तत्वज्ञानसंसिद्धिः

विकिस्रोतः तः
तत्वज्ञानसंसिद्धिः
[[लेखकः :|]]



तत्वज्ञानसंसिद्धिः

ओं नमः श्रीभगवत्यै वज्रवाराह्यै ॥

आनन्दाम्बुधिमण्डनादुपगता सम्बुद्धलक्ष्मीरसौ
सर्वाकारगुणान्विता जगदघध्वान्तौघविध्वंसिनी ।
ज्योतिर्ज्ञाननिधेर्धृतिः स्मृतिनिधेः शान्तिर्मनीषानिधेः
पायाद्वज्रविरासिनी भगवती लोकत्रयं दुर्गतेः ॥ ०.१ ॥
श्रीवज्रदेवीपदपद्मरेणु, राजिं नमस्कृत्य गुरोः पदं च ।
श्रीसम्बरं संवृतवोधिचित्तं, प्रज्ञाकृपाद्वैतपदं प्रशस्तम् ॥ ०.२ ॥
वज्रदेवीपदद्वंद्ववन्दनानन्दवर्त्तिना ।
भिक्षुणा ज्ञानन्द्रेण चन्द्रेवसुवशर्मणा ॥ ०.३ ॥
साधनं वज्रवाराह्याः स्वार्थंकिञ्जिद्विभज्यते ।
सुभाषितप्रदे नित्यं मतिः कल्पनसोत्सुका ॥ ०.४ ॥
ततःश्रद्वापरेणेदं मन्दस्वल्पधिया मया ।
कर्त्तव्य न मम दोषो वीक्षणीयो महाजनैः ॥ ०.५ ॥

ओं नमः श्री वज्रवाराह्यै

उद्याता तलचक्रतोऽनिलधुता विद्युच्छटाभास्वरा,
दग्धालित्रितया त्रिलोकमहिता पीयूषधाराप्लुता ।
बुद्धज्ञानरसाविला विकलुषा स्वानन्दसन्दोहदा
भावाभावविचारणाविरहिता वाराहिका पातु वः ॥ १.१ ॥
निर्माणालिदिनेशमण्डलगता काद्यादिवर्णावृता,
प्रज्बालज्वलनोज्वलामृतसवा सूक्ष्माजसूत्रोपमा
विद्याबुद्धकदम्वकं दहति या चक्रत्रयोर्भेदिनी
सानन्दा ललितोर्द्वगा स्फुरतु वो वाराहिका चेतसि ॥ १.२ ॥
प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीम् ।
शिरसा स्वस्मृतये वक्ष्येऽहं तत्त्वज्ञानस्य संसिद्धिम् ॥ १.३ ॥
विजनमनोऽनुकूलस्थानं नाथांककः प्रविशेत्सुधीः ।
तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिम् ॥ १.४ ॥
तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयम् ।
संलिख्यानामिकया, लोहितकुसुमार्चितं कुर्यात् ॥ १.५ ॥
तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा ।
विदधीत सवनं यथोपदेशं शयस्पर्शात् ॥ १.६ ॥
प्रविधाय करन्यासं बृद्धाङ्गुष्ठाङ्गुलिसमायोगात् ।
कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः ॥ १.७ ॥
तदनु चक्रवज्रवरोपरि रङ्गारुणोयोगजसमममन्त्रम् ।
भुजगभवैः सुविशिष्टैः सिचयगतैरवकिरेच्छनकैः ॥ १.८ ॥
तत्र जिनहृदयचक्रं शिखिकोटिकं समभिलिख्य ।
तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत् ॥ १.९ ॥
चक्रस्य वाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे ।
सत्स्वस्तिकानभिलिखेत्क्रमेण वामहस्तेन ॥ १.१० ॥
आकृष्य वज्रदेवीम्प्रविश्य मन्त्राक्षरेषु बद्ध्वा परितोषयेत् ।
सुविधानात्जः हुं वं होरिति पठित्वा ॥ १.११ ॥
तदनु सपर्या विविधास्तस्या विदधीत मंत्ररूपायाः ।
भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः ॥ १.१२ ॥
विविधैर्वलैः समदनैरुपहारैः पञ्चभिरतिपरार्ध्यैः ।
गीतैवद्यैर्न्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च ॥ १.१३ ॥
प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्याम् ।
कुर्याद्यथोक्तपूजाविधिमस्याः सिद्धिमाकांक्षणः ॥ १.१४ ॥

अथ कृतवाह्यार्चनविधिरुरुकरुणो निर्मितारिध्याव्जे ॥
व्यसुहृयोष्णगुविम्वां ध्यायात्पूर्वोदितां देवीम् ॥ २.१ ॥
संध्यासिन्दूरवर्णां खरकरनिकरायास्तसप्तार्क्ककान्तीम् ।
कर्त्त्रीं सर्वार्त्तिहंत्रीं स्फुरदमृतघृणीं विभ्रतीं सव्यदोष्णा ॥
विभ्राणां वामदोष्णा कमलमतिसितं रक्तपूर्णध्वजाढ्याम् ।
काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्द्धोखहस्ताम् ॥ २.२ ॥
मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां,
सव्ये चोर्द्धंकिरास्यां वरशुभगमनां क्रोधमूलाननान्ताम् ।
सानन्दां सानुरागां विविधरसयुतामर्द्धपर्य्यङ्कनृत्यां
मुद्राषण्मुद्रिताङ्गीं व्यपगतवसनां षोडशाव्दां वराङ्गीम् ॥ २.३ ॥
ज्ञानाकर्षादिविधिः प्रागिव कृत्वा विधानविन्मंन्त्री ।
स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रूतं ध्यायात् ॥ २.४ ॥
तदनु वियद्वती धातौ त्रिकूटगिरिगह्वरे भ्रमच्चक्रम् ।
प्रागुक्तमिव ध्यायाद्रक्तं जाज्यल्यमानं सत् ॥ २.५ ॥
तत्र स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तम् ।
द्रावयेदुरुसुखचक्रं श्रवदमृतसारकृतसवनम् ॥ २.६ ॥
कायत्रयस्वभावं परमं सहजात्मकं जगद्व्यापिनम् ।
स्फुरदमितशान्तसन्ततिं पश्येत्पश्चात्सुखं पश्चात् ॥ २.६ ॥
प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणम्वा विभावयेदेतत् ।
यावत्सिद्धिनिमित्तं तावदिदमुच्यते व्यक्तम् ॥ २.७ ॥
अयत्नजप्रीतिलयानुबन्धनात्यदा भवेद्व्यक्तमिदं विभावितम् ॥
कशाचपेटादिह नैव वेदना तदा भवेत्सिद्धिरदूरवर्त्तिनी ॥ २.८ ॥
प्रताडितानां पणवादिकानां पटुध्वनिर्नश्रुतगोचरश्चेत् ।
यदाप्यते बोधिरनुत्तराग्रा स्वप्ने चिराद्ध्यानवताग्रसिद्धिः ॥ २.९ ॥
दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ ।
निवसन्नुत्पन्नक्रमयोगमजस्रं सुधीः कुर्यात् ॥ २.१० ॥
सिद्धौ वसुधादीनां भवती लयो ह्युत्तरोत्तरक्रमशः ।
ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत् ॥ २.११ ॥
जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः ।
अत एव तानि योगी समाहितो लक्षयेन्मनसा ॥ २.१२ ॥
प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिह्नम् ।
खद्योतवत्तृतीयं चतुर्थं दीपोज्वलं स्पष्टम् ॥ २.१३ ॥
विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पम् ।
एवं लव्धनिमित्तो मुद्रां महतीमवाप्नोति ॥ २.१४ ॥
उत्थातुकामः प्रणिपत्य योगिनीं नाथं च कस्थं समुदीर्य मूः कृतिम् ।
उत्थाय कृत्यं विदधीत तत्वधीस्तिष्ठेत्सदा योगयुगेन योगवित् ॥ २.१५ ॥

इति तत्त्वज्ञानसंसिद्धौ भावनाविधिः ॥ २ ॥

अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाव्जनतैः ॥
मन्त्री तिथौ दशम्यां विदधीतानुग्रहन्तेषाम् ॥ ३.१ ॥
संपूज्य मंत्ररूपां देवीं चक्रस्थितां विहितयोमः ।
आदाय मंत्रजप्तं परमाद्यं निष्क्रमेत्तस्मात् ॥ ३.२ ॥
अथ विहितपञ्चमण्डलमूर्द्धस्थां तदन्तदक्षिणंशिष्यम् ।
कुसुमस्रजं दधानं ध्यातकेनाथं गुरुः पश्येत् ॥ ३.३ ॥
तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत् ।
ध्यात्वान्तबासिगात्रे वज्रभृत्तस्य संदद्यात् ॥ ३.३ ॥
एवं स्यादावेशस्तत्कलिका प्रकम्पनं वाष्पः ।
पातो ज्ञानोत्पादः स्वारूपञ्चापि परिपाद्याः ॥ ३.४ ॥
तदनु कथयेत्समाधिं पूजामंत्रं च वज्रयोगिन्याः ।
श्रद्धान्वितस्य गुणिनो गुरुबुद्धाभिन्नसद्भक्तेः ॥ ३.६ ॥
कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धंवा ॥
श्रद्धाविरहितमनसो भक्तिविहीनशिष्यस्य ॥ ३.७ ॥
विदधाति यस्तु पूजां देवीचक्रस्य मंत्रयुक्तस्य ।
तस्यापयान्ति भयान्यष्टौ पापानि च महान्ति ॥ ३.८ ॥
दुर्भगता दारिद्र्यं व्याधिजरादुःखदौर्मनस्यानि ।
भ्रमकलिकलुषक्लेशाः पीडा नानाविधाश्चापि ॥ ३.९ ॥
यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचासौ ।
प्राप्नोत्यष्टौ सिद्धीः पञ्चाभिज्ञांस्तथाष्टगुणान ॥ ३.१० ॥
ध्यायति यः किरवक्त्रां प्रतिदवसं यत्नतश्चतुःसंध्यं हरिहरहिरण्यगर्भैर्जेतुमशक्यां मृतिं जयति ॥ ३.११ ॥
वस्त्रान्नपानधनधान्यविशालभूमिः प्रासाददिव्यशयनासनसाधनानि ।
तस्योद्भवन्ति दयिता विविधाश्च विद्या, यो भावयत्यशनिकोलमुखीं सचक्राम् ॥ १२ ॥

इति तत्वज्ञानसंसिद्धौ सानुशंसा शिष्यानुग्रहविधिः ॥

मंत्रोद्धारमतः परमधिधास्ये वज्रयोगिनीहृदयम् ।
कर्णात्कर्णमुपागतमास्यादास्यं तथाक्रमतः ॥ ४.१ ॥
पूर्वोदितमिव चक्र संलिख्यं मरुद्गणालयोपेताम् ।
तत्र लिखेत्परिपाटित आलिकालिं तथैव कोणम् ॥ ४.२ ॥
झाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तम् ।
त्रिकमादितो विलिख्यं सदक्षरं तत्वपरिदीपि ॥ ४.३ ॥
भोर्द्धगतं छोर्द्धस्थितसमेतटोर्द्धस्थितं तदनु लेख्यम् ।
डाधरयुतं षाधारगं षोर्द्धस्थितयुक्तशोर्द्धगतम् ॥ ४.४ ॥
ञाधरयुतळ्तलस्थं टाधरयुतपोर्द्धसंस्थितम् ।
तदनु ठाधरगान्वितफोर्द्धगमैवामयुतं हटान्तस्थम् ॥ ४.५ ॥
चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितम् ।
तदनु हथमध्यगतं तवामयुक्तं ठलमध्यग पश्चात् ॥ ४.६ ॥
सर्वकरान्तफमध्यगं तृतीयवर्गादिवामगसमेतम् ।
णोर्द्धयुतं लाधरगं छोर्द्धस्थं भतलगं ठसव्ययुतम् ॥ ४.७ ॥
तोर्द्धगयुतं षाधरगं थोर्द्धदसंयुक्तं णाधरगं पश्चात् ।
फाधरगं ठाधरसंयुक्तं फोर्द्धस्थं णोर्द्धयुक्तं लाधरगम् ॥ ४.८ ॥
डाधरशून्यसमेतं त्रिवतलगं चोर्द्धस्थितं रतलम् ।
थाधरयुतं शाधरगं ञाधरसमायुक्तं चापि ॥ ४.९ ॥
सयमध्यगं झवामगसमेतमुक्ताक्षरकृतो रहस्यः ।
मंत्रोयमशनीदेव्या लेख्यो जप्यो विभाव्यश्च ॥ ४.१० ॥
चिन्तामणिः कल्पकुठाग्रकुम्भः श्रीकामदुग्धेनुरपि प्रशस्ताः ।
ते साध्यमाना ददतीह वित्तान्ययन्तु सौख्यं सधनं ददाति ॥ ४.११ ॥

इति तत्वज्ञानसंसिद्धौ मन्त्रौद्धारविधिः ॥

यस्मिन्नयं पात्रगतेव्यलिख्य, पूजानिमित्तं विधिना विधिज्ञः ।
बालस्य रक्षा विधिवद्विधेया, वद्धेन दोकण्ठशिखासुवाहौ ॥ १ ॥
दृष्ट्वापयान्ति भुजगाः शिशुकं सरक्षं, भूता ग्रहा निशिचराः सपिशाचसंघाः ।
अन्ये च बालकभर्यार्त्तिकराः सुभीमाः सिंहं यथा वनचरा वलिनम्भयार्त्ताः ॥ २ ॥
संप्राप्य सदुपदेशं दृष्ट्वा संप्रत्ययं च योगस्य ।
सिद्धिरियं समभिलेखि स्फुरदमलज्ञानसवंसतिः ॥ ३ ॥
तस्मात्तत्संप्राप्त्यै संसेव्यं सगुरोः पदाम्बुरुहम् ।
सान्ना प्रदानबिधिना कायक्लेशैः प्रणामैश्च ॥ ४ ॥
तत्वज्ञानाग्रसिद्धिर्वहुहितजननी या जनस्येव लोके
सत्वानां यन्मयोसीत्कुशलमकलुषं पूर्वचद्रांशुशुभ्रम् ।
भूयासुस्तेन लोकाः कलिमलविकला शुद्धासम्बोधिभाजो
लब्ध्वा मुद्रामुदारां भवभयशमनीं सर्वसत्वार्थकर्त्रीम् ॥ ५ ॥

समाप्तोयं तत्वज्ञानसंसिद्धिर्नाम स्वाधिष्ठानश्चेति शुभं सर्वदा

"https://sa.wikisource.org/w/index.php?title=तत्वज्ञानसंसिद्धिः&oldid=395601" इत्यस्माद् प्रतिप्राप्तम्