कल्किपुराणम्/अध्यायः २३

विकिस्रोतः तः

तृतीय+अंशः) नवमो ऽध्यायः) सूत उवाच)

हृदि-ध्यानास्-पदं रूपं कल्केर् दृष्ट्वा शशिध्वजः

पूर्णं खड्ग-धरं चारु-तुरग+आरूधम् अब्रवीत्))1

दनुर्-बाण-धरं चारु-विभूषण-वर+अङ्गकम्

पाप-ताप-विनाश+अर्थम् उद्यतं जगतां परम्))2

प्राह तं परमात्मानं हृष्टरोमा शशिध्वजः

एह्य् एहि पुण्डरीकाक्ष! प्रहारं कुरु मे हृदि))3

अथवा+आत्मन् बाणभिया तमो ऽन्धे हृदि मे विश

निर्गुणस्य गुणज्ञत्वम् अद्वैतस्य+अस्त्र-ताडनम्))4

निष्कामस्य जय+उद्योग-सहायं यस्य सैनिकम्

लोकाः पश्यन्तु युद्धे मे द्वैरथे परमात्मनः))5

परबुद्धिर् यदि दृढं प्रहर्ता विभवे त्वयि

शिव-विष्णोर् भेद-कृते लोकं यास्यामि संयुगे))6

इति राज्ञो वचः श्रुत्वा अक्रोधः क्रुद्धवद् विभुः

बाणैर् अताडयत् संख्ये धृतायुधम् अरीन् दमम्))7

शशिध्वजस् तत् प्रहारमगणय्य वरायुधैः

तं जघ्ने बाण-वर्षेण धाराभिर् इव पर्वतम्))8

तद् बाण-वर्ष-भिन्नान्तः कल्किः परम-कोपनः

दिव्यैः शस्त्र+अस्त्र-संघातैस् तयोर् युद्धम् अवर्तत))9

ब्रह्म+अस्त्रस्य च ब्रह्म+अस्त्रैर् वायव्यस्य च पार्वतैः

आग्नेयस्य च पार्जन्यैः पन्नगस्य च गारुडैः))10 (almost same श्लोक found in श्रीमद्-भगवतम् where कृष्न्ά शङ्कर 's weapons makes useless) there are many श्लोक in कल्कि-पुराणम् almost identical with those of श्रीमद्-भगवतम्)

एवं नाना-विधैर् अस्त्रैर् अन्योन्यम् अभि-जघ्नतुः

लोकाः सपालाः सन्त्रस्ता युगान्तम् इव मेनिरे))11

देवा बाण+अग्नि-सन्त्रस्ता अगमन् खगमाः किल

ततो ऽति-वितथ+उद्योगौ वासुदेव-शशिध्वजौ))12

निरस्त्रौ बाहु-युद्धेन युयुधाते परस्परम्

पदाघातैस् तलाघातैर् मुष्टि-प्रहरणैस् तथा))13

नियुद्ध-कुशलौ वीरौ मुमुदाते परस्परम्

वराह+उद्धृत-शब्देन तं तलेन+अहनद् धरिः))14

स मूर्छितो नृपः कोपात् समुत्थाय च तत्-क्षणात्

मुष्टिभ्यां वज्र-कल्पाभ्याम् अवधीत् कल्किम् ओजसा

स कल्किस् तत्-प्रहारेण पपात भुवि मूर्छितः))15

धर्मः कृतञ् च तं दृष्ट्वा मूर्छितं जगद्-ईश्वरम्

समागतौ तम् आनेतुं कक्षे तौ जगृहे नृपः))16

कल्किं वक्षस्य् उपादाय लब्ध+अर्थः प्रययौ गृहम्

युद्धे नृपाणाम् अन्येषां पुत्रौ दृष्ट्वा सुदुर्जयौ))17

– – υ – | υ υ υ – | υ υ – | υ – | – metre follows) 7/8 rythm)

कल्किं सुर+अधिप-पतिं प्रधने विजित्य)

धर्मं कृतञ् च निज-कक्ष-युगे निधाय)

हर्षो’ल्लसद् धृदय उत्पुलकः प्रमाथी)

गत्वा गृहं हरि-गृहे ददृशे सुशान्ताम्))18

– – – – | υ υ υ υ υ – | – υ – | – υ – | – metre follows) 7/8 seems)

दृष्ट्वा तस्याः सु-ललित-मुखं वैष्णवीनाञ् च मध्ये)

गायन्तीनां हरि-गुण-कथास् ताम् अथ प्राह राजा)

देव+आदीनां विनय-वचसा शम्भले जन्मना वा) («विमल वचन»)

विद्या-लाभं परिणयविधि-म्लेच्छ-पाषण्ड-नाशम्))19

कल्किः स्वयं हृदि समायम् इह+अगतो’द्धा)

मूर्छिच्-छलेन तव सेवनम् ईक्षण+अर्थम्)

धर्मं कृतञ् च मम कक्ष-युगे सुशान्ते!)

कान्ते विलोकय समर्चय संविधेहि))20 («हे कान्ते!»)

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – || metre follows:

इति नृप-वचसा विनोद-पूर्णा)

हरि-कृत-धर्म-युतं प्रणम्य नाथम्)

सह निज-सखिभिर् ननर्त रामा)

हरि-गुण-कीर्तनवर्तना विलज्जा))21

(नृत्य ताण्डव लास्य ताण्डव पेवलि बहुरूप लास्य छुरित यौवत terms about dance)

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

धर्म-कल्कि-कृतानाम् आनयनं नाम नवमो ऽध्यायः))9