कालिकापुराणम्/अध्यायः ४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।।और्व्व उवाच।।
अवतीर्णे महादेवे पौष्यजायासुखेच्छया।
मानुषेण प्रमाणेन गते संवत्सरत्रये।। ४८.१ ।।

गिरिजापि ककुत्स्थस्य राज्ञो भार्यास्वजायत।
मेनकायां यथापूर्वं स्वेच्छया परमेश्वरी।। ४८.२ ।।

अथार्यावर्तविषये ब्रह्मण्यः शूरसत्तमः।
इक्ष्वाकुवंशजो राजा ककुत्स्थो नाम धार्मिकः।। ४८.३ ।।

भोगत्वयाह्वयायां तु पुर्यां रिपुनिषूदनः।
सर्वलक्षणसम्पन्नो भूपालगुणसंयुतः।। ४८.४ ।।

तस्य भार्या महाभागा भर्गदेवस्य पुत्रिका।
सा मनोन्मथिनी नाम्ना पूजिता पतिवल्लभा।। ४८.५ ।।

तस्याः पुत्रशतं यज्ञे देवगर्भाभमच्युतम्।
बलवीर्यसमायुक्तं ककुत्स्थनृपसत्तमात्।। ४८.६ ।।

पुत्री न विद्यते तस्यास्तदर्थ सा गृहान्तरे।
निभृतं स्थण्डिलं कृत्वा चण्डिकां समपूजयत्।। ४८.७ ।।

पूज्यमाना महादेवी चण्डिका राजभार्यया।
प्रसन्नग सा त्रिभिर्वर्षैस्तां स्वप्ने चाब्रवीदिदम्।। ४८.८ ।।

योषिल्लक्षणसम्पन्नासार्वभौमस्य भामिनी।
नक्षत्रमालया युक्ता पुत्री तव भविष्यति।। ४८.९ ।।

सापि स्वप्ने वरं प्राप्य मुदिताभून्नृपाङ्गना।
सापि स्वप्ने वरं प्राप्य मुदिताभून्नपाङ्गना।। ४८.१0 ।।

पार्वत्यपि स्वयं तस्या गर्भे काले विवेश ह।
सा मनोन्मथिनी देवी प्रवृत्ते ऋतुसंगमे।
गर्भं दधौ महासत्त्वं चन्द्रिकेवामृतोत्करम्।। ४८.११ ।।

सम्पूर्णे तु ततः काले प्राप्ते नक्षत्रमालिनीम्।
सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम्।। ४८.१२ ।।

तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमां शुभाम्।
ककुत्स्थो भार्यया सार्धमत्यर्थमुदितोऽभवत्।। ४८.१३ ।।

सहजेनाथ हारेण भूषिता तु ककुत्स्थजा।
ववृधे मन्दिरे तस्य वर्षास्विव सुरापगा।। ४८.१४ ।।

तेनैव हारचिह्नेन तस्यास्तारावतीति वै।
नामाकरोत पिता काले यथोक्ते नृपसत्तम्।। ४८.१५ ।।

कालक्रमेण सा बाल्यं व्यतीता वरवर्णिनी।
मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे।। ४८.१६ ।।

सी श्रिया श्रियमन्वेति शौचेनाथ सती शुभा।
सुशीलां शीलचरितैः स्वरूपेण च पार्वतीम्।। ४८.१७ ।।

तस्यास्तु यौवनोद्भेदं तृष्ट्वा राजा सुतैः सह।
ककुत्स्थः कारयामास समयेऽथ स्वयंवरम्।। ४८.१८ ।।

माधवे मासि सम्प्राप्ते चन्द्रवृद्धौ शुभे दिने।
स्वयंवरसभां चक्रे तारावत्याः पिता सुतैः।। ४८.१९ ।।

वार्तिकांस्तु बहून् राजा वडवाभिः क्रमेलकैः।
तूर्णं प्रस्थापयामास नानादेशनृपान् प्रति।। ४८.२0 ।।

ते राजानस्तदा श्रुत्वा वार्ता वे वार्तिकाननात्।
तूर्णमेव समाजग्मुस्तारावत्याः स्वयंवरम्।। ४८.२१ ।।

तं श्रुत्वा पौष्यतनयश्चतुरङ्गबलैर्युतः।
स्वयंवरं जगामाशु दिव्यालङ्कारसंयुतः।। ४८.२२ ।।

तत्र गत्वा नृपश्रेष्ठाः ककुत्स्थेन विनिर्मिते।
स्वयंवरसभामध्ये यथायोग्यमुपस्थिताः।। ४८.२३ ।।

आसीनेष्वथ भूपेषु ककुत्स्थस्तनयां स्वकाम्।
शुभे मुहूर्ते सम्प्राप्ते सभां नेतुं मनोऽकरोत्।। ४८.२४ ।।

एतस्मिन्नन्तरे राज्ञः कुमारी वरवर्णिनी।
वृद्धां धात्रीं निजां सम्यक्‌सम्पूर्णज्ञानशालिनीम्।। ४८.२५ ।।

स्वयंवरसभां द्रष्टुं प्राहिणोत् सदसं प्रति।
उवाच च तदा धात्रीं राजपुत्री सुमङ्गलाम्।। ४८.२६ ।।

स्वयंवरसभां गत्वा चारुरूपं सुलक्षणम्।
नृपं निरूप्य भो धात्रि समक्षं मे निवेदय।। ४८.२७ ।।

त्वं मातर्मम कल्याणं सौभाग्यमपि वाच्छसि।
यथा सौभाग्यदः स्वामी मम स्यात् त्वं तथा कुरु।। ४८.२८ ।।

एवं तां प्रेषयित्वाथ धात्रीं तां नृपपुत्रिका।
सा मनोन्मथिनी यत्र प्राराधयत चण्डिकाम्।। ४८.२९ ।।

तत्र प्रायान्-महाभागा शुभा तारावती तदा।
तत्र गत्वा महादेवीं प्रणम्य कालिकाह्वयाम्।। ४८.३0 ।।

मानुषेणाथ भावेन तां ज्ञात्वात्मानमात्मना।
प्रणनाम महाशक्त्या वाक्यं चैतदुवाच ह।। ४८.३१ ।।

प्रणमामि महामायां योगनिद्रां जगन्मयीम्।
सा मे प्रसीदतां गौरी चण्डिका भक्तवत्सला।। ४८.३२ ।।

यदि सत्यं जनन्या मे मदर्थे त्वं प्रपूजिता।
तेन सत्येन सुभगः पतिर्मम नृपोत्तमः।। ४८.३३ ।।

स्वयंवरेऽद्य भवतु प्रसीद हरवल्लभे।
इति तस्या वचः श्रुत्वा चण्डिका हरमोहिनी।। ४८.३४ ।।

मोहयन्ति नृपसुतां यथात्मानं न वेत्ति च।
तथा प्राहादृश्यमूर्तिरदं सा सूनृतं वचः।। ४८.३५ ।।

।।देव्युवाच।।
पौष्यस्य तनयो योऽसौ नाम्नाभूच्चन्द्रशेखरः।
स मनोहररूपस्ते प्रियः स्वामी भविष्यति।। ४८.३६ ।।

तमिन्दुकलया शीर्षे चिह्नितं नृपसत्तमम्।
वरयस्व वरारोह पार्वतीव वृषध्वजम्।। ४८.३७ ।।

इत्युक्त्वा विवरामाशु पार्वती नृपपुत्रिकाम्।
सापि नत्वा तथादृश्यां हर्षोत्फुल्लविलोचना।। ४८.३८ ।।

जगाम मङ्गलगृहं जनन्या यत्र वासिता।
अथाजगाम शा धात्री निरूप्य सदृश पतितम्।। ४८.३९ ।।

तारावत्यास्तदाचष्ट रहस्यं नृपसत्तम।
दृष्ट्वा तामग्रतो धात्रीं प्रहृष्टां नृपतेः सुता।। ४८.४0 ।।

पप्रच्छ निभृतं कीदृक् को वा दुष्टस्त्वया नृपः।
सा प्राह धात्री वचनात् तव भूपा विलोकिताः।। ४८.४१ ।।

चारुरूपाः कुलीनाश्च शास्त्रै शस्त्रे च पारगाः।
तेषामहं न शक्नोमि प्रवक्तुं सुबहून् गुणान्।। ४८.४२ ।।

येषु मे रोचते तांस्तु कथयामि शुभप्रभे।
चारुरूपा मया तेषु चत्वारः पुरुषाः शुभे।। ४८.४३ ।।

दृष्टास्तत्रापि नासत्यौ देवौ द्वावपरौ नरौ।
देवयोः कथने कृत्यं किंचिन्नापिन विद्यते।। ४८.४४ ।।

यौ पुनः पृथिवीपालौ तयोरेकः सदारकः।
नाम्ना सर्वांगकल्याणोऽथापरश्चन्द्रशेखरः।। ४८.४५ ।।

नासत्ययोरेतयोस्तु विशेषो नास्ति कश्चन।
रूपे शरीरसौभाग्ये सर्वे चातिमनोहराः।। ४८.४६ ।।

नृपौ पुनर्महासत्तवौ सिंहस्कन्धौ महाभुजौ।
आरक्तपाणिनयनमुखपादकरोद्भवौ ।। ४८.४७ ।।

पीनोरस्कौ विशालाक्षौ लग्तभ्रूयुगलावुभौ।
सर्वलणसम्पूर्णौ देवालङ्कारमण्डितौ।। ४८.४८ ।।

तयोरपि वयःस्थत्वात् प्रशस्तश्चन्द्रशेखरः।
सुशीलः सूनृतवचाः शास्त्रे शस्त्रे च सम्मतः।। ४८.४९ ।।

ईषदुद्‌भिन्नरोम्णा तु नीले चारु निर्मलम्।
राजते वदनं तस्य लक्ष्मणेव निशाकरः।। ४८.५0 ।।

दीप्तिमत्यापि कलया राजते स निशापतेः।
सहजेन शिरस्थेन साक्षात् स चन्द्रशेखरः।। ४८.५१ ।।

स एव ते पतिर्योग्यश्चिह्नेनानेन सुन्दरि।
तं त्वं वरय राजानं तव योग्यं शुभोदयम्।। ४८.५२ ।।

धात्र्याश्चैवं वचः श्रुत्वा राजपुत्री जगाद ताम्।
मत्पार्श्वचारिणी भूत्वा निदेशय नृपोत्तमम्।। ४८.५३ ।।

धात्रि स्वयंवरसभाप्रवेशसमये मम।
तयोरायात्तदा राजा त्वन्योन्यं भाषमाणयोः।। ४८.५४ ।।

सुतां स्वयंवरसभां नेतुं काले सुभोदये।
स्वयं तदा ककुत्स्थस्तु सुताया मङ्गलालये।। ४८.५५ ।।

आसाद्य पुत्रीं दयितां योषिद्भिः कृतमङ्गलाम्।
माल्यं सुगन्धिपुष्पाणां करेणादाय तत्करे।। ४८.५६ ।।

दत्त्वा चेदमुवाचाशु प्रापयन् मङ्गलालयात्।
प्रविश्य समितौ मातर्माल्येनान्येन सत्तमम्।। ४८.५७ ।।

यं त्वमिच्छसि राजानं द्विजं वा त्वं वरिष्यसि।
एवमुक्त्वा शिविकया स्वाप्तैर्वृद्धैश्च पूरुषैः।। ४८.५८ ।।

प्रवेशयामास सुतां ककुत्स्थः समितिं मुदा।
तामागतां सभां दृष्ट्वा शक्राद्यास्त्रिदशास्तदा।। ४८.५९ ।।

अन्ये दिक्पतयश्चापि सभां तत्क्षणमागताः।
सावतीर्य तदावाप्य यानात् तारावती मुदा।। ४८.६0 ।।

धात्र्या चानुगया युक्ता व्यचरत् सदसोऽन्तरे।
सभामध्ये चिरं सा तु विहृत्य वरवर्णिनी।। ४८.६१ ।।

भावित्वान्नियतेर्योगाच्चण्डिकायाः प्रसादतः।
तयोः समत्वादेकत्वात्तया धात्र्या विबोधिता।। ४८.६२ ।।

गतिस्वेदर्जघर्माम्भः कणिकानिचितानना।
पतिं पूर्वतरं पुत्री राज्ञस्तारावती सती।। ४८.६३ ।।

स्वयं सा पार्वती देवी वव्रे च चन्द्रशेखरम्।
वृतं दृष्ट्वा तदा तन्तु ब्राह्मणाः सामगीतिभिः।। ४८.६४ ।।

तयोर्वैवाहिकं चक्रुर्मङ्गलं यतमानसाः।
वैतालिकागायकाश्च तथा तौर्यत्रिका नृप।। ४८.६५ ।।

प्रशंसन्ति स्म गायन्ति वादयन्ति च कौतुकात्।
सर्वे च त्रिदशा मोदमवापुश्चन्द्रशेखरे।। ४८.६६ ।।

तारावत्या वृते चाथ ककुत्स्थोऽप्यतिहर्षितः।
वृत्तान्तं वीक्ष्य ये भूपाः सुबाहुप्रमुखाः परे।। ४८.६७ ।।

रुष्टास्तान् वारयामास समितौ चन्द्रशेखरः।
ततो यातेषु देवेषु त्रिदिवं प्रति स्वेच्छया।। ४८.६८ ।।

भूपेषु च प्रयातेषु ककुत्स्थेनार्चितेषु च।
वैवाहिकेन विधिना स राजा चन्द्रशेखरः।। ४८.६९ ।।

तारावतीं तदा भार्यां ककुत्स्थानुमते पुनः।
संस्कृत्य ज्ञापयामास देवेभ्यो वैदिकैर्मखैः।। ४८.७0 ।।

पाणिग्रहणसंस्कारान्कृत्वा तां सहचारिणीम्।
करवीरपुरायाशु प्रययौ चन्द्रशेखरः।। ४८.७१ ।।

द्वाविंशत् तु सहस्राणि दासीनां प्रददौ पुनः।
ककुत्स्थाख्यो विट्पतये तस्मिन्नुद्वाहकर्मणि।। ४८.७२ ।।

गवां षष्टिसहस्राणि सौरभीणां तथैव च।
दुहित्रे प्रददौ दायं दासान् दासीः प्रमाणतः।। ४८.७३ ।।

अपरा या निजा पुत्री ककुत्स्थाख्यस्य भूपतेः।
नाम्ना चित्राङ्गदा ख्याता रूपैस्तारावती समा।। ४८.७४ ।।

दासीनामधिपा भूत्वा स्वयं चानुययौ तदा।
तारावतीं भूपसुतां ज्येष्ठां स्वां भगिनीं शुभाम्।। ४८.७५ ।।

तान् दासान् सुसमादाय ककुत्स्थतनयो महान्।
ज्येष्ठो विश्वावसुर्नाम गच्छन्तं चन्द्रशेखरम्।। ४८.७६ ।।

तारावत्या च सहितं स्यन्दनेनाशुगामिना।
धीमाननुययौ पश्चात् करवीरपुरं प्रति।। ४८.७७ ।।

तारावत्या समं राजा पौष्यजश्चन्द्रशेखरः।
करवीरपुरे रम्ये रेमे नृपतिशेखरः।। ४८.७८ ।।

इति स्वयं महादेवो मानुषीं योनिमाश्रितः।
पार्वती च स्वयं जाता नरयोनिमनिन्दिता।। ४८.७९ ।।

तथा भृङ्गी महाकाल एतयोरभवत् सुतः।
तथा त्वं शृणु राजेन्द्र कथयामि समुद्भवम्।। ४८.८0 ।।

।। श्रीकालिकापुराणेऽष्टचत्वारिंशोध्यायः।। ४८ ।।