कल्किपुराणम्/अध्यायः १७

विकिस्रोतः तः

तृतीय+अंशः) तृतीयो ऽध्यायः) सूत उवाच)

सुस्वागतान् मुनीन् दृष्ट्वा कल्किः परम-धर्म-वित्

पूजयित्वा च विधिवत् सुखासीना’नुवाच तान्))1 कल्किर् उवाच)

के यूयं सूर्य-सङ्काशा मम भाग्यादुपस्थिताः

तीर्थाटनोत्सुका लोक-त्रयाणाम् उपकारकाः))2

वयं लोके पुण्यवन्तो भग्यवन्तो यशस्विनः

यतः कृपाकटाक्षेण युष्माभिर् अवलोकिताः))3

ततस् ते वामदेवो ऽत्रिर् वसिष्ठो गालवो भृगुः

पराशरो नारदो ऽश्वत्थामा रामः कृपस् त्रितः))4 («=परशुराम/ कृपाचार्य»)

दुर्वासा देवलः कण्वो वेदप्रमितिर् अङ्गिराः)

एते च+अन्ये च बहवो मुनयः शंसित-व्रताः))5

कृत्वाग्रे मरुदेवापी चन्द्र-सूर्य-कुलो’द्भवौ

राजानौ तौ महावीर्यौ तपस्या+अभिरतौ चिरम्))6

ऊचुः प्रहृष्टमनसः कल्किं कल्कविनाशनम्

महोदधेस् तीरगतं विष्णुं सुरगणा यथा))7 (तीर तद्= shore / bank)

मुनय ऊचुः)

जय+अशेष-जगन्नाथ! विदित+अखिल-मानस

सृष्टि-स्थिति-लयाध्यक्ष! परमात्मन् प्रसीद नः))8

काल-कर्म-गुणावास प्रसारित-निज-क्रिय!

ब्रह्मादिनुतपादाब्ज! पद्मानाथ प्रसीद नः))9

इति तेषां वचः श्रुत्वा कल्किः प्राह जगत्पतिः

कावेतौ भवतामग्रे महासत्त्वौ तपस्विनाव्))10

कथमत्रागतौ स्तुत्वा गङ्गां मुदितमानसौ

का वा स्तुतिस् तु जाह्नव्या युवयोर्नामनीचके))11

तयोर् मरुः प्रमुदितः कृताञ्जलि-पुटः कृती

आदाव् उवाच विनयी निज-वंशा’नुकीर्तनम्))12

मरुर् उवाच)

सर्वं वेत्सि परात्मापि अन्तर्यामिन् हृदि स्थितः

तवाज्ञया सर्वम् एतत् कथयामि शृणु प्रभो))13

तव नाभेर् अभूद् ब्रह्मा मरीचिस् तत् सुतो ऽभवत्

ततो मनुस् तत् सुतो ऽभूद् ईक्ष्वाकुः सत्य-विक्रमः))14

युवनाश्व इति ख्यातो मान्धाता तत् सुतो ऽभवत्

पुरुकुत्सस् तत् सुतो ऽभूद् अनरणिओ महामतिः)15

त्रसद्दस्युः पिता तस्माद् धर्यश्वस् तृय् अरुणस् ततः (हर्य्-अश्व)

त्रिशङ्कुस् तत् सुतो धीमान् हरिश् चन्द्रः प्रतापवान्))16

हरितस् तत् सुतस् तस्माद् भरुकस् तत् सुतो वृकः

तत् सुतः सगरस् तस्माद् असमञ्जास् ततो ऽंशुमान्))17

ततो दिलीपस् तत् पुत्रो भगीरथ इति स्मृतः

येनानीता जाह्नवीयं ख्याता भगीरथी भुवि)

स्तुता नुता पूजिते’यं तव पादम् उसद्भवा))18

भगीरथात् सुतस् तस्मान् नाभस् तस्माद् अभूद् बली

सिन्धुद्वीप-सुतस् तस्माद् आयुतायुस् ततो ऽभवत्))19

र्तुपर्णस् तत् सुतो ऽभूत् सुदासस् तत् सुतो ऽभवत्

सौदासस् तत् सुतो धीमान् अश्मकस् तत् सुतो मतः))20

मूलकात् स दसरथस् तस्माद् एडविडस् ततः

राजा विश्वसहस् तस्मात् खट्वाङ्गो दीर्घबाहुकः))21

ततो रघुर् अजस् तस्मात् सुतो दशरथः कृती

तस्माद् रामो हरिः साक्षाद् आविर्भूतो जगत्पतिः))22

रामावतारम् आकर्ण्य कल्किः परमहर्षितः

मरुं प्राह विस्तरेण श्रीरामचरितं वद))23 (विस्तर= )

(«मरुने कहाः»)सीता-पतेः कर्म वक्तुं कः समर्थो ऽस्ति भूतले

शेषः सहस्रवदनइर् अपि लालायितो भवेत्))24

तथापि शेमुषी मे ऽस्ति वर्णयामि तवा’ज्ञया

रामस्य चरितं पुण्यं पाप-ताप-प्रमोचनम्))25

υ – υ υ υ – |υ – υ υ υ – | υ – – υ – | (of dochmian metre sort) metre follows:

अजादिविबुधार्थितो ऽजनि चतुर्भिर् अंशौः कुले)

रवेर् अजसुताद् अजो जगति यातुधान-क्षयः)

शिशुः कुशिकजा-ध्वरक्षयकरक्षयो यो बलाद्) (कुशिक विश्वामित्र गधि) (शिशुः=) ध्वर्Άस् =) that ध् looks more like ष् (here text is blotted, hardly legible)

बली ललितकन्धरो जयति जानकी-वल्लभः))26

मुनेर् अनुसहा’नुजो निखिल-शस्त्र-विद्या’तिगो)

गयावति-वन-प्रभो जनक-राज-राजत्सभाम्) (गयावति word that ग hardly legible) गया sacred place name)

विधाय जनमोहनद्युतिमतीव कामद्रुहः)

प्रचणकरचण्दिमा भवनभञ्जने जन्मनः))27

तमः प्रतिम-तेजसं दशरथात्मजं स+अनुजं)

मुनेर् अनु यथा विधेः शशिवदादिदेवं परम्)

निरीक्ष्य जनको मुदा क्षिति-सुता-पतिं संमतं)

निजोचितपणक्षमं मनसि भर्त्सयन्न् आययौ))28

स भूप-परिपूजितो जनकजे’क्षितैर् अर्चितः)

करालकठिनं धनुः करसरोरुहे संहितं)

विभज्य बलवद् दृढं जय रघु+उद्वहे’त्य् उच्चकैर्) (उच्चकैर्=)

ध्वनिं त्रिजगतीगतं परिविधाय रामो बभौ))29

ततो जनक-भूपतिर् दशरथात्मजेभ्यो ददौ

चतस्र उषतीर् मुदा वरचतुर्भ्य उद्वाहने

स्वलंकृतनिजात्मजाः पथि ततो बलं भार्गवश्)

चकार उररीनिजं रघुपतौ महो’ग्रं त्यजन्))30

ततः स्वपुरम् आगतो दशरथस् तु सीतापतिं

नृपं सचिवसंयुतो निज-विचित्र-सिंहासने)

विधातुम् अमलप्रभं परिजनैः कृयाकारिभिः)

समुद्यतमतिं तदा द्रुतम् अवारयत् केकयी))31

ततो गुरुनिदेशतो जनक-राज-कन्यायुतः

प्रयाणमकरोत्सुधीर्यदनुगः सुमित्रासुतः)

वनं निजगणं त्यजन् गुह-गृहे वसन्नादरात्)

व्सृज्य नृपलाञ् छनं रघुपतिर् जटाचीरभृत्))32

प्रियानुजयुतस् ततो मुनिमतो वने पूजितः)

स पञ्चवटिकाश्रमे भरतम् आतुरं संगतम्) (आ-तुर= )

निवार्य मरणं पितुः सम्वधार्य दुःखातुरस्)

तपोवनगतो ऽउअसद् रघुपतिस् ततस् ताः समाः))33

दशाननसहोदरां विषम-बाण-वेध+आतुरां)

समीक्ष्य वररूपिणीं प्रहसतीं सतीं सुन्दरीम्)

निजाश्रयम् अभीप्सतीं जनकजापतिर् लक्ष्मणात्)

कराल-करवालतः समकरोद्विरूपां ततः))34

समाप्य पथि दानवं खरशरैः शनैर् नाशयन्

चतुर्दश-सहस्रकं समहनत् खरं स+अनुगम्

दशाननवशानुगं कनकचारुचञ्चन् मृगं)

प्रिय+अप्रियकरो वने समवधीद् बलाद् राक्षसम्))35

ततो दशमुखस् त्वरंस् तम् अभिवीक्ष्य रामं रुषा)

व्रजन्तम् अनुलक्ष्मणं जनकजा जहाराश्रमे)

ततो रघुपतिः प्रियां दलकुटीरसंस्थापितां)

न वीक्ष्य तु विमूर्छितो बहु विलप्य सीतेति ताम्))36

वने निज-गणाश्रमे नगतले जले पल्वले)

विचित्य पतितं खगं पथि ददर्श सौमित्रिणा) (पथ्Ίन्= ) पथ्Ί= )

जटायुवचनात् ततो दशमुखाहृतां जानकीं

विविच्य कृतवान् मृते पितरि वह्निकृत्यं प्रभुः))37

प्रिवा-विरह-कातरो ऽनुजपुरः सरो राघवो)

धनुर्धरधुरन्धरो हरिबलं नवालापिनम्)

ददर्श ऋषभाचलाद्रविजवालिराजानुज-)

प्रियं पवननन्दनं परिणतं हितं प्रेषितम्))38

ततस् तद् उदितम् मतं पवनपुत्रसुग्रीवयोस्)

तृणाधिपति-भेदनं निज-नृपासन-स्थापितम्)

विविच्य व्यवसायकैर् निजसखाप्रियं वालिनं)

निहत्य हरिभूपतिं निज-सखं स रामो ऽकरोत्))39

अथो’त्तरम् इमां हरिर् जनकजां समन्वेषयन्)

जटायुसहजोदितैर्जलनिधिं तरन्वायुजः)

दसनन-पुरं विशञ् जनकजां समानन्दयन्न्)

अशोकवनिकाश्रमे रघुपतिं पुनः प्राययाव्))40

ततो हनुमता बलाद् अमितरक्षसां नाशनं)

ज्वलज्ज्वलनसंकुलज्वलितदग्ध-लङ्का-पुरम्)

विविच्य रघुनायको जलनिधिं रुषा शोषयन्)

बबन्ध हरियूथपैः परिवृतो नगैर् ईश्वरः))

बभञ्ज पुर-पत्तनं विविधसर्गदुर्गक्षमं

निशाचरपतेः क्रुधा रघुपतिः कृती सद्गतिः))41

ततो ऽनुजयुतो युधि प्रबलचण्डकोदण्डभृत्)

शरैः खरतरैः कृधा गज-रथ+अश्व-हंसाकुले)

कराल-करवालतः प्रबलकालजिह्वाग्रतो

निहत्य वरराक्षसान् नरपतिर् बभौ स+अनुगः))42

ततो ऽतिबलवान् अरैर् गिरिमहीरुहो’द्यत्करैः)

करालतरताडनैर् जनकजारुषा नाशितान्)

निजघ्नुरमरार्दनानतिबलन्दशास्यानुगान्)

नलाङ्गदहरीश्वर ऽशुगसुतर्क्षराजादयः))43

ततो ऽतिबल-लक्ष्मणस् त्रिदसनाथसत्रुंरणे)

जघान घनघोषणानुगगणैर् असृक् प्राशनैः)

प्रहस्त विकटादिकानपि निशाचरान् सङ्गतान्)

निकुम्भमकराक्षकान्निशित-खड्ग-पातैः क्रुधा))44

ततो दशमुखो रणे गज-रथ+अश्वपत्तीश्वरैर्)

अलङ्/घ्यगणकोटिभिः परिवृतो युयोधायुधैः)

कपीश्वरचमूपतेः पतिमनन्तदिव्यायुधं)

रघूद्वहमनिन्दितं सपदि सङ्गतो दुर्जयः))45

दशाननम् अरिंततो विधिवरस्मयावर्धितं)

महाबलपराक्रमं गिरिम् इवाचलं संयुगे)

जघान रघुनायको निशितसायकैर् उद्धतं)

निशाचरचमूपतिं प्रबलकुम्भकर्णं ततः))46

तयोः खरतरैः शरैर् गगनमच्छमाच्छादितं)

बभौ घनघटासमं मुखरमत्तडिद्वह्निभिः)

धनुर्गुणमहाशनिध्वनिभिर् आवृतं भूतलं)

भयङ्कर-निरन्तरं रघुपतेश् च रक्षःपतेः))47

ततो धरणिजारुषा विविधरामबाणौजसा

पपात भुवि रावणस् त्रिदशनाथविद्रावणः)

ततो ऽतिकुतुकी हरिर् ज्वलनरक्षितां जानकीं)

समर्प्य रघुपुङ्गवे निजपुरीं ययौ हर्षितः))48

पुरन्दरकथादरः सपदि तत्र रक्षःपतिम्)

बिभीषणम् अभीषणं समकरोत् ततो राघवः))49

हरीश्वरगणावृतो ऽवनिसुतायुतः सानुजो)

रथे शिवसखेरिते सुविमले लसत्-पुष्पके)

मुनीश्वरगणार्चितो रघुपतिस् त्व् अयोध्यां ययौ)

विविच्य मुनिलाञ्छनं गुहगृहे ऽतिसख्यं स्मरन्))50

ततो निजगणावृतो भरतम् आतुरं सान्त्वयन्)

स्वमातृगणवाक्यतः पितृनिजासने भूपतिः)

वसिष्ठमुनिपुङ्गवाय्ः कृतनिज+अभिषेको विभुः)

समस्तजनपालकः सुरपतिर् यथा संबभौ))51

नरा बहुधनाकरा द्विजवरास् तपस् तत्पराः)

स्वधर्मकृतनिश्चयाः स्वजनसङ्गता निर्भयाः)

घनाः सुबहुवर्षिणो वसुमती सदा हर्षिता)

भवत्य् अतिबले नृपे रघुपताव् अभूत् सज्जगत्))52

गतायुतसमाः प्रियैर् निजगुणैः प्रजा रञ्जयन्)

निजां रघुपतिः प्रियां निज-मनोभवैर् मोहयन्)

मुनि+इन्द्र-गण-संयुतो ऽप्य् अयजद् आदि-देवान् मखैर्)

धनैर् विपुलदक्षिणैर् अतुल-वाजि-मेघैस् त्रिभिः))53

ततः किमपि कारणं मनसि भावयन् भूपतिर्)

जहौ जनकजां वने रघुवरस् तदा निर्घृणः)

ततो निजमतं स्मरन् समनयत् प्रचेतः सुतो)

निजाश्रमम् उदारधी रघुपतेः प्रियां दुःखिताम्))54

ततः कुश-लवौ सुतौ प्रसुषुवे धरित्री-सुता)

महाबल-पराक्रमौ रघुपतेर् यशोगायनौ)

स ताम् अपि सुतान्वितां मुनिवरस् तु रामा’न्तिके)

समर्पयद् अनिन्दितां सुरवरैः सदा वन्दिताम्))55

ततो रघुपतिस् तु तां सुतयुतां रुदन्तीं पुरो)

जगाद दहने पुनः प्रविश शोधनायात्मनः)

इति+इरितम् अवेक्ष्य सा रघुपतेः पदाब्जे नता)

विवेश जननीयुता मणिगणोज्ज्वलं भूतलम्))56

निरीक्ष्य रघुनायको जनकजाप्रयाणं स्मरन्)

वसिष्ठ-गुरु-योगतो ऽनुज-युतो ऽगमत् स्वं पदम्)

पुरः स्थितजनैः सुअकैः पशुभिर् ईश्वरः संस्पृशन्) (पुरः स्थिते=it being imminent) सुअक=

मुदा सरयुजीवनं रथ-वरैः परीतो विभुः))57 (सर्Άयु=mं air , wind/ f N of a well-known river (commonly called Surjoo) on which stood the ancient city अयोध्या)

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

ये शृण्वन्ति रघूद्वहस्य चरितं कर्नामृतं सादरात्)

संसार+अर्णव-शोषणञ् च पठताम् आमोददं मोक्षदम्)

रोगाणाम् इह शान्तये धन-जन-स्वर्ग+आदि-सम्पत्तये)

वंशानाम् अपि वृद्धये प्रभवति श्रीशः परेशः प्रभुः))58

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

सूर्य-वंश+अनुवर्णने श्री-रामचन्द्र-चरितं नाम तृतीयो ऽध्यायः))3