कालिकापुराणम्/अध्यायः ५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।।श्रीभगवानुवाच।।
ततोऽर्घपात्रे तन्मन्त्रमष्टधाकृत्य सञ्जजपेत्।
तेन तोयानि पुष्पाणि स्वं मण्डलमथासनम्।। २.५४.१ ।।

आशोधयेत् ततः पश्चात् पूजोपकरणं समम्।
ॐ ऐं ह्रीं ह्रौ मिंति मन्त्रेण शब्दप्रांशुविवर्जितम्।। २.५४.२ ।।

द्वारपालं ततो देव्या आसनानि च पूजयेत्।
नन्दिभृङ्गिमहाकालगणेशा द्वारपालकाः।
उत्तरादिक्रमात् पूज्या आसनानि च मध्यतः।। २.५४.३ ।।

आधारशक्तिप्रभृति हेमाद्यन्तात् प्रपूजयेत्।
प्रसिद्धात् सर्वतन्त्रेषु पूजाकल्पेषु भैरव।। २.५४.४ ।।

दशदिक्पालसहितान् धर्माधर्मादिकांस्तथा।
मण्डलाग्न्यादिकोणेषु पूजयेत् पार्श्वदेशतः।। २.५४.५ ।।

सूर्याग्निसोममरुतां मण्डलानि च पद्मकम्।
रजस्तथा तमः सत्त्वं योगपीठं गुरोः पदम्।। २.५४.६ ।।

सारादीन् भद्रपीठान्तान् साङ्गोपाङ्गान् प्रपूजयेत्।
ब्रह्माण्डं स्वर्णडिम्बं च ब्रह्मविष्णुमहेश्वरान्।। २.५४.७ ।।

ससागरान् सप्तद्वीपान् स्वर्णद्वीपं समण्डपम्।
रत्नपद्मं सपर्यङ्कं रत्नस्तम्भं तथैव च।। २.५४.७ ।।

पञ्चाननं मण्डलस्य मध्येऽवश्यं प्रपूजयेत्।
ह्रीं मन्त्रेण ततः कूर्मपृष्ठं पाण्योर्निबध्य च।। २.५४.९ ।।

ध्यायेच्च पूर्ववद् देवीमासाद्यासनमुत्तमम्।
हृन्मध्ये चिन्तयेत् स्वर्णद्वीपं पर्यङ्कसम्भृतम् ।। २.५४.१० ।।

पश्यन्निव ततो देवीमेकाग्रमनसा स्मरेत्।
प्रत्यक्षीकृत्य हृदये मानसैरुपचारकैः।। २.५४.११ ।।

षोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम्।
ततस्तु वायुबीजेन दक्षिणे च पुटेन च।। २.५४.१२ ।।

नासिकाया विनिःसार्यं क्रीं मन्त्रेण च भैरव।
स्थापयेत् पद्ममध्ये तु तद्‌धस्तं न वियोजयेत्।। २.५४.१३ ।।

कृते वियोगे हस्तस्य पुष्पात् तस्माच्च भैरव।
गन्धर्वैः पूज्यते देवी पूजकैर्नाप्यते फलम्।। २.५४.१४ ।।

आवाहनं ततः कुर्याद् गायत्र्या शिरसा सह ।
महामायायै विद्महे त्वां चण्डिकाख्यां धीमहि ।। २.५४.१५ ।।

एतदुक्त्वा ततः पश्चाद् धियो यो नः प्रचोदयात्।
स्नानीयं देवि ते तुभ्यं ॐ ह्रीं श्रीं नम इत्यतः ।। २.५४.१६ ।।

स्नानीयं च ततो दैव्यै दद्याल्लक्षणलक्षितम्।
ततस्तु मूलमन्त्रेण गन्धपुष्पं सदीपकम्।। २.५४.१७ ।।

धूपादिकं प्रदद्यात् तु मोदकं पायसं तथा।
सितां गुडं दधिक्षीरं सर्पिर्नानाविधैः फलैः।। २.५४.१७ ।।

रक्तपुष्पं पुष्पमालां सुवर्णरजतादिकम्।
नैवेद्यमुत्तमं देव्या लाङ्गलं मोदकं सिताम्।। २.५४.१९ ।।

शाण्डिल्यकरताम्राख्यकूष्माण्डानां फलानि च।
हरीतकीफलं चापि नागरङ्गकमेलकम्।। २.५४.२० ।।

बालप्रियं च यद् द्रव्यं कसेरुकबिसादिकम्।
तोयं च नारिकेलस्य देव्यै देयं प्रयत्नतः।। २.५४.२१ ।।

रक्तं कौशेयवस्त्रं च देयं नीलं कदापि न।
देव्याः प्रियाणि पुष्पाणि बकुलं केशरं तथा।। २.५४.२२ ।।

माध्यं कह्लारवज्राणि करवीरकुरुण्टकान्।
अर्कपुष्पं शाल्मलकं दूर्वाङ्कुरं सुकोमलम् ।। २.५४.२३ ।।

कुशमञ्जरिका दर्भा बन्धूककमले तथा।
मालूरपत्रं पुष्पं च त्रिसन्ध्यारक्तपर्णके।। २.५४.२४ ।।

सुमनांसि प्रियाण्येतान्यम्बिकायाश्च भैरव।
बन्धूकं बकुलं माध्यं बिल्वपत्राणि सन्ध्यकम्।। २.५४.२५ ।।

उत्तमं सर्वपुष्पेषु द्रव्ये पायसमोदकौ।
माल्यं बन्धूकपुष्पस्य शिवायै बकुलस्य वा।। २.५४.२६ ।।

करवीरस्य माध्यस्य सहस्राणां ददाति यः।
स कामान् प्राप्य चाभीष्टान् मम लोके प्रमोदते।। २.५४.२७ ।।

चन्दनं शीतलं चैव कालीयकसमन्वितम्।
अनुलेपनमुख्यं तु देव्यै दद्यात् प्रयत्नतः।। २.५४.२७ ।।

कर्पूरं कुङ्कुमं कूर्चं मृगनाभिं सुगन्धिकम् ।
कालीयकं सुगन्धेषु देव्याः प्रीतिकरं परम्।। २.५४.२९ ।।

यक्षधूपः प्रतीवाहः पिण्डधूपः सगोलकः ।
अगुरुः सिन्धुवारश्च धूपाः प्रीतिकरा मताः।। २.५४.३० ।।

अङ्गरागेषु सिन्दूरं देव्याः प्रीतिकरं परम्।
सुगन्धि शालिजं चान्नं मधुमांससमन्वितम्।। २.५४.३१ ।।

अपूपं पायसं क्षीरमन्नं देव्याः प्रशस्यते।
रत्नोदकं सकर्पूरं पिण्डीतककुमारकौ ।। २.५४.३२ ।।

रोचनं पुष्पकं देव्याः स्नानीयं परिकीर्तितम्।
घृतप्रदीपो दीपेषु प्रशस्तः परिकीर्तितः।। २.५४.३३ ।।

पुष्पाञ्जलित्रयं दद्याद् मूलमन्त्रेण शोभनम्।
दत्त्वोपचारानखिलान्मध्ये चैताः प्रपूजयेत्।। २.५४. ३४ ।।

कामेश्वरीं गुप्तदुर्गां विन्ध्यकन्दरवासिनीम्।
कोटेश्वरी दीर्घिकाख्यां प्रकटीं भवनेश्वरीम् ।। २.५४. ३५ ।।

आकाशगङ्गां कामाख्यां यदा दिक्करवासिनीम् ।
मातङ्गी ललितां दुर्गां भैरवी सिद्धिदां तथा।। २.५४.३६ ।।

बलप्रमथिनीं चण्डीं चण्डोग्रां चण्डनायिकाम्।
उग्रां भीमां शिवां शान्तां जयन्तीं कालिकां तथा।। २.५४.३७ ।।

मङ्गलां भद्रकालीं च च शिवां धात्रीं कपालिनीम् ।
स्वाहां स्वधामपर्णां च पञ्चपुष्करिणीं तथा।। २.५४.३७ ।।

मदनीं सर्वभूतानां मनः प्रोत्साहकारिणीम् ।
दमनीं सर्वभूतानां चतुःषष्टिं च योगिनीः।। २.५४.३९ ।।

एताः सम्पूज्य मध्ये तु मन्त्रेणाङ्गानि पूजयेत्।
हृच्छिरस्तु शिखावर्मनेत्रबाहुपदानि च।। २.५४.४० ।।

मूलमन्त्राद्यक्षरैस्तु त्रिभिराद्यङ्गपूजनम्।
एकैकं वर्द्धयेत् पश्चान्मन्त्राण्यङ्गौघपूजने।। २.५४.४१ ।।

सिद्धसूत्रं च खड्गं च खड्गमन्त्रेण पूजयेत्।
ततोऽष्टपत्रमध्ये तु पूजयेदष्टयोगिनीः।। २.५४.४२ ।।


शैलपुत्रीं चण्डघण्टां स्कन्दमातरमेव च।
कालरात्रिं च पूर्वादिचतुर्दिक्षु प्रपूजयेत्।। २.५४.४३ ।।

चण्डिकामथ कूष्माण्डीं तता कात्यायनीं शुभाम्।
महागौरीं चाग्निकोणे तैऋत्यादिषु पूजयेत्।। २.५४.४४ ।।

महामायां क्षमस्वेति मूलमन्त्रेण चाष्टधा।
पूजयेत् पद्ममध्ये तु बलिदानं ततः परम्।। २.५४.४५ ।।

एवं यदा कल्पविधानमानैः सम्पूज्यते भैरव कामदेवी।
तदा स्वयं मण्डलमेत्य देयं गृह्णाति कामं च ददाति सम्यक्।। २.५४.४६ ।।

इति श्रीकालिकापुराणे अष्टादशपटलोद्धारे महामायाकल्पचतुःपञ्चाशोऽध्यायः।।