कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः १४

विकिस्रोतः तः
← प्रश्नः १३ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः १४
भरद्वाजः
प्रश्नः १५ →

अथ चतुर्दशः प्रश्नः
माध्यंदिनँ सवनं व्याख्यास्यामः १ तस्य प्रातःसवनेन कल्पो व्याख्यातः २ विकाराननुक्रमिष्यामः ३ ततः संप्रेष्यति प्रतिप्रस्थातः सवनीयान्निर्वप इति ४ वसतीवरीभिर्होतृचमसं पूरयित्वा निग्राभ्यासु यजमानं वाचयति यथा प्रातःसवने ५ अधिषवणचर्मणि सर्व ँ! राजानं न्युप्य ग्रावस्तुत उष्णीषं प्रयच्छति ६ असंप्रेषितो ग्रावस्तोत्रीया अन्वाह ७ महाभिषवमभिषुण्वन्ति यथा प्रातःसवने ८ एतावन्नाना । इहाभ्य इह इत्यभिषुण्वन्ति ९ उत्तमस्या-भिषवनस्य मध्यमे पर्याये बृहत् इत्यभिषुण्वन्ति १० अथोत्तमं पर्यायँ राधयन्त इवाभिषुण्वन्ति इहाभ्य इह इहाभ्य इह इति ११ उत्तमे पर्यायेऽभिषुतो राजा भवत्यसंभृतोऽथ प्रतिप्रस्थाता ग्राव्णोऽनुमोदते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्र मचुच्यवुः । परमस्याः परावतः । आस्मात्सधस्थात् । ओरोरन्तरिक्षात् । आ सुभूतमसुषवुः । ब्रह्मवर्चसं म आ सुषवुः । समरे रक्षाँ स्यवधिषुः । अपहतं ब्रह्मज्यस्य इति १२ समानमा ग्रहकालात् १३ शुक्रामन्थिनावेवाग्रे गृह्णाति १४ आग्रयणं तिसृभ्यो धाराभ्यो गृह्णाति १५ य एवाग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते । उदचनात्तृतीयाम् १६ उक्थ्यस्यावृतोक्थ्यं गृहीत्वा १७ १४.१

ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णाति । अध्वर्युपात्रेण पूर्वं मरुत्वन्तं वृषभं वावृधानम् इति । प्रतिप्रस्थात्रेणोत्तरम् इन्द्र मरुत्व इह पाहि सोमम् इति १ द्रो णकलशे राजानमतिपावयति यावन्तं माध्यंदिनाय सवनायाप्तं मन्यते २ समानमा पवमानात् ३ प्रत्यञ्चः प्रह्वा माध्यंदिनं पवमानँ सर्पन्ति त्रैष्टुभः पन्था रुद्रा देवता वृकेणापरिपरेण पथा स्वस्ति रुद्रा नशीय इति । वागग्रेगा अग्र एतु इति च ४ उत्तरेण हविर्धाने दक्षिणेन मार्जालीयं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण होत्रीयमध्वर्युरवतिष्ठते । अग्रेण प्रशास्त्रीयमतिक्रम्येतरे ५ माध्यंदिनेन पवमानेन स्तुवते ६ स्तूयमाने यजमानोऽन्वारोहं जपति सु-पर्णोऽसि त्रिष्टुप्छन्दाः इति ७ समानमा संप्रैषात् ८ नात्र पशुं प्रचोदयति । न राजानमुपतिष्ठते । प्रतिप्रस्थातर्दधिघर्मेणानूदेहि इति संप्रैषान्तं नमति ९ समानमा सवनीयानां निर्वपणात् १० सवनीयान्निर्वप्स्यन्नाग्नेयं पशुपुरोडाशं निर्वपत्यग्निष्टोमे । ऐन्द्रा ग्नमुक्थ्ये द्वितीयम् । ऐन्द्र ँ! षोडशिनि तृतीयम् । सारस्वतमतिरात्रे चतुर्थम् ११ ततः सवनीयान्निर्वपति १२ एतावन्नाना । नोत्तरयोः सवनयोः पयस्या भवति १३ व्याख्यातँ सवनीयानां निर्वपणं बर्हिस्तरणमलंकरणं ग्रहावकाशोपस्थानँ सर्पणमिति १४ दधिघर्मेण चरति १५ औदुम्बर्या ँ! स्रुच्यामाग्नीध्रीये दधि गृह्णाति यावति द्यावापृथिवी महित्वा इति १६ १४.२

अथैतदाग्नीध्रेऽधिश्रयति वाक् च त्वा मनश्च श्रीणीताम् । प्राणश्च त्वापानश्च श्रीणीताम् । चक्षुश्च त्वा श्रोत्रं च श्रीणीताम् । दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश्च श्रीणीताम् । शृतोऽसि शृतंकृतः । शृताय त्वा शृतेभ्यस्त्वा इति १ ततः संप्रेष्यति होतर्वदस्व यत्ते वाद्यम् इति २ यत्राभिजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तन इति तत आह श्रातँ हविःइति ३ अत्याक्रम्याश्राव्याह दधिघर्मस्य यज इति ४ वषट्कृते जुहोति
यमिन्द्र माहुर्वरुणं यमाहुः । यं मित्रमाहुर्यमु सत्यमाहुः ।
यो देवानां देवतमस्तपोजाः । तस्मै त्वा तेभ्यस्त्वा स्वाहा ॥
इति ५ अनुवषट्कृते द्वितीयँ हुत्वावशिनष्टि ६ तं ते भक्षयन्ति ये प्रवर्ग्यम् । तस्यारण्येऽनुवाक्ये भक्षमन्त्रः ७ नाप्रवर्ग्ये दधिघर्मो विद्यत इत्यपरम् ८ ततः सवनीयानासादयति ९ पशुपुरोडाशेन प्रचर्य सवनीयैः प्रचरति १० एतावन्नाना । माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशानामनुब्रूहि ॥ माध्यंदि-नस्य सवनस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति संप्रेष्यति ११ सर्वेषाँ सपशुपुरोडाशानाँ समानः स्विष्टकृत् प्रैषवान् समानेडा १२ न सवनीयस्य पशुपुरोडाशो विद्यत इत्यपरम् १३ आधवनीयं पूतभृत्यवनयति १४ समानमा संप्रैषात् १५ एतावन्नाना । माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुतः इति संप्रैषादिः १६ समानमा पुनरभ्युन्नीतेभ्यः १७ पूर्व आग्नीध्रादछावाकः संयजति १८ नात्र पुरोडाशशकलमछावाकाय निदधाति १९ यथाचमसं चमसिनो भक्षयन्ति २० रुद्र वद्गणस्य सोम देव ते इत्येष एव माध्यंदिने सवने भक्षमन्त्रो भवत्यन्यत्र नाराशँ सेभ्यः २१ असर्वान् भक्षयित्वाप्याययन्ति २२ व्याख्यातमाप्यायनँ सादनम् २३ १४.३

सन्नेषु नाराशँ सेषूत्तरेण हविर्धान उत्तरेणाग्नीध्रीयमुत्तरेण सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेण शालामुखीयमुपविश्य जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधाति १ अमात्यानाँ सँ ह्वानँ समन्वारम्भणँ संप्रच्छादनमिति वैसर्जनेषु व्याख्यातम् २ वाससोऽन्तँ स्रुग्दण्ड उपनियम्य जुहोति दाक्षिणानि ३ उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये जुहोति ४ अपरं चतुर्गृहीतं गृहीत्वा ५ दिवं गच्छ सुवः पत इति हिरण्यँ हुत्वोद्गृह्णाति ६ अथैना दक्षिणा दक्षिणेन वेदिमवस्थिता भवन्ति गवां द्वादशशतं तिला माषा ओदनो मन्थोऽजोऽविर्वासो हिरण्यमनो रथोऽश्वो हस्ती पुरुष इति । एकवि ँ! शतिरित्येकेषाम् । चतुर्वि ँ! शतिरित्येकेषाम् । अपरिमिता इत्येकेषाम् । सर्ववेदसमित्येकेषाम् ७ हिरण्यं चाज्यं च धारयमाणो यजमानो दक्षिणा अभ्यैति रूपेण वो रूपमभ्यैमि वयसा वयः इति ८ तुथो वो विश्ववेदा वि भजतु इति मध्यमवक्रामति ९ अथैनाः कृष्णाजिनेन व्युत्त्रास्य विभज्य वाविभज्य वात्यानयत्यग्रेण प्राग्वँ शं जघनेन सदोऽन्तरेण नेष्टुश्चाग्नीध्रस्य च १० ता उदीचीरन्तरेण चात्वालं चाग्नीध्रं चोत्सृजति ११ अत्यायतीष्वाहवनीयम-भिमन्त्रयते एतत्ते अग्ने राध एति सोमच्युतम् इति प्रतिपद्य यज्ञस्य पथा सुविता नयन्तीः इत्यन्तेन १२ १४.४

आग्नीध्र एतदाज्यं जुहोति अग्ने नय सुपथा राये अस्मान् इत्येतया १ वनेषु व्यन्तरिक्षं ततान इति वारुण्या द्वितीयया जुहुयाद्यद्यनो रथोऽश्वो वासोऽपि वा दीयेत २ प्राजापत्यया तृतीयया जुहुयाद्यदि हस्तिनं पुरुषं वा दास्यन् स्यात् ३ आत्रेयाय प्रथमाय हिरण्यं ददाति मध्यमायेत्येकेषामुत्तमायेत्येकेषां ब्राह्म-णमद्य राध्यासमृषिमार्षेयम् इति ४ यद्यात्रेयं न विन्देद्य आर्षेयः सँ हितस्तस्मै दद्यात् ५ आग्नीध्रायाग्र उपबर्हणँ सार्वसूत्रं ददात्यजं च ६ ततो ब्रह्मणे यथान्यां दक्षिणां नातिध्यायेदेवं दद्यात् ७ तत उद्गातृभ्यो होतृभ्यः ८ अध्व-र्युभ्यस्तु हविर्धान आसीनेभ्यः ९ अन्ततः प्रतिहर्त्रे ददाति १० अर्धमर्धिभ्य-स्तृतीयं तृतीयिभ्यः पादं पादिभ्यः । ते द्वादशाहे व्याख्याताः ११ ऋत्विग्भ्यो दत्त्वा प्रसर्पकेभ्यो ददाति १२ एते दक्षिणेन पृष्ठ्यामन्तः सदस्युपविष्टा भवन्ति १३ नानार्षेयाय विदुषे ददाति । नार्षेयायाविदुषे । आर्षेयायैव विदुषे ददाति १४ न कण्वकश्यपेभ्यो न ज्ञातये नर्त्विजे प्रसृप्ताय न भीतो न याच-मानाय । यां याचमानाय ददात्येनँ सा दक्षिणा गच्छतीति विज्ञायते १५ ब्राह्मणाय श्रोत्रियायान्तर्वेद्यासीनाय दक्षिणां ददाति १६ अप्यब्राह्मणाय विद्याविदे देयम् १७ १४.५

यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै तां दक्षिणां दद्यादन्येन धनेन सह १ कुत एतेभ्यो दद्यात् । एतस्मादेव द्वादशाच्छतादित्येकम् । अन्यत इत्य-परम् २ वि सुवः पश्य व्यन्तरिक्षम् इति सदः प्रेक्षेत ३ संनीता दक्षिणा अनुमन्त्रयते अस्मद्दात्रा देवत्रा गच्छत इत्यनुवाकशेषेण ४ आग्नीध्रे वैश्व-कर्मणानि जुहोति यज्ञपतिमृषय एनसाहुः इति पञ्च ५ चात्वाले कृष्णविषाणां प्रास्यति
हरिणस्य रघुष्यतोऽधि शीर्षणि भेषजम् ।
सुक्षेत्रियं विषाणया विषूचीनमनीनशत् ॥
अनु त्वा हरिणो मृगःपद्भिश्चतुर्भिरक्रमीत् ।
विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फिदँ हृदि मनो यदस्य गुल्फिदम् ॥
इत्येताभ्याम् ६ ततः संप्रेष्यति इन्द्रा य मरुत्वतेऽनुब्रूहि इति ७ यदा मरुत्व-तेऽनूक्तं भवत्यथ न दीयत आनूबन्ध्यावपाया होमात् ८ पूर्वगृहीतमध्वर्युरादत्त उत्तरं प्रतिप्रस्थाता ९ अत्याक्रम्याश्राव्याह इन्द्रा य मरुत्वते प्रेष्य इति १० वषट्कृते जुहुतः ११ सानुवषट्कारावेके मरुत्वतीयौ समामनन्ति । अननु-वषट्कारावेके । उत्तरँ सानुवषट्कारमेके १२ व्यवनयेते यथर्तुग्रहेषु १३ प्रतिप्रस्थानेन भक्षयन्ति १४ अत्रैव पात्रं निधायाध्वर्युः स्वेन पात्रेण सँ स्रावे-णोत्तमं मरुत्वतीयं गृह्णाति मरुत्वाँ इन्द्र वृषभो रणाय इति १५ शस्त्रमत्र भवति १६ ऋतुपात्रमारभ्य प्रतिगृणाति १७ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १८ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १९ वषट्कृते जुहोति २० व्याख्यातमनुप्रकम्पनम् २१ व्याख्यातो ग्रहस्य भक्षमन्त्रः २२ व्याख्यातो नाराशँ सानाम् २३ असर्वान् भक्षयित्वाप्याययन्ति २४ व्याख्यातमाप्यायनँ सादनम् २५ १४.६

माहेन्द्र ँ! शुक्रपात्रेण गृह्णाति महाँ इन्द्रो य ओजसा इत्येतेनानुवाकेनोत्तरेण वा १ स्तुतशस्त्रे अत्र भवतः २ स्तोत्रमुपाकृत्य संप्रेष्यति अभिषोतारोऽभिषुणुतोलू-खलानुद्वादयाग्नीदाशिरं विनय सौम्यस्य वित्तात् इति ३ अत्र तार्तीय-सवनीयकमभिषवमभिषुणुयात् सवनीयान् सौम्यमिति निर्वपेदाशिरं विन-येदित्येकम् । तृतीयसवन इत्यपरम् ४ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् । आददतेऽतिग्राह्यान् ५ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति ६ वषट्कृते जुहोति ७ व्याख्यातमनुप्रकम्पनम् ८ ततोऽतिग्राह्यान् जुह्वति अग्ने तेजस्विन् इत्येतैर्मन्त्रैर्यथारूपम् ९ व्याख्यातो ग्रहस्य भक्षमन्त्रः १० ततोऽतिग्राह्यान् भक्षयन्ति मयि मेधां मयि प्रजाम् इत्येतैर्मन्त्रैर्यथारूपम् ११ व्याख्यातो नाराशँ सानाम् १२ सर्वान् भक्षयन्ति १३ नाप्याययन्ति । मार्जयन्ते १४ सर्वभक्षा एवात ऊर्ध्वं माध्यंदिने चमसा भवन्ति १५ तत उक्थ्यं विगृह्णाति यथा प्रातःसवने १६ एतावन्नाना । इन्द्रा य त्वा ॥ इन्द्रा य त्वा इति सर्वत्र ग्रहणसादनौ भवतः १७ ऐन्द्रो भक्षमन्त्रः १८ तस्मिन्नेव काले षोडशिनमभिगृह्णाति १९ षोडशिनं गृहीत्वा संप्रेष्यति उत्तमाँ श्चमसानुन्नय द्रो णकलशं पूतभृत्यवनय सर्व ँ! राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति २० उक्थं वाचि इत्याह माध्यंदिनँ सवनं प्रतिगीर्य २१ विश्वे देवा मरुत इन्द्रो अस्मान् इत्याहुति ँ! हुत्वा संप्रेष्यति प्रशास्तः प्रसुहि इति २२ सर्पत इत्याह प्रशास्ता २३ संतिष्ठते माध्यंदिनँ सवनम् २४ १४.७

तृतीयसवनं व्याख्यास्यामः १ यदा बहवोऽन्तर्वेदि स्युरथादित्यं गृह्णीयात् २ यस्य भ्रातृव्यः सोमेन यजेत यावदादित्यं गृह्णीयात्तावद्बहिर्वेदि तिष्ठेत् ३ यस्य प्रसृप्तो भ्रातृव्यः स्यादन्तर्वेदि सत्यादित्यं गृह्णीयात् ४ हविर्धानयोर्द्वारे अपिधायादित्यस्थाल्या आदित्यपात्रे तृतीयं गृह्णाति कदा चन स्तरीरसि इत्येताभिस्तिसृभिः ५ सोममग्रे गृह्णात्यथ शृतातङ्क्यं दध्यथ सोमम् । त्रिष्टुभा मध्यतो दधि गृह्णातीति विज्ञायते ६ या दिव्या वृष्टिस्तया त्वा श्रीणामि इति दध्नोपरिष्टाद् वृष्टिकामस्य श्रीणीयात् । न मध्यतो दधि गृह्णीयात् ७ सूदवदादित्यस्थालीमायतने सादयित्वोपाँ शुसवनं ग्रहेऽवदधाति विवस्व आदित्यैष ते सोमपीथः इति ८ तमुद्यम्य विज्ञानमुपैति । यदि ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः पर्जन्यः स्यात् । यदि चिरमवर्षुकः ९ न सादयित्वा ग्रहमादायाध्वर्युस्तिष्ठति सूर्यो मा देवो देवेभ्यः पातु इति १० ततः संप्रेष्यति आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरो-रन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहि इति ११ १४.८

आदित्यं यजमानोऽन्वारभते अहं परस्तादहमवस्तात् इति १ दर्भैराच्यावयति आ समुद्रा दान्तरिक्षात् इति २ दर्भैरपिधायोपनिष्क्रामति कविर्यज्ञस्य वि तनोति पन्थाम् इति ३ अत्याक्रम्याश्राव्याह आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्य इति ४ अग्नौ दर्भान् प्रास्यति यास्ते विश्वाः समिधः सन्त्यग्ने इत्येतया ५ वषट्कृते-ऽन्यत्रेक्षमाणो जुहोति । नानुवषट्करोति ६ न हुत्वान्वीक्षेत ७ उन्नम्भय पृथिवीम् इति वृष्टिकामस्य जुहुयात् ८ सूदवदादित्यपात्रमायतने सादयित्वा संप्रेष्यति प्रतिप्रस्थातः सवनीयान्निर्वप इति ९ वसतीवरीभिर्होतृचमसं पूरयि-त्वा निग्राभ्यासु यजमानं वाचयति यथा प्रातःसवने १० उपाँ शुपात्रा-दँ शुमृजीषेऽपिसृज्य महाभिषवमभिषुण्वन्ति यथा प्रातःसवने ११ समानमा ग्रहकालात् १२ नात्र शुक्रामन्थिनौ गृह्णाति १३ आग्रयणं चतसृभ्यो धाराभ्यो गृह्णाति १४ य एष आग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते । आदित्यपात्रात् तृतीयाम् । आदित्यस्थाल्याश्चतुर्थीम् १५ १४.९

उक्थ्यस्यावृतोक्थ्यं गृह्णाति यद्युक्थ्यसँ स्थो भवति १ आग्नीध्रे मन्थत आशिरं यजमानः पत्नी च । पत्न्याशिरं मन्थतीत्येके २ पूर्वया द्वारा यजमानः प्रपद्यते । अपरया पत्न्याशिरं प्रपादयति ३ यत् प्राक् पवमानग्रहेभ्यस्तत् कृत्वा यज-मानः सह पत्न्याशिरं पूतभृत्यवनयति अस्मे देवासो वपुषे चिकित्सत इत्येताभिश्चतसृभिः ४ समानमा पवमानात् ५ प्रत्यञ्चः प्रह्वा आर्भवं पवमानँ सर्पन्ति जागतः पन्था आदित्या देवतावृकेणापरिपरेण पथा स्वस्त्या-दित्यानशीय इति । वागग्रेगा अग्र एतु इति च ६ तस्य माध्यंदिनेन पवमानेन संचरो व्याख्यातः ७ स्तूयमाने यजमानोऽन्वारोहं जपति सघासि जगती-छन्दाः इति ८ समानमा संप्रैषात् ९ प्रतिप्रस्थातः पशौ संवदस्व इति संप्रैषान्तं नमति १० समानमा धिष्ण्यानां विहरणात् ११ शलाकाभिर्ज्वलतो धिष्णियान् विहरति १२ १४.१०

उपरिष्टाद् व्याघारणं व्याख्यास्यामः १ अपि वैताँ स्तत्रैव विहरेत् २ व्याख्यातँ सवनीयानां निर्वपणं बर्हिषः स्तरणमलंकरणं ग्रहावकाशोपस्थानं प्रसर्पणमिति ३ पशुना प्रचरतीडान्तेन ४ स एष सर्वेषु सवनेषु श्राप्यते तृतीयसवने वा ५ पशुना प्रचर्य सवनीयैः प्रचरति ६ एतावन्नाना । तृतीयस्य सवनस्येन्द्रा य पुरोडाशानामनुब्रूहि ॥ तृतीयस्य सवनस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति संप्रेष्यति ७ व्याख्यातः स्विष्टकृत् । तथेडा ८ आधवनीयं पूतभृत्यवनयति ९ समानमा संप्रैषात् १० एतावन्नाना । होतृचमसमादाय तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतः परिभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्राँ आशीर्वत इन्द्रा य सोमान् प्रस्थितान् प्रेष्य इति संप्रैषादिः ११ वषट्कृते जुह्वति श्येनाय पत्वने स्वाहा इति १२ अनुवषट्कृते द्वितीयं वट् स्वयमभिगूर्ताय नमः इति १३ एवमेव पुनरभ्युन्नीतानामुत्तराभ्यामुत्तराभ्यां मन्त्राभ्यामुत्तरमुत्तरं जुहोति १४ सर्वान् हुताननुमन्त्रयते तृम्पन्ताँ होत्रा मधोर्घृतस्य इति १५ समानमा प्राशनात् १६ उपन्यसनार्थान् पुरोडाशशकलान्निदधाति १७ यथाचमसं चमसिनो भक्षयन्ति । आदित्यवद्गणस्य सोम देव ते इत्येष एव तृतीयसवने भक्षमन्त्रो भवत्यन्यत्र नाराशँ सेभ्यः १८ उभयीर्देवताः पुनरभ्युन्नीतेषूपलक्षयन्ति १९ असर्वान् भक्षयित्वाप्याययन्ति २० व्याख्यातमाप्यायनँ सादनम् २१ १४.११

स्वँ स्वं चमसमनू न्यन्ते त्री ँ! स्त्रीन् पुरोडाशशकलानुपन्यस्यन्ति १ एतत्ते तत ये च त्वामनु इत्येते दानप्रभृतयः प्रत्यायनान्ता मन्त्रा आम्नाता भवन्ति यथा पिण्डपितृयज्ञे २ स्वेभ्यः पितामहेभ्यो दद्युरित्येकम् । यजमान एव मन्त्रा-ञ्जपेत्तूष्णीमितर उपन्यस्येयुरित्यपरम् ३ अन्तर्यामपात्रेण सावित्रमाग्रयणाद् गृह्णाति वाममद्य सवितः इत्येतेनानुवाकेन ४ न सादयति ५ ततः संप्रेष्यति देवाय सवित्रेऽनुब्रूहि इति ६ अत्याक्रम्याश्राव्याह देवाय सवित्रे प्रेष्य इति ७ वषट्कृते जुहोति । नानुवषट्करोति ८ तस्मिन् ससँ स्रावे पात्रे वैश्वदेवं पूतभृतो गृह्णाति उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानः इति ९ शस्त्रमत्र भवति १० यत्राभिजानाति एकया च दशभिश्च स्वभूते इति तत् प्रतिप्रस्थाता द्विदेवत्यपात्राणि प्रक्षाल्य खरे सादयति ११ यत्राभिजानाति प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इति तदन्यतरतोमोदं प्रतिगृणाति मदा मोद इवोथा मोद इव इत्याव्याहावात् १२ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १३ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १४ वषट्कृते जुहोति १५ व्याख्यातमनुप्रकम्पनम् १६ सावित्रवैश्वदेवैः पीतस्य इति ग्रहस्य भक्षमन्त्रं नमति १७ व्याख्यातो नाराशँ सानाम् १८ सर्वान् भक्षयन्ति १९ नाप्याययन्ति । मार्जयन्ते २० सर्वभक्षा एवात ऊर्ध्वं तृतीयसवने चमसा भवन्ति २१ १४.१२

ततः सौम्यं चरुं निर्वपति । सवनीयैर्वा सह १ तमासाद्य यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह घृतस्य यज इति २ वषट्कृते जुहोति ३ अत्रै-वोपविश्य प्राचीनावीतं कृत्वा हस्तेन सौम्यस्य पूर्वमवदानमवद्यति मेक्षणे-नोत्तरम् ४ अभिघार्योदङ्ङत्याक्रम्याश्राव्याह सौम्यस्य यज इति ५ वषट्कृते दक्षिणार्धे जुहोति ६ अत्रैवोपविश्य यज्ञोपवीतं कृत्वाप उपस्पृश्य यथा-गृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह घृतस्य यज इति ७ वषट्कृते जुहोति ८ अन्यतरतः परीज्यामेके सौम्यस्य समामनन्ति ९ आज्येन चरुमभि-पूर्योद्गातृभ्यो हरन्ति १० तमवेक्षन्ते सत्रो त एतद्यदु त इह इति ११ यद्यगता-सुर्भवति परिपश्यति । यदि गतासुः स्यात् सोऽवेक्षेत यन्मे मनः परागतम् इत्येतया १२ आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नन्नं नाद्यात्तेन प्राश्य इति विज्ञायते १३ जुह्वां नवगृहीतमाज्यं गृहीत्वा ज्वलतो धिष्णियान् व्याघारयति १४ व्याघारणसंपातं निधायोपाँ शुपात्रेण पात्नीवत-माग्रयणाद् गृह्णाति उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्दो इन्द्रि यावतः पत्नीवन्तं ग्रहं गृह्णामि इति १५ व्याघारणसंपातं श्रीत्वात्याक्रम्याश्राव्याह अग्नीत् पात्नीवतस्य यज इति १६ वषट्कृते जुहोति अग्नी३इ पत्नीवा३ इत्यनुवाकशेषेण १७ सानुवषट्कारमेके पात्नीवतँ समामनन्त्यननुवषट्कार-मेके । उपाँ श्वनुवषट्करोतीत्येकेषाम् १८ १४.१३

भक्षमाहरन् संप्रेष्यति अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतृचमस-मुख्याँ श्चमसानुन्नय होतृचमसे ध्रुवायावकाशं कुरु सर्व ँ! राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्जोद्गात्रा पत्नी ँ! संख्यापयाप उपप्रवर्तय इति १ यथाचोदितं कुर्वन्ति २ अन्तरेण नेष्टारं धिष्णियं चाग्नीध्रो व्यवसृप्य भक्षयति । अग्निपीतस्य इति भक्षमन्त्रं नमति ३ संप्रज्वलयित्वा धिष्णियान् यज्ञा-यज्ञीयस्य स्तोत्रमुपाकरोति ४ सकर्णप्रावृता भवन्त्यृत्विजो यजमानश्चाविरिव नाभिं दर्शयन्तः ५ उद्गातुर्हिङ्कारं प्रत्युद्गात्रा पत्नीमा तिसृभ्यः स्तोत्रियाभ्यः संख्यापयति विश्वस्य ते विश्वावतो वृष्णियावतः इति ६ दक्षिणं नग्नं कृत्वोरुं पत्न्यूरुणा पन्नेजनीरा तिसृभ्य उपप्रवर्तयति अगन् देवान् इत्यनुवाकेन वङ्क्षणानाविष्णुर्वती ७ प्राचीरुपप्रवर्तयत्युदीचीर्वा । प्राचीरुदीचीरित्येकेषाम् ८ परिहिते स्तोत्रे शस्त्रमुपाकरोति ९ यत्राभिजानाति स्वादुष्किलायं मधुमाँ उतायम् इति तदुभयतोमोदं प्रतिगृणाति मदा मोद इव मोदा मोद इव इत्या व्याहावात् १० यत्राभिजानाति उत नोऽहिर्बुÞयः शृणोतु एतस्यां वैश्वदेव्यामृचि शस्यमानायां परिधानीयायां वा सकृच्छस्तायां प्रतिप्रस्थाता होतृचमसे ध्रुवमवनयिष्यन्नुपतिष्ठते भूतमसि भूते मा धाः इति ११ अथैनँ हस्ताभ्यां परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामि इति १२ हरति विश्वे त्वा देवा वैशानराः प्र च्यावयन्तु इति १३ १४.१४

पुरस्तात्प्रत्यङ् तिष्ठन् होतृचमसे ध्रुवमवनयति ध्रुवं ध्रुवेण इत्यनुवाकशेषेण १ पश्चात्प्राङासीनोऽनुलोममवनयतीत्येकेषाम् २ संततां धाराँ स्रावयत्या शस्त्रापवर्गात् ३ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसा-ध्वर्यवः ४ अत्याक्रम्याश्राव्याह उक्थशा यज सोमानाम् इति ५ वषट्कृते जुह्वति ६ यथाचमसं चमसिनो भक्षयन्ति । अग्निना वैश्वानरेण पीतस्य इति ग्रहस्य भक्षमन्त्रं नमति ७ तत आदित्यमुपतिष्ठत आहवनीयं वा सुभूरसि श्रेष्ठो रश्मीनामायुर्म इन्द्रि यं धेह्यदो म आ गम्यात् इति । यत् कामयते तस्य नाम गृह्णातीति विज्ञायते ८ इति वै खलु यद्यग्निष्टोमः ९ अथ यद्युक्थ्यः सर्व ँ! राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति लुप्यत एतत्संप्रैषस्य १० अग्निष्टोमचमसानुन्नयँ स्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ११ तत उक्थ्यं विगृह्णाति यथा प्रातःसवने १२ एतावन्नाना । इन्द्रा वरुणाभ्यां त्वा इति मैत्रावरुणस्य ग्रहणसादनौ भवतः । इन्द्रा बृहस्पतिभ्यां त्वा इति ब्राह्म-णाछँ सिनः । द्रा विष्णुभ्यां त्वा इत्यछावाकस्य । एवमेवैतान् भक्षमन्त्रा-न्नमति १३ इति वै खलु यद्युक्थ्यः १४ अथ यदि षोडश्यछावाकचमसा-नुन्नयन्नेकस्मै चमसगणाय सग्रहाय राजानमतिरेचयति । तस्मिन्नेव काले षोडशिनमभिगृह्णाति १५ अपि वैनमत्रैवाग्रयणाद् गृह्णीयात् । न पूर्वयोः सवनयोः १६ अप्यग्निष्टोमे राजन्यस्य गृह्णीयादिति विज्ञायते १७ अनन्तरम-ग्निष्टोमचमसेभ्यो गृह्णीयात् १८ होतृचमसमुख्याँ श्चमसानुन्नयति १९ स्तुतशस्त्रे अत्र भवतः २० १४.१५

समयाविषिते सूर्ये हिरण्येन षोडशिनः स्तोत्रमुपाकरोति १ पुरस्तादरुण-पिशङ्गमश्वं धारयन्ति श्यामं वा २ हिरण्येन संप्रदायँ स्तुवते ३ हरिवत्स्तोत्रँ हरिवच्छस्त्रँ हरिवती याज्या भवति ४ षोडशिनमुपतिष्ठते
यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया संविदानः । त्रीणि ज्योती ँ! षि सचते स षोडशी ॥
इति ५ शस्त्रं व्यत्यासं प्रतिगृणाति ओथा मोद इव मदा मोद इवोमथा इति ६ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः ७ अत्याक्रम्याश्राव्याह उक्थशा यज सोमानाम् इति ८ वषट्कृते जुह्वति ९ षोडशिनं जुहोति इन्द्रा धिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु इति १० यथाचमसं चमसिनो भक्षयन्ति
इन्द्र श्च सम्राड् वरुणश्च राजा । तौ ते भक्षं चक्रतुरग्र एतम् ।
तयोस्तु भक्षं भक्षयामि । वाग्जुषाणा सोमस्य तृप्यतु ॥
इति ११ अरुणपिशङ्गोऽश्वो दक्षिणाश्वतरी वा १२ इति वै खलु यदि षोडशी १३ अथ यद्यतिरात्रः षोडशिचमसानुन्नयँ स्त्रयोदशभ्यश्चमसगणेभ्यो राजनाम-तिरेचयति १४ इन्द्रा य त्वापिशर्वराय इति मुख्यंमुख्यं चमसमभिमृशति १५ होतृचमसानुन्नयति १६ स्तुतशस्त्रे अत्र भवतः १७ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः १८ अत्याक्रम्याश्राव्याह उक्थ-शा यज सोमानाम् इति १९ वषट्कृते जुह्वति २० यथाचमसं चमसिनो भक्षयन्ति २१ अनुष्टुप्छन्दस इन्द्र पीतस्य इति भक्षमन्त्रं नमति २२ इति प्रथमश्चमसगणः २३ १४.१६

एवंविहिता अपरे त्रयश्चमसगणाः । मैत्रावरुणचमसमुख्यो द्वितीयश्चमसगणो ब्राह्मणाछँ सिचमसमुख्यस्तृतीयोऽछावाकचमसमुख्यश्चतुर्थः १ एतेन शस्त्र-याज्यानामानुपूर्व्यं व्याख्यातम् २ इति प्रथमो रात्रिपर्यायः ३ एवंविहिता-वपरौ द्वौ भवतः ४ होतृचमसमुख्यान् संधिचमसानुन्नयति ५ त्रिवृत्स्तोत्रं भवति ६ आश्विनँ शस्त्रं परःसहस्रम् ७ उदित आदित्ये परिदधातीति विज्ञायते ८ आश्विनं द्विकपालं निर्वपति ९ यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति १० स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ११ शस्त्रं प्रतिगीर्य पुरोडाशमुद्वास्य संप्रेष्यति अश्विभ्यां तिरोअह्नियानाँ सोमानामनुब्रूहि इति १२ आदत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः । आदत्ते पुरोडाशं प्रतिप्रस्थाता १३ अत्याक्रम्याश्राव्याह अश्विभ्यां तिरोअह्नियान् सोमान् प्रस्थितान् प्रेष्य इति १४ वषट्कृते सह सोमैः प्रतिप्रस्थाता पुरोडाशँ सर्वहुतं जुहोति १५ पङ्क्तिछन्दसोऽश्विपीतस्य इति भक्षमन्त्रं नमति १६ इति वै खलु यद्यतिरात्रः १७ अथ यद्यप्तोर्यामः संधिचमसानुन्नयँ श्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति १८ १४.१७

तत्र चत्वारि स्तोत्राणि चत्वारि शस्त्राण्याश्विनानि च सयाज्यान्याम्नातानि भवन्ति १ तेषाँ संधिचमसैरेव कल्पो व्याख्यातः २ एतावन्नाना । होतृ-चमसमुख्यः प्रथमश्चमसगणो मैत्रावरुणचमसमुख्यो द्वितीयो ब्राह्मणाछँ सि-चमसमुख्यस्तृतीयोऽछावाकचमसमुख्यश्चतुर्थः ३ एतेन शस्त्रयाज्यानामा-नुपूर्व्यं व्याख्यातम् ४ उक्थं वाचीन्द्रा य इत्याह तृतीयसवनं प्रतिगीर्य ५ अतिच्छन्दसोऽश्विपीतस्य इति भक्षमन्त्रं नमति ६ ततः संप्रेष्यति अग्नीदौ-पयजानङ्गारानाहर इति ७ समानमा परिधीनां प्रहरणात् ८ प्रहृत्य परि-धीनुन्नेता हारियोजनं गृह्णाति ९ द्रो णकलशेनाग्रयणं ग्रहीष्यन् संप्रेष्यति इन्द्रा य हरिवते धानासोमानामनुब्रूहि १० गृह्णाति उपयामगृहीतोऽसि हरिरसि हारियोजनः इति ११ बह्वीभिर्धानाभिः श्रीत्वात्याक्रम्याश्राव्याह इन्द्रा य हरिवते धानासोमान् प्रस्थितान् प्रेष्य इति १२ वषट्कृते शीर्षन्नधिनिधाय विक्रम्य जुहोति हरी स्थ हर्योर्धानाः सहसोमा इन्द्रा य स्वाहा इति १३ हुतं यज-मानोऽनुमन्त्रयते यन्म आत्मनो मिन्दाभूत् ॥ पुनरग्निः इति द्वाभ्याम् १४ अथैनँ सर्व ऋत्विज उन्नेतर्युपहवमिष्ट्वासंभिन्दन्तो धाना निम्नानि कुर्वन्तश्चिश्चिषाकारं भक्षयन्ति इष्टयजुषस्ते देव सोम इति १५ १४.१८

अविशिष्टा उत्तरवेद्यां निवपन्ति आपूर्या स्था मा पूरयत इति १ त्री ँ! स्त्री-ञ्छकलानग्नौ प्रास्यन्ति देवकृतस्यैनसोऽवयजनमसि इत्येतैर्मन्त्रैः २ एक-धनपरिशेषेषु हरिणी दूर्वा अवधाय संप्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालं प्राञ्चोऽवजिघ्रन्ति अप्सु धौतस्य सोम देव ते इति ३ अवशिष्टा अन्तर्वेदि निनयति चात्वाल इत्येके
समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत ।
अरिष्टा अस्माकं वीरा उत्ते भवन्तु मा परासेचि नः स्वम् ॥
इति ४ निनीता अनुमन्त्रयते
अछायं वो मरुतः श्लोक एत्वछा विष्णुं निषिक्तपामवोभिः ।
उत प्रजायै तृणते वयोधा यूयं पात स्वस्तिभिः सदा नः ॥
इति ५ आग्नीध्रीयं प्रविश्य दधिद्र प्सान् भक्षयन्ति दधिक्राव्णो अकरिषम् इत्येतया ६ ततः सख्यानि विसृजन्ते ये तानूनप्त्रँ समवमृशन्ति
उभा कवी युवाना सत्या ता धर्मणस्पती ।
सत्यस्य धर्मणस्पते वि सख्यानि सृजामहे ॥
इति ७ ततः पत्नीः संयाजयन्ति ८ समानमा समिष्टयजुषः ९ जुह्वां नवगृहीतमाज्यं गृहीत्वा नव समिष्टयजूँ षि जुहोति । धाता रातिः सवितेदं जुषन्ताम् इत्येतस्यानुवाकस्य षडृग्मियाणि त्रीणि यजूँ षि । समानत्र जुहोति १० संततं जुहोतीति विज्ञायते ११ विष्णुक्रमाणाँ स्थाने विष्ण्वतिक्रमान् जपति अग्निना देवेन पृतना जयामि इत्येतान् १२ इदं तृतीयँ सवनं कवीनाम् इत्याहुति ँ! हुत्वा संप्रेष्यति प्रशास्तः प्रसुहि इति १३ सर्पत इत्याह प्रशास्ता १४ संतिष्ठते तृतीयसवनम् १५ १४.१९

अवभृथस्य तन्त्रं प्रक्रमयति १ वेदं कृत्वाग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजी ँ! स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति २ वाग्यतः पात्राणि संमृशति ३ वारुणमेककपालं निर्वपति ४ यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति ५ स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ६ स्फ्यँ स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादय स्रुवं च स्रुचश्च संमृड्ढ्या-ज्येनोदेहि इति ७ समानमाज्यानां ग्रहणात् ८ एतस्यामेव वेद्यामाज्यानि गृह्णाति सर्वाणि चतुर्गृहीतानि ९ पुरोडाशमुद्वास्याज्येनाहवनीये जुहोति आयुर्दा अग्ने हविषो जुषाणः इति १० हुत्वाददतेऽवभृथँ स्फ्यँ सस्रुवा-माज्यस्थालीं वेदं पुरोडाशमाज्यान्यृजीषमधिषवणफलके खरपाँ सून् यत्किं-चित् सोमलिप्तं भवत्यन्यत्र चतसृभ्यः स्थालीभ्यः सोमगृहीताभ्यः ११ औदुम्बरीं यजमान उत्खिदति
उपसृजन् धरुणं मात्रे मातरं धरुणो धयन् ।
रायस्पोषमिषमूर्जमस्मासु दीधरत् ॥
इति १२ दध्नर्जीषमभिजुहोति १३ १४.२०

यत्ते ग्राव्णा चिच्छिदुः सोम राजन् इत्येतेनानुवाकेन १ तिसृभिरभिजुहोती-त्येकेषाम् । पञ्चभिरित्येकेषाम् । सप्तभिरित्येकेषाम् २ चात्वाले कृष्णाजिनं प्रास्यति अव ते हेडो वरुण नमोभिः इति ३ अपि वा सहावभृथेऽवप्लावयेत् ४ ततः संप्रेष्यति प्रस्तोतः सामानि गाय इति ५ सह पत्न्या त्रिः साम्नो निधनमुपयन्ति । वेद्यन्ते प्रथमं मध्यदेशे द्वितीयमुदकान्ते तृतीयम् ६ उरुँ हि राजा वरुणश्चकार इति वेद्या अभिप्रयान्ति ७ प्राञ्चोऽवभृथाः स्थावरा अभ्युपयन्त्युदञ्चो वा । प्राञ्चोदञ्च इत्येकेषाम् । दक्षिणा इत्येकेषाम् । प्रत्यञ्च इत्येकेषाम् ८ या दिशं यन्ति सा प्राची दिक् ९ शतं ते राजन् भिषजः सहस्रम् इत्यपः पराख्याय वदन्ति १० अभिष्ठितो वरुणस्य पाशः इत्युद-कान्तमभितिष्ठन्ते ११ अत्रैके हृदयशूलस्योद्वासनँ समामनन्ति १२ अभिप्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति १३ स्रुवाघारमाघार्य संप्रेष्यति अग्नीदपस्त्रिः संमृड्ढि इति १४ अप एवाग्नीध्रस्त्रिः संमार्ष्टि । आपो वाजजितो वाजं वा सरि-ष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्ना-दीरन्नाद्याय इत्यपः संमार्ष्टि १५ १४.२१

तृणं प्रास्य अग्नेरनीकमप आ विवेश इति स्रुच्यमाघारमाघारयति १ यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति २ बर्हिष्येव सर्वा आहुतीर्जुहोति ३ समानमा प्रवरात् ४ आश्राव्याह तिष्ठ होतः इति । एतावान् प्रवरः ५ नार्षेयं वृणीते न होतारम् ६ अपबर्हिषश्चतुरः प्रयाजान् यजति ७ आज्य-भागाभ्यां प्रचर्य पुरोडाशस्यादाय वरुणं यजति ८ सर्वं पुरोडाशमवदा-याग्नीवरुणौ स्विष्टकृतौ यजति ९ ततः संप्रेष्यति अग्नीदपः सकृत् संमृड्ढि इति १० अप एवाग्नीध्रः सकृत् संमार्ष्टि । आपो वाजजितो वाजं वः सस्रुषीर्वाजं जिग्युषीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्नादीरन्नाद्याय इत्यपः संमार्ष्टि ११ अपबर्हिषौ द्वावनूयाजौ यजति १२ देवौ यज इति पूर्वमनूयाजँ संप्रेष्यति । यज इत्युत्तरम् १३ ऋजीषस्य स्रुचं पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तः इति १४ यत्रयत्र बिन्दुरिवोच्चरेत्तद्भक्षयेद् अप्सु धौतस्य सोम देव ते इति १५ उपस्पृश्यमेवेत्येकेषाम् १६ अवभृथं संप्रकिरति अवृभृथ निचङ्कुण इति १७ अभिप्रगाह्यानुपमक्षन्तौ सहशिरसौ स्नातो यजमानः पत्नी च १८ अन्योन्यस्य च पृष्ठे प्रधावेते सुमित्रा न आप ओषधयः सन्तु इति १९ १४.२२

अवभृथमुपतिष्ठन्ते देवीराप एष वो गर्भः इति १ विचृतो वरुणस्य पाशः इति यजमानो मेखलां विचृतति । इमं वि ष्यामि वरुणस्य पाशम् इति योक्त्रपाशं पत्नी २ अत्रैव सर्वाणि दीक्षितव्यञ्जनान्युपप्लावयतः ३ अहतौ वसाना-ववभृथादुदेतः ४ सोमोपनहतं यजमानः परिधत्ते । सोमपरिश्रयणं पत्नी ५ ते उदवसानीयायामध्वर्यवे दत्तः ६ तत उन्नेतारं संप्रेष्यति उन्नेतर्वसीयो न उन्नयामि ।
उदुत्ते मधुमत्तमा गिरः स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ।
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ॥
इति ७ उन्नेता होतृप्रथमान् यजमानप्रथमान् वोन्नयति
उदेत प्रजामुत वर्चो दधाना युष्मान् राय उत यज्ञा असृक्षत ।
गायत्रं छन्दोऽनुसँ रभध्वमथास्या अथ सुरभयो गृहेषु ॥
इति ८ उद्गाहमाना उदकान्तं प्रत्यस्यन्ति प्रतियुतो वरुणस्य पाशः इति ९ समिधः कृत्वाप्रतीक्षमायन्त्युन्नेतारं पुरस्कृत्य महीयां जपन्तः अपाम सोमममृता अभूम इत्येतां
यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि ।
इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् ॥
अनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः सर्वान् पथो अनृणा आक्षीयेम ॥
इति १० एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ११ एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते १२ १४.२३

उदयनीयायास्तन्त्रं प्रक्रमयति १ यः प्रायणीयः स उदयनीयः २ एतावन्नाना । प्रायणीयस्य निष्कास उदयनीयमोप्य श्रपयति । नात्रोद्धृत्य चरुमासादयति न षड्ढोत्रा ३ शालामुखीय उदयनीयेन चरन्ति ४ याः प्रायणीयस्य पुरोनुवा-क्यास्ता उदयनीयस्य याज्याः करोति ५ पथ्याँ स्वस्तिमुत्तमामाज्यभागानां यजति ६ न यजमानः प्राश्नाति ७ सिद्धमिष्टिः संतिष्ठते ८ अनूबन्ध्या-यास्तन्त्रं प्रक्रमयति ९ समानमा पशूपाकरणात् १० मैत्रावरुणीं वशाम-नूबन्ध्यामुपाकरोति ११ तिस्र एके समामनन्ति । द्विरूपां मैत्रावरुणीं बहुरूपां वैश्वदेवीं रोहिणीं बार्हस्पत्याम् । उपाँ शु वैश्वदेव्या मध्यतः प्रचरतीत्येकेषाम् १२ समानमा वपाया होमात् १३ हुतायां वपायां दक्षिणस्यां वेदिश्रोण्यां परिश्रिते यजमानः केशश्मश्रु वापयते १४ अनूबन्ध्यायाः पशुपुरोडाशं देविकाहवी ँ! ष्यनुनिर्वपति धात्रे पुरोडाशं द्वादशकपालमित्येतानि १५ उत्तमं धातारं करोति १६ यासु स्थालीषु सोमा भवन्ति तास्वेताँ श्चरूँ श्रपयन्ति १७ प्रैषवान् पशुपुरोडाशः । अनुब्रूहि ॥ यज इतीतरेभ्यः संप्रेष्यति १८ सर्वेषाँ सपशुपुरोडाशानाँ समानः स्विष्टकृत् प्रैषवान् । समानेडा १९ सिद्धः पशुः संतिष्ठते २० १४.२४

अपि वा मैत्रावरुणीमामिक्षां पशुकामः कुर्वीतानूबन्ध्याया विकल्पार्थाम् १ पुरस्तात्त्वेव केशश्मश्रु वापयते २ अग्रेण हविर्धानमासीनो होता यजति ३ देविकाहविर्भिः प्रचर्यामिक्षायै देवतेन प्रचरति ४ हविराहुतिप्रभृतीडान्ता संतिष्ठते ५ तन्त्रमामिक्षायै देविकाहविषां च स्विष्टकृदिडम् ६ सदोहविर्धाने प्रथमकृतान् ग्रन्थीन् विस्रस्य हविर्धाने उदीची अभिप्रवर्तयन्ति ७ आहवनीयाद्बर्हिरुपोषति यत्कुसीदमप्रतीत्तं मयि इति ८ यदि मिश्रमिव चरेदञ्जलिना सक्तून् प्रदाव्ये जुहुयात् विश्वलोप विश्वदावस्य त्वासञ्जुहोमि इति ९ ततो देवता उपतिष्ठते अयं नो नभसा पुरः इत्याहवनीयं प्रदाव्यं वा । स त्वं नो नभसस्पते इति वायुम् । देव सँ स्फान इत्यादित्यम् १० यूपमुपस्थाय पृथगरणीष्वग्नीन् समारोपयति प्राजहितं दक्षिणाग्निम् । शालामुखीयं तृतीयं गतश्रीः समारोपयते ११ अन्तरेण चात्वालोत्करावतीमोक्षान् जपन्त उदव-स्यन्ति यथा दर्शपूर्णमासयोः १२ प्राञ्च उदवस्यन्त्युदञ्चो वा । प्राञ्चोदञ्च इत्येकेषाम् १३ १४.२५

आग्नेयं पञ्चकपालमुदवसानीयं निर्वपत्यष्टाकपालं वा १ पङ्क्त्यौ याज्या-नुवाक्ये भवतो यस्यष्टाकपालः । गायत्र्! यौ यदि पञ्चकपालः २ अनड्वान् दक्षिणा ३ सिद्धमिष्टिः संतिष्ठते यदि न त्वरेत ४ अथ यदि त्वरेत जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा उरु विष्णो वि क्रमस्व इत्याहवनीये जुहुयात् ५ यत्तत्र शक्नुयात् तद्दद्यात् ६ स यावद्रा त्रे चेष्टिः संतिष्ठते तावद्रा त्र एव सायमग्निहोत्रं जुहुयात् । काल एव प्रातरग्निहोत्रम् ७ उदयनीयाप्रभृति यज्ञपुछम् ८ सद्यः सुत्या संतिष्ठते ९ अथ यदि सुत्या यदाग्निहोत्र-कालमभ्यतीयात् सायमग्निहोत्रप्रभृतीन्यग्निहोत्राण्यतिपन्नानि प्रतिजुहुयात् । न वा प्रतिजुहुयात् १० यो राजा सन् राज्यो वा सोमेन यजते स देवसुवाँ हवी ँ! ष्यनुनिर्वपति ११ तेषाँ राजसूय एव कल्पो व्याख्यातोऽन्यत्र हस्तिग्रहणादावेदनान्मुखविमार्जनादिति १२ वसन्तेवसन्ते ज्योतिष्टोमेन यजेत । तस्य तिस्रो दक्षिणा इति विज्ञायते १३ संतिष्ठते ज्योतिष्टोमः संतिष्ठते ज्योतिष्टोमः १४ १४.२६
इति चतुर्दशः प्रश्नः