कुमारसम्भवम्/त्रयोदशः सर्गः

Wikisource तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।
ततः कुमारः शिरसा नतेन त्रैलोक्यभर्तुः प्रणनाम पादौ ।। १३.१ ।।

जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर वत्स ।
इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ।। १३.२ ।।

प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगं स्वमातुः ।
तस्याः प्रमोदाश्रुपयः प्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ।। १३.३ ।।

तमङ्कमारोप्य सुता हिमाद्रेराश्लिष्य गाढं सुतवत्सला सा ।
शिरस्युपाघ्राय जगाद शत्रुं जित्वा कृतार्थीकुरु वीरसूं माम् ।। १३.४ ।।

उद्दाम दैत्येशविपत्तिहेतुः श्रद्धालुचेताः समरोत्सवस्य ।
आपृच्छ्य भक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः ।। १३.५ ।।

देवं महेशं गिरीजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि ।
प्रदक्षिणीकृत्य च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः ।। १३.६ ।।

अथ व्रजद्भिस्त्रिदशै रशेषैः स्फुरत्प्रभा भासुरमण्डलैस्तैः ।
नभो बभासे परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः ।। १३.७ ।।

रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः ।
नक्षत्रताराग्रहमण्डलानामिव त्रियामारमणो नभोन्ते ।। १३.८ ।।

गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
उत्तीर्य नक्षत्रपथं मुहूर्तात्प्रपेदिरे लोक मथात्मनीनम् ।। १३.९ ।।

ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
सद्यः प्रवेष्टुं न विषेहिरे तं क्षणं व्यलम्बन्त सुराः समग्राः ।। १३.१० ।।

पुरो भव त्वं, न पुरो भवामि, नाहं पुरोगोऽस्मि, पुरः सरस्त्वम् ।
इत्थं सुरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः ।। १३.११ ।।

सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते ।
दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वस कातरान्ताम् ।। १३.१२ ।।

सहेलहासच्छुरिताननेन्दुस्ततः कुमारः पुरतो भविष्णुः ।
स तारकापातमपेक्षमाणो रणप्रवीरो हि सुरानवोचत् ।। १३.१३ ।।

भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्गं भवन्तः प्रविशन्तु सद्यः ।
अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो वः खलु दृष्टपूर्वः ।। १३.१४ ।।

स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं वल्गति यस्य चण्डम् ।
इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ।। १३.१५ ।।

शक्तिर्ममासावहतप्रचारा प्रभावसारा सुमहःप्रसारा ।
स्वर्लोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशन्तान्मुदं वः ।। १३.१६ ।।

इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य ।
सर्वं शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं वचसा ननन्द ।। १३.१७ ।।

सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्गसंफुल्लसहस्त्रनेत्रः ।
तस्योत्तरीयेण निजाम्बरेण निरुञ्छनचारु चकार शक्रः ।। १३.१८ ।।

घनप्रमोदाश्रुतरङ्गिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः ।
अथो अचुम्बद्विधिरादिवृद्धः षडाननं षट्सु शिरःसु चित्रम् ।। १३.१९ ।।

तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्धसङ्घाः ।। १३.२० ।।

दिव्यर्षयः शत्रुविजेष्यमाणं तमभ्यनन्दन्किल नारदाद्याः ।
निरुञ्छनं चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च ।। १३.२१ ।।

ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः ।
उत्सेहिरे स्वर्गमनन्तशक्ते र्गन्तुं वनं यूथपतेरिवेभाः ।। १३.२२ ।।

अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं चिकीर्षोः ।
सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथः समन्तात् ।। १३.२३ ।।

सुराङ्गनानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः ।
प्रपेदिरे पिञ्जरवारिपूरां स्वर्गौकसः स्वर्गधुनीं पुरस्तात् ।। १३.२४ ।।

दिग्दन्तिनां वारिविहारभाजां कराहतैर्भीमतरैस्तरङ्गैः ।
आप्लावयन्तीं मुहुरालबालश्रेणिं तरूणां निजतीरजानाम् ।। १३.२५ ।।

लीलारसाभिः सुरकन्यकाभि र्हिरण्मयीभिः सिकताभिरुच्चैः ।
माणिक्यगर्भाभिरुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः ।। १३.२६ ।।

सौरभ्यलुब्धभ्रमरोपगीतैर्हिरण्यहंसावलिकेलिलोलैः ।
चामीकरीयैः कमलैर्विनिद्रैश्च्युतैः परागैः परिपिङ्गतोयाम् ।। १३.२७ ।।

कुतूहलात्प्रष्टुमुपागताभि स्तीरस्थिताभिः सुरसुन्दरीभिः ।
अभ्यूर्मिराजिप्रतिबिम्बिताभिर्मुदं दिशन्तीं व्रजतां जनानाम् ।। १३.२८ ।।

ननन्द सद्यश्चिरकालदृष्टां विलोक्य शक्रः सुरदीर्घिकां ताम् ।
अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय ततः पुरोगः ।। १२.२९ ।।

स कार्त्तिकेयः पुरतः परीतः सुरै समस्तैः सुरनिम्नगां ताम् ।
अपूर्वदृष्टामवलोकमानः सविस्मयः स्मेरविलोचनोऽभूत् ।। १३.३० ।।

उपेत्य तां तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः ।
गीर्वाणवृन्दैः प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना मुदितो ववन्दे ।। १३.३१ ।।

प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
कपोलपालिश्रमवारिहारी भेजे गुहं तं सरितः समीरः ।। १३.३२ ।।

ततो व्रजन्नन्दननामधेयं लीलावनं जम्भजितः पुरस्तात् ।
विभिन्नभग्नोद्धृतशालसङ्घं प्रेक्षांचकार स्मरशत्रुसूनुः ।। १३.३३ ।।

सुरद्विषोपप्लुतमेवमेतद्वनं बलस्य द्विषतो गतश्रि ।
इत्थं विचिन्त्यारुणलोचनोऽभूद् भ्रुभङ्गदुष्प्रेक्ष्यमुखः स कोपात् ।। १३.३४ ।।

निर्लूनलीलोपवनामपश्यद्दुःसञ्चरीभूतविमानमार्गाम् ।
विध्वस्तसौधप्रचयां कुमारो विश्वैकसाराममरावतीं सः ।। १३.३५ ।।

गतश्रियं वैरिवराभिभूतां दशां सुदीनामभितो दधानाम् ।
नारीमवीरामिव तामवेक्ष्य स वाढमन्तः करुणापरोऽभूत् ।। १३.३६ ।।

दुश्चेष्टिते देवरिपौ सरोषस्तस्याविषण्णः समराय चोत्कः ।
तथाविधां तां स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ।। १३.३७ ।।

दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः ।
महाहिनिर्मोकपिनद्धजालाः स वीक्ष्य तस्यां विषसाद सद्यः ।। १३.३८ ।।

उत्कीर्णचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूषितानाम् ।
हिरण्यहंसव्रजवर्जितानां विदीर्णवैढूर्यमहाशिलानाम् ।। १३.३९ ।।

आविर्भवद्वालतृणाञ्चितानां तदीयलीलागृहदीर्घिकाणाम् ।
स दुर्दशां वीक्ष्य विरोधिजातां विषादवैलक्ष्यभरं बभार ।। १३.४० ।।

तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालाम् ।
निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ।। १३.४१ ।।

निर्दिष्टवर्त्मा बिवुधेश्वरेण सुरैः समग्रैरनुगम्यमानः ।
स प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ।। १३.४२ ।।

निसर्गकल्पद्रुमतोरणं तं स पारिजातप्रसवस्रगाढ्यम् ।
दिव्यैः कृतस्वस्त्ययनं मुनीन्द्रैरन्तःप्रविष्टप्रमदं प्रपेदे ।। १३.४३ ।।

पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
प्रदक्षिणीकृत्य कृताञ्जलिः सन्षङ्भिः शिरोभिः स नतैर्ववन्दे ।। १३.४४ ।।

स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवञ्शैलसुतातनूजः ।। १३.४५ ।।

स कश्यपः सा जननी सुराणां तमेधयामासतुराशिषा द्वौ ।
तया यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम् ।। १३.४६ ।।

स्वदर्शनार्थं समुपेयुषीणां सुदेवतानामदितिश्रितानाम् ।
पादौ ववन्दे पतिदेवतास्तमाशीर्वचोभिः पुनरभ्यनन्दन् ।। १३.४७ ।।

पुलोमपुत्रीं विबुधाधिभर्तुस्ततः शचीं नाम कलत्रमेषः ।
नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा समुपाचरच्च ।। १३.४८ ।।

अथादितीन्द्रप्रमदाः समेतास्ता मातरः सप्त घनप्रमोदाः ।
उपेत्य भक्त्या नमते महेशपुत्राय तस्मै ददुराशिषः प्राक् ।। १३.४९ ।।

समेत्य सर्वेऽपि मुदं दधाना महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
आनन्दकल्लोलितमानसं तं समभ्यषिञ्चन्पृतनाधिपत्ये ।। १३.५० ।।

सकलविबुधलोकः स्रस्तनिःशेषशोकः
कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
अजनि हरसुतेनानन्तवीर्येण तेना-
खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ।। १३.५१ ।।

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्री-
सीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः ।