पा.)

23. द्व्यङ्गुलविस्तारं (पा.)

24. नीलाळकसहस्रेन (हृ.)

25. चैवोर्ध्वम् ( पा.)

26. श्रवित्सः प्रकृतिर्ज्ञेया । -भागवततात्पर्ये(3/9/25)
लक्ष्मीः श्रीवत्ससंस्थिता । -पद्यमालायाम् (84)

27. पीनं तुङ्गुमुदाहृतम् (प्र.)

28. सकेयूरकङ्कणाङ्गदमुद्रिताः (पा.)

29. चातिसुस्वरे (पा.)

30. अनुन्नतैरविरळैः (पा.)

31. स्निग्धं (पा.)

32. मङ्गलद्रव्याणि तु-
सर्वणं रजतं दूर्वा हरिद्रा मधुसर्पिषी ।
अक्षताः सर्षपाश्चैव मङ्गलाः परिकीर्तिताः ॥ इति प्रमाणोक्तानि । (छ.टीका)

33. ध्वनिश्च शिथिलो यासु स्पर्श उष्णस्तथाऽपि वा ।
तासु गर्भाः स्फुटं सन्ति यत्नेनोत्पाटयेत्तु ताः ॥ (छ.टीका)

34. देवदारुः शमी बिल्वो मधु खदिरकस्तथा ।
अरिष्टो राजवृक्षश्च चन्दनोऽश्वत्थ इत्यमी ।
शस्तवृक्षास्च तैर्देवं कुर्याद्वाऽन्यैश्च चोदितैः ॥
इति सिद्धान्तशेखरे(छ.टीका)

35. लोकेशेभ्यस्तथा (पा.)


36. घण्टानादा तु पुंलिङ्गा ध्वनिहीना नपुंसका ।
स्त्रीशिला तारनादा स्यात् बाला ह्नस्वध्वनिः शिला ॥
तारशब्दा तु तरुणी वृद्धा दीर्घस्वरा मता ॥ इति सिद्धान्तशेखरे(छ.टीका)
पुंलिङ्गात् प्रतिमा कार्या स्त्रीलिङ्गात् पादपीठकम् ।
पिण्डिकार्थं तु सा ग्राह्या दृष्टाया वर्णलक्षणा ॥ इति हयशीर्षे (छ.टीका)
बृक्षस्य च शिलायाश्च ग्रहणे विधिरुच्यते ।
सुवारे सुतिथौ योगे स्वर्क्षे सुकरणान्विते ॥
आपूर्यमाणपक्षे तु सुग्रहे चोत्तरायणे ।
यजमानानुकूल्येन प्रतिमार्थं व्रजेद्गुरुः ॥
निपुणैः शिल्पिभिः सार्धं सहायैर्बलवत्तरैः ।
ब्राह्मणान् वाचयित्वा तु कुर्यान्मङ्गलदर्शनम् ॥
गीतवाद्यवरैर्घुष्टा यात्रा स्याद् वृद्धिदा नृणाम् ।
प्राचीदिशमथोदीचीमैशानीं वा व्रजेद्रुरुः ॥
एकवर्णां शिलां दृष्ट्वा बाह्यदोषविवर्जिताम् ।
प्लाव्य तोयेन पूतेन शुभ्रवस्त्रेण वेष्टयेत् ॥
गन्धैः पुष्पैश्च धूपैश्च नैवेद्यैः पूजयेच्छिलाम् ॥
ततस्तु मूलमन्त्रेण आज्येनाष्टाहुतिं हुवेत् ।
एवं सन्तर्प्य सम्पूज्य दद्याद्भूताबलिं बुधः ।
पश्चिमे दर्भशय्यायां विशेत्तां रजनीं गुरुः ।
निराहारस्थितो भूत्वा शिल्पिभिः सह दैशिकः ॥
अपरेऽहनि सम्प्राप्ते शिलां शस्त्रं च पूज्य च ।
हरिं ध्यात्वा च तच्छस्त्रं प्रदद्याच्छिल्पिने गुरुः ॥
मुखं पृष्ठं शिरोमूलं शिल्पिने दर्शयेद्गुरुः ।
ततः शिल्पी टङ्कहस्तश्च्छैदयेच्च शिलां तरुम् ॥
किश्चिन्मानाधिकं कृत्वा कल्पयेत् प्रतिमां शिलाम् ।
किञ्चिन्मानाधिका ग्राह्या विश्वाधारा च पिण्डिका ॥
-हयशीर्षे (छ टीका)
आनयेच्छङ्खनिर्घोषैः गीतमङ्गलनिस्वनैः ।
ऋग्यजुःसामशब्दैश्च प्रतिमां कारितां गृहम् ॥ इति । (छ.टीका)
शिलापरीक्षाविधिः-
ध्वनिभिश्च शिलायास्तु स्पर्शे चौष्णयमथापि वा ।
तासु गर्भाः स्फुटं सन्ति यत्नेनोत्पाटयेत्तु तान् ॥
पाटले मण्डले पांसून् पाटलाच्छ्वेतपङ्कजे ।
श्वेचतपासून् स्थितानन्तर्गर्भरूपेण सञ्चितान् ॥
निर्दिशेत् कपिले वर्णे स्रिग्धे चक्रमवस्तितम् ।
गौलीं कपोते मञ्जिष्ठे वर्णे लोहितदर्दुरे ॥
शुकं पाण्डुरवर्णे तु रक्ते पीते तु कच्छपम् ।
कुसुम्भपीतवर्णे ति पीतवर्णभुवं स्थितम् ॥
शुद्धहेमनिभे वर्णे गर्भं क्षुद्रविहृङ्गमम् ।
कालायससमे वर्णे गोधामन्तरवस्थिताम् ॥
गुलवर्णे तु पाषामं खद्योतं मधुसन्निभे ॥
सारङ्गसदृशे वर्णे वृश्चिकं खड्गसन्निभे ॥
सलिलं शलभं नीले रूक्षे फेनकमेन च ।
मूषिकां कपिले कृष्मे कृष्णाहिं शुकसन्निभे ॥
मत्स्यमेवंविधं गर्भं मण्डले वर्णभेदतः ।
बुधो निश्चिनुयात् सर्वमुद्धरेच्च प्रयत्नतः ॥
गर्बवद्दारुशिलया प्रतिमां कुरुते यदि ।
अज्ञानाद्वाऽथ लोभाद्वा यजमानस्त्वरान्वितः ॥
समूलघातकं हन्यात् स्वकुलं त्वात्मनोऽधिकम् ।
राजा राष्ट्रमवाचीयात् स्थापकश्च विनश्यति ॥
बिम्बं शीतलया कुर्याच्छिया यदि सादरम् ।
देवस्य सन्निधिः साक्षात् सम्पच्च वरदो हरिः ॥
कांल्पङण्टाध्वनिप्रख्यः छेदने जायते ध्वनिः ।
शिरःप्रदेशे मध्ये तु कांस्यध्वनिसमो भवेत् ॥
मूले तालध्वनिसमो यत्र स्यात् सा शिला पुमान् ।
न्यूनं तस्माद् ध्वनिः किञ्चिच्छिद्रतो यस्य सा रमा ।
शिला नादविहीना तु नपुंसकमुदाहृतम् ॥ इत्यादि (तत्त्वकणिकायाम्)

37. जातितः (पा.)

38. पुंशिला प्रतिमार्थं तु स्त्रीशिला पीठक्लृप्तये । (पा.)

39. समावृते (पा.)

40. शिलवृक्षविवर्जिते । (पा.); शिलोदकविवर्जिते इति क्वचित् ।

41. दीर्घास्तु (पा.); दीर्घस्थकळमा.....(पा.)

42. अङ्गुष्ठपर्वमारभ्य वितस्तिर्यावदेव तु ।
गृहेषु प्रतिमा कार्या नाधिकोना प्रशस्यते ॥ -इति मात्स्ये(छ.टीका)

43. द्वारमूर्ध्वमर्धं च (पा.)

44. ऊर्ध्वं (पा.)

45. सत्रिपादम् (पा.)

46. वर्तुळं (पा.)

47. चतुरश्रम् (पा.)

48. सुगोपुरमथापि वा (पा.)

49. वास्तुर्नामा चतुर्वकत्रो भगवत्स्वेदसम्भवः ।
अभ्यद्रवत् सुरान् हन्तुमात्मनो बलदर्पितः ॥
स देवैस्त्रासितस्तूर्णमपतद्भुवि विह्वलः ।
विस्रस्ताङ्गस्य च प्राणान् धारयेदिह वास्तुकः ॥
अधोमुखं प्राक्शिरसं विन्यसेद्वास्तुपुरूषम् ।
प्रसार्य पाणिपादौ द्वौ कोणभूमिप्रकल्पितौ ॥
तमर्चयेत् प्रयत्नेन कर्म दैवं यथा भवेत् ।
अनर्चिते वास्तुदेवे कृतं कर्मासुरं भवेत् ॥
मण्टलपे दक्षिणे पार्श्वे वास्तुदेवं लिखेद्भुवि ।

सप्तदर्भकृतं कूर्चं कृत्वा तत्र विनिक्षिपेत् ।
तत्रार्चयेद्वास्तुनाथं गन्धपुष्पादिभिः क्रमात्॥ इति । तथा-
अधोमुखं प्राक्शिरसं विन्यसेद्वास्तुपुरुषम् ।
प्रसार्य पाणिपादौ द्वौ भूकोणेषु प्रकल्पितौ ।
एवं ध्यात्वा समभ्यर्च्य पुरुषं वास्तुकल्पितम् ॥ इति ।
न चैवमसुरस्य पूजाविधानमयुक्तमिति वाच्यम्-
भूताः पिशाचा नागाश्च असुरा राक्षसा ग्रहाः ।
सर्वे तु व्यपच्छन्तु बलितुष्टा यथायथम् ॥
भूतानां च पिशाचानां रक्षसां जितिजन्मनाम् ।
ग्रहाणामपि नागानामन्येषां च बलिं क्षिपेत् ॥
-इत्यादिना बलिदानादिक्रमेण पूज्यत्वसम्भवात्। अत एव तुशब्देनैव तत्पूजामाह, न साक्षादिति ध्येतम् । -इति वास्तुविषये विशेष उक्तः, तत्त्वकणिकायाम् ।

50. पतितो (पा.)


51. नूतनगृहप्रवेशे कूपतटाकादिप्रतिष्टायामपि वास्तुदेवतापूजनं कार्यमिति सूचयति। तदुक्तं कापिलेये-
सूचयति। तदुक्तं कापिलेये-
सर्वान् देवांस्तु कार्येषु पूजयेद्वास्तुसंस्थितान् ।
तेनासौ वर्तते नो चेदुत्तिष्ठेन्माधवाज्ञाय ॥
ततश्च तेषां ये पूजविमुखास्तैः कृतानि तु ।
सुकृतानि समादध्युः दुष्कृतानि च कुर्वते ॥
ततस्तेषामर्चनं तु प्रत्यब्दं कुर्वतां सताम् ।
शुभान्येवाशु जायन्ते नैवाशुभकथाऽपि वा ॥ इति । (छ.)

52. शुभम् । (पा.)

53. त्रातमङ्गारकम् (पा.)

54. दारणम् (पा.)

55. पश्चिमस्यां (पा.)

56. सचरम् (पा.)

57. चतुरश्रम् (पा.)

58. ह्रस्वमानसुविस्तृतम् (पा.)

59. सुविस्तृतम् (पा.)

60. एवं तन्मण्टपस्य देश उक्तो योगदीपिकायाम् (6/13)।
वायुसोमेशशक्राणां दिक्ष्वासामुत्तरेऽपि वा ।
मण्टपस्याविदूरे तु कुर्यादङ्कुरमण्टपम् ॥ इति ।
मुद्गादिसप्तधान्यानि । उपलक्षणमेतत् । सम्भवे सति अनयान्यपि धान्यानि पूरयेत् । तदुक्तं शेखरे -
मुद्गाढायवानिष्पावसर्षपान् माषकङ्गुकान् ।
तिलशालिश्यामराजमाषान् खल्वांश्च साधयेत् ॥
बीजानां देवता ह्येताः विष्णुश्रीह्वह्मवायवः ।
ईशेन्द्रस्कन्दधर्मार्काश्चन्द्रवारीशवह्नयः ॥ इति । (छ.)
प्रात्रेषु बीजपूराणमन्त्र उक्तस्तत्रैव--
जितन्ते पुण्डरीकाक्ष नमस्ते विस्वभावन ।
सुब्रह्मण्य नमस्तेस्तु महापुरुष पूर्वज ॥
इति मन्त्रेण बीजानि पूर्वोक्तक्रमयोगतः ।
आवपयेत्पालिकाद्येषु कर्त्तारं च हरिं स्मरन् ॥ इति ।
बीजावापनं च रात्रावेव कार्यम् ।
बीजानां दैवतं सोमः स रात्रौ कान्तिमान् यतः ।
तस्मादाहृत्य बीजानि निशायामेव वापयेत् ॥ इति ।

61. विस्तारेण कर्त्तुमशक्तौ संक्षेपेणाङ्कुरार्पणविधिरुक्तः शेखरे-
काले तु त्वरिते प्राप्ते कुर्यात्सद्योऽङ्कारार्पणम् ।
पालिकादिषु पात्रेषु नारिकेलप्रसूनकम् ॥
दूर्वाक्षततिलैर्युक्तं पूरयेन्मूलमन्त्रतः ।
पूजां बल्यादिकं सर्वं सद्य एव समाचरेत् ॥
-इति सिद्धान्तशेखरे (छ.टीका)

62. तत्रैव (पा.)

63. तदुक्तं पञ्चरात्रे-
धातुमयीं च सप्ताहं प्रतिमां वासयेज्जले ।
सप्ताहं मृत्तिकायां च धान्ये सप्तहमेव तु ॥
एकत्र पञ्चगव्येषु निक्षिप्य दिनसप्तकम् ।
पञ्चामृतेषु च पृथक् निक्षिपेद्दिनिसप्तकम् ॥ इति । (छ.टीका)

64. पूर्वतो बव्हचौ पृथक् दक्षिणे तु यजुर्वेदिनौ ।
गायेतां सामगौ राजन् पश्चिमद्वारमाश्रितौ ॥
आथर्वणौ चोत्तरतः.......इत्युक्तेः । (छ.टीका)

65. लक्षसङ्ख्यकम् (पा.)

66. वीथिका लताः (प्र.)

67. चतुरश्रम् (पा.)

68. चतुर्दळश्वेतपद्मचतुष्के मण्डलस्थिते । (पा.)

69. हैरिवेरम् (पा.)

70. कोष्ठसार्वके (पा.)

71. चतुर्विशत्तु मूर्तीनां (पा.)

72. अयनञ्तोत्तरं मुख्यं जघन्यं दक्षिमायनम् ।
माघे भाद्रपदे चैव प्रतिष्ठां मासि वर्जयेत् ॥
राज्ञो राष्ट्रस्य चान्यस्य ग्रामस्य च गुरोस्तथा ।
यजमानस्य धिष्टस्य शुभेष्वनुगुणेषु च ॥
प्रथमा च द्वितीया च पञ्चमी च त्रयोदशी ।
तृतचीया ,प्तमी षष्ठी दशम्येकादशीति च ॥
द्वादशी पौर्णमासी च शुक्लपक्षशुभान्विताः ।
तृष्णे तु पञ्चमी यावत्तिथयः सम्प्रकीर्तिताः ॥
त्रिपूत्तरेषु रेवत्यामश्विन्यां रोहिणीषु च ।
तिष्ये पुनर्वसौ वाऽपि हस्ते च श्रवणे तथा ।
देवस्य स्थापनं कुर्यात् विष्णोरभ्युदयावहम् ॥
-इति प्रतिष्ठाकाल उक्तः, तत्त्वकणिकायाम्

73. प्रणवेनैव भक्तितः (पा.)
उक्तं च हयशीर्षे - पञ्चगव्येन तां स्वाप्य क्षाल्य गन्धोदकेन तु ।
पूजयेत्सङ्कलीकृत्य साङ्गं सावरणं हरिम् ॥
-इति हयशीर्षे (छ.टीका)

74. तेजोमयीं प्रतिमागततेजोभूतभागरूपेत्याहुः । मुख्यवायुप्रतिमेत्यप्याहुः ।
तदुक्तम्-
प्रतिमां प्रतिमान्तःस्थां वायोस्तेजोमयीं सुधीः ।
विष्णोर्वपुश्च तन्मध्ये ध्यायोदानन्दचिद्धनम् ।
विना प्रतीकं प्राणस्य स्मरन्निरयभाक् भवते ।
वायुं विना न गृह्णामि यत् किञ्चत् वस्तु मे प्रियम् ।
तस्माद्वायुमुखैर्देवैर्वायुहस्तेन दापयेत् ॥ इति ।
"प्रतिमाऽधिकसादृश्यान्मुखा विष्णोः सदा रमा"
इत्युक्तेः तेजोमीप्रतिमा लक्ष्मीरूपप्रतिमा चेति सम्प्रदायविदः । (छ.टीका)


75. सर्वगुण.........(पा.)

76. पञ्चगव्यस्य (पा.)

77. पञ्चगव्यानि गृह्णीयात् मृत्पात्रे नूतने शुभे ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तु, पञ्चमम् ॥
कपिलाया जराया वा पञ्चगव्यं प्रशस्यते ।
तयोरभावं त्वन्यासां गवां गव्यं विधीयते ॥
नार्ताया न च गर्भिण्या न वृद्धायाः कदाचन ।
नावत्साया उपादेयं धेनोर्मूत्रशकृद्द्वयम् ॥
भूमिस्थगोमयं ग्राह्यं श्रेष्ठं क्रिम्याद्यदूषितम् ।
निपीड्य सम्यक् गृह्णीयाद्गोमयस्य रसं पुनः ॥
सद्यस्तप्तं घृतं शुद्धमहोरात्रोषितं दधि ।
क्षीरं ग्राह्यमतप्तं च दशाहाज्जन्मनः परम् ॥
गोमूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयम् ।
अप्यायस्वेति च क्षीरं दधिक्राप्णेति वै दधि ॥
घृतं द्विगुममाघारं पीयूषं त्रिगुणं ततः ॥
षङ्गुणं मूत्रमेतस्याः शकृद्वारि चतुर्गुणम् ।
स्रपने कथितं मानं प्रोक्षणे पञ्चकं समम् ॥
गोमयेन समं मूत्रं दधि स्याद् द्विगुणं ततः ।
ततश्चतुर्गुणं सर्पिस्ततोऽप्यष्टगुणं पयः ।
प्राशनं पञ्चगव्यानां प्रमाणमिदमीरितम् ॥
-इति पञ्चगव्यादिग्रहमप्रकार उक्तः, तत्वकणिकायाम् ।

78. गीतनृत्तैश्च (पा.)

79. स्तोत्रै.....(पा.)

80. स्वाध्यायैर्गीतनर्तनैः (पा.)

81. वातिप्रशस्तके । (पा.)

82. अतः परं प्रवक्ष्यामि देवस्यावभृथं तव ।
शोधयेयेद्गोमयैर्भूमिमण्डले कलशान् न्यसेत् ॥
कलशे विन्यसेत्पञ्चगव्यं मन्त्रैर्विशेषतः ।
मन्त्रतो विन्यसेन्मध्ये नवकानां सुरोत्तम् ॥
नदीनदतटाकौत्थैः शेषांस्तोयैः प्रपूरयेत् ॥
गायत्रीं वैष्णवीं जप्त्वा मूलमन्त्रं शतं जपेत् ।
जप्त्वा ध्यायव् हरिं मन्त्रैः कलशैरभिषेचयेत् ॥
-इति हयशीर्षे (छ.टीका)

83. प्रातिलोम्येन (पा.)


84. प्रवाहनात् (पा.)

85. प्राकरे पतिते हर्म्ये गोपुरे मण्टपादिके ।
तदाकारं च तद्द्रव्यं तन्मानं तत्र कारयेत् ॥

86. प्रसवे मरणे वाऽपि श्वसृगालशवाहते ।
रजस्वलाप्रवेशे च सेके वर्षजलैरपि ॥
पूजायाश्चैव विच्छेदे गर्दभादिप्रवेशने ।
भूमौ खाते तथोच्छिष्टस्पर्शनेऽप्यङ्गनाहते ॥
पुनः सम्प्रोक्षयेद्देवं ततः पूजां समाचरेत् ॥
-इति हारीतस्मृतिः (छ.टीका)
अन्यच्च निमित्तमुक्तं पञ्चरात्रे-
विण्मूत्रश्लेष्मसम्पर्के सम्प्रोक्ष्य च समर्चयेत् ।
अन्यथा निष्फला पूजा महान् दोषश्च जायते ।
सम्प्रोक्षमविधानस्य न कालनियमः स्मृतः ।
निमित्ते समनुप्राप्ते सद्यः कृत्वा समर्चयेत् ॥
-इति पञ्चरात्रे (छ.टीका)
पूर्वस्थापितबिम्बस्य न पुनःस्थापनं स्मृतम् ।
स्थाप्यते चेन्महादोषस्तस्य सम्प्रोक्षणं स्मृतम् ॥
जलाधिवासरहितं नेत्रोन्मीलनवर्जितम् ॥
-इति पश्चरात्रे (छ.टीका)
महापापोपापाभ्यां युक्तः पतित उच्यते ॥
-इति पतितशब्दार्थ उक्तः पाद्मे (उ.खं.262/27)

87. प्रायश्चित्तविधिः स्मृतः । (पा.)

88. प्रसादे चाङ्गभङ्गादिसन्धाने नूतने कृते ।
प्रतिमायां च पीठे च प्रभायां चायुधेऽपि च ॥
आराधने च विच्छिन्ने मासादौ कमलासन ।
स्पर्शने प्रतिलोमाद्यैर्नित्याशौचिविगर्हितैः ॥
उदक्यादिभरन्यैश्च शिल्पिभिः स्पर्शदूषिते ।
विण्मूत्ररुधिरापेयस्पर्शदोषे च मन्दिरे ॥
जनने मरणे चैव श्वसृगालशवादिभिः ।
स्पृश्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते ॥
एवमादिषु चान्येषु सम्प्रोक्षणविधिर्भवत् ॥
धामाधिकमसम्प्रोक्ष्य प्रतिमादिकमप्यथ ॥
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः ।
शून्यं स्यादिरिणप्रोक्षणं कार्यं धामादीनां यथाविधि ॥
विष्णोर्नुकमिति स्वच्छैर्जलैः प्रोक्षणमिष्यते ।
अब्लिङ्गैरितरैर्मन्त्रैराचार्यो ब्राह्मणैः सह ॥
ध्रुवबेरादिबिम्बानां शोधने क्षालने कृते ।
इदं विष्णुरितिप्रायैर्मन्त्रैः परमपावनैः ।
स्नपनं तु यथाशक्ति कुर्यात् पुण्याहपूर्वकम् ।
कुण्डे वा स्थण्डिले वाऽपि जुहुयात्समिधादिभिः ॥
प्रत्येकमष्योत्तरशतं शान्तिहोमो यथापुरम्।
-सम्प्रोक्षणविषये विशेषः उक्तः पञ्चरात्रे

89. वा प्रकीर्तितम् । (पा.)

90. ज्ञात्वा तत्त्वानि तेष्वीशं सर्वतत्त्वेश्वरं प्रभुम् ।
जानन् ज्ञानी भवेत् स्वस्य योग्यं ज्ञानं विशेषतः ॥
पूर्वोक्त एव यो जानन् स विज्ञानि भवत्युत ॥
-इति भागवततात्पर्योद्धृत प्रमाणवचनम् (11/19/14)
विषयेन्द्रियप्रकृतिदेवताः परमात्मना ।
पञ्चविंशतितत्त्वानि सङ्ख्यातानि विदो विदुः ॥
-इति भागवततात्पर्योद्धृत प्रमामवचनम् (11/12/19)

91. शक्तिः प्रतिष्टा संविच्च प्रकृतिः स्फूतिरेव च ।

कला विद्या मतिश्चैव माया नियतिरेव च ॥
कालस्च पुरुषश्चेति द्वादशात्मा हरिः स्मृतः ॥
-इति वायुपुराणे माघमाहात्म्ये
शक्तित्वाद्विष्णुशक्तिस्तु शक्तिशब्देन चेष्यते ।
शक्यत्वात् प्रकृतिश्चापि......... ॥

-इति भागवततात्पर्योद्धृततन्त्रसारवचनम् (4/8/59)

92. बुद्धिरध्यवसानाय संशयं कुरुते मनः ।
अभिमानो ह्यहङ्कारश्चित्तं स्मरणकारणम् ॥ -इति भा.ता.(3/27/15)
ज्ञानप्रधानस्तु महान् अहङ्कारः क्रियाधिकः ॥ -इति भा.ता.(3/27/24)
सामान्यं मनसा जातं विशेषात् बुद्धिजं स्मृतम् ॥
-इति भा.ता.(3/27/31)
अभिमानस्त्वहङ्कार आत्मा रुद्रेन्द्रौ कामतत्स्त्रियः ।
मनसस्तत्वनिरुद्धश्च चन्द्रश्चान्ये यथोदितम् ।
एवं क्रमो व्यत्ययस्तु सूक्ष्मस्थूलविभेदतः ।
सृष्टौ गुणे च ज्ञानादौ नुक्तिस्थै वाप्ययं क्रमः ।
नियमेनान्यथोक्तिस्तु मोहायासुरजन्मनाम्' वाराहे ॥
-भा.ता.3/21/13

93. सर्वदेहाभिमानी तु देहिनां तु दिवाकरः ।
इन्द्रियात्मेन्द्र ऐवैकः प्राणो नाम प्रजापतिः ॥
-इति भागवततात्पर्योद्धृतप्रमाणवचनम् ॥ (11/22/19)

94. अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये ॥
भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥ -ऐतरेयोपनिषद्भाष्ये
पुत्रनाम् पितुश्च स्यात्तत्तन्त्रत्वात्सुतस्य हि ।
यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥ -ऐतरेयोपनिषद्भाष्ये

95. प्राणः प्रथमजो यस्तु प्रधानो वायुरीरितः ।
त्वगादज्यात्मास्तु तत्पुत्रा द्विधा भूतमुदाहृतम् ॥
-इति भागवततात्पर्योद्धृततत्त्वनिर्णयवचनम् ॥ (3/7/9)
अधिदैवे ज्वलत्कर्मा वह्निः सूर्यस्तु तापकः ।
सोमः कानतौ वृष्टिकर्मा वासवः शेष एव तु ।
पञ्चरात्रप्रवृत्तीशो रुद्रस्तत्स्थक्रियापरः ॥
सर्वप्रवर्तको वायुर्ज्ञानमोक्षप्रदस्तथा ॥
वेदप्रवृत्तिकृद् वीन्द्रः...........॥
-इति बृहद्भाष्ये 3/6
पापद्वेषादिका दोषा अवराणां न संशयः ।
भक्त्यादिगुमपूगस्तु पराणामाविरिञ्चतः ॥
स्वातन्त्र्यात् सर्वदेहेषु स्थितानामपि सर्वशः ।
स्पृश्यन्ते नैव दोषैस्ते गुणदानैकतत्पराः ॥
-इति भागवततात्पर्योद्धृतविवेकवचनम्(11/12/24)

96. देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।
सोमवित्तपसूर्याप्पा अश्पयग्नीनद्रेन्द्रसूनवः ॥
यमो दक्षश्चेन्द्रियेशास्सुपर्मी वारुणी तथा ।
उमेति चार्थमानिन्यस्तिस्रो द्विद्व्येकदेवताः ॥
मनोऽभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।
ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धः सरस्वती ॥
तस्या ब्रह्मा महानात्मा ततोऽप्यक्ताभिधा रमा ।
तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ।
कश्चित्कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा ॥
-कठोपनिषद्भाष्ये
`कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी ।
लोकाभिनानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥
तपोऽभिमानी वह्निश्च वरुणो वीर्यदेवता ॥
अन्नस्य देवता सोमो मनोनामाऽनिरुद्धकः ।
इन्द्रियेषाश्च सूर्योद्याश्चक्षुराद्यभिमानिनः ।
रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः ।
श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया ॥
तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः ॥
तस्यापीशः कारणं च वासुदेवः परोऽव्ययः ॥
न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत् ।
तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम्' ॥
`विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः ।
तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥
ततश्च वरुमस्सृष्टस्तस्मादग्निस्ततोऽवरः ।
आकाशदेवता विघ्नस्ततो वायो- सुतो मरुत् ॥
तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः ।
ततः पर्जन्य उद्भूतः स्वाहाऽतो मन्त्रदेवता ॥
उदात्मको बुधस्तस्या उषा नामात्मिका ततः ।
ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः ।
क्रमात् प्रत्यवरा एते मुक्ताः सर्वगुणैरपि ।
नित्यमुक्तस्तथा विष्णुः प्राणादप्युत्तमोत्तमः ॥' इति च ।
-कठोपनिषद्भाष्ये

97. `सर्वाभिमानिनो देवाः सर्वेऽपि ह्युत्तरोत्तरम् ।
आधिक्यं वक्तुमेतेषां पृथक्स्थानमुदीर्यते ।
आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते ।
स्थानेषु त्ववरेषां च परे सन्ति न चेतरे ।
तथाऽपि पितुर्र्थो यः पुत्रस्याप्युपचर्यते ।
अव्यक्तादिपदार्थाना सर्वे तदभिमानिनः' इति च ।
-गीतातात्पर्ये 3/42

98. ज्ञेयम् (पा.)

99. कथितमस्मिंस्तन्त्रे (पा.)



चतुर्थोऽध्यायः

अथ विष्णूदिते तन्त्रसारे मन्त्रगणो हि यः ।
उदितः सङ्ग्रहेणासावुच्यतेऽ (1)खिलसाधनः ॥ 1 ॥

याष्टमस्तूयुतोऽन्तेन समेतश्चैव भूभृतः ।
बीजं नमश्च (2)भगवान् सोद्देश्यो रूपसंयुतः(3) ॥ 2 ॥

स एव तादृशो लोकत्रयपालो भुवः पतेः ।
बावं मे देहि दान्ते तु दापय स्वाहया युतः ॥ 3 ॥

(4)मनुस्तस्यापररस्तारबीजोद्देशनमोयुतः ।
नमः सोद्देशभगवान् महाशब्दयुतश्च सः ।
तादृशः स्वाहया युक्तो वराहस्यापरो मनुः ॥ 4 ॥

श्यामः सुदरशनदराभयद्वरेतो भूम्या युतोऽखिलनिजोक्तपरिग्रहैश्च ।
ध्येयो निजैश्च तनुभिः सकलैरुपेतः कोलो हरिः ककलवाञ्छितसिद्धयेऽदजः ॥

वैष्मवानां मुनिर्ब्रह्मा मन्त्रामां वर्णभेदतः ।
ज्ञेयं (5)छन्दो देवतैकस्तत्तद्रूपो हरिः परः ॥ 6 ॥

प्रणवेन स्वनाम्ना च भूधरेण परात्मना ।
सर्वज्ञसर्वशक्तिभ्यां षडङ्गानि विदो विदुः ॥ 7 ॥

ज्ञानैश्वर्यप्रभानन्दतेजःशक्तिभिरेव वा ।
पूर्णात्ममध्यगैः सर्ववैष्णवाङ्गान्यथो विदुः ॥ 8 ॥

तिष्टोदादिस्वजायायाः कारणं स्वाहया युतः ।
(6)श्रीकरोऽष्टाक्षरो मन्त्रो गरुडारुढसंस्मृतिः ॥ 9 ॥

द्विर्भिषय त्रासय च प्रमर्दय तथैव च ।
प्रध्वंसयाथो रक्षेति पञ्चाङ्गाश्चेत्युदाहृतः ॥ 10 ॥

प्रूरं वीरं बृहद्विष्णुं दीप्यन्तं विश्वतोमुखम् ।
पुंमृगेन्द्रं भयकरं शुभं मृत्योश्च मारकम् ।
नमामि स्वयमित्येष (7)द्वात्रिंशार्णो मनुर्हरेः ॥ 11 ॥

द्विर्जयस्योपरि निजं सोद्देषं सर्ववित्तथा ।
महातेजो बलं वीर्यं तादृशं स्वाहया युतम् ।
चतुर्विंशाक्षरो मन्त्रो निखिलेष्टप्रदायकः ॥ 12 ॥

विद्महे धीमहे पूर्वं स्वयं चैव महाबलः ।
प्रेरयेत्तन्न इत्येतन्मध्येऽनन्तः प्रकीर्तितः ॥ 13 ॥

पादैर्व्यस्तैः समस्तैश्च पदैश्चैङ्गं प्रकीर्तितम् ।
पूर्वयोस्तत्र पूर्वं तु सर्वज्ञेन षडङ्कम् ।
तृतीयं तु द्विरावृत्तैः पादैरङ्गासमन्वितम् ॥ 14 ॥

ध्यायेन्नृसिंहमुरुवृत्तरवित्रिनेत्रं(8) जानप्रसक्तरकयुग्ममथापराभ्याम् ।
तक्रं दरं च दधतं प्रियया समेतं तिग्मांशुकोट्यधिकतेजसमग्य्रशक्तिम्॥15॥

सर्वेष्वपि हि मन्त्रेषु द्व्याद्यनन्तान्तबाहुकः ।
चेतनान्तस्थमारभ्य (9)सर्वागान्तस्थरूपवान् ॥ 16 ॥

अनन्तरूपो ध्येयोऽत्र स्वगुरूक्तानुसारतः ।
यथायोग्यं यथाशक्ति तत्तदायुधभूषणः ॥ 17 ॥

शङ्खचक्रगदापद्मखड्गखेटाः सशार्ङ्गकाः ।
शरो मुकलवद्रौ च हलः पाशाङ्कुशौ तथा ॥ 18 ॥

शूलं च भिण्डिपालश्च पट्टशोऽग्निर्वराभये ।
(10)तर्कमुद्राऽक्षमाला च पुस्तरकं च विदारणम् ।
इत्यादीन्यखिलान्येव विष्णोश्चिन्त्यानि बाहुषु ॥ 19 ॥

वियत्स इति युग्मार्णो विपरीतश्च स स्मृतः ।
स सर्गहीनो वेतश्च बिन्दुहीनोत्तरस्तथा ॥ 20 ॥

त्रय एते महामन्त्रः पुरुषार्थचतुष्टये ।
कल्पवृक्षाः प्रिया (11)विष्णोर्विशेषज्ञानदायकाः ॥ 21 ॥

(12)तैरेव तु द्विरावृत्तैरङ्गमेषां प्रकीर्तितम् ।
(13)श्वासरूपो जपो नित्यमुभयोर्विद्वदज्ञयोः ॥ 22 ॥

(14)एकविंशत्सहस्रात्मा सषट्शतमहर्निशम् ।
अर्पणीयो हरौ नित्यं (15)प्रातर्योगो महानयम् ॥ 23 ॥

अशेषदोषदहनस्तत्त्वज्ञानप्रदायकः ।
अष्टैश्वर्यप्रदश्चैव कृतादौ समुपासताम् ।
तारयोगोऽप्येवमेव ब्रह्मादावेव वर्तते ॥ 24 ॥

ध्यायेद्रवीन्द्रुकरमिन्दुसहस्रलक्षकान्तिं प्रियासहितमास्थितमिन्दुबिम्बे।
शङ्खारिदोर्द्वयमुदर्कमहेन्दुबिम्बात् संसिच्यमानममृतेन रमाधिनाथम् ॥25॥

अन्त्यस्य रक्तवर्णो वा ध्येयो विष्णुः सनातनः ।
विद्युद्वर्णोऽथवा (16)ध्येयः शक्त्येतः पञ्चमन्त्रयुक् ॥ 26 ॥

अष्टाक्षरो महामन्त्रः तैरेवाङ्गैः समन्वितः ।
अन्त्यध्यानयुतश्चैव निःशेषपुरुषार्थदः ॥ 27 ॥

मूलं नः प्रितषेधश्च सोद्देशो भगवानपि ।
विष्णुर्भोज्याधिपः स्वाहायुक्तोऽष्टादशवर्णकः ॥ 28 ॥

अङ्गानि तत्पदैरेव (17)मन्त्रचिन्तामणिः स्वयम् ।
यथेष्टभक्षभोज्यादिदाता मुक्तिप्रदायकः ॥ 29 ॥

ध्यायेत्सुशुक्लमरविन्ददलायताक्षं सौवर्णपात्रदधिभोज्यमथामृतं च ।
दोर्भ्यां दधानमखिलैश्च सुरैः (18)समेतं शीतांशुमण्डलगतं रमया समेतम्॥30॥

(19)अमृतं स्वयमुद्देशयुक्तः सहृदयो मनुः ।
सतारोऽष्टाक्षरोऽङ्गानि (20)पदैर्व्यस्तैः समस्तकैः ॥ 31 ॥

उद्यद्रविप्रभमरीन्द्रदरौ गदां च ज्ञानं च बिभ्रतमजं प्रियया समेतम् ।
विश्वावकाशमभितः (21)प्रतिभासयन्तं भासा स्वया स्मरत विष्णुमजादिवन्द्यम् ॥ 32 ॥

त्रिविक्रमश्च सोद्देशो विश्वरूपश्च तत्परः(22) ।
धीविदौ च महे विष्णुस्तन्नः प्रेरणमध्यगः ॥ 33 ॥

स्वयमुद्देशसंयुक्तः तदाद्यर्णपुरः सरः ।
सनतिः षडक्षरो मन्त्रो वर्णैरङ्गक्रिया मता ॥ 34 ॥

अङ्गारवर्णमभितोऽण्डबहिःप्रभाभिर्व्याप्तं परश्वधधनुर्धरमेकवीरम् ।
ध्यायेदजेशपुरुहूतमुखैस्तुवद्भिरावीतमात्मपदवीं प्रतिपादयन्तम् ॥ 35 ॥

श्यामं रवीन्द्रमितदीधितिकान्तियुक्तं ज्ञानं शरं च दधतं प्रियया समेतम् ।
स्वात्मस्वरूपममितं हनुमन्मुखेषु सन्दर्शयन्तमजितं स्मरतोरुगीर्भिः ॥ 36॥

निजागोत्रं तु सोद्देशं पूर्वाक्षरपुरः सरम् ।
नत्यन्तं तारपूर्वं च मनुरष्टाक्षरो मतः ॥ 37 ॥

ते च बीजे बीजभूते धर्मादीनामशेषतः ।
एत विजयदा मन्त्रा ज्ञानमोक्षप्रदायकाः ।
हिरण्यत्नराज्यादिसमभीष्टसुरद्रुमाः ॥ 38 ॥

कृष्णो गोविच्च (23)कामेतः सोद्देशो बल्लवीजनः ।
प्रियश्च (24)तादृशस्वहायुक्तोऽष्टादशवर्णकः ।
पदैरङ्गानि सम्प्रीतिकाममोक्षप्रदो मनुः ॥ 39 ॥

ध्यायेद्धरिन्मणिनिभं जगदेकवन्द्यं सौन्दर्यसारमरिशङ्खवराभयानि ।
दोर्भिर्दधानमजितं सरसं च भौष्मीयत्यसमेतमखिसप्रदमिन्दिरेशम् ॥ 40 ॥

सकामः स्वयमुद्देशी नत्यन्तोऽयं षडक्षरः ।
तदादिरपि (25)सर्वेष्टचिन्तामणिरुदाहृतः ॥ 41 ॥

दृष्टार्थ एव मन्त्राणां कलौ वीर्यं तिरस्कृतम् ।
तत्राप्युद्दीप्तवीर्या हि मन्त्रा अत्र प्रकीर्तिताः ।
वासिष्ठवृष्णिप्रवरमन्त्रास्तत्रापि वीर्यदाः ॥ 42 ॥

स्वयं वेदपदारूढः पूर्वर्णपुरःसरः ।
नत्यन्तोऽष्टाक्षरो मन्त्रः प्रियो विज्ञानगोपतेः ॥ 43 ॥

व्याख्याश्रिसर्वविज्ञानकवितादिगुणप्रदः ।
वादे विजयदो नित्यं यथा युद्धे नृकेसरी(26) ॥ 44 ॥

विज्ञानरोचिः (27)परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् ।
तर्काभयेतं विधिशर्वपूर्वगीर्वाणविज्ञानदमानतोऽस्मि ॥ 45 ॥

ज्ञानानन्दपुरःपूर्णो विद्महे धीमहे तथा ।
तन्नः प्रेरणमध्ये तु व्यासो मन्त्राधिपाधिपः ॥ 46 ॥

आदिबीजं स्थिरादोषज्ञानबीजं विमुक्तिदम् ।
सर्वपापक्षयकरं सर्वव्याधिविनाशनम् ॥ 47 ॥

ध्यायेच्छाशाङ्कशतकोट्यतिसौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः ।
वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेषविद्याः ॥ 48 ॥

सोद्दैशस्तु स्वयं (28)दीर्घपूर्वाद्यार्णो नमोयुतः ।
सर्वविद्याप्रदोऽष्टार्णः प्रतिवादियप्रदः ।
विमुक्तिसाधनः (29)कीर्तिबुद्धिस्थैर्यप्रदः सदा ॥ 49 ॥

वन्दे तुरङ्गवदनं शशिबिम्बसंस्थं (30)चन्द्रावदातममितात्मकरैः समन्तात्।
अण्डान्तरं बहिरपि प्रतिभासयन्तं शङ्काक्षपुस्तकसुबोधयुताब्जबाहुम् ॥ 50॥

(31)नस्तो मुखादपि निरन्तरमुद्गिरन्तं विद्या(32)अशेषत उताब्जभवेशमुख्यैः ।
संसेव्यमानमतिबक्तिभरावन्मैर्लक्ष्म्याऽमृतेन सततं परिषिच्यमानम् ॥ 51 ॥

स्वयमुद्देशवान्पूर्ववर्णपूर्वो नमोयुतः ।
सतारोऽष्टाक्षरश्चैव नवार्णश्च मनू स्मृतौ ॥ 52 ॥

प्रोद्यद्दिवाकरसमानतनुं सहस्रसूर्योरुदीधितिभिराप्तसमस्तलोकम् ।
ज्ञानाभयाङ्कितकरं कपिलं च दत्तं ध्यायेदजादिसमितं प्रति बोधयन्तम् ॥ 53॥

अधृष्यताज्ञानमोक्षप्रदौ भक्तेष्विमौ सदा ।
सूक्तं दीर्घतमोदृष्टं (33)`विष्णोर्नु कम्' इति प्रभोः ॥ 54 ॥

सर्वार्थदं गार्त्समदं (34)`यो जात' इति चापरम् ।
वासिष्टं च (35)परो मात्रयेति ज्ञानविमुक्तिदम् ॥ 55 ॥

भौवनीयं सर्वकाममोक्षदं (36)य इमेत्यपि ।
एवमेवाखिला वेदा ज्ञातव्या विष्णुतत्पराः ॥ 56 ॥

स्वदृष्टं सूक्तमखिलं कामदं हरितुष्टिदम् ।
वाचोऽम्भृण्याः(37) श्रियोऽङ्गानि श्रीर्लक्ष्मीर्मेन्दिरा रमा ॥ 57 ॥

कौशेयपीतवसनामरविन्दनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम् ।
उद्यच्छतार्कसदृशीं(38) परमाङ्कसंस्थां ध्यायेद्विधीशनुतपादयुगां(39)जनित्रीम् ॥ 58 ॥

लज्जाबीजं च तद्बीजं तस्या एवाभिधायकम् ।
पाशाङ्कुशौ (40)रक्तवस्त्रे लज्जाबीजे विशिष्यते ॥ 59 ॥

अमध्ययुग्मस्वहरगतैनैवाङ्गमुदाहृतम् ।
सत्ताबूजं च दुर्बीजं तद्वदेव प्रकीर्तितम् ॥ 60 ॥

वर्णः श्यामो विशेषोऽत्र ताम्बूलं नीलमुत्पलम् ।
शङ्खचक्रौ तर्जनश्च शूलमित्यपरत्र च ॥ 61 ॥

नमोऽन्तं स्वेन सहितस्तदेवान्यो (41)मनुः स्मृतः ।
दुर्गा त्रिष्टुप् कश्यपोक्ता तत्र वर्णोऽग्निवत् स्मृतः ॥ 62 ॥

त्रिनेत्रत्वं च दुर्गायाः प्रायः सर्वत्र कथ्यते ।
पादैः समस्तेन तथा षड्वर्मेनाङ्गमुच्यते ॥ 63 ॥

रमाया एव रूपाणि त्वेतानि हि विदो विदुः ।
मुख्यातो जामदग्न्यस्तु देवाताऽस्य मनोः स्मृतः ॥ 64 ॥

हिरण्यगर्भसूक्तं च भृगुदृष्टं प्रकीर्तितम् ।
ब्रह्मधातृविरिञ्चाजपाद्मैरङ्गमुदाहृतम् ॥ 65 ॥

ध्यायेन्निषण्णमजमच्युतनाभिपद्मे प्रोद्दिवाकरसमूहनिकाशमग्य्रम् ।
मातृप्रकारकरमुत्तमकान्तितद्भिर्वक्त्रैः सृन्तमखिलैः (42)परमार्थविद्याः(43) ॥ 66 ॥

स्वयमुद्देशनतिमास्तस्य पञ्टाक्षरो मनुः ।
स्वयमेवापरोऽष्टार्मस्तादृशः (44)सम्प्रकीर्तितः ॥ 67 ॥

बळाद्यं भृदुमा दृष्टं प्राणाग्नेः सूक्तमुच्यते ।
प्राणाद्यैः पञ्चभिस्तस्याप्यङ्गान्युक्तानि सूरिभिः ॥ 68 ॥

उद्यद्रविप्रकरसन्निभमच्युताङ्के स्वासीनमस्य नुतिनित्यवचःप्रवृत्तिम् ।
ध्यायेद्गदाभयकरं सृकृताञ्जलिं तं प्राणं यथेष्टतनुमुन्नतकर्मशक्तिम्॥69॥

प्राणाद्याः पञ्चमान्त्राश्च तस्ये देवस्य वाचकाः ।
उच्यते हरिरप्येतैः साक्षान्नारायणादिकः ॥ 70 ॥


contd



F.N.

1. अखिलसाधकः (पा.)

2. भगवानुद्देश्यो (पा.)

3. त्रिंशद्वाराहमनुवित् कश्चिद्योग्यास विस्मितः ।
सूचितेष्वेव सर्वेषु मध्वेनाभ्यधिकेष्वपि ॥
-इति सुमध्वविजयभावप्रकाशिकायाम् । (5/78)


4. मनुस्तस्यापरो नामबीजोद्देशनमोयुतः । (पा.)

5. छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदः ।
-इति ऐतरेयभाष्ये (2/1/6)

6. श्रीकरोऽष्टार्णको (पा.)

7. दुर्गोष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्ट
-----------

8. त्रिनयनो नृसिंहरूपि । `विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि तु'।
-इति शब्दनिर्णये (भागवततत्पर्ये 6/9/33)

9. सर्वगान्तस्वरूपवान् (पा.)


10. तत्त्वमुद्रा-.....(पा.)

11. विष्णोविशेषाज्ज्ञानदायकाः (पा.)

12. एतैरेव.....(पा.)

13.

14. अहोरात्रयोरेकविंशतिसहस्राणि षड्शतान्यधिकानि भवन्ति।
-हंसोपनिषत्
मासव्रतं सार्धसतश्वासकालैरकल्पयत् ।
-मा.भा.ता.नि.22/178

15. अश्विनौ भगवांश्चैव प्रातर्योगेन गम्यते । -ऋग्भाष्ये (22/16)
प्रातर्योगेन हंसोपास्तिलक्षणेन गम्यत इति प्रातर्युगिति प्रोक्त इत्यर्थः।
-टिका
16. ज्ञेयः (पा.)

17. मनत्रचिन्तामणिस्त्वयम् । (पा.)

18. परीतम् (पा.)

19. अमृतः स्वयमुद्देशयुतः (पा.)

20. पदैर्वयस्तसमस्तकैः । (पा.)

21. परिपूरन्तम् (पा.); प्रतिपूरयन्तम् (पा.)

22. तत्पुरः (पा.)


23. कामेतौ (पा.)

24. तादृशस्वाहायुगष्टादशवर्णकः । (पा.)

25. सर्वेष्टचिन्तामणिरुदीरितः (पा.)

26. स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात् ।
हिरण्यकहृताश्चापि तथैवाप्सरसां गणाः' इति भयभञ्जने ॥ भा.ता.11/4/19

27. प्रतिपूरितान्त....(पि.)

28. दीर्घपूर्वार्णाद्यो (पा.)

29. कान्तिबुद्धि..(पा.)

30. चन्द्रावदातममृतात्मकरैः (पा.)

31.

32. तस्माद्वेदाः समुत्पन्ना विद्याख्या मूलिका श्रुतिः ।
सर्वोपनिषदश्चैव पञ्चरात्राख्यसंहिताः ।
ब्रह्मसूत्राणि वेदानां व्याख्यास्तासां च विस्तरः ।
सर्वमेतज्जगच्चैव निःसृतं तुरगाननात् ।

33. (ऋ.1/154/)

34. (ऋ.2/12)

35. (ऋ.4/99)

36. (ऋ.10/81)

37. `श्रीर्भूर्दुर्गाऽम्भ्रणी ह्नीश्च महालक्ष्मीश्च दक्षिणा ।
-बृहद्भाष्योद्धृतपैङ्गिश्रुतिः ।

38. ....सदृशाम् (पा.)

39. .....नतपादयुगाम् (पा.)

40. ....रक्तवस्त्रम् (पा.)

41. जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः । -(ऋ.1/99/1)

42. ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।
शास्त्रमिज्या सुतिस्तोमं प्रयश्चित्तं व्यधात् क्रमात् ॥ -इति भा.3/12/37

43. परमार्थविद्याम् (पा.)

44. परिकीर्तितः (पा.)


45. गौरिर्मिमाय स्वलिलानि तक्षत्येकपदी द्विपती स्म चतुष्पदी ।
अष्टपदी नवपदी बभूवुषी सहस्राक्षारा परमे व्योमन ॥ इत्येको मन्त्रः ।
(ऋ.1/164/41)

46. स्वभर्तुरङ्कस्थिताम् (पा.)

47. आचार्यः पवनोऽस्माकमाचार्यानी च भारती ।
देवो नारायणः श्रीशो देवी मङ्गलदेवता ॥ इति युक्तिमल्लिकायाम् ॥

48. मन्त्राणां तारमूलत्वमनिर्देशेऽपि निश्चितम् ॥
-इति योगदीपिकायाम् 2/81
तस्मादोमित्युहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ -इति गीता (17/24)

49. मनुः (पा.)

50. हलं संवर्तकं नाम सौनन्दं मुसलं तथा । -हरिवंशे 2/35/60

51. आपादपद्मे या माला वनमालेति सा मता ।
आजानुलम्बिनीमाला सर्वर्तुकुसुमोज्वला ।
मध्ये स्थूलकदम्बाढ्या वनमालेति कीर्तिता ॥ -स्मृतिः

52. पीतशुक्लारुणो हरिः (पा.)

53. नीलरक्तासितश्वेतरक्तश्रुक्लाश्च (पा.)

54. गदाकुमुदशूलेष्टखङ्गिनो (पा.)

55. कृपाळुः (पा.)

56. पद्मयुगळधरो (पा.)

57. लम्बोदरः (पा.)

58. वामनपुराणवचनत्वेन ब्रह्मसूत्रभाष्ये पठितम् । (2/3/11)


तत्र तत्र स्तितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
दूरतोऽप्यतिशक्तस्च लीलया केवलं प्रभुः ॥ इति अनुव्याख्याने (1/2/1)

59. पूर्ववर्णपूवो नमोयुतः (पा.)

60. क्वचित् न पठ्यते । (पा.)

61. ...ममृतोरुकरैर्जगत्ति (पा.)

62. दुरितं निहन्यात् (पा.)

63. सान्द्रमानन्दमेव । (पा.)

64. सर्वे रोगा (पा.)

65. गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः ।
अप्रसादाद्गुरोर्विद्या न तथोक्तफलप्रदा॥ इति च ।
विद्याः कर्माणि च सदा गुरोः प्राप्ता फलप्रदाः ।
अन्यथा नैव फलदाः प्रसन्नोक्ताः फलप्रदाः ॥ -इति तन्त्रसारे ॥
-इति भागवततात्पर्ये (6/8/43)

66. उपेक्षकेषु देवानां भक्तिनाशं स्वयं हरिः ।
करोति तेन विभ्रष्टाः ससंरंति पुनः पुनः ॥
अधो वा यान्ति विद्वेषात् पूज्या देवास्ततः सदा ।
यस्तान् द्वेष्टि स तं द्वेष्टि यस्ताननु स चानु तम् ॥
-इति भागववतात्पर्योद्धृत प्रमाणवचनम् (11/2/46)॥
हरिबक्त्याऽधिकेष्वेव किङ्करक्श्चाप्यृणी तथा ।
हरिभक्तो नेतरेषां वासुदेवव्ययाश्रयात् ॥
द्विधैरव स्वोत्तमर्णानि दातव्यानीतराणि च ।
दातव्येभ्यो विमुच्येत नेतरेभ्यः कथञ्चन ॥
कथं देवाद्यनुपकृतो भक्तो मोक्षेऽपि वर्तयेत् ।
बिम्बत्वात्तदधीनं हि स्वरूपं सर्वशो यतः ॥
-इति भागवततात्पर्योद्धृत (11/5/42) जीवनिर्णयवचनम् ।

67. मान्याश्च कृत्स्रशः ॥ (पा.)

68. `लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रा गिरां पतिः ।

सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥

तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।
सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ॥
तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।'
इति षाड्गुण्यवचनादप्योषोऽर्थोऽवसीयते ।
-अनुव्याख्याने 3/4/246-248

69. `दण्डोऽपि भगवच्चीर्णो ममैषोऽनुग्रहः स्मृतः ।
इति भक्त्या चिन्तयतां शुभकारी भवत्यलम् ।
तत्रापि कुर्वतां द्वेषं तमः प्राप्त्यै तथा भवेत्' इति च ॥
-भा.ता.10/14/34
शुभनं शोभनं शुम्भं शुभपर्यायवाचकाः ।
-इति भागवततात्पर्योद्धृतप्रमाणवचनम् (10/36/12)
असतां च सतां चैव हरिरेवानुशासकः ।
सतां तु श्रेयसे सैव ह्यनुशस्तिर्भविष्यति ॥
असतां विपरीता लङ्घयित्वा तु शासनम् ॥
-इति भागवततात्पर्योद्धृताग्नेयपुरणवचनम् (10/25/7) ॥
विष्णोः प्रियं कामयन्ति देवा नैवाप्रियं क्वचित् ।
यद्यप्रियं कामयन्ति न रातीशो हितो हि सः ॥
-इति भागवततात्पर्योद्धृततनत्रभागवतवचनम् (6/9/40) ॥

70. अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा ।
न किञ्चित् कामयेत् पश्चात् स क्षिप्रं मुक्तिमेष्यसि ।
-इत्यादि भागवततात्पर्ये निवृत्तवचनम् ॥ 11/15/32
अकामः । अनिषिद्धकामः -
अनिषिद्धकामितैवातो ह्यकात्वमितीर्यते ॥ (गीताभाष्ये -2/55)

इति वचनात् ।

71. ह्यकामैस्तु कृताः क्रियाः (पा.)

72. अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ (ऋ.10/60/12)

73. `अग्न्यादिशक्तिसंस्तम्भ अग्न्यादिस्तम्भ इष्यते' इति कौर्मे ॥
-भा.ता.11/15/6

74. `अग्न्यादिषु हरिं ध्यायन् तत्प्रतिस्तम्भको भवेत्' इति हरिसंहितायाम् ॥
भा.ता.11/15/29
ते वीर्यदा विजयदा अपि वारिवह्निस्तम्भादिदास्सकलदेवनिकायरोधाः ।
वृष्ट्याद्यभीप्सितसमस्तकराः ........॥ -म.भा.ता.नि.19/17

75. `उपासतः सत्य इति सत्यसङ्कल्पता भवेत्।
ईशत्वमीश्वर इति गुणं तं तं यथा हरिम्' इति विशेषे ॥ भा.ता.11/15/15

76. ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ गी. (4/11)

77. तुळसीमपि (पा.)

78. धृष्टम् (पा.)

79. प्रतिलोमानुलोमतः (पा.)

80. मोक्षिणां तु (पा.)

81. सतुन्दक्रोडकं तथा । (पा.)

82. सतळम् (पा.)

83. ककुदानद्वयेनापि (पा.)


84. पृष्ठमूलेन (पा.)

85. `आन्तरः सन्निधिर्विष्णोर्बाह्यसन्निधिरेव च ।
द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते ।

स्वाभाविकस्त्वान्तरः स्यात्प्रतिमा जीवगो यथा' इति च ॥
-भा.ता.11/21/15

86. वर्णानुप्रतिलोमेतम् (पा.)

87. प्रतिमोक्तलक्षणैर्यावद्युक्तः (पा.)

88. लब्धैर्गुणैर्मुक्तो हि (पा.)

88. `परीक्ष्यैव गुरुः शिष्यं शिष्योऽपि गुरुमाव्रजेत् ।

अन्यथा नरकायैव प्रायश्चित्तं गुरोस्तथा' इति च ॥
-भा.ता.11/3/49,50

89. यया यस्य विमुक्तिः स्यात्तद्दाता मुख्यतो गुरुः ।
एकदेशे गुरुत्वं स्यादन्यविद्याप्रदस्य तु' इति च ।
-बृहदारण्यकोपनिषद्भाष्ये
`गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः । अप्रसादाद्गुरोर्विद्या न तथोक्तफल प्रदा' इति च ॥ `विद्याः कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः । अन्यथा नैव फलदाः प्रसन्नोक्ताः फलप्रदाः' इति च तन्त्रसारे ॥
-भा.ता.(6/8/43)

90. स्फुटा (पा.)

91. `शुश्रीषेत्सहितस्तावद्यावज्ज्ञानोदयो गुरुम् ।
ततः परं च शुश्रूषेद्यथा तस्य प्रियं भवेत्'इति च ॥
-भा.ता.11/18/40

92. उत्तमाचार्यसम्प्राप्त्यै नावराचार्यतः क्वचित्। इच्छेदनुज्ञां श्रुत्वाऽपि नानुज्ञां प्रार्थयेत्ततः । ऋषिभ्यस्तूत्तमा देवा देवेभ्यो वायुरुत्तमः । वायोश्च भगवान्विष्णुर्न तस्मादुत्तमो गुरुः' इत्याचार्यसंहितयाम् ।
-छान्दोग्योपनिषद्भाष्ये

93. `एकस्मात्तु गुरोर्ज्ञाने जायते नैव कस्यचित् ।
एकस्मादेव जायेत् योग्याद्ब्रह्मपदस्य तु ।
स्वयं चोपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनि ।
अनुग्रहात्तेन चापि ज्ञानं दत्वा विमुक्तिदः ।
ज्ञानं प्राप्य बहुभ्योऽपि नर्ते मुक्तिश्चतुर्मुखात् ।
ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव हि' इति गुरुविवेके ॥
-भा.ता.11/9/31

94. सम्यग्गुरुप्रसादश्च मुख्यातो दृष्टिकारणम् ।
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचितत् ॥
-इत्यनुव्याख्याने 3/3/45

95. सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥
-इत्यनुव्याख्याने (3/31)

96. `विष्णोर्गृहत्वाभ्दूतेषु दया कार्या विजानता' इति च ॥ -भा.ता.7/6/30

97. अथ शुद्धस्थले गुद्धपीठे तूपविशेद्रहः ।
----------------------

98.

99. अधीतिः स्मृतियुक्ता तु (पा.)

100. ध्यानमेव तत्। (पा.)


101. भक्त्या प्राणं वशे नीत्वा जितप्राणे भवत्युत । -षाड्गुण्ये (भा.ता.2/2/16)

102. `सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत् ।
स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः'॥ इति च ।
`सम्यग्ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च ।
न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः'॥ इति कर्मतत्त्वे ।
-तैत्तिरियभाष्ये

103. शृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता ।
ध्यानं च यावदीक्षा स्यात्.......॥ इति षाड्गुण्ये (सू.भा.4/1/12)
`ध्यानं त्वखिलकर्मभ्यो ध्यानाच्च ज्ञानमुत्तमम् ।
न ज्ञानसदृशं किञ्चित्पुरुषार्थप्रसिद्धये' इति प्रवृत्ते ।
`अशेषकर्मपूगोऽपि न विष्णुध्यानलेशभाक् ।
तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्यते' इति कर्मविवेके ।
-कर्मनिर्णये
`मुक्तिर्ज्ञात्वाऽपि विष्णुं स्याच्छास्त्रं श्रुत्वा ततोऽधिकम् । मुक्तौ सुखं तत् पठतस्ततोऽप्यधिकमिष्यते । व्याख्यायातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् । ततोऽधिकं तु देवानां मुख्यव्याख्याकतृतो यतः' इति च ॥
-गीतातात्पर्ये 18/72

104. अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं तथाप्यावस्तुनिर्णयात् ॥
श्रवणं मननं चैव कर्तव्यं सर्वदैव हि ।
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ॥
वेत्ति तस्योक्तमार्गेण कुर्वतः स्याद्धि दर्शनम् ।
श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ॥
विशेषानन्दसम्प्रप्त्या अन्यस्यैतानि दृष्टये ।
यदि तादृग्गुरुर्नास्ति निर्णितश्रवणादिकम् ॥
सत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ।
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ॥
अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत् ।
अभावे निर्मयज्ञस्य सच्छास्त्राण्येव सर्वदा ॥
शृणुयाद्यदु सज्ज्ञानप्रचुर्यमुपलभ्यते ।
महद्भ्यो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ॥
छिन्द्यास्त्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ।
ब्रूयादपि च शिष्येभ्यः सत्सिद्धान्तमहापयन् ॥
-अनुव्याख्याने 3/3/74-81

105. `नदीसमुद्रगिरय आश्रमाश्च वनानि च ।
नगराणि च दिव्यानि शालग्रामादयस्तथा ।
तेषां समूपगाश्चैव देशा योजनमात्रतः ।
कर्मण्यास्तु समाख्यातास्तदन्ये कीकटाः स्मृताः ।
तदन्येऽपि तु ये देशाः कृष्मसारोषिताः स्वतः ।
कर्मण्या एव ते ज्ञेया यदि नाध्युषिताः खलैः ।
खलैरध्युषिताश्चापि यदि सद्भिरधिष्ठिताः ।
कर्मण्या इति विज्ञेया विष्णुलिङ्गानि यत्र च' इति स्कान्दे ॥
-भा.ता.11/21/8

106. `हरिभक्तिः प्कमेणैव तदीयेषु हरिस्मृतिः ।
हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥
तत्पूजा विहितात्याग इति मुक्तेः क्रमेण हि ।

नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः' ॥
इति प्रवृत्तवचनं साधनस्य विनिर्णये ।
प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः ॥
-अनुव्याख्याने 3/4/249-251

107. शौचमासा च धर्माङ्गे प्राणायामोऽपरिग्रहः ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्या तपस्तथा ॥
तुष्टिर्यज्ञादयो धर्माः स्वाध्यायोऽभ्यर्चनं हरेः ।
धारणा श्रवणं चाथ मननं ध्यानमेव च ॥
समाधिर्निगमान्तानां कर्तव्यानि विशेषतः ॥
सौलभ्ये श्रवणादीनामन्यत् सङ्गोचमर्हति ।
ततोऽप्यल्पत्वमिच्छेच्चेत् पारिव्राज्यं चरेत्पुमान् ॥
श्रवणादेर्न सङ्गोचः कदाचित् क्वापि विद्यते ॥
विशेषतोऽनुसन्दध्यान्नारायणदिनव्रतम् ॥
-योगदीपिकायाम् (3/84-88)

108. ईर्वोरधस्तात्सम्यक् च कृत्वा पादतले शुभे ।
ऋजुकायो विशेद्योगी स्वस्तिक्रं प्रचक्षते ।
ऊर्वोरुपरि विन्यस्य सम्यक् पादतले शुभे ।
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ।
एकपादमधः कृत्वा विन्यस्योरौ तथेतपरम् ।
ऋजुकायो विशेद्योगी वीरासनमितीरीतम् ॥ इति (पञ्चरात्रे छ.टीका)
तदुक्तं याज्ञवल्क्येन । "आसनान्युत्तमान्यष्टौ त्रयं तेषूत्तमोत्तमम्" इत।

109. जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बतम् ।
अङ्गुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ इति(पायुपुराणे छ.टीक)

110. तु वामतः (पा.)

111. कुम्भकं च (पा.)

112. पिङ्गलाभि) शतायुषा अहः संज्ञं देवयानमेति। इडाभी रात्रिसंज्ञं पितृयानम् ।
विषुवता ब्रह्मयाने विशेषेम सुखं यतः ।
पिङ्गला देवयानं स्यात् पिङ्गाख्यसुखदं यतः ॥
इडाऽन्नदानात् पितॄणामेवं मार्गाः प्रकीर्तिताः ॥
-इति ब्रह्मातर्के (भागवततात्पर्ये -2/2/27)

113. `प्राणापानाविडायां च पिङ्गलायां च वर्ततः ।
व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः ।
सर्वत्रैव समानस्तु समं चरति सर्वगः' इति भारते ॥
-भा.ता.2/2/21
`दक्षिणाः पिङ्गलाः सर्वा इडा वामाः प्रकीर्तिताः ।
नाड्योऽथ मध्यमाः प्रोक्ताः सुषुम्ना वेदपारगैः' इति भागवततन्त्रे ।
-भा.ता.2/2/27

114. वज्निकार्याऽवभासिनी (पा.)

115. पीरयित्वातु पृथिवीं रत्नैः सप्तसमुद्रिणीम् ।
दत्वाऽपि गुरवे नैव पूर्यते गुरुदक्षिणा ।-छान्दोग्योपनिषद्भाष्ये 3/11
विष्णोरणिम्नो रूपाणि पञ्चनाडीस्थितानि तु ।
नारायणाख्यं सौषुम्नं मध्यस्थं रक्तवर्णकम् ।
शुल्कं तु वासुदेवाख्यं नान्दिन्यामग्रतः स्थितम् ।
पिङ्गलायां पिङ्गलं च रूपं सङ्कर्षणाभिधम् ।
पश्चिमे वज्किकायां च पीतं प्रद्युम्ननामकम् ।
इडामनिरुद्धाख्यं नीलरूपं व्यवस्थितम् ।
-छान्दोग्योपनिषद्भाष्ये 7/1-6

116. पृष्ठवामाग्रदक्षान्तर्भेदास्ते (पा.)

117. ........शशिस्थवह्नौ (पा.)

118. पिङ्गळा (पा.)

119. द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च ।
विष्णुरूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम् ॥ -ऐतरेयोपनिषद्भाष्यम्
षट्त्रिंशद्रूपवान्विष्णुर्व्यञ्जनेषु च संस्थितः ।
तान्येव विष्णुरूपाणि रात्रीनामपि देवताः ॥
एकैकं च सहस्रं तद्व्यञ्जनेषु च रात्रिषु ।
रूपं विष्णोः स्थितं व्यूह्य षट्त्रिंशतिसहस्रधा ॥
षट्त्रिंशतिसहस्राणि स्वरगाणि परमात्मनः ॥
द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः ।
शताव्दानामहोरात्रदैवतान्युत्तमानि च ॥
बृहतीसहस्रवर्णानामपि ध्यात्वाऽखिलान्यपि ।
शतवर्षहरिध्यानफलमान्पोति पूरुषः ॥ -इत्यैतरेयभाष्ये (2/2/4)

120. नायोग्यानां सम्यग्वाच्य इति स्वल्प एव प्रकाशितोऽस्माभिः ।
-इति ऐतरेयभाष्ये (2/3/6)

121. विष्णोरनन्तरूपेषु यदिष्टं रूपमात्मनः ।
तच्चिन्तां ध्यानमित्याहुर्येन विष्णुः प्रतीदति ॥ -इति वायुपुराणे ।
त्यक्त्वा देहाद्यात्मभावं जीवरूपे हृदि स्थिते ।
दृष्ट्वाऽऽत्मभावं तं चापि हरिपादाब्जसंस्थितम् ॥
यदा पश्यत्यापरोक्ष्यात् तदा मुक्तिं व्रजत्यसौ ॥
-इति दत्तात्रेययोगे (भागवततात्पर्यै 3/10/33)

122. चिरया तया (पा.)

123. सर्वस्मरणाशक्तौ एकाङ्गे `यावन्न च्यवते मनः' इत्युक्तत्वात् ।
सर्वं स्मर्तुमशक्तः सन्नेकाङ्गं चिन्तयेद् बुधः ॥-भागवततात्पये 3/29/6
यावत् समग्रस्मरणमचलं केशवे भवेत् ।
समग्रं चिन्तयेत्तावद्यदा विचलेत्ततः ॥
प्रत्यङ्गं धारमं कुर्यान्मनो यावत्यमग्रगम् ।
तदा पुनः समग्रं तु धारयेद्यत्नतो बुधः ।
यदा तु धारणोत्साहं विना तत्राचलं मनः ॥
तिष्ठेत्तदा तमुद्योगं शङ्खचक्राम्बुजाङ्किते ।
आरूढ्चेताः परमे श्रृङ्गाराद्येकधामनि ॥
नैवान्यत् चिन्तयेत्तस्मात् पूर्णानन्दाच्चतुर्भुजात् ।
यतो तस्मान्मनश्चलति सुस्थिरम् ॥
धारणार्थप्रयत्नेन तस्मात्तदुभयं त्यजेत् ।
यावत् स्वारूढ्येताः स्याद् विष्णो रूपे चतुर्भुजे ।
-इति ध्यानयोगे (भागवततात्पर्ये.11/14/43)
समाधियोगे सम्पूर्णे हृदि पश्यन्ति केशवम् ।
जीवं तत्प्रतिबिमम्बं च तेनैव सह संस्थितम् ।
तदाधारं तदन्तस्थं तेनैव सदृशं तदा ।
आनन्दज्ञानशक्त्याद्यैः सदा सदवरं गुणैः ।
जीवन्मुक्तौ च मुक्तौ वा सततं तद्वशे स्थितम् ॥
-इति तत्त्वप्रतिपत्तौ (भागवततात्पर्ये 11/14/45)

124. विष्णुकृततन्त्रसारः श्रीमदाचार्यैर्बहुवारमुद्धृतो भागवततात्पर्ये-
(3/10/17), (4/7/31),(4/7/41), (4/7/59), (4/22/11),
(5/18/5), (6/8/37), (4/19/8), (4/21/9), (4/21/38),
(7/1/38), (7/10/46)
तन्त्रमाला, तन्त्रनिर्णयः, तन्त्रनिरुक्तम्, तन्त्रप्रकाशिका, इत्यादि तनत्रसारसम्बधिनोऽन्येऽपि ग्रन्था भागवततात्पर्ये उद्धृताः ।

सर्वेऽर्था येन तन्यन्ते त्रायन्ते च भयाज्जनाः ।
इति तन्त्रस्य तन्त्रत्वं तत्त्वज्ञाः परिचक्षते ॥ -(विष्णुसंहिता 2/10)

125. कस्तन्त्रसारं सम्प्राप्य न स्यात् पर्याप्तवाच्छितः ।
अमरैराश्रितच्छायं कल्पद्रुममिवोत्तमम् ।
-इति सुमध्वविजये (15/78)

126. विशेषावगतोरुरूपम् (पा.)

"https://sa.wikisource.org/w/index.php?title=तन्त्रसारसङ्ग्रहः&oldid=399692" इत्यस्माद् प्रतिप्राप्तम्