कल्किपुराणम्/अध्यायः २१

विकिस्रोतः तः

तृतीय+अंशः) सप्तमो ऽध्यायः) सूत उवाच)

एवं प्रवृत्ते संग्रामे धर्मः परम-कोपनः

कृतेन सहितो घोरं युयुधे कलिना सह))1(कृतेन=«सत्ययुगके साथ»)

कलिर् दमित्र-बाणौघैर् धर्मस्य+अपि कृतस्य च

पराभूतः पुरीं प्रायात् त्यक्त्वा गर्दभ-वाहनम्))2 (गर्दभ्ά= )

विच्छिन्न-पेचक-रथः स्रवद्रक्ताङ्गसञ्चयः

छछुर्-गन्धः करालास्यः स्त्री-स्वामिकम् अगाद् गृहम्))3

दम्भः सम्भोग-रहितो’द्धृत-बाण-गणा-हतः (ύद्-धृत= )

व्याकुलः स्वकुलांगारो निःसारः प्राविशद् गृहम्))4

लोभः प्रसाद+अभिहतो गदया भिन्न-मस्तकः

सारमेय-रथं छिन्नं त्यक्त्वा+अगाद् रुधिरं वमन्))5 (वमन्= )

अभयेन जितः क्रोधः कषायिकृत-लोचनः

गन्धाखु-वाहं विच्छिन्नं त्यक्त्वा विशसनं गतः))6 (गन्धाखु स= the musk rat)

भयं सुखतलाघाताद् गतासुर् न्य्-अपतद् भ.्रुवि («पृथ्वीपर गिरपडा»)

निरयो मुद-मुष्टिभ्यां पीडिता यमम् आययौ))7 (मुष्ट्ί= )

आधि-व्याध्य्-आदयः सर्वे त्यक्त्वा वाहम् उपाद्रवन्

नाना-देशान् भयो’द्विग्नाः कृतबाण-प्रपीडिताः))8

धर्मः कृतेन सहितो गत्वा विशसनं कलेः

नगरं बाण-दहनैर् ददाह कलिना सह))9

कलिर् विप्लुष्ट-सर्व+अङ्गो मृत-दारो मृत-प्रजः

जगामैको रुदन्दीनो वर्ष+अन्तरम् अलक्षितः))10 (ά-लक्षितः=)

मरुस् तु शक-काम्बोजाञ् जघ्ने दिव्य+अस्त्र-तेजसा

देवापिः शबरांश् चोलान् बर्बरान्स् तद् गणान् अपि))11 (चोल/चोड=people in southern India on the Coromandel (= [चोल-मण्डल]) coast)

दिव्य+अस्त्र-शस्त्र-सम्पातैर् अर्दयाम् आस वीर्यवान्

विशाखयूप-भूपालः पुलिन्दान् पुक्कसान् अपि))12

जघान विमल-प्रज्ञः खड्गपातेन भूरिणा

नाना+अस्त्र-शस्त्र-वर्षैस् ते योधा नेशुर् अनेकधा))13 (नश्>ननाश>plural: नेशुर्)

कल्किः कोक-विकोकाभ्यां गदा-पाणिर् युधां पतिः

युयुधे विन्यासविज्ञो लोकानां जनयन् भयम्))14

वृकासुरस्य पुत्रौ तौ नप्तारौ शकुनेर् हरिः

तयोः कल्किः स युयुदे मधु-कैटभयोर् यथा))15

तयोर् गदा प्रहारेण चूर्नितांगस्य तत्-पतेः

कराच् च्युता’पतद् भूमौ दृष्त्वो’चुरित्यहो जनाः))16

ततः पुनः क्रुधा विष्णुर् जगज्-जिस्नुर् महाभुजः

भल्लकेन शिरस् तस्य विकोकस्य+अच्छिनत् प्रभुः))17 (भल्ल=a kind of arrow or missile with a point of a particurlar shape)

मृतो विकोकः कोकस्य दर्शनाद् उत्थितो बली

तद् दृष्टा विस्मिता देवाः कल्किश् च परवीरहा))18

प्रतिकर्तुर् गदापाणेः कोकस्य+अप्य् अच्छिनच् छिरः

मृतः कोको विकोकस्य दृष्टिपातात् समुत्थितः))19

पुनस् तौ मिलितौ तेन युयुधाते महाबलौ

काम-रूप-धरौ वीरौ काल-मृत्यू इवापरौ))20

खड्ग-चर्म-धरौ कल्किं प्रहरन्तौ पुनः पुनः

कल्किः क्रुधा तयोस् तद्वद् बाणेन शिरसी हते))21

पुनर् लग्ने समालोक्य हरिश् चिन्तापरो ऽभवत्

विसत्त्वत्वम् अथा’लोक्य तुरगस् तावताडयत्))22

काल-कल्पौ दुराधर्षौ तुरगेणार्दितौ भृशम्

कल्केस् तं जघ्नतुर् भाणैर् अमर्षात् ताम्र-लोचनौ))23 (ताम्र= (temir, metall)

तयोर् भुजान्तरन् सो ऽश्वः क्रुधा समदशद् भृशम्

तौ तु प्रभिन्नास्थिभुजाव् विशस्ताङ्गदकार्मुकौ

पुच्छं जगृहतुः सप्तेर् गो-पुच्छं बालकाव् इव))24 (पुच्छ= )

धृत-पुच्छौ मुर्छितौ तौ तत्-क्षणात् पुनर् उत्थितौ

पश्चात् पद्भ्यां दृढं जघ्ने तयोर् वक्षसि वज्रवत्))25

त्यक्त- पुच्छौ मुर्छितौ तौ तत्-क्षणात् पुनर् उत्थितौ

पुरतः कल्किम् आलोक्य बभाषाते स्फुटाक्षरौ))26 (स्फुट= )

ततो ब्रह्मा तमाभ्येत्य कृताञ्जलि-पुटः शनैः

प्रोवाच कल्किं नै’वाम् ऊ शस्त्र+अस्त्रैर् वधम् अर्हतः))27

कराघाताद् एककाले उभयोर् निर्मितो वधः

उभयोर् दर्शनाद् एव नो’भयोर् मरणं क्वचित्

विदित्वे’ति कुरुष्व्-आत्मन् युगपच् च+अनयोर् वधम्))28

इति ब्रह्मा-वचः श्रुत्वा त्यक्त-शस्त्र+अस्त्र-वाहनः

तयोः प्रहरतोः स्वैरं कल्किर् दानवयोः क्रुधा

मुष्टिभ्यां वज्र-कल्पाभ्यां बभञ्ज शिरसी तयोः))29

तौ तत्र भग्नमस्तिष्कौ भग्न-शृङ्गाव् अगाव् इव

पेततुर् दिवि देवानां भयदौ भुवि बाधकौ))30

तद् दृष्ट्वा महदाश्चर्यं गन्धर्व+अप्सरसां गणाः

ननृतुर् जगुस् तुष्टुवुश् च मुनयः सिद्ध-चारणाः

देवाश् च कुसुमा-सारैर् ववर्षुर् हर्ष-मानसाः))31

दिवि दुन्दुभयो नेदुः प्रसन्नाश् च+अभवन् दिशः)

तयोर् वध-प्रमुदितः कविर्-दश-सहस्रकान्)

स+अश्वान् महारथान् साक्षाद् अहनद् दिव्य-सायकैः))32 (सायक= )

प्राज्ञः शत-सहस्राणां योधानां रणमूर्धनि

क्षयं नित्ये सुमन्त्रस् तु रथिनां पञ्च-विशतिः))33

एवम् अन्ये गर्ग्य-भर्ग-विशाल+आद्या महारथान्

निजघ्नुः समरे क्रुद्धा निषादान् म्लेच्छ-बर्बरान्))34


एवं विजित्य तान् सर्वान् कल्किर् भूप-गणैः सह

शय्याकर्णैश् च भल्लाट-नगरञ् जेतुम् आययौ))35 (शय्या=)

– – – – | – υ – | – υ – – | metre follows)

नानावाद्यैर् लोकसंघैर् वरास्त्रैर्)

नानावस्त्रैर् भूषणैर् भूषित+अङ्गैः)

नानावाहैश् चामरैर् वीज्यमानैर्)

यातो योद्धुं कल्किर् अत्य्-उग्रसेनः))36

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कोक-विकोक+आदीनां वधो नाम सप्तमो ऽध्यायः))7