कल्किपुराणम्/प्रथम अंश

विकिस्रोतः तः

श्रीः

कल्किपुराणम्

प्रथम+अंश-प्रथम+अध्याय

सेन्द्रा देव-गणा मुनि+ईश्वर-जना लोकाः सपालाः सदा

स्वं स्वं कर्म सुसिद्धये ❁ प्रतिदनं भक्त्या भजन्त्य् उत्तमाः

❁ (यं सर्व+अर्थम् उसिद्धये इत्य् एवं सङ्गच्छते)

तं विघ्नेशम् अनन्तम् अच्युतम् अजम् सर्वज्ञ-सर्व+आश्रयम्

वन्दे वैदिक-तान्त्रिक+आदि-विविधैः शास्त्रैः पुरो वन्दितम्))1

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre up to here) ordinary अनुस्तुभ् follows)

नारायणं नमस्कृत्य नरञ् चैव नरोत्तमम्

देवीं सरस्वतीञ् चैव ततो जयम् उदीरयेत्))2

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – again:)

यद्दोर्दण्डकरालसर्पकवलज्वालाज्वालद्विग्रहाः

तेनुः सत्करवालदण्ड-दलिता भूपाः क्षिति-क्षोभकाः

शश्वत् सैन्धववाहनो द्विज जनिः कल्किः परात्मा हरिः

पायात् सत्य-युग+आदिकृत्स भगवान् धर्म-प्रवृत्ति-प्रियः))3

इति सूत-वचः श्रुत्वा नैमिषारण्यवासिनः

शौनकाद्या महाभागाः पप्रच्छुस् तं कथाम् इमाम्))4

हे सूत! सर्व-धर्म-ज्ञ! लोम-हर्षण-पुत्रक!

त्रि-काल-ज्ञ! पुराणज्ञ! वद भागवतीं कथाम्))5

कः कलिः? कुत्र वा जातो जगताम् ईश्वरः प्रभुः

कथं वा नित्यधर्मस्य विनाशः कलिना कृतः?))6

इति तेषां वचं श्रुत्वा सूतो ध्यात्वा हरिं प्रभुम्

सहर्षपुलकोद्भिन्न-सर्वाङ्गः प्राह तान् मुनीन्))7

सूत उवाच)

शृणुध्वम् इदम् आख्यानं भविष्यं परम+अद्भुतम्

काथितं ब्रह्मणा पूर्वं नारदाय विपृच्छते))8

नारदः प्राह मुनये व्यासाय+अमित-तेजसे

स व्यासो निज-पुत्राय ब्रह्मराताय धीमते))9

स च+ अभिमन्यु-पुत्राय विष्णुराताय संसदि

प्राह भागवतान् धर्मान् अष्टा-दश-सहस्रकान्))10

तदा नृपे लयं प्राप्ते सप्ताहे प्रश्नशोषितम्

मार्कण्देय+आदिभिः पृष्तः प्राह पुण्य+आश्रमे शुकः))11

तत्रा’हं तद् अनुज्ञातः श्रुतवान् अस्मि याः कथाः

भविष्याः कथयामि+इह पुण्या भागवतीः शुभाः))12

ताः शृणुध्वम् महा-भागाः समाहितधियो’निशम्

गते कृष्ने स्वनिलयम् प्रादुर्-भूतो यथा कलिः))13 प्रादुर्-भूतो manifested

प्रलयान्ते जगत्स्रष्टा ब्रह्मा लोक-पितामहः

ससर्ज घोरं मलिनं पृष्ठदेशात् स्वपातकम्))14

स च+ अधर्म इति ख्यातस् तस्य वंशा’नुकीर्तिताम्

श्रवणात् स्मरणाल् लोकः सर्व-पापैः प्रमुच्यते))15

अधर्मस्य प्रिया रम्या मिथ्या मार्जार-लोचना

तस्य पुत्रो’ति-तेजस्वी दम्भः परमकोपनः))16

स मायायां भगिन्यान्तु लोभं पुत्रञ् च कन्यकाम्

निकृतिं जनयाम् आस तयोः क्रोधः सुतो’भवत्))17

स हिंसायां बगिन्यान्तु जनयाम् आस तं कलिम्

वाम-हस्त-धृतोपस्थं तैला’भ्यक्ता’ञ्जन-प्रभम्))18

काकोदरं करालास्यं लोलजिह्वं भयानकम् («काकोदंर»)

पूतिगन्धं द्यूतमद्यस्त्रीसुवर्णकृताश्रयम्))19

भगिन्यान्तु दुरुक्यां स भयं पुत्रञ् च कन्यकाम्

मृत्युं स जनयामास तयोश् च निरयो’भवत्))20

यातनायां भगिन्यान्तु लेभे पुत्रायुतायुतम्

इत्थं कलिकुले जाता बहवो धर्मनिन्दकाः))21

यज्नाध्ययनदानादि वेद-तन्त्र-विनाशकाः)

आधिव्याधिजराग्लानि दुःख-शोक-भयाश्रयाः))22

कलिराजानुगाश्चेरुर्यूथशो लोक-नाशकाः

बभूवुः कालविभ्रष्ताः क्षणिकाः कामुका नराः))23

दम्भाचार-दुराचारा स्तातमातृविहिंसकाः

वेदहीना द्विजा दीनाः शूद्रसेवापराः सदा))24

कुतकर्वादबहुला धर्मविक्रयि,ञो’धमाः

वेदविक्रयिणो व्रात्या रसविक्रयिणस् तथा))25 विक्रयिण्= seller

मांसविक्रयिणः क्रूराः शिश्नोदरपरायणाः

परदाररता मत्ता वर्णसङ्करकारकाः))26

ह्रस्वाकाराः पाप-साराः शठा मठनिवासिनः शठ= rogue

षोडशाब्दायुषः श्याल-बान्धवा नीचसङ्गमाः))27

विवादकलहक्षुब्धाः केशवेशविभूषणाः

कलौ कुलिना धनिनः पूज्या वार्धुषिका द्विजाः))28

सन्यासिनो गृहासक्ता ग्रहस्थास्त्वविवेकिनः

गुरुनिन्दापरा धर्मध्वजिनः साधुवञ्चकाः))29

प्रतिग्रहरताः शूद्राः परस्वहरणादराः

द्वयोः स्वीकारम्-उद्वाहः शठे मैत्री वदान्यता))30

प्रतिदाने क्षमाशच्तौ विरक्तिकरणाक्षमे

वाचालत्वञ् च पाण्दित्ये यशो’र्थे धर्म-सेवनम्))31

धनाढ्यत्वञ् च साधुत्वे दूरे नीरे च तीर्थता

सूत्रमात्रेण विप्रत्वं दण्डमात्रेण मस्करी))32

अल्पशस्या वसुमती नदीतीरे’वरोपिता

स्त्रियो वेश्यालापसुखाः स्वपुंसा त्यक्त मानसाः))33

परान्नलोलुपा विप्राश् चण्दाल-गृहयाजकाः

स्त्रियो वैधव्यहीनाश् च स्वच्छन्दाचरणप्रियाः))34

चित्र-वृष्टिकरा मेघा मन्दशस्या च मेदिनी

प्रजाभक्षा नृपा लोकाः करपीडाप्रपीडिताः))35

स्कन्धे भारं करे पुत्रं कृत्वा क्षुब्धाः प्रजाजनाः

गिरिदुर्गं वनं घोरम् आश्रयिष्यन्ति दुर्भगाः))36

मधु-मांसैर्-मूल-फलैर्-आहारैः प्राणधारिणः

एवं तु प्रथमे पादे कलेः कृष्णविनिन्दकाः))37

द्वितीये तन्-नाम-हीनास् तृतीये वर्ण-सङ्कराः

एक-वर्णाश् च तुर्थे च विस्मृत+अच्युत-सत्च्रियाः))38

निःस्वाध्याय-स्वधा-स्वाहा-वौषड्-ओं-कार-वर्जिताः

देवाः सर्वे निराहाराः ब्रह्माणं शरणं ययुः))39

धरित्रीमग्रतः कृत्वा क्षीणां दीनां मनस्विनीम्

ददृशुर् ब्रह्मणो लोकं वेदध्वनिनिनादितम्))40

यज्ञ-धूमैः समाकीर्णं मुनि-वर्य-निषेवितम्

सुवर्ण-वेदिकामध्ये दक्षिणावर्तम्-उज्ज्वलम्))41

वह्नि यूपाङ्क्वितोद्यान-वन-पुष्प-फल+अन्वितम्

सरोभिः सारसैर् हंसैर् आह्वयन्तम् इवातिथिम्))42

वायुलोललताजाल कुसुमालिकुलाकुलैः

प्रणाम् आह्वान-सत्कार-मधुरालापवीक्षणैः))43

तद् ब्रह्म-सदनं देवाः सेश्वराः क्लिन्न-मानसाः

विविशुस् तद् अनुज्ञाता निजकार्यं निवेदितुम्))44

त्रिभुवन-जकं सदासनस्थं सनक-सनन्दन-सनातनैश् च सिद्धैः)

परिसेवितपादकमलं ब्रह्माण देवता नेमुः))45

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये कलि-विवरणं नाम प्रथमो’ध्यायः))1


सूत उवाच)

उपविष्टास् ततो देवा ब्रह्मणो वचनात् पुरः

कलेर् दोषाद् धर्म-हानिं कथयाम् आसुर् आदरात्))1

दूसरा अध्याय

देवानां तद् वचः श्रुत्वा ब्रह्मा तान् आह दुःखितान्

प्रसादयित्वा तं विष्णुं साधयिष्याम्य् अभीप्सितम्))2

इति देवैः परिवृतो गत्वा गोलोक-वासिनम्

स्तुत्वा प्राह पुरो ब्रह्मा देवानां हृदये’प्सितम्))3

तच् छ्रुत्वा पुण्डरीकाक्षो ब्रह्माणम् इदम् अब्रवीत्))

शम्भले विष्णुयशसो गृहे प्रादुर्भवाम्य् अहम्

सुमत्यां मातरि विभो! कन्यायां त्वन्निदेशतः))4

चतुर्भिर् भ्रातृभिर् देव! करिष्यामि कलिक्षयम्

भवन्तो बान्धवा देवाः स्व+अंशेन+ अवतरिष्यथ))5

इयं मम प्रिया लक्ष्मीः सिंहले संभविष्यति

बृहद्रथस्य भूपस्य कौमुद्यां कमलेक्षणा

भार्यायां मम भार्यैषा पद्मानाम्नी जनिष्यति))6

यात यूयं भुवं देवाः स्वांशावतरणे रताः

राजानौ मरु-देवापी स्थापयिष्याम्य् अहं भुवि))7

पुनः कृतयुगं कृत्वा धर्मान् संस्थाप्य पूर्ववत्

कलिव्यालं संनिरस्य प्रयास्ये स्वालयं विभो))8

इत्य् उदीरितमाकर्ण्य ब्रह्मा देवगणैर् वृतः

जगाम ब्रह्मसदनं देवाश् च त्रिदिवं ययुः))9

महिमां स्वस्य भगवान् निज-जन्म-कृतोद्यमः

विप्रर्ष! शम्भल-ग्रामम् आविवेश परात्मकः))10


सुमत्यां विष्णुयशसा गर्भम् आधत्त वैष्णवम्

ग्रह-नक्षत्र-राश्य्-आदि-सेवित-श्रीपदाम्बुजम्))11

सरित् समुद्रा गिरये लोकाः सस्थाणु जङ्गमाः

सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ))12

बभूवुः सर्व-सत्त्वानाम् आनन्दा विविधाश्रयाः

नृत्यन्ति पितरो हृष्टास् तुष्टा देवा जगुर् यशः))13

चक्रुर्वाद्यानि गन्धर्वा ननृतुश् च+ अप्सरो-गणाः))14

द्वादश्यां शुक्ल-पक्षस्य माधवे मासि माधवम्

जातं ददृशतुः पुत्रं पितरौ हृष्ट-मानसौ))15

धातृ-माता महाषष्ठी नाभिच्छेत्री तद् अम्बिका

गङ्गोदक-क्लेदमोक्षा सावित्री मार्जनोद्यता)16

तस्य विष्णोर् अनन्तस्य वसुधा’धात्पयख् सुधाम्

मातृका माङ्गल्यवचः कृष्ण-जन्म-दिने तथा))17

ब्रह्मा तद् उपधार्याशु स्वाशुगं प्राह सेवकम्

याहीति सूतिकागारम् गत्वा विष्णुं प्रबोधय))18

चतुर्-भुजम् इदं रूपं देवानाम् अपि दुर्-लभम्

त्यक्त्वा मानुषवद् रूपं कुरु नाथ! विचारितम्))19

इति ब्रह्म-वचः श्रुता पवनः सुरभिः सुखम्

सशीतः प्राह नरसा ब्रह्मणो वचनादृतः))20

तच् छ्रुत्वा पुण्डरीकाक्षस् तत् क्षणाद् द्विभुजो’भवत्

तदा तत् पितरौ दृष्ट्वा विस्मयापन्न-मानसौ))21

भ्रम-संस्कारवत् तत्र मेनाते तस्य मायया

ततस् तु शम्भल-ग्रामे सो’त्सवा जीव-जातयः

मङ्गलाचार-बहुलाः पाप-ताप-विवर्जिताः))22

सुमतिस् तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्-पतिम्

पूर्णकामा विप्रमुख्यान् आहूयादाद् गवां शतम्))23)

हरेः कल्याणकृद् विष्णुयशाः शुद्धेन चेतसा

साम+र्ग्-यजुर्-विद्भिर् अगृयैस् तन् नामकरणे रतः))24

तदा रामः कृपो व्यासो द्रौणिर् भिक्षु-शरीरिणः

समायाता हरिं द्रष्तुं बालकत्वम् उपागतम्))25

तान् आगतान् समालोक्य चतुरः सूर्य-सन्निभान्

हृष्ट-रोमा द्विज-वरः पूजयाञ् चक्र ईश्वरान्))26

पूजितास् ते स्वासनेषु संविष्ताः स्वसुखाश्रयाः

हरिं क्रोडगतं तस्य ददृशुः सर्व-मूर्तयः))27

तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः

कल्किं कल्क-विनाशार्थम् आविर्भूतं विदुर्बुधाः))28

नामाकुर्वंस् ततस् तस्य कल्किर् इत्य् अभिविश्रुतम्

कृत्वा संस्कार-कर्माणि ययुस् ते हृष्ट-मानसाः))29

ततः स ववृधे तत्र सुमत्या परि-पालितः

कालेनाल्पेन कंसारिः शुक्ल-पक्षे यथा शशी))30

कल्केर् ज्येष्थास्त्रयः शूराः कवि-प्राज्ञ-सुमन्त्रकाः

पितृ-मातृ-प्रियकरा गुरु-विप्र-प्रतिष्ठिताः))31

कल्केर् अंशाः पुरो जाताः साधवो धर्म-तत्-पराः

गार्ग्य-भर्ग्य-विशालाद्या ज्ञातयस् तद् अनुब्रताः))32

विशाखयूप-भूपाल-पालितास् ताप-वर्जिताः

ब्राह्मणाः कल्किम् आलोक्य परां प्रीतिम् उपागताः))33

ततो विष्णुयशाः पुत्रं धीरं सर्व-गुणाकरम्

कल्किं कमल-पत्राक्षं प्रोवाच पठनादृतम्))34

तात! ते ब्रह्म-संस्कारम् यज्ञ-सूत्र-मनूत्तमम् («मनुत्तमम्»)

सावित्रीं वाचयिष्यामि ततो वेदान् पठिष्यसि))35

कल्किर् उवाच

को वेदः का च सावित्री केन सूत्रेण संस्कृताः

ब्रह्मणा विदिता लोके तत् तत्त्वं वद तात माम्))36

पितो’ वाच

वेदो हरेर् वाक् सावित्री वेद-माता प्रतिष्ठिता

त्रि-गुणञ् च त्रि-वृत्-सूत्रं तेन विप्राः प्रतिष्ठिताः))37

दश-यज्ञैः संस्कृता ये ब्राह्मणा ब्रह्म-वादिनः

तत्र वेदाश् च लोकानां त्रयाणाम् इह पोषकाः))38

यज्ञ-अध्ययन-दान+आदि तपः स्वाध्याय-संयमैः

प्रीणयन्ति हरिं भक्त्या वेद-तन्त्र-विधानतः))39

तस्माद्यथो’पनयन-कर्मणो’हं द्विजैः सह

संस्कर्तुं बान्धव-जनैस् त्वाम् इच्छामि शुभे दिने))40

पुत्र उवाच

के च ते दश संस्कारा ब्राह्मणेषु प्रतिष्ठिताः

ब्राह्मणाः केन वा विष्णुम् अर्चयन्ति विधानतः))41

पितो’ वाच

ब्राह्मण्यां ब्राह्मणाज् जातो गर्भाधानादि-संस्कृतः

सन्ध्यात्रयेण सावित्री-पूज-जप-परायणः))42

तपस्वी सत्यवाग् धीरो धर्मात्मा त्राति संसृतिम्

विष्न्व्-अर्चनम् इदं ज्ञात्वा सद्+आनन्दम् अयो द्विजः))43

पुत्र उवाच

कुत्रास्ते स द्विजो येन तारयन्त्य् अखिलं जगत्

सन्मार्गेण हरिं प्रीणन् काम-दोग्धा जगत्-त्रये

पितो’वाच

कलिना बलिना धर्म-घातिना द्विज-पातिना

निराकृता धर्म-रता गता वर्षा’न्तर+अन्तरम्))45

ये स्वल्प-तपसो विप्राः स्थिताः कलियुग+अन्तरे

शिश्नो’दर-भृतो’धर्म-निरता विरत-क्रियाः))46

पाप-सारा दुराचारास् तेजोहीनाः कलाविह

आत्मानं रक्षितुं नैव शक्ताः शूद्रस्य सेवकाः))47

व् υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – ||metre follows:

इति जनकवचो निशम्य कल्किः)

कलिकुलनाश-मनो’भिलाष-जन्मा)

द्विज-निज-वचनैस् तदो’पनीतो)

गुरुकुलवासम् उवास साधु-नाथः))48

इति श्री-कल्कि-पुराणे’नुभागवते भविष्ये बल ο भाषाटी ο कल्कि-जन्मो’प-नयनं नाम द्वितीयो’ध्यायः))2


तृतीयो’ध्यायः

सूत उवाच

ततो वस्तुं गुरुकुले यान्तं कल्किं निरीक्ष्य सः

महेन्द्र+अद्रि स्थितो रामः समानीय+आश्रमं प्रभुः))1 (=परशुरामः)

प्राह त्वां पाठयिष्यामि गुरुं मां विद्वि धर्मतः

भृगु-वंश-सम्-उत्-पन्नं जामदग्न्यं महाप्रभुम्))2

वेद-वेद+अङ्ग-तत्त्व-ज्ञं धनुर्-वेद-विशारदम्

कृत्वा निःक्षत्त्रियां पृथ्वीं दत्त्वा विप्राय दक्षिणां))3

महेन्द्र-अद्रौ तपस् तप्तुम् आगतो ऽहं द्विज+आत्मज

त्वं पठ+अत्र निजं वेदं यच् च+अन्यच् छास्त्रम् उत्तमम्))4

इति तद् वच आश्रुत्य सम्प्रहृष्टतनूरुहः

कल्किः पुरो नमस्कृत्य वेद+अधीती ततो ऽभवत्))5

साङ्गं चतुः षष्टिकलं धनुर्-वेद+आदिकञ् च यत् (=64 parts)

सम्-अधीत्य जामदग्न्यात् कल्किः प्राह कृताञ्जलिः))6

दक्षिणां प्रार्थय विभो! या देया तव सन्निधौ

यया मे सर्व-सिद्धिः स्याद् या स्यात् त्वत् तोष-कारिणी))7

राम उवाच)

ब्रह्मणा प्रार्थतो भूमन्! कलि-निग्रह-कारणात्

विष्नुः सर्व+आश्रयः पूर्णः स जातः शम्भले भवान्))8ो


मत्तो विद्यां शिवाद् अस्त्रं लब्ध्वा वेद-मयं शुकम्

सिंहले च प्रियां पद्मां धर्मान् संस्थापयिष्यसि))9

ततो दिग्-विजये भूपान् धर्म-हीनान् कलि-प्रियान्

निगृह्य बौद्धान् देवापिं मरुञ् च स्थापयिष्यसि))10

वयम् एतैस् तु संतुष्ताः साधु-कृत्यैः स-दक्षिणाः

यज्ञं दानं तपः कर्म करिष्यामो यथो’चितम्))11

इत्य् एतद् वचनं श्रुत्वा नमस्कृत्य मुनिं गुरुम्

बिल्वोदकेश्वरं देवं गत्वा तुष्टाव शङ्करम्))12

पूजयित्वा यथा’न्यायं शिवं शान्तं महेश्वरम्

प्रणिपत्याशुतोषं तं ध्यात्वा प्राह हृदि-स्थितम्))13

कल्किर् उवाच)

गौरी-नाथं विश्व-नाथं शरण्यं)

भूतावासं वासुकी-कण्थ-भूषम्)

तृयक्षं पञ्चा’स्य+आदि-देवं पुराणं)

वन्दे सान्द्रानन्द-सन्दोहदक्षम्))14

योग+अदीशं काम-नाशं करालं)

गङ्गासङ्गाक्लिन्नमूर्धानम् ईशम्)

जटाजूटाटोओपरिक्षिप्तभावं)

महाकालं चन्द्रभालं नमामि))15

श्मशानस्थं भूत-वेतालसंगं)

नाना-शस्त्रैः खड्ग्Ά-शूल+आदिभिश् च)

व्यग्र+अत्युग्रा बाहवो लोक-नाशे)

यस्य क्रोधो’द्धूत-लोको’स्तमेति))16

यो भूतादिः पञ्च-भूतैः सिसृक्षुस्)

तन्मात्रात्मा काल-कर्म-स्वभावैः)

प्रहृतिऽएदं प्राप्य जीवत्वम् ईशो)

ब्रह्मानन्दो रमते तं नमामि))17

स्थितौ विष्नुः सर्व-जिष्नुः सुरात्मा)

लोकान् साधून् धर्म-सेतून् बिभर्ति)

ब्रह्माद्यांशे यो ऽभिमानी) गुणात्मा)

शब्दाद्यङ्गैस् तं परेशं नमामि))18

यस्य+आज्ञया वायवो वान्ति लोके)

ज्वलत्य् अग्निः सविता याति तप्यन्)

शीतांशुः खे नारकैः सग्रहैश् च)

प्रवर्तते) तं परेशं प्रपद्ये))19

यस्य+अश्वासात् सर्व-धात्री धरित्री)

देवो वर्षत्य् अम्बु कालः प्रमाता)

मेरुर् मध्ये भुवनानाञ् च भर्ता)

तम् ईशानं विश्व-रूपं नमामि))20

इति कल्कि-स्तवं श्रुत्वा शिवः सर्वात्म-दर्शनः

साक्षात् प्राह हसन्निशः पार्वती-सहितोग्रतः))21

कल्केः संस्पृश्य हस्तेन समस्तावयवं मुदा

तम् आह वरय प्रेष्ठ! वरं यत् ते ऽभिकांक्षितम्))22

त्वया कृतम् इदं स्तोत्रं ये पठन्ति जना भुवि

तेषां सर्वार्थ-सिद्धिः स्याद् इह लोके परत्र च))23

विद्यार्थी च+अप्नुयाद् विद्यां धर्मार्थी धर्मम् अप्नुयत्

कामान् अवाप्नुयत् कामी पठनाच् छ्रवणाद् अपि))24

त्वं गारुडम् इदं च+अश्वं कामगं बहु-रूपिणम्

शुक-मेनञ्च सर्वज्ञं मया दत्तं गृहाण भोः))25

सर्व-शास्त्र+अस्त्र-विद्वंसं सर्व-वेद+अर्थ-पारगम्

जयिनं सर्व-भूतानां त्वाम् वदिष्यन्ति मानवाः))26

रत्नत्सरुं करालञ् च करवालं महा-प्रभम्

गृहाण गुरुभारायाः पृथिव्या भारसाधनम्))27

इति तद् वच आश्रुत्य नमस्कृत्य महेश्वरम्

शम्भल-ग्रामम् अगमत् तुरगेण त्वरा’न्वितः))28

पितरं मातरं भ्रातॄन् नमस्कृत्य यथाविधि

सर्वं तद् वर्णयाम् आस जामदग्न्यस्य भाषितम्))29 (जामदग्न्य son = परशुराम)

शिवस्य वरदानञ् च कथयित्वा शुभाः कथाः

कल्किः परम-तेजस्वी ज्ञातिभ्यो ऽप्यवदन् मुदा))30

गार्ग्य-भर्ग्य-विशालाद्यास् तच् छ्रुत्वा नन्दिताः स्थिताः

कथोपकथनं जातं शम्भल-ग्राम-वासिनाम्))31

विशाखयूप-भूपालः श्रुत्वा तेषाञ् च भाषितम्

प्रादुर्भावं हरेर् मेने कलि-निग्रह-कारकम्))32

माहिष्मत्यां निज-पुरे याग-दान-तपो-व्रतान् (माहिष्मती city)

भ्राह्मनान् क्षत्रियान् वैश्याञ् शूद्रान् अपि हरेः प्रियान्))33

स्व-धर्म-निरतान् दृष्ट्वा धर्मिष्ठो’भून् नृपः स्वयम्

प्रजापालः शुद्धमनाः प्रादुर्भावाच् छ्रियः पतेः))34

अधर्म-वंश्यांस् तान् दृष्ट्वा जनान् धर्मक्रियापरान्

लोभ+अनृतादयो जग्मुस् तद् देशाद् दुःखिता भयम्))35

जैत्रं तुरगमारुह्य खड्ग्Άञ् च विमल-प्रभम्

दंशितः सशरं चापं गृहीत्वागात् पुराद् बहिः))36

विशाखयूप-भूपालः प्रयात् साधु-जन-प्रियः

कल्किं द्रष्तुं हरेर् अंशम् आविर्भूतञ् च शम्भले))37

कविं प्राज्ञं सुमन्तुञ् च पुरस्कृत्य महाप्रभम्

गार्ग्य-भर्ग्य-विशालैश् च ज्ञातिभिः परिवारितम्))38

विशाखयूपो ददृशे चन्द्रं तारा-गणैर् इव

पुराद्बहिः सुरैर् यद् वद् इन्द्रम् उच्चैः श्रवः स्थितम्))39

विशाखयूपो’वनतः संप्रहृष्ट-तनूरुहः

कल्केर् आलोकनात् सद्यः पूर्णात्मा वैष्णवो ऽभवत्))40

सह रज्ञा वसन् कल्किः धर्मान् आह पुरोदितान्

ब्राह्मण-क्षत्रिय-विशाम् आश्रमाणां समासतः))41

मम+ अंशान् कलि-विभ्रष्टान् इति मज् जन्म-संगतान्

राजसूय+अश्वमेधाभ्यां मां यजस्व समाहितः))42

अहम् एव परो लोके धर्मश् च+ अहं सनातनः

काल-स्वभाव-संस्काराः कर्म+अनुगतयो मम))43

सोम-सूर्य-कुले जातौ देवापि-मरु-संज्ञकौ

स्थापयित्वा कृतयुगं कृत्वा यास्यामि सद्गतिम्))44

इति तद् वचनं श्रुत्वा राजा कल्किं हरिं प्रभुम्

प्रणम्य प्राह सद्धर्मान् वैष्णवान् मनसे’प्सितान्))45

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – ||metre follows:

इति नृप-वचनं निशम्य कल्किः)

कलि-कुल-नाशनवासन+अवतारः)

निज-जन-परिषद्-विनोदकारी)

मधुर-वचोभिर् आह साधु-धर्मान्))46 (:1 syllable missing here)

इति श्री-कल्कि-पुराणे ऽनुभावगते भविष्ये कल्कि-वर-लाभ-नामकस् तृतीयो ऽध्यायः))3


चतुर्थो ऽध्यायः)

सूत उवाच

ततः कल्किः सभामध्ये राजमानो रविर् यथा

बभाषे तं नृपं धर्म-मयो धर्मान् द्विज-प्रियान्))1

कल्किर् उवाच

कालेन ब्रह्मनो नाशे प्रलये मयि सङ्गताः

अहम् एव+आसम् एव+अग्रे नान्यत् कार्यम् इदं मम))2

प्रसुप्त-लोक-तन्त्रस्य द्वैत-हीनस्य च+आत्मनः

महानिशान्ते रन्तुं मे समुद्भूतो विराट् प्रभुः))3

सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात्

तद् अङ्गजो’ऽभवद् ब्रह्मा वेद-वक्त्रो महाप्रभुः))4

जीवोपाधेर् मम+अंशाच् च प्रकृत्या मायया स्वया

ब्रह्मोपादिः स सर्वज्ञो मम वाग्-वेद-शासितः))5

ससर्ज जीवजातानि काल-माय+अंश-योगतः

देवा मन्व्-आदयो लोकाः स-प्रजापतयः प्रभुः))6

गुणिन्या मायय+अंशा मे नानोपाधाव् ससर्जारे (=wrong, I correct to ससर्जसे)

सो’पाधय इमे लोका देवाः सस्थाणुजङ्गमाः))7

मम+अंशा मायया सृष्टा यतो मय्याविशंल्लये (I correct to मय्य् आविशत् लये)

एवं विधा ब्राह्मणा ये मच् छरीरा मद् आत्मिकाः))8

माम् उद्धरन्ति भुवने यज्ञ+अध्ययन-सत्क्रियाः

मां प्रसेवन्ति शंसन्ति तपो-दान-क्रियास्व् इह))9

स्मरन्त्य् आमोदयन्त्य् एव नान्ये देवादयस् तथा

ब्राह्मणा वेद-वच्तारो वेदा मे मूर्तयः पराः))10

तस्मादिमे  ब्राह्मणजास् तैः पुष्टास् त्रिजगज्-जनाः

जगन्ति मे शरीराणि तत् पोषे ब्रह्मणो वरः))11

तेन+अहं तान् नमस्यामि शुद्ध-सत्त्व-गुण+आश्रयः

ततो जगन्-मयं पूर्वं मां सेवन्तेऽखिल-आश्रयाः))12

विशाखयूप उवाच

विप्रस्य लक्षणं ब्रूहि त्वद् भक्तिः का च तत् कृता

यतस् तव +अनुग्रहेण वाग्बाणा ब्राह्मणाः कृताः))13

कल्किर् उवाच

वेदा माम् ईश्वरं प्राहुर् अव्यक्तं व्यक्तिमत् परम्

ते वेदा ब्राह्मण-मुखे नाना-धर्मे प्रकाशिताः))14

यो धर्मो ब्रह्मणानां हि सा भक्तिर् मम पुष्कला

तया+अहं तोषितः श्रीशः संभवामि युगे युगे))15

उर्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः

तन्तुत्रयमधोवृत्तं यज्ञ-सूत्रं विदुर्बुधाः))16

त्रिगुणं तद्-ग्रन्थि-युक्तं वेद-प्रवरसंमितम्

शिरोधरान्-नाभि-मध्यात् पृष्ठ-अर्ध-परिमाणकम्))17

यजुर्-विदां नाभिमितं सामगानामयं विधिः

वामस्कन्धेन विधृतं यज्ञ-सूत्रं बल-प्रदम्))18

मृद्-भस्म-चन्दन+आद्यैस् तु धारयेत् तिलकं द्विजः

भाले त्रि-पुण्द्रं कर्म+अङ्गं केश-पर्यन्तम् उज्ज्वलम्))19

पुण्द्रम् अङ्गुलिम् आनन्तु त्रि-पुण्द्रं तत् त्रिधा कृतम्

ब्रह्म-विष्णु-शिव+आवासं दर्शनात् पाप-नाशनम्))20

ब्राह्मणानां करे स्वर्गा वाचो वेदाः करे हरिः

गात्रे तीर्थानि रागाश् च नाडीषु प्रकृतिस् त्रिवृत्))21

सावित्री कण्थ-कुहरा हृदयं ब्रह्म-संज्ञितम्

तेषां स्तन+अन्तरे धर्मः पृष्ठोऽदर्मः प्रकीर्तितः))22

भू-देवा ब्राह्मणा राजन्! पूज्या वन्द्याः सद्-उक्तिभिः

चतुर्-आश्रम्य-कुशला मम धर्म-प्रवर्तकाः))23

बालाश् च+अपि ज्ञान-वृद्धास् तपो-वृद्धा मम प्रियाः

तेषां वचः पालयितुम् अवताराः कृता मया))24

महाभाग्यम् ब्राह्माणानां सर्व-पाप-प्र-णाशनम्

कलि-दोष-हरं श्रुत्वा मुच्यते सर्वतो भयात्))25

इति कल्किर् उवाच -वचः श्रुत्वा कलि-दोष-विनाशकम् (so must be corrected)

प्रणम्य तं शुद्धमनाः प्रययौ वैष्णवाग्रणीः))26 (अग्रणीः = )

गते राजनि सन्ध्यायां शिव-दत्त-शुको बुधः

चरित्वा कल्कि-पुरतः स्तुत्वा तं पुरतः स्थितः))27

तं शुकं प्राह कल्किस् तु सस्मितं स्तुति-पाठकम्

स्वागतं भवता कस्माद् देशात् किं खादितं ततः))28

शुक उवाच)

शृणु नाथ! वचो मह्यं कौतूहल-समन्वितम्

अहं गतश् च जलधेर् मध्ये सिंहल-संज्ञके))29

यथा’वृत्तं द्वीप-गतं तच् चित्रं श्रवण-प्रियं

बृहद्रथस्य नृ-पतेएः कन्यायाश् चरितामृतम्))30

कौमुद्याम् इह जाताया जगतां पाप-नाशनम्

चरितं सिंहले द्विपे चातुर्-वर्ण्य-जनावृते))31

प्रासाद-हर्म्य-सदन-पुर-राजि-विराजिते (svarNa--latA] fं ` gold creeper ' , Cardiospermum Halicacabum L)

रत्न-स्फाटिक-कुड्यादि-स्वर्णलताभिर् विभूषिते))32 («स्वर्लताभिर्» be corrected)

स्त्रीभिर् उत्तम-वेशाभिः पद्मिनीभिः समावृते

सरोभिः सारसैर् हंसैर् उपकूल-जलाकुले))33

भृङ्ग-रंग-प्रसंगाढ्ये पद्मैः कह्लार-कुन्दकैः (or: कह्लार-हुल्लकैः)

नाना+अम्बुज-लताजाल-वनो’पवन-मण्दिते))34

देशे बृहद्रथो राजा महा-बल-पराक्रमः

तस्य पद्मावती कन्या धन्या रेजे यशस्विनी))35 (पद्मावती named)

भुवने दुर्लभा लोके ऽप्रतिमा वर-वर्णिनी

काम-मोह-करी चारु-चरित्रा चित्र-निर्मिता))36 (चारु= )

शिव-सेवापरा गौरी यथा पूज्या सुसम्मता

सखीभिः कन्यकाभिश् च जप-ध्यान-परायणा))37

ज्ञात्वा ताञ् च हरेर् लक्ष्मीं समुद्भूतां वरांगनाम् (written also वराननाम्)

हरः प्रादुर् अभूत् साक्षात् पार्वत्या सह हर्षितः))38

सा तमालोक्य वरदं शिवं गौरी-समन्वितम्

लज्जिताधोमुखी किञ्चिन् नो’वाच पुरतः स्थिता))39

हरस् ताम् आह सुभगे! तव नारायणः पतिः

पाणिं ग्रहीष्यति मुदा नान्यो योग्यो नृप+आत्मजः))40

काम-भावेन भुवने ये त्वां पश्यन्ति मानवाः

तेनैव वयसा नार्यो भविष्यन्त्य् अपि तत् क्षणात्))41

देव+असुरास् तथा नागा गन्धर्वाश् चारण+आदयः

त्वया रन्तुं यथा काले भविष्यन्ति किल स्त्रियः))42

विना नारायणं देवं त्वत् पाणि-ग्रहण+अर्थिनम्

गृहं याहि तपस्-त्यक्त्वा भोग+अयतनम् उत्तमम्))43 (“a place of enjoyments”)

मा क्षोभय हरेः पत्नि कमले विमलं कुरु (vocative)

इति दत्त्वा वरं सोमस् तत्रैव +अन्तर्-दधे हरः))44

हर-वरम् इति सा निशम्य पद्मा समुचितम् आत्म-मनोरथ-प्रकाशम्)

विकसित-वदना प्रणम्य सोमं निज-जन-कालयम् आविवेश रामा))45

इति श्री कल्कि-पुराने ऽनुभागवते भविष्ये हर-वर-प्रदानं-नाम चतुर्थो ऽध्यायः))4


पञ्चमो’ऽध्यायः)

शूक उवाच)

गते बहुतिथे काले पद्मां वीक्ष्य बृहद्रथः

निरूढ-यौवनां पुत्रीं विस्मितः पाप-शङ्कया))1

कौमुदीं प्राह महिषीं पद्मो’द्वाहे ऽत्र कं नृपम्

वरयिष्यामि सुभगे! कुल-शील-समन्वितम्))2

सा तम् आह पतिं देवी शिवेन प्रति भाषितम्

विष्णुरस्याः पतिर् इति भविष्यति न संशयः))3

इति तस्यावचः श्रुत्वा राजा प्राह कदे’ति ताम्

विष्नुः सर्वगुहावासः पाणिमस्या ग्रहीष्यति))4

न मे भाग्योओदयः कश्चिद् येन जामातरं हरिम्

वरयिष्यामि कन्यार्थे वेदवत्या मुनेर् यथा))5

इमां स्वयंवरां पद्मां पद्माम् इव महोदधेः

मथने ऽसुर-देवानां तथा विष्णुर् ग्रहीष्यति))6

इति भूप-गणान् भूपः समाह्वय पुरस्कृतान्

गुण-शील-वयोरूप-विद्याद्रविण-संवृतान्))7

स्वयंवरार्थं पद्मायाः सिंहले बहु-मङ्गले

विचार्य कारयामास स्थानं भूपनिवेशनाम्))8

तत्रायाता नृपाः सर्वे विवाहकृतनिश्चयाः

निज-सैन्यैः परि-वृताः स्वर्ण-रत्न-विभूषिताः))9

रथान् गजान् अश्व-वरान् समारूढा महाबलाः

श्वेतच्-छत्रकृतच्-छायाः श्वेतचामर-वीजिताः))10

शस्त्र+अस्त्र-तेजसा दीप्ता देवाख् सेन्द्रा इव +अभवन्

रुचिराश्वः सु-कर्मा च मदिराक्षो दृढाशुगः))11

कृष्णसारः पारदश् च जीमूतः क्रूरमर्दनः

काशः कुशाम्बुर् वसुमान् कङ्कः कथन-सञ्जयाव्))12

गुरु-मित्रः प्रमाथी च विजृम्भः सृञ्जयो ऽक्षमः (also read सन्जयो)

एते चान्ये च बहवः समायाता महाबलाः))13

विविशुस्ते रङ्गगताः स्व-स्वस्थानेषु पूजिताः

वान्द्यताण्डव-संहृष्टाश् चित्रमाल्याम्बराधराः))14

नाना-भोग-सुखो’द्रिक्ताः कामरामा रतिप्रदाः

तानालोक्य सिंहलेशः सुआं कन्यां वरवर्निनीम्))15

गौरीं चन्द्राननां श्यामां तारहारविभूषिताम्

मणिमुक्ताप्रवालैश् च सर्व+अङ्ग+अलंकृतां शुभाम्))16

किं मायां मोहजननीं किं वा कामप्रियां भुवि

रूप-लावण्य-सम्पत्त्या न च+अन्याम् इह दृष्टवान्))17

स्वर्गे क्षितौ वा पाताले ऽप्य् अहं सर्वत्रगो यदि

पश्चाद्-दासी-गणाकीर्णां सखीभिः परिवारिताम्))18

दैवारिकैर् वेत्रहस्तैः शासितान्तः पुराद्बहिः

पुरोबन्दि-गणाकीर्णां प्रापयामास तां शनैः))19

नूपुरैः किङ्किणीभिश् च क्वणन्तीं जनमोहिनीम् (नूपुर= )

स्वागतानां नृपाणाञ् च कुल-शील- गुणान् भहून्))20

शृण्वन्ती हंसगमना रत्न-माला-करग्रहा

रुचिरा+अपाङ्ग-भङ्गेन प्रेक्षन्ती लोल-कुण्डला))21(or रुधिर, that letter is different than ordinary)

नृत्यत्-कुन्तलसोपान-गण्ड-मण्डल-मण्दिता

किञ्चित् स्मेरो’ल्-लसद्-वक्त्र-दशनद्योतदीपिता))22

वेदी-मध्यारुणक्षौम-वसना कोकिल-स्वना

रूप-लावण्य-पण्येन क्रेतुकामा जगत्-त्रयम्))23

समागतां तां प्रसमीक्ष्य बूपाः संमोहिनीं कामविमूढचित्ताः)

पेतुः क्षितौ विस्मृतवस्त्र-शस्त्राः रथ+अश्वमत्तद्विपवाहनास्ते))24

तस्याः स्मरक्षोभनिरीक्षणेन स्त्रियो बभूवुः कमनीयरूपाख्)

बृहन्-नितम्ब-स्तनभारनम्राः सुमध्यमास्-तत्स्मृतिजानरूपाख्))25

विलासहासव्यसनातिचित्राः कान्ताननाः शोण-सरोज-नेत्राः)

स्त्री-रूपमात्मानमवेक्ष्य भूपास् ताम् अन्व्-अगच्छन्विशदानुवृत्त्या))26

अहं वटस्थः परिधर्षितात्मा पद्मा-विवाहो’त्सव-दर्शनाकुलः)

तस्या वचो ऽन्तर्-हृदि दुःखितायाः श्रोतुं स्थितः स्त्रीत्वामितेषु तेषु))27

जहीहि कल्के चमलाविलापं श्रुतं विचित्रं जगताम् अदीश)

गते विवाहो’त्सव-मङ्गले सा शिवं शरण्यं हृदये निधाय))28

तान् दृष्ट्वा नृपतीन् गज+अश्व-रथिभिस् त्यक्तान् सखित्वं गतान्) (written also तिऽक्त्वा)

स्त्रीभावेन समन्विताननुगतान् पद्मां विलोक्यान्तिके)

दीना त्यक्त-विभूषणा विलिखती पदाङ्गुलैः कामिनी)

ईशं कर्तुं निज-नाथम् ईश्वर-वचस् तथ्यं हरिं सा ऽस्मरत्))29

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये पद्मा-स्वयंवरे भूपतीनां स्त्रीत्वकथनं-नाम-पञ्चमो ऽध्यायः))5


षष्ठो ऽध्यायः)

शुक उवाच)

ततः सा विस्मित-मुखी पद्मा निज-जनैर् वृता

हरिं पतिं चिन्तयन्ती प्रो’वाच विमलां स्थिताम्))1

विमले! किं कृतं धात्रा ललाटे लिखनं मम

दर्शनाद् अपि लोकानां पुंसां स्त्रीभावकारकम्))2

ममापि मन्दभाग्यायाः पापिन्याः शिव-सेवनम्

विफलत्वम् अनुप्राप्तं बीजम् उप्तं यथोषरे))3

हरिर् लक्ष्मी-पतिः सर्व-जगताम् अधिपः प्रभुः

मत् कृते ऽप्य् अभिलाषं किं करिष्यति जगत्-पतिः))4

यदि शम्भोर् वचो मिथ्या यदि विष्णुर् न मां स्मरेत्

तद+ अहम् अनले देहं त्यक्ष्यामि हरिभाविता))5

क्व च+अहं मानुषी दीना क्वास्ते देवो जनार्दनः

निगृहीता विधात्रा’हं शिवेन परि-वञ्चिता))6

विष्णुना च परि-त्यक्ता मदन्या कात्र जीवति))7

इति नाना विलापिन्या वचनं शोचन+आश्रयम्

पद्मायाश्चारुचेष्टायाः श्रुत्वायातस्तवान्तिके))8

शुकस्य वचनं श्रुत्वा कल्किः परमविस्मितः

तं जगाद पुनर्याहि पद्मां बोधयितुं प्रियाम्))9

मत् सन्देशहरो भूत्वा मद् रूप-गुण-कीर्तनम्

श्रावयित्वा पुनः कीर! समायास्यसि बान्धव))10

सा मे प्रिया पतिर् अहम् तस्या दैव-विनिर्मितः

मध्यस्थेन त्वया योगमावयोश् च भविष्यति))11

सर्व-ज्ञो ऽसि विधि-ज्ञो ऽसि काल-ज्ञो ऽसि कथामृतैः

तामाश्वास्य ममाश्वासकथास् तस्याः समाहर))12

इति कल्केर् वचः श्रुत्वा शुकः परमहर्षितः

प्रणम्य तं प्रीतमनाः प्रययौ सिंहलं तुअरन्))13

खगः समुद्रपारेण स्नात्वा पीत्वामृतं पयः

बीजपूरफल+आहारो ययौ राज-निवेशनम्))14

तत्र कन्यापुरं गत्वा वृक्षे नागे’श्वरे वसन्

पद्माम् आलोक्य तां प्राह शुको मानुषभाषया))15

कुशलं ते वरारोहे! रूपयौवनशालिनि!

त्वां लोल-नयनां मन्ये लक्ष्मी-रूपाम् इव+अपराम्))16

पद्म+अननां पद्म+गन्धां पद्म-नेत्रां कर+अम्बुजे

कमलं कालयन्तीं त्वां लक्षयामि परां श्रियम्))17

किं धात्रा सर्व-जगतां रूपा-लावण्य-सम्पदाम्

निर्मिता+असि वरारोहे! जीवानां मोह-कारिणि!))18

इति भाषितम् आकार्ण्य कीरस्य +अमितम् अद्भुतम् (also कीरस्यामृतम् written )

हसन्ती प्राह सा देवी तं पद्मा पद्म-मालिनी))19

कस् त्वं कस्माद् आगतो ऽसि कथं मां शुक-रूप-धृक्

देवो वा दानवो वा त्वम् आगतो ऽसि दयापरः))20

शुक उवाच)

सर्व-ज्ञो ऽहम् कामगामी सर्व-शास्त्र+अर्थ-तत्त्व-वित् (कामगामी= )

देव-गन्धर्व-भूपानां सभासु परि-पूजितः))21

चरामि स्वे’च्छया खे त्वाम् ईक्षण+अर्थम् इह+अगतः

त्वाम् अहं हृदि संतप्तां त्यक्त-भोगां मनस्विनीम्))22

हास्यालाप-सखीसङ्ग-देहाभरण-वर्जिताम्

विलोक्याहं दीन-चेताः पृच्छामि श्रोतुम् ईरितम्

कोकिलालप-सन्ताप-जनकं मधुरं मृदु))23

तव दन्तौष्ठ-जिह्वाग्र-लुलित+अक्षर-पङ्क्तयः

यत् कर्णकुहरे मग्नास् तेषां किं वर्ण्यते तपः))24

सौकुमार्यं शिरीषस्य क्व कान्तिर् वा निशाकरे

पीयूषं क्व वदन्त्य् एव+आनन्दं ब्रह्मणि ते बुधाः))25 (written also ते ऽधुना)

तव बाहुलताबद्धा ये पाश्यन्ति सुधाननम् («पास्यन्ति»)

तषा तपो-दान-जपैर् व्यर्थैः किं जनयिष्यति))26

तिलक+अलक-संमिश्रं लोल-कुण्डल-मण्दितम्

लोले’क्षणो’ल्-लसद्-वक्त्रं पश्यन्तां न पुनर्-भवः))27

बृहद्रथ-सुते! स्वाधिं वद भामिनि यत् कृते (others: «यत् कृतम्»)

तपः क्षीणाम् इव तनुं लक्षयामि रुजं विना

कनक-प्रतिमा यद्वत् पांसुभिर् मलिनीकृता))28(others:: «कनक-प्रतिमं तद्वत्»)

पद्मो’ वाच)

किं रूपेण कुलेन+अपि धनेन+अभिजनेन वा

सर्व निष्फलतामेति यस्य दैवमदक्षिणम्))29

श्रुणु कीर) समाख्यानं यदि वा विदितं तव (others: श्रुणु कीर! ममाख्यानं)

बाल्य-पौगण्ड-कैशोरे हर-सेवां करोम्य् अहम्))30 (place names)

तेन पूजाविधानेन तुष्तो भूत्वा महेश्वरः

वरं वरय पद्मे! त्वम् इत्य् आह प्रियया सह))31

लज्जया ऽधोमुखीमग्रे स्थितां मां वीक्ष्य शङ्करः

प्राह ते भविता स्वामी हरिर् नारायणः प्रभुः))32

देवो वा दानवो वान्यो गन्धर्वो वा तवेक्षणात्

कामेन मनसा नारी भविष्यति न संशयः))33

इति दत्त्वा वरं सोमः प्राह विष्न्वर्चनं यथा

तथा+अहं ते प्रवक्ष्यामि समाहितमनाः शृणु))34

एताः सख्यो नृपाः पूर्वमाहृता ये स्वयंवरे

पित्रा धर्मार्थिना दृष्ट्वा रम्यां मां यौवन+अन्विताम्))35 स्वागतास्ते सुखासीना विवाहकृतनिश्चयाः

युवानो गुणवन्तश्च रूपद्रविणसम्मताः))36

स्वयंवरगतां मां ते विलोक्य रुचिर-प्रभाम्

रत्न-माल+अश्रितकरां निपेतुः काम-मोहिताः))37

तत उत्थाय सम्भ्रान्ताः संप्रेक्ष्य स्त्रीत्वमात्मनः

स्तनभार-नितम्बेन गुरुणा परिणामिताः))38

ह्रिया भिया च शत्रूणां मित्राणाम् अतिदुःखदम्

स्त्रीभावं मनसा ध्यात्वा मामेवानुगताः शुक))39

परिचर्यो हररताः सख्यः सर्व-गुण+अन्विताः

मया सह तपो ध्यानं पूजां कुर्वन्ति सम्मताः))40

तद् उदितम् इति संनिशम्य कीरः श्रवणसुखं निज-मानसप्रकाशम्)

समुचितवचनैः प्रतीक्ष्य पद्माम् उरहरयजनं पुनः प्रचष्ते))41

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये शुक-पद्मा-संवादे षष्तो ऽध्यायः))6


सप्तमो ऽध्यायः)

शुक उवाच))

विष्न्वर्चनं शिवेनोक्तं श्रोतुम् इच्छाम्य् अहं शुभे

धन्यासि कृतपुण्यासि शिव-शिष्यत्वम् आगता))1

अहं भाग्यवशादत्र समागम्य तवान्तिकम्

शृणोमि परम+आश्चर्यं कीराकारनिवारणम्))2

भगवद्-भक्ति-योगञ् च जप-ध्यान-विधिं मुदा

परमानन्द-सन्दोह-दान-दक्षं श्रुति-प्रियम्))3

पद्मो’वाच))

श्री-विष्णोर् अर्चनं पुण्यं शिवेन परि-भाषितम्

यच् छ्रद्धया+अनुष्ठितस्य श्रुतस्य गदितस्य च))4

सद्यः पाप-हरं पुंसां गुरु-गो-ब्रह्म-घातिनाम्

समाहितेन मनसा शृणु कीर यथोदितम्))5

कृत्वा यथोक्तकर्माणि पूर्वाह्णे स्नानकृच्छुचिः

प्रक्षाल्य पाणी पादौ च स्पृष्ट्वापः स्वासने वसेत्))6

प्राचीमुखः संयतात्मा साङ्गन्यासं प्रकल्पयेत्

भूत-शुद्धिं ततो ऽर्घ्यस्य स्थापनं विधिवच्चरेत्))7

ततः केशवकृत्यादि-न्यासेन तन्मयो भवेत्

आत्मानं तन्मयं ध्यात्वा हृदिस्थं स्वासने न्यसेत्))8

पाद्य+अर्घ्य+आचमनीयाद्यैः स्नानवासोविभूषणैः

यथो’पचारैः सम्पूज्य मूल-मन्त्रेण देशिकः))9

ध्यायेत् पादादि-केशान्तं हृदयाम्बुज-मध्यगम्

प्रसन्न-वदनं देवं भक्ताभीष्ट-फल-प्रदम्))10

ओं नमो नारायणाय स्वाहा)

योगेन सिद्धविबुधैः परिभाव्यमानं

लक्ष्म्यालयं तुलसिकाञ्चितभक्तभृङ्गम्) प्रोत्तुङ्गरक्तनखरांगुलिपत्रचित्रं

गङ्गारसं हरिपदाम्बुजम् आश्रये ऽहम्))11

गुम्फन्मणिप्रचयघट्टितराजहंस-

सिञ्चत्सुनूपुरयुतं पदपद्मवृन्तम्)

पीताम्बराञ् च लविलोलवलत्पताकं

स्वर्ण-त्रिवक्र-वलयञ् च हरेः स्मरामि))12

जंघे सुपर्णगलनीलमणिप्रवृद्धे

शोभास्पदारुणमणिद्युतिचंचुमद्ये)

आरक्तपादतललम्बनशोभमाने

लोकेक्षणोत्सवकरे च हरेः स्मरामि))13

ते जानुनी मखपतेर् भुजमूलसङ्ग-(सङ्ग= )

रङ्गोत्सवावृततडिद्वसने विचित्रे

चञ्चत्पतत्रमुखनिर्गतसामगीत-

विस्तारितात्मयशसी च हरेः स्मरामि))14

विष्नोः कटिं विधिकृतान्तमनोजभूमिं

जीवाण्डकोचगणसंगदुकूलमध्याम्)

नानागुणप्रकृतिपीतविचित्रवस्त्रां

ध्यायेन् निबद्धवसनां खगपृष्ठसंस्थाम्))15

शातोदरं भगवतस्त्रिवलिप्रकाशम्

आवर्तनाभिविकसद्विधि-जन्म-पद्मम्)

नाडीनदीगणरसोत्थसितान्त्रसिन्धुं

ध्यायेऽण्डकोशनिलयं तनु-लोम-रेखम्))16

वक्षः पयोधितनयाकुचकुङ्कुमेन

हारेण कौस्तुभ-मणि-प्रभया विभातम्)

श्रीवत्स-लक्ष्म हरिचन्दनजप्रसून-(writtenalso हरसंवरणप्रसूनमालाचितम्)

मालाचितं भगवतः सुभगं स्मरामि))17

बाहू सुवेशसदनौ वलयाङ्गदादि-

शोभास्पदौ दुरित-दैत्य-विनाश-दक्षौ)

तौ दक्षिणौ भगवतश् च गदासुनाभ-

तेजोर्जितौ सुललितौ मनसा स्मरामि))18

वामौ भुजौ मुररिपोर् धृतपद्मशंखौ

श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ) रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ

पद्मालयाप्रियकरौ रुचिरौ स्मरामि))19

कण्थं मृणालममलं मुखपङ्कजस्य

लेखात्रयेण वनमालिकया निवीतम्)

किंवा विमुक्तिवशमन्त्रकसत्फलस्य

वृन्तं चिरं भगवतः सुभगं स्मरामि))20

वक्त्राम्बुजं दशनहासविकाशरम्यं

रक्ताधरौष्ठवरकोमलवाक्सुधाढ्यम्)

सन्मानसोद्भवचलेक्षणपत्रचित्रं

लोकाभिरामममलन्च हरेः स्मरामि))21

सूरात्मजावसथगन्धविदं सुनासं

भ्रूपल्लवं स्थितिलयोदयकर्म-दक्षम्)

कामोत्सवं च कमलाहृदयप्रकाशं

संचिन्तयामि हरिवक्त्रविलासदक्षम्))22

कर्णौ लसन्-मकरकुण्डल-गन्डलोलौ

नानादिशाञ् च नभसश् च विकासगेहौ)

लोलालकप्रचयचुम्बनकुञ्चिताग्रौ)

लग्नौ हरेर् मणि-किरीटतटे स्मरामि))23

भालं विचित्रतिलकं प्रियचारुगन्ध-

गोरोचनारचनया ललनाक्षिसख्यम्)

ब्रह्मौक-धाम-मणिकान्तकिरीटजुष्तं

ध्यायेन् मनोनयनहारकमीश्वरस्य))24

श्री-वासुदेवचिकुरं कुटिलं निबद्धं

नाना-सुगन्धि-कुसुमैः स्वजनादरेण) («कुमुमैः» printing error I corrected)

दीर्घं रमाहृदयगाशमनं धृनन्तं)

ध्यायेऽम्बुवाह-रुचिरं हृदय+अब्ज-मध्ये))25

मेघाकारं सोम-सूर्य-प्रकाशं) सुभ्रून्नसं चक्रचापैकमानम्)

लोकातीतं पुण्डरीकायताक्षं) विद्युच्चैलञ् च+अश्रये ऽहं त्वपूर्वम्))26

दीनं हीनं सेवया वेदवत्या पापैस् तापैः पूरितं मे शरीरम्)

लोभाक्रान्तं शोक-मोह+अधिविद्धं कृपादृष्ट्या पाहि मां वासुदेव))27 (कृपादृष्ट्या 1st syllable ought to be long, so correct to कूपादृष्ट्या ) कृपादृष्टि= compassionate looking कूपे=in the well)

ये भक्त्याद्या ध्यायमानां मनोज्ञां व्यक्तिं विष्नोः षोडस-श्लोक-पुष्पैः)

स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति))28

पद्मे’रितम् इदं पुण्यं शिवेन परिभाषितम्

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं परम्))29

पठन्ति ये महाभागास् ते मुच्यन्ते ऽहसो ऽखिलात्

धर्म+अर्थ-काम-मोक्षाणां परत्रेह फलप्रदम्))30

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये हरि-भक्ति-विवरणं-नाम-सप्तमो ऽध्यायः))7)) समाप्तश्चायं प्रथमांशः))