कल्किपुराणम्/अध्यायः १९

विकिस्रोतः तः

तृतीय+अंशः) पञ्चमो ऽध्यायः) शुक उवाच)

अथ कल्किः समालोक्य सदसाम् पतिभिः सह

समुत्थाय ववन्दे तं पाद्य+अर्घ्य+आचमन+आदिभिः))1

वृद्धं संवेश्य तं भिक्षुं सर्वाश्रम-नमस्कृतम्

पप्रच्छ को भवानत्र मम भाग्याद् इहा’गतः))2

प्रायशो मानवा लोके लोकानां पारणेच्छया

चरन्ति सर्व-सुहृदः पूर्णा विगतकल्मषाः))3

मस्कर्य् उवाच)

अहं कृतयुगं श्रिश तव+आदेशकरं परम्

तव+आविर्-भाव-विभवम् ईक्षणार्थम् इहा’गतम्))4 (तद् ईक्षण=look, view, aspect sight)

निर्-उपाधिर् भवान् कालः सो’पाधित्वम् उपागतः

क्षण-दण्ड-लव+आद्य्-अङ्गैर् मायया रचितं स्वया))5

पक्ष+अहो’रात्र-मास+र्तु-संवत्सर-युग+आदयः

तवे’क्षया चरन्त्य् एते मनवश् च चतुर्दश))6 («40 मनु»)

स्वायम्भुवस् तु प्रथमस् ततः स्वारोचिषो मनुः

तृतीय उत्तमस् तस्माच् चतुर्थस् तामसः स्मृतः))7

पञ्चमो रैवतः षष्ठश् चक्षुषः परि-कीर्तितः

वैवस्वतः सप्तमो वै ततः सावर्णिर् अष्टमः))8

नवमो दक्षसावर्णिर् ब्रह्मसावर्णिकस् ततः

दशमो धर्मसावर्णिर् एकादशः स उच्यते))9

रुद्रसावर्णिकस् तत्र मनुर् वैं द्वादशः स्मृतः

त्रयोदश-मनुर् वेदसावर्णिर् लोक-विश्रुतः))10

चतुर्दशे’न्द्रसावर्णिर् एते तव विभूतयः

यान्त्यायान्ति प्रकाशन्ते नाम-रूप+आदि-भेदतः))11

द्वादशाब्दसहस्रण देवानाञ् च चतुर्-युगम्

चत्वारि त्रीणि द्वे चैकं सहस्रगणितं मतम्))12

तावच् छतानि चत्वारि त्रीणि द्वे चै’चम् एव हि

सन्ध्याक्रमेण तेषान् तु सन्ध्यांशो ऽपि तथाविधः))13

एक-सप्ततिकं तत्र युगं भुङ्क्ते मनुर् भुवि) (भुङ्क्त्έ (भुज्)= enjoy)

मनूनाम् अपि सर्वेषाम् एवं परिणातिर् भवेत्)

दिवा प्रजापतेस् तत् तु निशा सा परिकीर्तिता))14

अहो-रात्रञ् च पक्षस् ते मास-संवत्सरर् तवः

सद्-उपाधिकृतः कालो ब्रह्मणो जन्म-मृत्यु-कृत्))15

शत-संवत्सरे ब्रह्मा लयं प्राप्नोति हि त्वयि

लयान्ते त्वन् नाभि-मध्याद् उत्थितः सृजति प्रभुः))16

तत्र कृत-युग+अन्ते ऽहं कालं सद्-धर्म-पालकम्

कृतकृत्याः प्रजा यत्र तन् नाम्ना मां कृतं विदुः))17

इति तद् वच आश्रुत्य कल्किर् निज-जनावृतः

प्रहर्षम् अतुलं लब्धा श्रुत्वा तद् वचन+अमृतम्))18

अवहित्थाम् उपालक्ष्य युगस्याह जनान् हितान्

योद्धु-कामः कलेः पूर्यां हृष्तो विशसने प्रभुः))19

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – || metre follows:

गज-रथ-तुरगान् नरांश् च योधान्)

कनक-विचित्र-विभूषणाचिताङ्गान्))

धृत-विविध-वर+अस्त्र-शस्त्र-पूगान्)

युधि-निपुणान् गणयध्वम् आनयध्वम्))20

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कृत-युग+आगमनं नाम पञ्चमो ऽध्यायः))5