चर्यामेलावणप्रदीपः

विकिस्रोतः तः
चर्यामेलावणप्रदीपः
[[लेखकः :|]]


चर्यामेलावणप्रदीपः

१. प्रथमः परिच्छेदः

ओं नमः श्रीवज्रसत्त्वाय ।

नमत खसमनिःस्वभावशुद्धं नमताशेषमनक्षरमवाच्यम् ।
नमतानागतसर्वगं सुगतं नमत समस्ताशेषसर्वशून्यम् ॥

"अर्थप्रतिशरणेन भवितव्यं शब्दस्तु यथा तथा" इति ।

तन्त्रे-
चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः ।
तत्त्वं वै ये न जानन्ति सर्वे ते निष्फलाय वै ॥ इति ।

अत आह-
आदिकर्मिकसन्धानं परमार्थावतारणे ।
उपायश्चैव संबुद्धैः सोपानमिव निर्मितः ॥ इति ।

प्रबोधनमेलावणसंशयपरिच्छेदः प्रथमः ॥ १ ॥

२. द्वितीयः परिच्छेदः

पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः ।
वज्रायतनान्येव बोधिसत्त्वाग्र्यमण्डलम् ॥
पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता ।
पाण्डराख्या भवेत्तेजस्तारा वायुः प्रकीर्तिता ॥
रूपशब्दादिभिर्मन्त्री देवतां भावयेत्सदा ॥

इत्युक्तं भगवता श्रीगुह्यसमाजमहायोगतन्त्रे ।

कुलाः शतविधाः प्रोक्ताः संक्षेपेण तु पञ्चधा ।
पुनस्त्रिविधतां यान्ति कायवाक्चित्तभेदतः ॥

"पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः । "

पञ्चहृदयमाश्रित्य पञ्चतनुविनिर्गतम् ।
पञ्चवायुसमायुक्तं पञ्चकामोपभोगकृत ॥ इति ।

प्रक्रमणात्प्राणायामाच्चेन्द्रियद्वारैस्तन्तुभिः ।
प्रक्रमते सदा कालं प्राण इत्यभिधीयते ॥
वातमूत्रपुरीषाणां शुक्रादीनां तथैव च ।
अपनयनादपानोऽयं योगिभिर्लक्ष्यते सदा ॥
अशितं खादितं लेह्यं पेयं चोष्यञ्च सर्वतः ।
समानयति यो नित्यं समान इति चोच्यते ॥
ऊर्ध्वगमात्संहरणाद्भक्ष्यभोज्यादिभक्षणात् ।
उदानकर्मविज्ञोऽयं ज्ञानेन सहयोगतः ॥
व्यापनं धारणं चैव गमनागमनादिकम् ।
सर्वसन्धिषु व्याप्तत्वाद्व्यान इत्यभिधीयते ॥
पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता ।
तेजः पाण्डरा ख्याता वायुस्तारा प्रकीर्तिता ॥
स्कन्धश्च धातुश्च तथैवेन्द्रियं च पञ्चैव पञ्चैव कृतप्रभेदाः ।
तथागताधिष्ठित एकैकशः संसारकर्माणि कुतो भवन्ति ॥
तथा सबाह्या विषयाश्च पञ्च एकैकशः पञ्चतथागतैश्च ।
स्वकस्वका नित्यमधिष्ठितास्ते ज्ञानत्रयं पञ्चसमाश्रितं च ॥
खधातुमध्यगतं चिन्तेन्मण्डलं सर्ववज्रजम् ।
संहारं च प्रकुर्वीत यदीच्छेच्छान्तवज्रधृग् ॥ इति ।
पञ्चात्मकं पञ्चभिरेव भूतैर्दृष्टं नराणां नियतं शरीरम् ।
तभ्दावभावैर्नियतं स्वचित्तं प्रभावयन्तः प्रभवन्ति बुद्धाः ॥ इति ।

खसमतन्त्रेऽप्याह-
पञ्चबुद्धात्मकु सर्वजगोऽयं पश्यसु चित्रकु नाटकु दिव्यम् ।
यत्र हि एकु महासुहनामा नृत्यति एकु अनेक रसेन ॥ इति ।

"संक्षेपेण तु पञ्चधा"

कायवाक्चित्तनिध्यप्तैः स्वभावो नोपलभ्यते ।
मन्त्रमूर्तिप्रयोगेण न बोधिर्न च भावना ॥
विचार्येदं समासेन कायवाक्चित्तलक्षणम् ।
भावयेद्विधिसंयोगं समाधिं मन्त्रकल्पितम् ॥ इति ।
न योगः प्रतिबिम्बेषु निषिक्तादिषु जायते ।
बोधिचित्तमहायोगयोगिनस्तेन देवताः ॥
आत्मा वै सर्वबुद्धत्वं सत्त्वसौरित्वमेव च ।
स्वाधिदैवद्य(त)योगेन तस्मादात्मैव साधयेत् ॥ इति ।
मन्त्रनिध्यप्तिकायेन वाचा मनसि चोदितः ।
साधयेत्प्रवरां सिद्धिं मनःसन्तोषणप्रियाम् ॥

कायविवेकमेलावणसंशयपरिच्छेदो द्वितीयः ॥ २ ॥


३. तृतीयः परिच्छेदः

पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् ।
नासिकाग्रे प्रयत्नेन भावयेद्योगतः सदा ॥ इति ।
पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् ॥
निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत् ।
पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् ॥
अथ भगवान्महावज्री वज्रजापार्थभाषिणम् ।
प्रत्युवाच ततः सम्यक्प्रणम्यैकं जगद्रुरुः ॥
लौकिकागममेवेदं बोधिचित्तं प्रकाशितम् ॥
लोकोत्तरं कथं नाम प्रतिपत्स्यन्त्यागामिकाः ॥
सर्वदृष्टिप्रहाणाय त्वया धर्मो हि देशितः ।
तत्कथं बोधिचित्तं तु सा दृष्टिः सुदृढीकृता ॥
उक्तमर्थं न बुध्यन्ति संध्यायवाक्यमोहिताः ।
यथारुतं ते गृण्हन्ति तथैव हि पचन्ति च ॥
अथ भगवान् विश्वो वज्रपाणिं वदेत्ततः ।
साधु साधु च गुह्येश व्याकृतागामिका त्वया ॥
बोधिचित्तं भवेद्वायुरम्बरे च व्यवस्थितः ।
प्राणभूतश्च सत्त्वानां पञ्चात्मा दशसंज्ञकः ॥
प्रतीत्यद्वादशाङ्गाख्यं स्वभावात्त्रितयं भवेत् ।
सर्वेन्द्रियप्रधानेदं वाय्वाख्यं बोधिचित्तकम् ॥
अव्यक्तं सूक्ष्ममित्येवं व्यक्तमित्युच्यते सदा ।
तदाश्रयात्तु कर्माणि कुर्याद्विषयादिकं जनः ॥
शान्तिकं पौष्टिकं चैव वश्याभिचारकं तथा ।
बोधिचित्तातु तत्सर्वं त्रितत्त्वनिलयाश्रया[त्] ॥
यावच्चालोकसंकेताः कल्पिता विविधास्तथा ।
भवन्ति बोधिचित्तात्तु विकल्पा वायुतः सदा ॥
सुखदुःखादिको धर्मो बीजादेव विधीयते ।
बोधिचित्तस्वभावोऽसौ स्कन्धाद्यद्वयकोपमः ॥
प्रज्ञोपायैकयोगेन बोधिचित्तं जगद्भवेत् ॥
स्वयं समुच्चरेत्स्वामी ध्यानाध्ययनवर्जितः ॥
दिवारात्रिविभागेन चन्द्रसूर्यप्रयोगतः ।
निश्वासो [हि] जगद्व्यापी बोधिचित्तैकमारुतः ॥
शुभाशुभफलं त्यक्त्वा भवत्येव नभोपमः ॥ इति ।
प्राणापानसमानाख्यानुदानव्यानसंज्ञकान् ।
नागकूर्मकृकरांश्च देवदत्तधनञ्जयान् ॥
कृत्वैतदात्मनो बिम्बं स्त्रीतत्त्वं निर्माय ते पुनः ॥ इति ।
कोटाक्षः कोटवः कोटाः कोटाभश्च कोटीरकः ।
कोलाक्षः कोलावः कोलः कोलाभश्च कलिस्तथा ॥
नासिकाच्छिद्रसंभूतः पञ्चबुद्धकुलस्थितः ।
पञ्चवायुर्ध्वसञ्चारो देहे चरति नित्यशः ॥
संवृतिघ्राणसञ्चाराद्द्वारात्तस्य विनिसृताः ।
वामदक्षिणद्वन्द्वाश्च स्तब्धश्चैते चतुर्विधाः ॥
दक्षिणात्प्रसरो धातुर्हुतभुङ्मण्डलञ्च वै ।
रक्तवर्णमिदं वक्त्रं पद्मनाथस्य सञ्चरेत् ॥
वामाच्च प्रसरो धातुर्वायुमण्डलनिःसृतः ।
हरितः श्यामसंकाशः कर्मनाथस्य सञ्चरेत् ॥
द्वन्द्वस्य प्रसरो धातुः कनकवर्णस्य सत्रिभः ।
माहेन्द्रमण्डलञ्चैव रत्ननाथस्य सञ्चरेत् ॥
स्तब्धो न प्रसरो धातुः क्षणाद्वारुणमण्डलः ।
शुद्धस्फटिकसंकाशं वज्रनाथस्य सञ्चरेत् ॥
सर्वधातुं समुद्धृत्य ह्याधाराधेयधारितः ।
वैरोचनमहाकायो मरणान्ते विनिश्चरेत् ॥
चतुर्मण्डलमेतद्धि जपेन्नित्यं समाहितः ।
अहोरात्रं सदा जापो मन्त्रिणां जपसंक्ष(ख्य)या ॥
एकादिर्नवमध्ये तु दशभिर्यो न बध्यते ।
तमबद्धं विजानीयात्स वेत्ति परमं पदम् ॥
स्वरव्यञ्जनवर्णांश्च नवसंख्यानुवर्तिनः ।
अबद्धान्योन्यसंयोगा यो वेत्ति स जगद्रुरुः ॥
यो बुद्धा(द्ध्वा)वाञ्च्छयेत्सिद्धिं विमुक्तिफलसम्पदम् ।
स तदेव समाप्नोति अरूपो रूपवर्जितम् ॥
भूतान्तेन समायुक्तं कलादिषोडशे स्थितम् ।
पञ्चपञ्चकसंयुक्तं चतुस्रयनियोजितम् ॥
सानुस्वारं सदीर्घं च गुणसंयोगलोपवत् ।
ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम् ॥
यकारार्थेन यत्किञ्चित्कर्तव्यं सिद्धिमिच्छता ।
रेफादित्रितयेनैव जगत्कार्यं प्रवर्तते ॥
ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः ।
स्त्रीपुन्नपुंसकास्ते च धात्वादिपरिकल्पिताः ॥
अध ऊर्ध्वसमायुक्ता ज्ञात्वा बुद्ध्या नियोजिताः ।
षड्भिरुक्तं चतुस्त्रै(स्त्र्यै)कान्निःस्वभावैकभावजाम् ॥
त्रा(त्र्या)द्याद्यर्थे समायोज(ज्य) त्र्यध्वज्ञानं तु जायते ।
स्वप्नेन्द्रजालव द्विध्वा कुर्याज्जगत्त्रिधातुके ॥
प्रत्याहारमिदं मन्त्रं निःस्वभावस्वभावजम् ।
ततः परिणतं रूपं यद्दैवतोपलम्भकम् ॥
सांकेतिकं त्रितत्त्वस्थं प्रकृतिजापलक्षणम् ।
अनाख्येयमनुच्चार्यं बोधिचित्तमिदं परम् ॥
तदेव त्रितयैकं स्यादनिर्गममनागमम् ।
अनिरोधः प्रशान्तश्च शाश्वतोच्छेदवर्जितम् ॥
त्रयध्वविदाकृतसंकल्पमाकाशाभेदलक्षणम् ।
पारमार्थिकमेवेदं प्रत्यात्मवेद्यलक्षणम् ॥
सर्वास्वपि क्रियाश्चै(स्वै)व निषद्यादिषु योगवित् ।
अनाख्येयमनुच्चार्यं त्र्यध्वातीतं जपेत्सदा ॥
पाण्डरादि जपः(पाः) प्रोक्ताः पञ्चविंशच्छतद्वयम् ।
चतुर्भिर्गुणितं सम्यक्चतुर्योगं शतं नव ॥
नवशतं तु यद्दृष्टं चतुर्विशतिपरिक्रमैः ।
प्रत्युत्पादाद्भवेत्ततु द्व्ययुतं शतषोडशम् ॥
तदित्थं गुह्यसन्ध्यायां सूक्ष्मयोगं प्रकाशितम् ।
ध्यानाध्ययनवीतं तु तथापि जप उच्यते ॥
अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः ।
महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः ।
सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः ॥ इति ।
ज्वलन्तं दीपसदृशं हृदि मध्यमनाहतम् ।
अक्षरं परमं सूक्ष्ममकारं परमं प्रभुम् ॥ इति ।
धर्मा इमे शब्दरुतेन व्याकृता
धर्मश्च शब्दश्च हि नात्र लभ्यते ।
न चैकतां चाप्यवतीर्य धर्मताम्
अनुत्तरां क्षान्तिवरां स्पृशिष्यते ॥ इति ।

वाग्विवेकमेलावणसंशयपरिच्छेदस्तृतीयः ॥ ३ ॥


४. चतुर्थः परिच्छेदः

दूरङ्गमेकचरमशरीरं गुहाशयम् ।
ये चित्तं सन्निवेशयन्ति मुच्यन्ते मारबन्धनाद् ॥ इति ।
प्रतीत्योत्पद्यते यद्यदिन्द्रियैर्विषयैर्मनः ॥
तन्मनस्त्वशीतिख्यातस्रकारस्त्राणनार्थतः ॥ इति ।

संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् ।
किन्तु तस्य प्रभेदोऽस्ति सन्ध्यारात्रिदिवात्मना ॥
आलोकालोकभासौ च तथालोकोपलब्धकम् ।
चित्तं त्रिविधमित्युक्तमाधारस्तस्य कथ्यते ॥
वायुना सूक्ष्मरूपेण ज्ञानं सन्मिश्रतां गतम् ॥
निःसृत्येन्द्रियमार्गेभ्यो विषयानवलम्बते ॥
आभासेन यदा युक्तो वायुर्वाहनतां गतः ।
तदा तत्प्रकृतिः सर्वा अस्तव्यस्ता प्रवर्तते ॥
यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत ॥ इति ।

चित्तविवेकसंशयमेलावणपरिच्छेदश्चतुर्थः ॥ ४ ॥


५. पञ्चमः परिच्छेदः

पयोधरा यथा नैके नानासंस्थानवर्णकाः ।
उभ्दूता गगनाभोगाल्लयं गच्छन्ति तत्र वै ॥
एवंप्रकृतयः सर्वा आभासत्रयहेतुकाः ।
निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् ॥
एवंस्वभावा विज्ञानादज्ञान[पटलावृताः ।
कृत्वा शुभाशुभं कर्म भ्र]मन्ति गतिपञ्चके ॥
आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते ।
शुभं दानादिकं कृत्वा [स्वर्गादिषु महीयते ॥
आनन्तजन्मसाहस्रं] प्राप्य चैवं पुनः पुनः ।
पूर्वकर्मविपाकोऽयमिति शोचति मोहतः ॥
प्रकृत्याभा[सविधिना क्लेशवन्तश्च ये जनाः ।
एतज्ज्ञात्वा विमु]च्यन्ति ज्ञानिनो भवपञ्जरात् ॥ इति ।
यदि शून्यमिदं सर्वमनुत्पन्नस्वभावकम् ।
कथं कर्मात्र संसारे सुखदुःखं प्रवर्तते ॥
अहङ्कारममकारैस्तथारागादिभिर्मलैः ।
कल्पितं परतन्त्रेण दुःखात्क्लिश्यन्ति बालिशाः ॥
चित्तमात्रमिदं सर्वं मायाकारसमुत्थितम् ।
ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् ॥ इति ।

कर्मान्तविभागमेलावणसंशयपरिच्छेदः पञ्चमः ॥ ५ ॥


६. षष्ठः परिच्छेदः ।

इन्द्रायुधनिभं कायं लभते तत्त्वभावनात् ॥ इति ।

स्कन्धे च धात्वायतनेन्द्रियादौ ज्ञानद्वये तत्र समं स्थितेऽस्मिन् ।
शून्ये महत्त्वे सति यः प्रसुप्तः स्वप्नं प्रपश्येत्खलु वातवेगात् ॥
स्वप्ने प्रबुद्धे च न चान्यभेदः संकल्पयेत्स्वप्नफलाभिलाषी ।
रात्रिंदिवा स्वप्नमुपैति जन्तुं महीघनत्वे सुचिरेण सुप्तः ॥
फले न पक्वे कृतकर्मणश्च वायुः पुनः क्रामति जन्मनीह ।
पक्वं फलं स्याद्गत एव वायुः परत्र शीघ्रं मरणं हि लोके ॥
यथ जिनेन्द्रो दशदिग्व्यवस्थितो मज्जास्थिमांसं न च तस्य काये ।
प्रवेशयेत्सत्त्वहिताय धातुनिर्माणकल्पेन करोति कृत्यम् ॥
एवं क्रमाज्जाग्रति सुप्तचित्तः फलं च वाञ्छेत्सविकल्पजालम् ।
स्वप्नोपमास्ते खलु सर्वधर्मा मृषामृषाश्चाप्युभयोरभावः ॥ इति ।

संवृतिसत्यमेलावणसंशयपरिच्छेदः षष्ठः ॥ ६ ॥


७. सप्तमः परिच्छेदः

यथा दीपो घटान्तःस्थो बाह्यो नैवावभासते ।
भिन्ने तु तद्धटे पश्चाद्दीपज्वालाभिभासते ॥
स्वकाय एव हि घटो दीप एव हि तत्त्वकम् ।
गुरुवक्त्रेण संभिन्ने बुद्धज्ञानं स्फुटं भवेत् ॥
गगनं गगनोभ्दूतमाकाशाकाशं स पश्यति ।
तथैव हि गुरोर्वक्त्रात्प्रयोगोऽयं प्रदर्शितः ॥ इति ।
धर्मा इमे शब्दरुतेन व्याकृता धर्मश्च शब्दश्च हि नात्र लभ्यते ।
न चैकतां चाप्यवतीर्य धर्मतामनुत्तरां क्षान्तिवरां स्पृशिष्यते ॥ इति ।
नमस्ते वरदवज्राग्र्य भूतकोटे नमोऽस्तु ते ।
नमस्ते शून्यतागर्भ बुद्धबोधे नमोऽस्तु ते ॥
ददस्व मे महाचार्य अभिसंबोधिदर्शनम् ।
सर्वबुद्धमहाज्ञानं सर्वशून्यमनुत्तरम् ॥
ददस्व मे महासत्त्व स्वानुभावैकलक्षणम् ।
कर्मजन्मविनिर्मुक्तमिहैव बोधिमवाप्नुयाम् ॥
त(त्व)त्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं प्रभो ।
तस्मात्प्रसीद बुद्धाग्र्य जगद्वीर महामुने ॥
एवं स्तुत्वा तु तं दिव्यमध्येषणविधिं परम् ।
शिष्ये कारुण्यमुत्पाद्य गुरुः श्रीमान् गुणोदधिः ॥
प्रसन्नवदनो भूत्वा सानुकम्पः प्रहर्षितः ।
श्रावयेत्समयं दिव्यं योगतन्त्रोभ्दवं परम् ॥
ततः समाहिताचार्यो बोधिचित्तं निष्पादयेत् ।
कलशे वाथ शंखे वा बोधिचित्तं निधाय च ॥
ततस्तं शिष्यमाहूय सर्वबुद्धैरधिष्ठितम् ।
अर्पयेत्समयं तस्य जिनमुद्रासमन्वितम् ॥
अभिषेको हि दातव्यो द्वितीयेनैव वज्रिणा ।
माङ्गल्योव्दुष्टशब्देन वादित्रविविधस्वनैः ॥
त्रैधातुकाभिषेकेण शिष्यः कृतनताञ्जलिः ।
अनुज्ञातं ततस्तस्य दद्यात्तत्रप्रचोदितः ॥
मालासलिलसंबुद्धवज्रघण्टाथ दर्पणम् ।
नामाचार्यमनुज्ञात अभिषेकक्रमो ह्ययम् ॥
ततः समर्पयेत्तस्य बाह्याभिसंबोधिलक्षणम् ।
संप्रदाये यदावाप्तं गुरुपर्वक्रमागतम् ॥ इति ।
तोये निर्मलके नदीसरसि वा बिन्दुश्च यो लीनकः ।
शुद्धं तत्क्रमशोऽनुभेदगदितं योगी स्मरेन्नित्यशः ।
आदर्शे ह्यनिलक्षयः क्रमगतस्तद्वन्न संप्रेक्ष्यते
पिण्डग्राह इति क्रमो विधिमतामेवं समुत्प्रेक्ष्यते ॥
सर्वाङ्गभावनातीतं कल्पनाकल्पवर्जितम् ।
मात्राबिन्दुसमातीतमेतन्मण्डलमुत्तमम् ॥
विशती(ति) यः सर्वभावानां रूपारूपेषु निर्मलम् ।
बोधितश्चोदितं चित्तं मण्डलं मण्डलाकृतिम् ॥
अस्तीति नास्तीति उभेऽपि अन्ता शुद्धी अशुद्धीति इमेऽपि अन्ता ।
तस्मादुभे अन्तविवर्जयित्वा मध्येऽपि स्थानं न करोति पण्डितः ॥ इति ।
आकाशानन्तमित्यर्थं सर्वभूतमहालयम् ।
विभूतिः श्रीविभो राजा सर्वाशापरिपूरकः ॥
अहो बुद्ध अहो बुद्ध अहो धर्मस्य देशना ।
शुद्धतत्त्वार्थशुद्धार्थ बोधिचित्त नमोऽस्तु ते ॥

परमार्थसत्यमेलावणसंशयपरिच्छेदः सप्तमः ॥ ७ ॥


८. अष्टमः परिच्छेदः

स्थूलं शब्दमयं प्राहुः सूक्ष्मं चित्तामयन्तथा ।
चित्तया रहितं यत्तद्योगिनां परमं पदम् ॥ इति ।
स्वसंवेद्यं तु तत्तत्त्वं वक्तुं नान्यस्य पार्यते ।
भक्तिभावनया गम्यं न गम्यं चान्यथा नु तत् ॥
ज्ञात्वा तत्त्वं ततः कृत्वा भक्तिभावमहर्निशम् ।
तस्मिन् परमनिर्वाणे पदे शान्ते ह्यनुत्तरे ॥
ततस्तद्भक्तिसामर्थ्याद्भावनाबलनिर्मितम् ।
तस्मिन्नुत्पद्यते रूपं किमप्यानन्दजं परम् ॥
धगित्याकारसंभूतं स्फुरत्संहाराकारकम् ।
भूर्भुवःस्वरिदं सर्वं द्योतयत्सचराचरम् ॥
भावनाबलसामर्थ्यात्प्रज्ञोपायात्मकं शिवम् ।
सर्वक्लेशविनिर्मुक्तं सर्वलक्षणभूषितम् ॥
शून्यताज्ञानसंभूतं निर्द्वन्द्वं परमं शिवम् ।
सर्वाकारवरोपेतं ग्राह्यग्राहकवर्जितम् ॥
ज्ञानं मायोपमं शुद्धं स्वच्छं प्रकृतिनिर्मलम् ।
शब्दगन्धरसातीतं तथा स्पर्शविवर्जितम् ॥
दृश्यते परमेकेन समाधौ ज्ञानचक्षुषा ।
छायामायोपमं दिव्यं दिव्यसंस्थानसयुतम् ॥
स्फुरज्ज्ञानोर्मिमालाभिर्विविधानेकविग्रहम् ।
इन्द्रायुधनिभं कायं लभन्ते तत्त्वभावकाः ॥
भावनायोगसामर्थ्यात्समयानां च पालनात् ।
ईदृशं प्राप्यते रूपं न वाच्यं यज्जिनैरपि ॥
यत्र कायो न वाक्चित्तं स्थानं यत्सर्वगं परम् ।
संप्रदायवशात्तत्र स्वस्य रूपं विभाव्यते ॥
अहो सुविस्मयकरमहो शान्तमतीन्द्रियम् ।
अहो परमगम्भीरं बुद्धत्वं पदमुत्तमम् ॥ इति ।
अहो वज्र अहो वज्र अहो वज्रस्य देशना ।
यत्र न कायवाक्चित्तं तत्र रूपं विभाव्यते ॥ इति ।

भट्टारकपादेनाप्युक्तम्-
शौशीर्यं नास्ति ते काये मांसास्थिरुधिरं न च ।
इन्द्रायुधमिवाकाशे कायं दर्शितवानसि ॥
नामयो नाशुचिः काये क्षुत्तृष्णासंभवौ न च ।
त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया ॥ इति ।

सर्वकल्पसमुच्चयेऽप्याह-

गृहीत्वा हृदयं शुद्धं वज्रदेहविभावना ।
दृढं सारमसौशीर्यं वज्रकायं स लब्धवान् ॥ इति ।
खसमा विरजा वररूपधरा अशरीर अलक्षण प्रज्ञसुता ।
सुगम्भीरगुणोदधि कारुणिका दद मूर्ध्नि पाणि मम अप्रतिमा ॥ इति ।

अप्रतिष्ठितनिर्वाणधातुमेलावणसंशयपरिच्छेदोऽष्टमः ॥ ८ ॥


९. नवमः परिच्छेदः

फलेन हेतुमामुद्र्य फलमामुद्र्य हेतुना ।
विभाव्यमन्यथासिद्धिं कल्पकोटिर्न जायते ॥ इति ।
वज्रसत्त्वो महाराजश्चोदनीयो मुहुर्मुहुः ॥ इति ।
पादप्रसारिकं मुक्त्वा त्यक्त्वा संसारपेटकम् ।
साधयेद्वज्रसत्त्वाग्रं नित्यमुद्युक्तमानसः ॥
कौकृत्यस्त्यानमिद्धादीन् परित्यज्य प्रयत्नतः ।
अन्यथा नैव सिद्धिः स्यात्कल्पकोटिशतैरपि ॥ इति ।
भिक्षुभावे स्थिता येऽत्र ये तु तर्करता नराः ।
वृद्धभावे स्थिता ये तु तेषां तत्त्वं न देशयेत् ॥ इति ।
उपायरहितं ज्ञानं शिक्षा चापि हि देशिता ।
श्रावकाणां महावीर अवता(धा)रय तेषु वै ॥

मूलसूत्रेऽप्याह-
दशकुशलान् कर्मपथानिच्छन्ति ज्ञानवर्जिताः ॥ इति ।
श्रावकयानमशिक्षथ भिक्षो बोधिचरियत तत्र चरीये ।
बोधिचरीं चर बुद्धगुणेषु एष निदानभविष्य स्वयंभूः ॥ इति ।
दुष्करैर्नियमैस्तीर्व्रैर्मूर्तिः शुष्यति दुःखिता ।
दुःखाद्विक्षिप्यते चित्तं विक्षेपात्सिद्धिरन्यथा ॥ इति ।

मूलसूत्रेऽप्याह-
दुष्करैर्नियमैस्तीव्रैः सेव्यमानो न सिद्ध्यति ।
सर्वकामोपभोगैस्तु सेवयंश्चाशु सिद्ध्यति ॥ इति ।
रागो द्वेषश्च मोहश्च त्रय एते विषङ्गताः ।
विषत्वमुपयान्त्येव विषमेण तु सेविता ॥
अमृतत्वं पुनर्यान्ति, अमृतेन तु सेविताः ॥ इति ।
बध्यति येन जडः परिमुच्यति तेन बुधः ।
बोधिविभावनया विपरीतमिदं सकलम् ॥
येन मूढाः प्रबध्यन्ते शीर्यन्ते रौरवान्तिके ।
तैरेव हि विमुच्यन्ते सुखं प्रज्ञाबलेन तु ॥ इति ।
अथातः संप्रवक्ष्यामि सर्वतो विश्वमुत्तमम् ।
सर्वबुद्धसमायोगडाकिनीजालसंवरम् ॥
रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितः ।
सर्वबुद्धमयः श्रीमान् वज्रसत्त्वोदयः सुखः ॥
तथागतमहादिव्यरत्नजालाद्यलङ्कृतम् ।
ततो घण्टावसंसक्तवितानविततोज्ज्वले ॥
वज्रगीतिं च पूजां च गीतवाद्यैर्विकुर्वितम् ।
पुष्पधूपादियोगेन दीपगन्धादिभिस्तथा ॥
प्रसाधयन्ति भवने सोद्यानादिषु वा पुनः ।
सर्वबुद्धसमायोगडाकिनीजालसंवरम् ॥
तत्रासनं निवेश्यादौ मृदुसंस्पर्शजं सुखम् ।
विश्वपद्मपटच्छन्नं सर्वशुद्धासनं हि तत् ॥
सर्वबुद्धसमायोगं योगेश्वरविकुर्वितम् ।
श्रीवज्रसत्त्वरूपास्तु विकुर्वन्ति हि यत्र(तत्तु) वै ॥
सर्वधातुमयी(यो) वापि जीवमूलमयस्तथा ।
स्वाधिदैवत्प्रतिमुखैः सिद्धिमुद्राप्रवर्तनम् ॥
निषिक्तां घटितां वापि(भि)संस्कृतां वा सुचित्रिताम् ।
विचित्रप्रतिबिम्बां च चिन्हमुद्रां प्रकल्पयेत् ॥
तदासनेषु प्राणसर्वान् यथास्थानं हि विन्यसेत् ।
चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् ।
वज्ररत्नपद्मादि तु द्वारपालेन योजयेत् ॥
स्वाधिदैवत्प्रतिमुखैः सुप्रसाधितयोषितम् ।
स्वमुद्राचिन्हसुभगां कल्पयेद्गणमण्डलम् ॥
चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् ।
चतुःसूत्रसमायुक्तमष्टस्तम्भोपशोभितम् ॥
हारार्द्धहाररचितं पट्टस्रग्दामभूषितम् ।
घण्टापताकसंशोभं चामरादिविभूषितम् ॥
चन्द्रार्द्धवज्रकोणं च द्वारनिर्यूहसन्धिषु ।
पत्वि(क्षि)णीक्रमशीर्षादिविचित्र पटमण्डितम् ॥
सर्वदेव्युपभोगैस्तु सेव्यमानैर्यथासुखम् ।
स्वाधिदैवतयोगेन स्वमात्मानं प्रपूजयेत् ॥
पूज्यतेऽनुयोगेन सर्वयोगसुखेन तु ।
समास्वादयमानस्त्वतियोगेन सिद्ध्यति ॥
अनेन सर्वबुद्धात्मा रसायनसुखेन तु ।
सिद्ध्येत्श्रीवज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् ॥
सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती ।
सर्वबुद्धमहाचित्तः सर्वबुद्धमहामहः ॥
सर्वबुद्धमहाराजा सर्ववज्रधराधिपः ।
सर्वलोकेश्वरपतिः सर्वरत्नाधिपेश्वरः ॥
ताभिः संरम्यमाणस्तु यात्युत्पत्तिं तु गच्छतः ।
सर्वदेवीमहासिध्य(द्ध)श्चक्रवर्ती प्रसिध्यति ॥ इति ।
प्रत्यहं प्रतिमासं वा प्रतिसंवत्सरं तथा ।
यथाधिष्ठानतो वापि नाटयेद्बुद्धसंवरम् ॥ इति ।
उत्थितो वा निषण्णो वा चंक्रमन् वा यथास्थितः ।
प्रहर्षन् वा जल्पन् वा यत्र तत्र यथा तथा ॥
यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः ।
असमाहितयोगेन सर्वबुद्धमयं वहेत् ॥
खसमं खसमाकारमपर्यन्तसागरोपमम् ।
रागधर्मनयो द्वेषो विलासः क्रीडाविस्तरः ॥
गृहीतं वस्तुमात्रं च शिष्यबोधनकारणात् ।
कति जन्मान्तरं वक्तुं सह्यते रागदेशना ॥

श्रीसर्वबुद्धसमायोगडाकिनीजालसंवरन्यायेन बोधिसत्त्वचरितधर्मोदयाभिसंबोधिप्रपञ्चतामेलावण-संशयपरिच्छेदो नवमः ॥ ९ ॥


१०. दशमः परिच्छेदः

महाटवीप्रदेशेषु फलपुष्पाद्यलङ्कृते ।
पर्वते विजने साध्यमिदं ध्यानसमुच्चयम् ॥
सेवयन् कामगुणान् पञ्च ज्ञानार्थिरागिणः सदा ॥ इति ।
कायवाक्चित्तवज्राणां कायवाक्चित्तभावनम् ।
स्वरूपेणैव तत्कार्यं लघुसिद्धिरवाप्यते ॥
जटामुकुटधरं बिम्बं सितवर्णनिभं महत् ।
कारयेद्विधिवत्सर्वं मन्त्रसंवरसंवृतम् ॥
षोडशाब्दिकां गृह्य सर्वालङ्कारभूषिताम् ।
चारुवक्त्रां विशालाक्षीं प्राप्य विद्याव्रतं चरेत् ॥
लोचनापदसंभोगैर्वज्रचिन्हैस्तु भावयेत् ।
मुद्रामन्त्रविधानज्ञां मन्त्रतन्त्रसुशिक्षिताम् ॥
कुर्यात्ताथागतीं भार्यां बुद्धबोधिप्रतिष्ठिताम् ।
गुह्यपूजां प्रकुर्वीत चतुःसत्त्वां(सन्ध्यं) महाव्रती ॥
कन्दमूलफलैः सर्वं भोज्यभक्ष्यं समारभेत् ।
एवं बुद्धो भवेच्छीघ्रं महाज्ञानोदधिः प्रभुः ॥
षण्मासेनैव तत्सर्वं प्राप्नुयान्नात्र संशयः ।
वने भिक्षां भ्रमेन्नित्यं साधको दृढनिश्चयः ॥
ददन्ति ते भय[त्र]स्ता भोजनं दिव्यमण्डितम् ।
अतिक्रमन्ति यदि वज्रात्मा नाशं वज्राक्षरं भवेत् ॥
सुरीं नागीं महायक्षीमसुरीं मानुषीमपि ।
प्राप्य विद्याव्रतं कार्यं त्रिवज्रज्ञानसेवितम् ॥ इति ।
द्वयेन्द्रियसमापत्त्या व्यायामविधिरन्तरे ।
हर्षचित्तं मुनेः सिद्धौ महासुखमिति स्मृतम् ॥

निष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेदो दशमः ॥ १० ॥


११. एकादशः परिच्छेदः

पर्वतेषु विविक्तेषु नदीप्रस्रवणेषु च ।
श्मशानादिष्वपि कार्यमिदं ध्यानसमुच्चयम् ॥
प्रयोगादींश्च तत्त्वेन वर्जयेत्तत्त्ववित्सदा ।
वज्रसत्त्वदहंकारं मुक्त्वा नान्यत्र कारयेत् ॥
प्रयोगा अपि न बुध्यन्ते शुद्धतत्त्वे व्यवस्थिते ।
नैरात्म्यपदयोगेन यावत्तत्प्रत्यवेक्ष्यते ॥
निःस्वभावपदस्थस्य दिव्योपाययुतस्य च ।
सिद्ध्यते निर्विचारेण यत्किञ्चित्कल्पचोदितम् ॥
भावनायोगसामर्थ्यात्स्वयमेवोपतिष्ठते ।
तत्सर्वं क्षणमात्रेण यत्किञ्चित्सिद्धिलक्षणम् ॥
रूपाद्याध्यात्मिकान् धर्मान् पश्येत्विपश्यनोच्यते ।
अक्षोभ्यादियथासंख्यं कल्पयेत्शमथो भवेत् ॥
अनयोर्निःस्वभावत्वात्तथताशान्तसंज्ञकम् ।
तथतामण्डले योगी सर्वबुद्धान् प्रवेशयेद् ॥ इति ।
निर्वाणाग्निमहागोरे भस्मशोऽपि न मुच्यते ।
न तत्र विद्यते तत्त्वं नेन्द्रियार्था न धातवः ॥
निर्विकल्पो यदा विरः स्थितिं हित्वा तु लौकिकीम् ।
आचरेत्सर्वकार्याणि बुद्धाः पश्यन्ति तत्तदा ॥
बालवद्विचरेद्युक्त्या सर्वतश्छिन्नसंशयः ।
निराभोगो यदा योगी तदा वर्षन्ति संपदः ॥
अशेषपापयुक्तानां मोहावरणसुस्थिताः ।
उन्मत्तव्रतयोगेन षण्मासादमोघसिद्धयः ॥
सर्वबुद्धान स्वयं पश्येत्सर्वकामैः प्रपूर्यते ।
न क्षीणो न च हानित्वं स्वेच्छायुर्जायते वपुः ॥
अनुत्तरां परां बोधिं संप्राप्नोत्यप्रयत्नतः ।
विना यत्नेन सिध्यन्ति सर्वकामसुखोत्सुकाः ॥
गम्भीरपदं नित्यं गच्छेत्तिष्ठन्निषण्णकः ।
प्रभास्वरज्ञानकौशल्याद्योगिनां लक्षणं सदा ॥
अनेन ध्यानयोगेन चित्तरत्नं दृढीभवेत् ।
अधिष्ठानं च कुर्वन्ति बुद्धा बोधिप्रतिष्ठिताः ॥
एवं भूत्वा निविष्टस्तु भावयेद्भावतत्परः ।
यावन्न खिद्यते चित्तं समाहितमनाः सुधीः ॥
खिन्नस्तु पर्यटेत्पश्चाद्यथारुचितचेष्टितः ।
भावयेद्विपुलां बोधिमीषदुन्मीलितेक्षणः ॥
हसन् जल्पन् क्वचित्तिष्ठन् क्वचित्कुर्यात्प्रवर्तनम् ॥
भावनासक्तचित्तस्तु यथा खेदो न जायते ॥
एवं समाधियुक्तस्य निर्विकल्पस्य मन्त्रिणः ।
कालावधिं परित्यज्य सिद्ध्यतेऽनुत्तरं पदम् ॥ इति ।
सूक्ष्मरूपं लघुस्पर्शं व्याप्तिसंप्राप्तिमेव च ।
प्रकाशं चैव स्थैर्यं च वशित्वं कामावसानिकम् ॥ इति ।
बोधिज्ञानाग्रसंप्राप्तं पश्यति बुद्धसुप्रभम् ।
बुद्धसंभोगकायं च आत्मानं लघु पश्यति ॥
त्रैधातुकमहासत्त्वैः पूज्यमानं स पश्यति ।
बुद्धैश्च बोधिसत्त्वैश्च पञ्चकामगुणैर्ध्रुवम् ॥
पूजितं पश्यते नित्यं महज्ञाना ग्रसम्भवम् ।
वज्रसत्त्वं महाबिम्बं वज्रधर्मं महायशम् ॥
स्वबिम्बं पश्यते स्वप्ने गुह्यवज्रमहायशाः ।
प्रणमन्ति महाबुद्धा बोधिसत्त्वाश्च वज्रिणः ॥
द्रक्ष्यन्ति ईदृशान् स्वप्नान् कायवाक्चित्तसिद्धिदान् ।
सर्वलङ्कारसम्पूर्णां सुरकन्यां मनोरमाम् ॥
दारकं दारिकां पश्यन् स सिद्धिमधिगच्छति ।
दशदिक्सर्वबुद्धानां क्षेत्रस्थं पश्यति ध्रुवम् ॥
ददन्ति हृष्टचित्तात्मा धर्मगञ्जं मनोरमम् ।
धर्मचक्रगतं कायं सर्वसत्त्वपरिवृतम् ॥
पश्यते योगसमये ध्यानवज्रप्रतिष्ठितः ॥ इति ।
नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किञ्चन् ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ इति ।
उक्तं च सुवर्णप्रभाससूत्रे-

न बुद्धः परिनिर्वाति न धर्मः परिहीयते ।
सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत् ॥

लङ्कावतारसूत्रेऽप्युक्तम्-
न ह्यत्रोत्पद्यते किञ्चित्प्रत्ययैर्न निरुध्यते ।
उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः ॥

अत उक्तम्-
येन येन हि भावेन मनः संयुज्यते नृणाम् ।
तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥
उत्पत्तिर्यत्संवृतिसत्यमेतद्मृत्युर्हि नाम परमार्थसत्यम् ।
क्रमद्वयस्यास्य गुरुकृपातो ज्ञाता भवेद्यः स भविष्यबुद्धः ॥
सत्यद्वयस्याद्वयवत्प्रवेशोऽनुच्छेदरूपोऽप्यविशेष एव ।
एकत्वमेवास्त्यनयोर्द्वयोरिति विज्ञायते येन विमुक्त एषः ॥
गिरीन्द्रमूर्ध्नः प्रपतेत्तु कश्चिद्नेच्छेच्च्युतिं स च्यवते तथापि ।
गुरुप्रसादाद्विहितोपदेशाद्नेच्छेद्विमुक्तिं स तथापि मुक्तः ॥
मत्वा सत्त्वेषु तत्त्वाधिगमक्षमताभावमालोक्य लोके
उत्तालाब्धितरङ्गभङ्गविकलाद्दीपस्फुलिङ्गादिव ।
किञ्चित्किञ्चिदुपेत्य संचितवता ग्रन्थो मयायं कृतो
ये वै संवृतिसत्यभीतसुभगास्तेषामलातो भवेत् ॥

अत्यन्तनिष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेद एकादशः ॥

समाप्तोऽयं चर्यामेलावणप्रदीपः ॥

कृतिरीयं महाचार्यार्यदेवपादानाम् ॥

"https://sa.wikisource.org/w/index.php?title=चर्यामेलावणप्रदीपः&oldid=367039" इत्यस्माद् प्रतिप्राप्तम्