कालिकापुराणम्/अध्यायः ७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कालिकापुराणम् सप्तमोऽध्यायः मदनकथनम्
अथ कालिका पुराण अध्याय ७
।। मार्कण्डेय उवाच ।।
अथ ब्रह्मा महामाया - स्वरूपं प्रतिपाद्य च ।
मदनाय पुनः प्राह युक्तासौ हरमोहने ।।१।।
।। ब्रह्मोवाच ।।
विष्णुमाया महादेवो यथा दारपरिग्रहम् ।
करिष्यति तथा कर्तुमङ्गीकारं पुराकरोत् ।।२।।
सावश्यं दक्षतनया भूत्वा शम्भोर्महात्मनः ।
भविष्यति द्वितीयेति स्वयमेवावदत् स्मर ॥३॥
त्वमेभिः स्वगणैः सार्द्धं रत्या च मधुना सह ।
यथेच्छति तथा दारान् ग्रहीतुं कुरु शङ्करः ।।४।।
शम्भौ गृहीतदारे तु कृतकृत्या वयं स्मर ।
अविच्छिन्ना सृष्टिरियं भविष्यति न संशयः ॥५॥
।। मार्कण्डेय उवाच ।।
तथाब्रवीद्विजश्रेष्ठा लोकेशाय मनोभवः ।
मधुरं यत् कृतं तेन महादेवस्य मोहने ।।६।।
।। मदन उवाच ।।
शृणु ब्रह्मन् यथास्माभिः क्रियते हरमोहने ।
प्रत्यक्षे वा परोक्षे वा तस्य तद्गदतो मम ॥७॥
यदा समाधिमाश्रित्य स्थितः शम्भुर्जितेन्द्रियः ।
तदा सुगन्धिवातेन शीतलेन विवेगिना ।
तं बीजयामि लोकेश नित्यं मोहनकारिणा ॥८॥
स्वसायकांस्तथा पञ्च समादाय शरासनम् ।
भ्रमामि तस्य सविधे मोहयंस्तद्गणानहम् ।।९।।
सिद्धद्वन्द्वानहं तत्र रमयामि दिवानिशम् ।
भावा हावाश्च ते सर्वे प्रविशन्ति च तेषु वै ।। १० ।।
यदि प्रविष्टे सविधे शम्भोः प्राणी पितामह ।
को वा न कुरुते द्वन्द्व भावं तत्र मुहुर्मुहुः ।।११।।
मम प्रवेशमात्रेण तथा स्युः सर्वजन्तवः ।
न शम्भुर्न वृषस्तस्य मानसीं विक्रियां गतौ ।। १२ ।।
यदा हिमवतः प्रस्थं स याति प्रमथाधिपः ।
तत्र गन्ता तदैवाहं सरतिः समधुर्विधे ।।१३।।
यदा मेरुं प्रयात्येष यदा वा नाटकेश्वरम् ।
कैलासं वा यदा याति तत्र गच्छाम्यहं तदा ।।१४।।
यदा त्यक्तसमाधिस्तु हरस्तिष्ठति वै क्षणम् ।
ततस्तस्य पुरश्चक्रमिथुनं योजयाम्यहम् ।।१५।।
तच्चक्रयुगलं ब्रह्मन् हावभावयुतं मुहुः ।
नानाभावेन कुरुते दाम्पत्य - क्रममुत्तमम् ।।१६।।
नीलकण्ठानपि मुहुः सजायानपि तत्पुरः ।
सन्मोहयामि सविधे मृगानन्याश्च पक्षिणः ।।१७।।
विचित्रभावमासाद्य यदा प्रकुरुते रतिम् ।
मयूरमिथुनं वीक्ष्य तत्तदा को न चोत्सुकः ।।१८।।
मृगाश्च तत् पुरस्थाश्च स्वजायाभिस्तु सोत्सुकाः ।
अकुर्वन् रुचिरं भावं तस्य पार्श्वे पुरस्तदा ।। १९ ।।
अपश्यन् विवरं नास्य कदाचिदपि मच्छरः ।
निपात्यः स यदा देहे यन्मया सर्वलोकधृत् ॥२०॥
बहुधा निश्चितं ज्ञातं रामासङ्गादृते हरम् ।
अलं च सन्मोहयितुं ससहायोऽपि निष्कलम् ।।२१।।
मधुश्च कुरुते कर्म यद्यत्तस्य विमोहने ।
तच्छृणुष्व महाभाग नित्यं तस्योचितं पुनः ।।२२।।
चम्पकान् केशरानाम्रान् करुणान् पाटलास्तथा ।
नागकेशरपुन्नागान् किंशुकान् केतकान् घवान् ।।२३।।
माधवीर्मल्लिकाः पर्णधारान् कुरुवकांस्तथा ।
उत्फुल्लयति तत्तस्य यत्र तिष्ठति वै हरः ।। २४ ।।
सरांस्युत्फुल्लपद्मानि बीजयन् मलयानिलैः ।
सुगन्धीकृतवान् यत्नादतीव शङ्कराश्रमम् ।। २५ ।।
लता: सर्वाः सुमनसः फुल्लपादपसञ्चयान् ।
वृक्षान् रुचिरभावेन वेष्टयन्ति स्म तत्र वै ।। २६ ।।
तान् वृक्षांश्चारुपुष्पौघास्तैः सुगन्धिसमीरणैः ।
दृष्ट्वा कामवशं यातो न तत्र मुनिरप्युत ।। २७ ।।
तद्गणा अपि लोकेश नानाभावैः सुशोभनैः ।
वसन्तिस्म सुराः सिद्धा ये ये चाति तपोधनाः ।। २८ ।।
न तस्य पुनरस्माभिर्दृष्टं मोहस्य कारणम् ।
भावमात्रं न कुरुते कामोत्थमपि शङ्करः ।। २९ ।।
इति सर्वमहं दृष्ट्वा ज्ञात्वा च हरभावनाम् ।
विमुखोऽहं शम्भुमोहान्नियतं मायया विना ॥३०॥
इदानीं त्वद्वचः श्रुत्वा योगनिद्रोदितं पुनः ।
तस्याः प्रभावं श्रुत्वाथ गणान् दृष्ट्वा सहायकान् ।।३१।।
मया शम्भोर्विमोहाय क्रियते मुहुरुद्यमः ।
भवानपि त्रिलोकेश योगनिद्रा द्रुतं पुनः ।
भवेद् यथा शम्भुजाया तथैव विदधात्वियम् ।।३२।।
यमानां नियमानाञ्च प्राणायामस्य नित्यशः ।
आसनस्य महेशस्य प्रत्याहारस्य गोचरे ॥३३॥
ध्यानस्य धारणायाश्च समाधेर्विघ्नसम्भवम् ।
मन्ये कर्तुं न शक्यं स्यादपि मारशतैरपि ।। ३४ ।।
तथाप्ययं मारगणः करोतु हरस्य योगाङ्गविकारविघ्नम् ।
यदेव शक्यं किमु वा समर्थ: समक्षमन्यस्य न कर्तुमोजः ।। ३५ ।।
॥ श्रीकालिकापुराणे मदनकथनं नाम सप्तमोऽध्यायः ॥ ७॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand