कल्किपुराणम्/अध्यायः १८

विकिस्रोतः तः

तृतीयांशः) चतुर्थो ऽध्यायः)

रामात् कुसो ऽभूद् अतिथिस् ततो ऽभून् निषधान् नभः

तस्माद् अभूत् पुण्डरीकः क्षेमधान्व् ऽभवत् ततः))1

देवानीकस् ततो हीनः पारिपात्रो ऽथ हीनतः

बलाहकस् ततो ऽर्कश् च रजनाभस् ततो ऽभवत्))2

खाणाद् विधृतस् तस्माद् धिरण्यनाभ-सङितः (हिरण्य-नाभ)

ततः पुष्पाद् ध्रुवस् तस्मात् स्यन्दनो ऽथ+अग्निवर्णकः))3

तस्माच् छीघ्रो ऽभवत् पुत्रः पिता मे ऽतुल-विक्रमः

तस्मान् मरुं मां के ऽपि+इह बुधञ् च+अपि सुमित्रकम्))4

कलाप-ग्रामम् आसाद्य विद्धि सत्तपसि स्थितम् («कलाप-ग्राम: यह ग्राम हिमालय पर्वतके दक्षिणमें है) यदु-कुलका क्षय होनेपर श्री-कृष्णजीकी दूसरी रानी सत्यभामा तपकरनेको इसग्राममें गईथी»)

तव+अवतारं विज्ञाय व्यासात् सत्यवती-सुतात्))5

प्रतीक्ष्य कालं लक्षाब्दं कलेः प्राप्तस्तवान्तिकम्)

जन्म-कोट्यंहसां राशेर् नाशनं धर्म-शासनम्)

यशः-कीर्ति-करं सर्व-काम-पूरं परात्मनः))6

कल्किर् उवाच)

ज्ञातस् तव+अन्वयस् त्वञ् च सूर्य-वंश-समुद्भवः

द्वितीयः को ऽपरः श्रीमान्-महापुरुष-लक्षणः))7

इति कल्कि-वचः श्रुत्वा देवापिर् मधुराक्षराम्

वाणीं विनय-सम्पन्नः प्रवक्तुम् उपचक्रमे))8

देवापिर् उवाच)

प्रलयान्ते नाभि-पद्मात् तव+अभूच् चतुराननः

तद् ईय-तनयाद् अत्रेश् चन्द्रस् तस्मात् ततो बुधः))9

तस्मात् पुरूरउआ जज्ञे ययातिर् नहुषस् ततः

देवयान्यां ययातिस् तु यदुं तुर्वसुम् एव च))10

शर्मिष्थायां तथा द्रुह्युञ् च+अनुं पूरुञ् च सत्पते (सत्पते=«हे साधुपालक»)

जनयाम् आस भूत+आदिर् भूतानि+इव सिसृक्षया))11(ययाति 5 sons correspond to the 5 elements)

पूरोर् जन्मेजयस् तस्मात् प्रचिन्वान् अभवत् ततः

प्रवीरस् तन् मनस्युर् वैं तस्माच् च+अभयदो ऽभवत्))12

उरुक्षयाच् च तृयरुणिस् ततो ऽभूत् पुष्करारुणिः

बृहत्क्षेत्राद् अभूद् धस्ती यन् नाम्ना हस्तिनापुरम्))13

अजमीढो द्विमीढश् च पुरमीढस् तु तत् सुताः (= of हस्ति 3 sons)

अजमीढाद् अभूद् ऋक्षस् तस्मात् संवरणात् कुरुः))14

कुरोः परिक्षित् सुधनुर् जह्नुर् निषध एव च («परीक्षित्के पुत्र सुधनु, जह्नु और निषध हुए»)

सुहोत्रो ऽभूत् सुधनुषश् च्यवनाच् च ततः कृती))15 («सुहोत्रका पुत्र च्यवन»)

ततो बृहद्रथस् तस्मात् कुशाग्राद् ऋषबो ऽभवत्

ततः सत्यजितः पुत्रः पुष्पवान् नहुषस् ततः))16

बृहद्रथ+अन्य-भर्यायां जरासन्धः परन्तपः

सहदेवस् ततस् तस्मात् सोमापिर् यच् छ्रुतश्रवाः ))17

सुरथाद् विदूरथस् तस्मात् सार्वभौमो ऽभवत् ततः (metrically wrong, 5 syllables instead of 4, probably because it is proper names that could not change to fit)

जयसेनाद् रथानीको ऽभूद् युत+आयुश् च कोपनः))18 (युत=kept off/ removed/separate)

तस्माद् देवातिथिस् तस्माद् दृक्षस् तस्माद् दिलीपकः

तस्मात् प्रतीपकस् तस्य देवापिर् अहम् ईश्वर!))19

राज्यं शान्तनवे दत्त्वा तपस्य् एकधिया चिरम्

कलाप-ग्रामम् आसाद्य त्वां दिदृक्षुर् इह+अगतः))20

मरुणा ऽनेन मुनिबिर् एबिः प्राप्य पदाम्बुजम्

तव काल-कराल+अस्याद् यास्याम्य् आत्मवतां पदम्))21 (अस्याद्=from mouth)

तयोर् एवं वचः श्रुत्वा कल्किः कमल-लोचनः

प्रहस्य मरु-देवापि समाश्वास्य समब्रवीत्))22

कल्किर् उवाच)

युवां परम-धर्मज्ञौ राजानौ विदिताव् उभौ

मद् आदेश-करौ भूत्वा निज-राज्यं भरिष्यथः))23 (आदेश =)

मरो त्वाम् अभिषेक्ष्यामि निज+अयोध्या-पुरे ऽधुना

हत्वा म्लेच्छान् अधर्मिष्थान् प्रजा-भूत-विहिंसकान्))24

देवापे तव राज्ये त्वां हस्तिनापुरपत्तने

अभिषेक्ष्यामि राज+र्षे हत्वा पुक्कसकान् रणे))25

मथुरा+अयाम् अहं स्थित्वा हरिष्यामि तु वो भयम्

शय्याकर्णान् उष्ट्रमुखान् एक-जङ्/घान् विनोदरान्))26

हत्वा कृतं युगं कृत्वा पालयिष्याम्य् अहं प्रजाः

तपो-वेशं व्रतं त्यक्त्वा समारुह्य रथोत्तमम्))27

युवां शस्त्र+अस्त्र-कुशलौ सेना-गण-परिच्छदौ (परि-च्छद्=furnished or provided or adorned with (comp))

भूत्वा महारथौ लोके मया सह चरिष्यथः))28 (मया सह=)

विशाखयूप-भूपालस् तनयां विनयान्विताम्

विवाहे रुचिरापाङ्गीं सुन्दरीं त्वां प्रदास्यति))29

साधो भूपाल लोकानां स्वस्तये कुरु मे वचः («हे मरो!»)

रुचिराश्व-सुतां शान्तां देवापे त्वं समुद्वह))30 («शान्ता-नामक»)

इत्य् आश्वासकथाः कल्केः श्रुत्वा तौ मुनिभिः सह

विस्मया-विष्ट-हृदयौ मेनाते हरिम् ईश्वरम्))31

इति ब्रुवत्य् अभयदे आकाशात् सूर्य-सन्निभौ)

रथौ नाना-मणि-व्रात-घटितौ कामगौ पुरः)

समायातौ ज्वलद्-दिव्य-शस्त्र+अस्त्रैः परिवारितौ))32

ददृशुस् ते सदोमध्ये विश्व-कर्म-विनिर्मितौ

भूपा मुनि-गणाः सभ्याः सहर्षाः किम् इति+इरिताः))33

कल्किर् उवाच)

युवाम् आदित्य-सोमे’न्द्र-यमैवश्रवणाङ्गजौ

राजानौ लोक-रक्ष+अर्थम् आविर्भूतौ विदन्त्यमी))34 (आव्ίर्-भूत=become apparent , visible , manifest)

कालेनाच्छादिताकारौ मम सङ्गादिहोदितौ

युवां रथाव् आरुहतां शक्र-दत्तं मम+आज्ञया))35 (आ-रुह=leaping up , mounting , ascending)

एवं वदति विश्वे’शे पद्मनाथे सनातने

देवा ववर्षुः कुसुमैस्) तुष्टुवुर् मुनयो ऽग्रतः))36 (ऽग्रत्άः =in front, before/in the beginning, first RV/(with gen) before, in presence of)

गङ्गावारिपरिक्लिन्न-शिरोभूति-परागवान्

शनैः पर्वतजा-सङ्ग-शिववत् पवनो ववौ))37 (ववौ= blew) (शनैः=quiet , calm , soft)

– – – – | υ υ υ υ υ – | – υ – | – υ – | – metre follows)

तत्रायातः प्रमुदित-तनुस्-तप्त-चामीकर+आभो)

धर्मावासः सु-रुचिर-जटाचीरभृद्-दण्ड-हस्तः)

लोकातीतो निज-तनु-मरुन् नाशिता ऽधर्म-संघस्)

तेजोराशिः सनक-सदृशो मस्करी पुष्कराक्षः))38

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

चन्द्र-वंश+अनुकीर्तनं नाम चतुर्थो ऽध्यायः))4