कठोपनिषद्-शाङ्करभाष्यम्

विकिस्रोतः तः
कठोपनिषद्-शाङ्करभाष्यम्
[[लेखकः :|]]

शान्तिपाठ
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवाबहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।
सम्बन्ध भाष्य
ॐ नमो भगवते वैवस्वताय मृत्यवे ब्राहृविद्याचार्याय नचिकेतसे च। सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपमुपनिषदिति। उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते। केन पुनरर्थयोगेन उपनिषच्छब्देन विद्योच्यत इत्युच्यते।
ये मुमुक्षवो द्दष्टानुश्रविकविषयवितृष्णाः सन्त उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणादिं्धसनाद् विनाशनादित्यनेनार्थयोगेन विद्या उपनिषदित्युच्यते। तथा च वक्ष्यति--"निचाट¬ तं मृत्युमुखात्प्रमुच्यते" (क.उ.1/3/15) इति।
पूर्वोक्तविशेषणान्मुमुक्षून्वा परं ब्राहृ गमयतीति ब्राहृगमयितृत्वेन योगाद् ब्राहृविद्योपनिषद्। तथा च वक्ष्यति--"ब्राहृप्राप्तो विरजोऽभूद्विमृत्युः" (क.उ.2/3/18) इति।
लोकादिब्र्राहृजज्ञो योऽग्निस्तद्विषयाया विद्याया द्वितियेन वरेण प्राथ्र्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगादग्निविद्याप्युपनिषदित्युच्यते। तथा च वक्ष्यति--"स्वर्गलोका अमृतत्वं भजन्ते" (क.उ.1/1/13) इत्यादि।
ननु चोपनिषच्छब्देनाध्येतारो ग्रन्थमप्यभिलाषन्ति। उपनिषदमधीमहेऽध्यापयाम इति च।
एवं नैष दोषोऽविद्यादिसंसारः हेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमात्रेऽसम्भवाद्धिद्यायां च सम्भवात्। ग्रन्थस्यापि तादथ्र्येन तच्छब्दत्वोपपत्तेः, आयुर्वै घृतमित्यादिवत्। तस्माद्विद्यायां मुख्यया वृच्योपनिषच्छब्दो वर्तते ग्रन्थे तु भक्त्येति।
एवमुपनिषन्निर्वचनेनैव विशिष्टोऽधिकारी विद्यायामुक्तः। विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्राहृ प्रत्यगात्मभूतम्। प्रयोजनं चास्या उपनिषद आत्यन्तिकी संसारनिवृत्तिब्र्राहृप्राप्तिलक्षणा। सम्बन्धश्चेवंभूतप्रयोजनेनोक्तः। अतो यथोक्ताधिकारिविषयप्रयोजनसम्बन्धाया विद्यायाः करतलन्यस्तामलकवत् प्रकाशकत्वेन विशिष्टाधिकारिविषयप्रयोजनसम्बन्धा एता वल्लयो भवन्ति इत्यतस्ता यथाप्रतिभानं व्याचक्ष्महे।
प्रथम अध्याय - प्रथमा वल्ली
1.1.1
ॐ उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम पुत्र आस ।।1।।
ए.1.1.1
तत्राख्यायिका विद्यास्तुत्यर्था। उशन्कामयमानः, ह वा इति वृत्तार्थस्मरणाथौं निपातौ। वाजमन्नं तद्दानादिनिमित्तं श्रवो यशो यस्य स वाजश्रवा रूढितो वा। तस्यापत्यं वाजश्रवसः किल विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः। स तस्मिन्क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान्। तस्य यजमानस्य ह नचिकेता नाम पुत्रः किलास बभूव।।1।।
1.1.2
तँ#़ह कुमारँ#़ सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश। सोऽमन्यत ।।2।।
ए.1.1.2
तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तमप्राप्तजननशकिं्त बालमेव श्रद्धास्तिक्यबुद्धिः पितुर्हितकामप्रयुक्तविवेश प्रविष्टवती। कस्मिन्काल इत्याह--ऋत्विग्भ्यः यदस्येभ्यश्च दक्षिणासु नीयमानासु विभागेनोपनीयमानासु दक्षिणार्थासु गोषु स आविष्टश्रद्धो नाचिकेता अमन्यत।।2।।
कथमित्युच्यते--
1.1.3
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः। अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ।।3।।
ए.1.1.3
दक्षिणार्था गावो विशेष्यन्ते। पीतमुदकं याभिस्ताः पीतोदकाः, जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः, दुग्धो दोहः क्षीराख्यो यासां ता दुग्धदोहाः, निरिन्द्रिया अप्रजननसमर्था जीर्णा निष्फला गाव इत्यर्थः। यास्ता एवंभूता गा ऋ#ृत्विग्भ्यो दक्षिणाबुद्धया ददत्प्रयच्छन्ननन्दा अनानन्दा असुखा नामेत्येतद्ये ते लोकास्तान्स यजमानो गच्छति ।।3।।
1.1.4
स होवाच पितरं तत कस्मै मां दास्यसीति। द्वितीयं तृतीयं तँ#़होवाच मृत्यवे त्वा ददामीति।।4।।
ए.1.1.4
तदेवं क्रत्वसम्पत्तिनिमित्तं पितुरनिष्टं फलं मया पुत्रेण सता निवारणीयमात्मप्रदानेनापि क्रतुसम्पतिं्त कृत्वेत्येवं मत्वा पितरम् उपगम्य स होवाच पितरं हे तत तात कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसि प्रयच्छसीत्येतत्। एवमुक्तेन पित्रोपेक्ष्यमाणोऽपि द्वितीयं तृतियमप्युवाच कस्मै मां दास्यसि कस्मै मां दास्यसीति। नायं कुमारस्वभाव इति क्रुद्धः सन्पिता तं ह पुत्रं किलोवाच भृत्यवे वैवस्वताय त्वा त्वां ददामीति।।4।।
स एवमुक्तः पुत्र एकान्ते परिदेवयाञ्चकार। कथम्? इत्युच्यते--
1.1.5
बहूनामेमि प्रथमो बहूनामेमि मध्यमः। किं#़स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति।।5।।
ए.1.1.5
बहूनां शिष्याणां पुत्राणां वैमि गच्छामि प्रथमः सन्मुख्यया शिष्यादिवृच्येत्यर्थः। मध्यमानां च बहूनां मध्यमो मध्यमयैव वृच्यैमि। नाधमया कदाचिदपि। तमेवं विशिष्टगुणमपि पुत्रं मां मृत्यवे त्वा ददामीत्युक्तवान् पिता। स किंस्विद्यमस्य कर्तव्यं प्रयोजनं मया प्रत्तेन करिष्यति यत्कर्तव्यमद्य? नूनं प्रयोजनम् अनपेक्ष्यैव क्रोधवशादुक्तवान् पिता। तथापि तत्पितुर्वचो मृषा मा भूदित्येवं मत्वा परिदेवनापूर्वकमाह पितरं शोकाविष्टं किं मयोक्तमिति।।5।।
1.1.6
अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे। सस्यमिव मत्र्यः पच्यते सस्यमिवाजायते पुनः।।6।।
ए.1.1.6
अनुपश्यालोचय निभालय अनुक्रमेण यथा येन प्रकारेण वृत्ताः पूर्वे अतिक्रान्ताः पितृपितामहादयस्तव। तान्द्दष्ट्वा च तेषां वृत्तमास्थातुमर्हसि। वर्तमानाश्चापरे साधवो यथा पर्तन्ते तांश्च प्रतिपश्यालोचय तथा न च तेषु मृषाकरणं वृत्तं वर्तमानं वास्ति। तद्विपरीतमसतां च वृत्तं मृषाकरणम्। न च मृष कृत्वा कश्चिदजरामरो भवति। यतः सस्यमिव मत्र्यो मनुष्यः पच्यते जीर्णो म्रियते। मृत्वा च सस्यमिव आजायत आविर्भवति पुनरेवमनित्ये जीवलोके किं मृषाकरणेन। पालय आत्मनः सत्यम्। प्रेषय मां यमाय इत्यभिप्रायः ।।6।।
स एवमुक्तः पितात्मनः सत्यतायै प्रेषयामास। स च यमभवनं गत्वा तिस्त्रो रात्रीः उवास यमे प्रोषिते। प्रोष्यगतं यमममात्या भार्या वा ऊचुर्बोधयन्तः-
1.1.7
वैश्वानरः प्रविशत्यतिथिब्र्रााहृणो गृहान्। तस्यैताँ#़शाÏन्त कुर्वन्ति हर वैवस्वतोदकम् ।।7।।
ए.1.1.7
वैश्वानरोऽग्निरेव साक्षात् प्रविशत्यतिथिः सन्ब्रााहृणो गृहान्दहन्निव तस्य दाहं शमयन्त इवाग्नेरेतां पाद्यासनादीदानलक्षणां शाÏन्त कुर्वन्ति सन्तोऽतिथेर्यतोऽतो हराहर हे वैवस्वत उदकं नचिकेतसे पाद्यार्थम्। यतश्चाकरणे प्रत्यवायः श्रुयते ।।7।।
1.1.8
आशाप्रतीक्षे संगतँ#़सूनृतां च इष्टापूर्ते पुत्रपशूँ#़श्च सर्वान्। एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राहृणो गृहे ।।8।।
ए.1.1.8
आशाप्रतीक्षेऽनिज्र्ञातप्राप्येष्टर्थप्रार्थना आशा निज्र्ञातप्राप्यार्थप्रतीक्षणं प्रतीक्षा ते आशाप्रतीक्षे, संगतं तत्संयोगजं फलम्, सूनृतां च सूनृता हि प्रिया वाक्तन्निमित्तं च इष्टापूर्ते इष्टं यागजं पूर्तमारामादिक्रियाजं फलम्, पुत्रपशुंश्च पुत्रांश्च पशूंश्च सर्वानेतत्सर्वं यथोक्तं वृङ्क्त आवर्जयति विनाशयतीत्येतत्--पुरुषस्याल्पमेधसोऽल्पप्रज्ञस्य--यस्यानश्नन्नभुञ्जानो ब्रााहृणो गृहे वसति। तस्मादनुपेक्षणीयः सर्वावस्थास्वप्यतिथिरित्यर्थः।।8।।
एवमुक्तो मृत्युरुवाच नचिकेतसमुपगम्य पूजापुरःसरम्--
1.1.9
तिस्त्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन्ब्राहृन्नतिथिर्नमस्यः। नमस्तेऽस्तु ब्राहृन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ।।9।।
ए.1.1.9
तिस्त्रो रात्रीर्यद्यस्मादवात्सीः उषितवानसि गृहे मे ममानश्नन् हे ब्राहृन्नतिथिः सन्नमस्यो नमस्कारार्हश्च तस्मान्नमस्ते तुभ्यमस्तु भवतु। हे ब्राहृन्स्वस्ति भद्रं मेऽस्तु तस्माद्भवतोऽनशनेन मद्गृहवासनिमित्ताद्दोषात्तत्प्राप्त्युपशमेन। यद्यपि भवदनुग्रहेण सर्वं मम स्वस्ति स्यात्तथापि त्वदधिकसंप्रसादनार्थमनशनेनोषिताम् एकैकां रातिं्र प्रति त्रिन्वरान् वृणीष्व अभिप्रेतार्थविशेषान् प्रार्थयस्व मत्तः ।।9।।
नचिकेतास्त्वाह--यदि दित्सुर्वरान्--
1.1.10
शान्तसंकल्पः सुमना यथा स्या द्वीतमन्युर्गौतमो माभि मृत्यो। त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे।।10।।
ए.1.1.10
शान्तसंकल्प उपशान्तः सङ्कल्पो यस्य मां प्रति यमं प्राप्य किं नु करिष्यति मम पुत्र इति स शान्तसङ्कल्पः सुमनाः प्रसन्नमनाश्च यथा स्याद्वीतमन्युर्विगतरोषश्च गौतमो मम पिता माभि मां प्रति हे मृत्यो किं च त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मामभिवदेत्प्रतीतो लब्धस्मृतिः स एवायं पुत्रो ममागत इत्येवं प्रत्यभिजानन्नित्यर्थः। एतत्प्रयोजनं त्रयाणां प्रथममाद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम्।।10।।
मृत्युरुवाच-
1.1.11
यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः। मुखँ#़रात्रीः शयिता वीतमन्युस्त्वां दद्दशिवान्मृत्युमुखात्प्रमुक्तम्।।11।।
ए.1.1.11
यथा बुद्धिस्त्वयि पुरस्तात् पूर्वमासीत्स्नेहसमन्विता पितुस्तव भविता प्रीतिसमन्वितस्तव पिता तथैव प्रतीतवान्सन्नौद्दालकिः उद्दालक एवौद्दालकिः। अरुणस्यापत्यमारुणिः, द्वयामुष्यायणो वा। मत्प्रसृष्टो मयानुज्ञातः सन् इतरा अपि रात्रीः सुखं प्रसन्नमनाः शयिता स्वप्ता वीतमन्युर्विगतमन्युश्च भविता स्याच्वां पुत्रं दद्दशिवान्द्दष्टवान्स मृत्युमुखान्मृत्युगोचरात् प्रमुक्तं सन्तम्।।11।।
नचिकेता उवाच--
1.1.12
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति। उभे तीत्र्वाशनायापिपासे शोकातिगो मोदते स्वर्गलोके।।12।।
ए.1.1.2
स्वर्गे लोके रोगादिनिमित्तं भयं किंचन किंतिदपि नास्ति न च तत्र त्वं मृत्यो सहसा प्रभवस्यतो दरया युक्त इह लोकवच्वत्तो न बिभेति कुतश्चित् तत्र। किंचोभे अशनायापिपासे तीत्र्वातिक्रम्य शोकमतीत्य गच्छतीति शोकातिगः सन् मानसेन दुःखेन वर्जितो मोदते ह्मष्यति स्वर्गलोके दिव्ये।।12।।
1.1.13
स त्वमÏग्नस्वग्र्यमध्येषि मृत्यो प्रब्राूहि त्वँ#़श्रद्दधानाय मह्रम्। स्वर्गलोका अमृतत्वं भजन्त
एतद्द्वितीयेन वृणे वरेण।।13।।
ए.1.1.13
एवं गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतमÏग्न स त्वं मृत्युरध्येषि स्मरसि जानासि इत्यर्थः, हे मृत्यो यतस्त्वं प्रब्राूहि कथय श्रद्दधानाय श्रद्धावते मह्रं स्वर्गार्थिने; येनाग्निना चितेन स्वर्गलोकाः स्वर्गो लोको येषां ते स्वर्गलोकाः यजमाना अमृतत्वम् अमरमतां देवत्वं भजन्ते प्राप्नुवन्ति। तदेतदग्निविज्ञानं द्वितीयेन वरेण वृणे ।।13।।
मृत्योः प्रतिज्ञेयम्-
1.1.14
प्र ते ब्राविमि तदु मे नबोध स्वग्र्यमÏग्न नचिकेतः प्रजानन्। अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्।।14।।
ए.1.1.14
प्र ते तुभ्यं प्रब्रावीमि; यच्वया प्रार्थितं तदु मे मम वचसो निबोध बुध्यस्वैकाग्रमनाः सन्स्वग्र्यं स्वर्गाय हितं स्वर्गसाधनमÏग्न हे नचिकेतः प्रजानन्विज्ञातवानहं सन्नित्यर्थः। प्रब्रावीवि तन्निबोधेति च शिष्यबुद्धिसमाधानार्थं वचनम्।
अधूनाÏग्न स्तौति। अनन्तलोकाÏप्त स्वर्गलोकफलप्राप्तिसाधनम् इत्येतत्, अथो अपि प्रतिष्ठाम् आश्रयं जगतो विराडÜपेण, तमेतमÏग्न मयोच्यमानं विद्धि जानीहि त्वं निहितं स्थितं गुहायां विदुषां बुद्धौ निविष्टमित्यर्थः।।14।।
इदं श्रुतेर्वचनम्-
1.1.15
लोकादिमÏग्न तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा। स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः।। 15 ।।
ए.1.1.15
लोकादिं लोकानामादिं प्रथमशरीरित्वादÏग्न तं प्रकृतं नचिकेतसा प्रार्थितमुवाचोक्तवान् मृत्युस्तस्मै नचिकेतमे। किं च या इष्टकाश्चेतव्याः स्वरूपेण, यावतीर्वा संख्यया, यथा वा चियतेऽग्निर्येन प्रकारेण सर्वमेतद् उक्तवानित्यर्थः। स चापि नचिकेतास्तन्मृत्युनोक्तं यथावत्प्रत्ययेनावदत्प्रत्युच्चारितवान्। अथ तस्य प्रत्युच्चारणेन तुष्टः सन्मृत्युः पुनरेवाह वरत्रयव्यतिरेकेणान्यं वरं दित्सुः।।15।।
कथम्-
1.1.16
तमब्रावीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः।तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण।। 16 ।।
ए.1.1.16
तं नचिकेतसमब्रावीत्प्रीयमाणः शिष्ययोग्यतां पश्यन्प्रीयमाणः प्रीतिमनुभवन्महात्माक्षुद्रबुद्धिर्वरं तव चतुर्थमिह प्रीतिनिमित्तमद्येदानीं ददामि भूयः पुनः प्रयच्छामि। तवैव नचिकेतसो नाम्ना अभिधानेन प्रसिद्धो भविता मयोच्यमानोऽयमग्निः। किं च सृङ्कां शब्दवतीं रत्नमयीं मालामिमामनेकरूपां विचित्रां गृहाण स्वीकुरु। यद्वा सृङ्काम् अकुत्सितां गतकर्ममयीं गृहाण। अन्यदपि कर्मविज्ञानमनेकफलहेतुत्वात्स्वीकुर्वित्यर्थः ।।16।।
पुनरपि कर्मस्तुतिमेवाह-
1.1.17
त्रिणाचिकेतस्त्रिभिरेत्य सÏन्ध त्रिकर्मकृत्तरति जन्ममृत्यू। ब्राहृजज्ञं देवमीङ्यं विदित्वा निचाट¬ेमाँशान्तिमत्यन्तमेति।। 17 ।।
ए.1.1.17
त्रिणाचिकेतस्त्रिःकृत्वो नाचिकेतोऽग्निश्चितो येन सः त्रिणाचिकेतस्तद्विज्ञानस्तदध्ययनस्तदनुष्ठानवान्वा। त्रिभर्मातृपित्राचार्यैरेत्य प्राप्य सÏन्ध रुान्धानं सम्बन्धं मात्राद्यनुशासनं यथावत्प्राप्येत्येतत्। तद्धि प्रामाण्यकारणं श्रुत्यन्तराद् अवगम्यते यथा "मातृमान्पितृमानाचार्यवान्ब्राूयात्" (बृ.उ.4/1/2) इत्यादेः। वेदस्मृतिशिष्टैर्वा प्रत्यक्षानुमानागमौर्वा, तेभ्यो हि विशुद्धिः प्रत्यक्षा, त्रिकर्मकृदिज्याध्ययनदानानां कर्ता तरत्यतिक्रामति जन्ममृत्यू।
किं च ब्राहृजज्ञं ब्राहृणो हिरण्यगर्भाज्जातो ब्राहृजः। ब्राहृजश्चासौ ज्ञश्चेति ब्राहृजज्ञः सर्वज्ञो ह्रसौ। तं देवं द्योतनाज्ज्ञानादिगुणवन्तमीड¬ं स्तुत्यं विदित्वा शास्त्रतो निचाट¬ द्दष्ट्वा चात्मभावेनेमां स्वबुद्धिप्रत्यक्षां शान्तिम् उपरतिमत्यन्तमेत्यतिशयेनैति। वैराजं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन प्राप्नोतीत्यर्थः ।।17।।
इदानीमग्निवज्ञानचयनफलम् उपसंहरति प्रकरणं च-
1.1.18
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँ#़श्चिनुते नाचिकेतम्। स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ।। 18 ।।
ए.1.1.18
त्रिणाचिकेतस्त्रयं यथोक्तं या इष्टका यावतीर्वा यथा वेत्येतद् विदित्वावगत्य यश्चैवमात्मरूपेण अÏग्न विद्वांश्चिनुते निर्वर्तयति नाचिकेतमÏग्न क्रतुं स मृत्युपाशान् अधर्माज्ञानरागद्वेषादेलक्षणान् पुरतः अग्रतः पूर्वमेव शरीरपातात् इत्यर्थः, प्रणोद्यापहाय शोकातिगो मानसैर्दुःखैर्वर्जित इत्येतत् मोदते स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिपच्या ।।18।।
1.1.19
एष तेऽग्निर्नचिकेतः स्वग्र्यो यमवृणीथा द्वितीयेन वरेण। एतमÏग्न तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ।। 19 ।।
ए.1.1.19
एष ते तुभ्यमग्निर्वरो हे नचिकेतः स्वग्र्यः स्वर्गसाधनो यमÏग्न वरमवृणीथाः प्रार्थितवानसि द्वितीयेन वरेण सोऽग्निर्वरो दत्त इत्युक्तोपसंहारः। किञ्चैतमÏग्न तवैव नाम्ना प्रवक्ष्यन्ति जनासो जना इत्येतत्। एष वरो दत्तो मया चतुर्थस्तुष्टेन। तृतीयं वरं नचिकेतो वृणीष्व। तस्मिन्ह्रदत्त ऋणवानहमित्यभिप्रायः ।।19।।
एतावद्धयतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्रााहृणेनावगन्तव्यं यद्वरद्वयसूचितं वस्तु। न आत्मतच्वविषययाथात्म्यविज्ञानम्। अतो विधिप्रतिषेधार्थविषयस्यात्मनि
क्रियाकारकफलाध्यारोपलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृच्यर्थं तद्विपरीतब्राहृात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपणलक्षणशून्यम् आत्मन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमिति उत्तरो ग्रन्थ आरभ्यते। तमेतमर्थं द्वितीयवरप्राप्त्याप्यकृतार्थत्वं तृतीयवरगोचरमात्मज्ञानमन्तरेण इत्याख्यायिकया प्रपञ्चयति--यतः पूर्वस्मात्कर्मगोचरात्साध्यसाधनलक्षणादनित्याद् विरक्तस्य आत्मज्ञानेऽधिकार इति तन्निन्दार्थं पुत्राद्युपन्यासेन प्रलोभनं क्रियते।
नचिकेता उवाच तृतीयं वरं नचिकेतो वृणीष्वेत्युक्तः सन्--
1.1.20
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणमेष वरस्तृतीयः ।। 20 ।।
ए.1.1.20
येयं विचिकित्सा संशयः प्रेते मृते मनुष्येऽस्तीत्येकेऽस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तो देहान्तरसम्बन्ध्यात्मेत्येके नायम् अस्तीति चैके नायमेवंविधोऽस्तीति चैकेऽतश्चास्माकं न प्राप्यश्क्षेण नापि वानुमानेन निर्णयविज्ञानमेतद्विज्ञानाधीनो हि परः पुरुषार्थ इत्यत एतद्विद्यं विजानीयामहम् अनुशिष्टो ज्ञापितस्त्वया। वराणाम् एष वरस्तृतीयोऽवशिष्टः ।।20।।
किमयमेकान्ततो निःश्रेयससाधनात्मज्ञानार्हो न वेत्येतत् परीक्षणार्थमाह--
1.1.21
देवैरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयमणुरेष धर्मः। अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्।। 21 ।।
ए.1.1.21
देवैरप्यत्रैतस्मिन्वस्तुनि विचिकित्सितं सेशयितं पुरा पूर्वं न हि सुज्ञेयं सुष्ठु ज्ञेयं श्रुतमपि प्राकृतैर्जनैर्यतोऽणुः सूक्ष्म एष आत्माख्यो धर्मोऽतोऽन्यमसंदिग्धफलं वरं नचिकेतो वृणीष्व मा मां मोपरोत्सीरूपरोधं मा कार्षीरधमर्णम् इवोत्तमर्णः। अतिसृज विमुञ्च एनं वरं मा मां प्रति ।।21।।
1.1.22
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ। वक्ता चास्य त्वाद्दगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्।। 22 ।।
ए.1.1.22
देवैरत्राप्येतस्मिन्वस्तुनि विचिकित्सितं किलेति भवत एव नः श्रुतम्। त्वं च मृत्यो यद्यस्मान्न सुज्ञेयमात्मतच्वमात्थ कथयसि, अतः पण्डितैरप्यवेदनीयत्वाद् वक्ता चास्य धर्मस्य त्वाद्दक्त्वत्तुल्यः अन्यः पण्डितश्च न लभ्यः अन्विष्यमाणोऽपि। अयं तु वरो निःश्रेयसप्राप्तिहेतुः। अतो नान्यो वरस्तुल्यः सद्दशोऽस्त्येतस्य कश्चिदप्यनित्यफलत्वादन्यस्य सर्वस्यैवेत्यभिप्रायः ।।22।।
एवमुक्तोऽपि पुनः प्रलोभयन्नुवाच मृत्युः-
1.1.23
शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्। भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि।। 23 ।।
ए.1.1.23
शतायुषः- शतं वर्षाण्यायूंषि येषां ताञ्शतायुषः पुत्रपौत्रान् वृणीष्व। किं च गवादिलक्षणान् वहून्पशून् हस्तिहिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम् अश्वांश्च किं च भूमेः पृथिव्य महद्विस्तीर्ण, मायतनमाश्रयं मण्डलं राज्यं वृणीष्व किं च सर्वमप्येतद् अनर्थकं स्वयं चेदल्पायुरित्यत आह- स्वयं च जीव त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदो वर्षाणि यावदिच्छसि जीवितुम्।।23।।
1.1.24
एतत्तुल्यं यदि मन्यसे वरं वृणीष्य वित्तं चिरजीविकां च। महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि।। 24 ।।
ए.1.1.24
एतत्तुल्यमेतेन यथोपदिष्टेन सद्दशमन्यमपि यदि मन्यसे वरं तमपि वृणीष्व। किं च वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्येतत्। किं वहुना महत्यां भूमौ राजा नचिकेतस्त्वमेधि भव। किं चान्यत्कामानां दिव्यानां मानुषाणां च त्वा तवां कामभाजं कामभागिनं कामार्हं करोमि सत्यसंकल्पो ह्रहं
देवः।।24।।
ये ये कामा दुर्लभा मत्र्यलोके सर्वान्कामाँ#़श्छन्दतः प्रार्थयस्व।
1.1.25
इमा रामा सरथाः सतूर्या न हीद्दशा लम्भनीया मनुष्यैः। आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः।। 25 ।।
ए.1.1.25
ये ये कामाः प्रार्थनीया दुर्लभाश्च मत्र्यलोके सर्वांस्तान् कामांश्छन्द्दत इच्छातः प्रार्थयस्व। किं चेमा दिव्या अप्सरसो रमयन्ति पुरुषानिति रामाः सह रथैर्वर्तन्त इति सरथाः सतूर्याः सवादित्रास्ताश्च न हि लम्भनीयाः प्रापणीया ईद्दशा एवंविधा मनुष्यैर्मत्र्यैरस्मदादिप्रसादमन्तरेण। आभिर्मत्प्रत्ताभिर्मया दत्ताभिः परिचारिणीभिः परिचारयस्व आत्मानं पादप्रक्षालनादिशुश्रूषां कारयात्मन इत्यर्थः। नचिकेतो मरणं मरणसम्वद्धं प्रश्नं प्रेतेऽस्ति नास्तीति काकदन्तपरीक्षारूपं मानुप्राक्षीर्मैवं प्रष्टुमर्हसि।।25।।
एवं प्रलोभ्यमानोऽपि नचिकेता महाहदवदक्षोभ्य आह-
1.1.26
श्वोभावा मत्र्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः। अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते।। 26 ।।
ए.1.1.26
श्वो भविष्यन्ति न भविष्यन्ति वेति संदिह्रमान एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वोभावाः किं च मत्र्यस्य मनुष्यस्यान्तक हे मृत्यो यदेतत्सर्वेन्द्रियाणां तेजस्तज्जरयन्ति अपक्षयन्त्यप्सरःप्रभृतयो भोगाः अनर्थायैवैते धर्मवीर्यप्रज्ञातेजोयशःप्रभृतीनां क्षपयितृत्वात्। यां चापि दीर्धजीविकां त्वं दित्ससि तत्रापि श्रृणु। सर्वं यद् ब्राहृणोऽपि जीवितमायुरल्पमेव
किमुतास्मदादिदीर्घजीविका अतस्तवैव तिष्ठन्तु वाहा रथादयः तथा नृत्यगीते च।।26।।
किं च-
1.1.27
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्य चेच्वा। जीविष्यामो यावदीशिष्यसि त्वं वरतु मे वरणीयः स एव ।। 27 ।।
ए.1.1.27
न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः। न हि लोके वित्तलाभः कस्यचित्तृप्तिकरो दृष्टः। यदि नामास्माकं वित्ततृष्णा स्याल्लप्स्यामहे प्राप्स्यामह इत्येतद्वित्तमद्राक्ष्म दृष्टवन्तो वयं चेच्वा त्वाम्। जीवितमपि तथैव। जीविष्यामो यावद्याम्ये पदे त्वम् ईशिष्यसीशिष्यसे प्रभुः स्याः कथं हि मत्र्यस्त्वया समेत्याल्पधनायुर्भवेत्। वरस्तु मे वरणीयः स एव यदात्मविज्ञानम् ।।27।।
यतश्च-
1.1.28
अजीर्यताममृतानामुपेत्य जीर्यन्मत्र्यः क्वधःस्थः प्रजानन्। अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ।। 28 ।।
ए.1.1.28
अजीर्यतां वयोहानिमप्राप्नुवताममृतानां सकाशमुपेत्य उपगम्यात्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन् उपलभमानः स्वयं तु जीर्यन्मत्र्यो जरामरणवान् क्वधःस्थः कुः पृथिवी अधश्चान्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथमेवमविवेकिभिः प्रार्थनीयं पुत्रवित्तहिरण्याद्यस्थिरं वृणीते।
क्व तदास्थ इति वा पाठान्तरम्। अस्मिन्पक्षे चाक्षरयोजना। तेषु पुत्रादिष्वास्था आस्थितिः तात्पर्येण वर्तनं यस्य स तदास्थः। ततोऽधिकतरं पुरुषार्थं दुष्प्रापमपि प्रापिपयिषुः क्व तदास्थो भवेन्न कश्चित्तदसारज्ञस्तदर्थी
स्याद् इत्यर्थः। सर्वो ह्रुपर्युपर्येव बुभूषति लोकः तस्मान्न पुत्रवित्तादिलोभैः प्रलोभ्योऽहम्। किं चाप्सरःप्रमुखान्वर्णरतिप्रमोदाननवस्थितरूपतयाभिध्यायन्निरूपयन् यथावत् अतिदीर्घे जीविते को विवेकी रमेत ।।28।।
अतो विहायानित्यैः कामैः प्रलोभनं यन्मया प्रार्थितम्-
1.1.29
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्राूहि नस्तत्। योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ।। 29 ।।
ए.1.1.29
यस्मिन्प्रेत इदं विचिकित्सनं विचिकित्सन्ति अस्ति नास्तीत्येवं प्रकारं हे भृत्यो साम्पराये परलोकविषये महति महत्प्रयोजननिमित्ते आत्मनो निर्णयविज्ञानं यत्तद्ब्राूहि कथय नोऽस्मभ्यम्। किं बहुना योऽयं प्रकृत आत्मविषयो वरो गूढं गहनं दुर्विवेचनं प्राप्तोऽनुप्रविष्टः। तस्माद्वरादन्यमविवेकिभिः प्रार्थनीयमनित्यविषयं वरं नचिकेता न वृणीते मनसापीति श्रुतेर्वचनमिति ।।29।।
द्वितीया वल्ली
परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह-
1.2.1
अन्यच्छेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषँ#़ सिनीतः। तयोः श्रेय आददानस्य साधु भवति हीतयेऽर्थाद्य उ प्रेयो वृणीते ।। 1 ।।
ए.1.2.1
अन्यत्पृथगेव श्रेयो निःश्रेयसं तथान्यदुताप्येव प्रेयः प्रियतरमपि। ते प्रेयःश्रेयसी उभे नानार्थे भिन्नप्रयोजने सती पुरुषमधिकृतं वर्णाश्रमादिविशिष्टं सिनीतो बन्धितस्ताभ्यामात्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः। श्रेयःप्रेयसोह्र्रभ्युदया मृतत्वार्थी पुरुषः प्रवर्तते। अतः श्रेयःप्रेयःप्रयोजनकर्तव्यतया ताभ्यां बद्ध इत्युच्यते सर्वः पुरुषः।
ते यद्यप्येकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वाद्विरुद्धे इत्यन्यतरापरित्यागेनैकेन पुरुषेणसहानुष्ठातुमशक्यत्वात् तयोर्हित्वाविद्यारूपं प्रेयः श्रेय एव केवलमाददानस्योपादानं कुर्वतः साधू शोभनं शिवं भवति। यस्त्वदूरदर्शी विमूढो हीयते वियुज्यतेऽस्मादर्थात् पुरुषार्थात् पारमार्थिकात्प्रयोजनान्नित्यात् प्रच्यवत इत्यर्थः। कोऽसौ य उ प्रेयो वृणीत उपादत्त इत्येतत् ।।1।।
यद्युभे अपि कर्तुं स्वायत्ते पुरुषेण किमर्थं प्रेय एवादत्ते बाहुल्येन लोक इत्युच्यते-
1.2.2
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः। श्रेयो हि धीरोऽभि प्रेयसो वृणीते मेयो मन्दो योगक्षेमाद्वृणीते।। 2 ।।
ए.1.2.2
सत्यं स्वायत्त तथापि साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूते इव मनुष्यमेतं पुरुषमा इतः प्राप्नुतः श्रेयश्च प्रेयश्च। अतो हंस इवाम्भसः पयस्तौ श्रेयःप्रेयःपदार्थौ सम्परीत्य सम्यक्परिगम्य मनसालोच्य गुरुलाघवं विविनक्ति पृथक्करोति धीरो धीमान्। विविच्य च श्रेयो हि श्रेय एवाभिवृणीते प्रेयसोऽभ्यर्हितत्वात्। कोऽसौ ? धीरः।
यस्तु मन्दोऽल्पबुद्धिः स विवेकासामथ्र्याद्योगक्षेमाद्योगक्षेमनिमित्तं शरीराद्युपचयरक्षणनिमित्तमित्येतत्प्रेयः पशुपुत्रादिलक्षणं वृणीते ।।2।।
1.2.3
स त्वं प्रियान्प्रियरूपाँ#़श्च कामानभिध्यायन्नचिकेतोऽत्यस्त्राक्षीः। नैताँसृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ।। 3 ।।
ए.1.2.3
स त्वं पुनः पुनर्मया प्रलोभ्यमानोऽपि प्रियान् पुत्रादीन् प्रियरूपांश्चाप्सरःप्रभृतिलक्षणान् कामानभिध्यायंश्चिन्तयंस्तेषाम् अनित्यत्वासारत्वादिदोषान् हे नचिकेतोऽत्यस्त्राक्षीरतिसृष्टवान् परित्यक्तवानस्यहो बुद्धिमत्ता तव। नैतामवाप्तवानसि सृङ्कां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयीं धनप्रायाम्। यस्यां मृतौ मज्जन्ति सीदन्ति बहवोऽनेके मूढा मनुष्याः ।।3।।
तयोः श्रेय आददनस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीत इत्युक्तं तत्कस्माद्यतः-
1.2.4
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्तन। । 4 ।।
ए.1.2.4
दूरं दूरेण महातान्तरेणैते विपरीते अन्योन्यव्यावृत्तरूपे विवेकाविवेकात्मकत्वात्तमःप्रकाशाविव। विषूची विषूच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेनेत्येतत्।
के ते इत्युच्यते। या चाविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निज्र्ञातावगता पण्डितैः। तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये। कस्माद्यस्मादविद्वद्बुद्धिप्रलोभिनः कामा अप्सरःप्रभृतयो बहवोऽपि त्वा त्वां नालोलुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गादात्मोपभोगाभिवाञ्छा संपादनेन। अतो विद्यार्थिनं श्रेयोभाजनं मन्य इत्यभिप्रायः ।।4।।
ये तु संसारभाजनाः-
1.2.5
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः। दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ।। 5 ।।
ए.1.2.5
अविद्यायामन्तरे मध्ये घनीभूत इव तमसि वर्तमाना वेष्ट¬मानाः पुत्रपश्वादितृष्णापाशशतैः। स्वयं वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलाश्चेति मन्यमानास्ते दन्द्रम्यमाणा अत्यर्थं कुटिलामनेकरूपां गतिम् इच्छन्तो जरामरणरोगादिदुःखैः परियन्ति परीगच्छन्ति मूढा अविवेकिनोऽन्धेनैव दृष्टिविहीनेनैव नीयमाना विषमे पथि यथा बहवोऽन्धा महान्तमनर्थमृच्छन्ति तद्वत् ।।5।।
अत एव मूढत्वात्-
1.2.6
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ।।6।।
ए1.2.6
न साम्परायः प्रतिभाति। सम्पर ईयत इति साम्परायः परलोकस्तत्प्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः स च बालमविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठत इत्येतत्।
प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेष्वासक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेनाविवेकेन मूढं तमसाच्छन्नं सन्तम्। अयमेव लोको योऽयं द्दश्यमानः स्त्र्यन्नपानादिविशिष्टो नास्ति परोऽद्दष्टो लोक इत्येवं मननशीलो मानी पुनः पुनर्जनित्वा वशं मदधीनतामापद्यते मे मृत्योर्मम। जननमरणादिलक्षणदुःखप्रबन्धारूढ एव भवतीत्यर्थः। प्रायेण ह्रेवंविध एव लोकः ।।6।।
यस्तु श्रेयोऽर्थी सहस्त्रेषु कश्चिदेवात्मविद्भवति त्वद्विधो यस्मात्-
1.2.7
श्रवणायापि बहुभिर्यो न लभ्यः श्रृण्वन्तोऽपि बहवो यं न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्वर्यो ज्ञाता कुशलानुशिष्टः ।।7।।
ए.1.2.7
श्रवणायापि श्रवणार्थं श्रोतुम् अपि यो न लभ्य आत्मा बहुभिरनेकैः श्रृण्वन्तोऽपि बहवोऽनेकेऽन्ये यमात्मानं न विद्युर्न विदन्त्यभागिनोऽसंस्कृतात्मानो न विजानीयुः किं चास्य वक्तापि आश्चर्योऽद्भुतवदेवानेकेषु कश्चिद् एव भवति। तथा श्रुत्वाप्यस्य आत्मनः कुशलो निपुण एवानेकेषु लब्धा कश्चिदेव भवति। यस्माद् आश्चर्यो ज्ञाता कश्चिदेव कुशलानुशिष्टः कुशलेन निपुणेन आचार्येणानुशिष्टः सन् ।।7।।
कस्मात् -
1.2.8
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः। अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्रतक्र्यमणुप्रमाणात्।।8।।
ए.1.2.8
न हि नरेण मनुष्येणावरेण प्रोक्तोऽवरेण हीनेन प्राकृतबुद्धिना इत्येतदुक्त एष आत्मा यं त्वं मां पृच्छसि। न हि सुष्ठु सम्यग्विज्ञेयो विज्ञातुं शक्यो यस्माद् बहुधास्ति नास्ति कर्ताकर्ता शुद्धोऽशुद्ध इत्याद्यनेकधा चिन्त्यमानो वादिभिः।
कथं पुनः सुविज्ञेय इत्युच्यते - अनन्यप्रोक्तेऽनन्येन अपृथग्दर्शिना आचार्येण प्रतिपाद्यब्राहृात्मभूतेन प्रोक्त उक्त आत्मनि गतिरनेकधास्ति नास्तीत्यादिलक्षणा चिन्ता गतिरत्रास्मिन् आत्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितत्वादात्मनः।
अथवा स्वात्मभूतेऽनन्यस्मिन् आत्मनि प्रोक्तेऽनन्यप्रोक्तेगतिः अत्रान्यावगतिर्नास्ति ज्ञेयस्यान्यस्य अभावात्। ज्ञानस्य ह्रेषा परा निष्ठा यदात्मैकत्वविज्ञानम्। अतोऽवगन्तव्याभावान्न गतिः अत्रावशिष्यते। संसारगतिर्वात्र नास्त्यनन्य आत्मनि प्रोक्ते नान्तरीयकत्वात्तद्विज्ञानफलस्य मोक्षस्य।
अथवा प्रोच्यमानब्राहृात्मभूतेनाचार्येण प्रोक्त आत्मनि अगतिरनवबोधोऽपरिज्ञानम् अत्र नास्ति। भवत्येवावगतिस्तद्विषया श्रोतुस्तदस्म्यहमित्याचार्यस्येवेत्यर्थः।
एवं सुविज्ञेय आत्मा आगमवगता आचार्येणानन्यतया प्रोक्तः। इतरथा ह्रणीयानणुप्रमाणादपि सम्पद्यत आत्मा। अतक्र्यमतक्र्यः स्वबुद्ध्याभ्यूहेन केवलेन तर्केण। तक्र्यमाणोऽणुपरिमाणे केनचित् स्थापित आत्मनि ततो ह्रणुतरम् अन्योऽभ्यूहति ततोऽप्यन्योऽणुतममिति न हि कुतर्कस्य निष्ठा क्वचिद्विद्यते।।8।।
1.2.9
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ। यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्ठा।।9।।
ए.1.2.9
अतोऽनन्यप्रोक्त आत्मनि उत्पन्ना येयमागमप्रतिपाद्यात्ममतिर्नैषा तर्केण
स्वबुद्ध्यभ्यूहमात्रेणापनेया न प्रापणीत्येत्यर्थः। नापनेतव्या वा न हातव्या तार्किको ह्रनागमज्ञः
स्वबुद्धिपरिकल्पितं यत्किञ्चिदेव कथयति। अत
एव च येयमागमप्रभूता मतिरन्येनैवागमाभिज्ञेन आचार्येणैव तार्किकात्प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम।
का पुनः सा तर्कागम्या मतिरित्युच्यते -
यां त्वं मतिं मद्वरप्रदानेन आपः प्राप्तवानसि। सत्या अवितथविषया धृतिर्यस्य तव स त्वं सत्यधृतिर्बतासीत्यनुकल्पयन्नाह मृत्युर्नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये। त्वादृक्त्वत्तुल्यो नः अस्मभ्यं भूयाद्भवताद्भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा;कीदृग्यादृक्त्वं हे नचिकेतः प्रष्टा।।9।।
पुनरपि तुष्ट आह -
1.2.10
जानाम्यहँ#्शेवधिरित्यनित्यं न ह्रध्रुवैः प्राप्यते हि ध्रुवं तत्। ततो मया नाचिकेतश्चितोऽग्नि रनित्यैद्र्रव्यैः प्राप्तवानस्मि नित्यम्।।10।।
ए.1.2.10
जानाम्यहं शेवधिर्निधिः कर्मफललक्षणो निधिरिव प्राथ्र्यत इति। असावनित्यमनित्य इति जानामि। न हि यस्मादनित्यैः अध्रुवैर्नित्यं ध्रुवं तत्प्राप्यते परमात्माख्यः शेवधिः यस्त्वनित्यसुखात्मकः शेवधिः स एवानित्यैद्र्रव्यैः प्राप्यते।
हि यतस्ततस्तस्मान्मया जानतापि नित्यमनित्यसाधनैर्न प्राप्यत इति नाचिकेतश्चितोऽग्निः अनित्यैद्र्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतोऽग्निर्निर्वर्तित इत्यर्थः। तेनाहमधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यमापेक्षिकं प्राप्तवानस्मि।।10।।
1.2.11
कामस्याÏप्त जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम्। स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्त्राक्षीः ।।11।।
ए.1.2.11
त्वं तु कामस्याप्ति समाप्तिम्, अत्रैवेहैव सर्वे कामाः परिसमाप्ताः जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठामाश्रयं सर्वात्मकत्वात्, क्रतोः फलं हैरण्यगर्भं पदमनन्त्यमानन्त्यम् अभयस्य च पारं परां निष्ठाम्, स्तोमं स्तुत्यं महदणिमाकैश्वर्याद्यनेकगुणसंहतं स्तोमं च तन्महच्च निरतिशयत्वात्स्तोम महत, उरुगायं विस्तीर्णां गतिम्, प्रतिष्ठां स्थितिमात्मनोऽनुत्तमामपि द्दष्ट्वा धृत्या धैर्येण धीरो धीमान्सन् नचिकेतोऽत्यरुााक्षीः परमेव आकाङ्क्षन्नतिसृष्ट्वानसि सर्वम् एतत् संसारभोगजातम्। अहो बतानुत्तमगुणोऽसि ।।11।।
यं त्वं ज्ञातुमिच्छस्यात्मानम्-
1.2.12
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति।।12।।
ए.1.2.12
तं दुर्दर्शं दुःखेन दर्शनम् अस्येति दुर्दर्शोऽतिसूक्ष्मत्वात् गूढं गहनमनुप्रविष्टं प्राकृतविषयविकारविज्ञानैः प्रच्छन्नमित्येतत्, गुहाहितं गुहायां बुद्धौ स्थितं तत्रोपलभ्यमानत्वात् गह्वरेष्ठं गह्वरे विषमेऽनेकानर्थसंकटे तिष्ठतीति गह्वरेष्ठम्। यत एवं गूढमनुप्रविष्टो गुहाहितश्चातो गह्वरेष्ठः, अतो दुर्दर्शः।
तं पुराणं पुरातनमध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंह्मत्य चेतस आत्मनि समाधानम् अध्यात्मयोगस्तस्याधिगमस्तेन मत्वा देवात्मानं धीरो हर्षशोकावात्मन उत्कर्षापकर्षयोः अभावाज्जहाति ।।12।।
किं च-
1.2.13
एतच्छØत्वा संपरिगृह्र मत्र्यः प्रवृह्र धम्र्यमणुमेतमाप्य। स मोदते मोदनीयँ#़ हि लब्ध्वा विवृतँ#़ सद्म नचिकेतसं मन्ये ।।13।।
ए.1.2.13
एतदात्मतत्त्वं यदहं वक्ष्यामि तच्छØत्वाचार्यप्रसादात्सम्यगात्मभावेन परिगृह्रोपादाय मत्र्यो मरणधर्मा धर्मादनुपेतं धम्र्यं प्रवृह्रोद्यम्य पृथक्कृत्य शरीरादेः अणुं सूक्ष्ममेतमात्मानम् आप्य प्राप्य स मत्र्यो विद्वान्मोदते मोदनीयं हर्षणीयमात्मानं लब्ध्वा। तदेतदेवंविधं ब्राहृसद्म भवनं नचिकेतसं त्वां प्रत्यपावृतद्वारं विवृतमभिमुखीभूतं मन्ये मोक्षार्हं त्वां मन्य इत्यभिप्रायः ।।13।।
यद्यहं योग्यः प्रसन्नश्चासि भगवन्मां प्रति-
1.2.14
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ।।14।।
ए.1.2.14
अन्यत्र धर्माच्छास्त्रीयाद्धर्मानुष्ठानात्तत्फलात्तत्कारकेभ्यश्च पृथग्भूतमित्यर्थः। तथान्यत्र
अधर्मात्तथान्यत्रास्मात्कृताकृतात् कृतं कार्यमकृतं कारणमस्माद् अन्यत्र। किं चान्यत्र भूताच्चातिक्रान्तात्कालाद्भव्याच्च भविष्यतश्च तथा वर्तमानात्;कालत्रयेण यन्न परिच्छिद्यत इत्यर्थः। यद् ईदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि तद्वद मह्रम्।।14।।
इत्येवं पृष्टवते मृत्युरुवाच पृष्टं वस्तु विशेषणान्तरं च विवक्षन्-
1.2.15
सर्वे वेदा यत्पदमामनन्ति तपाँ#़सि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्राहृचर्यं चरन्ति तत्ते पदँ#़संग्रहेण ब्रावीम्योमित्येतत् ।।15।।
ए.1.2.15
सर्वे वेदा यत्पदं पदनीयं गमनीयमविभागेनामनन्ति प्रतिपादयन्ति तपांसि सर्वाणि च यद्वदन्ति यत्प्राप्यत्यर्थानीत्यर्थः। यदिच्छन्तो ब्राहृचर्यं गुरुकुलवासलक्षणमन्यद्वा ब्राहृप्राप्त्यर्थं चरन्ति तत्ते तुभ्यं पदं यज्ज्ञातुम् इच्छसि संग्रहेण संक्षेपतो ब्रावीमि।
ओमित्येतत्। तदेतत्पदं यद्बुभुत्सितं त्वया। यदेतद् ओमित्योंशब्दवाच्यमोंशब्दप्रतीकं च ।।15।।
अतः -
1.2.16
एतद्धयेवाक्षरं ब्राहृ एतद्धयेवाक्षरं परम्। एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ।।16।।
ए.1.2.16
एतद्ध्येवाक्षरं ब्राहृापरमेत्द्धयेवाक्षरं परं च। तयोर्हि प्रतीकमेतदक्षरम्, एतद्ध्येवाक्षरं ज्ञात्वोपास्यब्राहृेति यो यदिच्छति परमपरं वा तस्य तद्भवति। परं चेज्ज्ञातव्यमपरं चेत्प्राप्तव्यम् ।।16।।
यत एवमतः -
1.2.17
एतदालम्बनँ#़ श्रेष्ठमेतदालम्बनं परम्। एतदालम्बनं ज्ञात्वा ब्राहृलोके महीयते ।।17।।
ए.1.2.17
एतदालम्वनमेतद्ब्राहृप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम् एतदालम्बनं परमपरं च परापरब्राहृविषयत्वात्। एतदालम्बनं ज्ञात्वा ब्राहृलोके महीयते परस्मिन् ब्राहृणि। अपरÏस्मश्च ब्राहृभूतो ब्राहृवदुपास्यो भवतीत्यर्थः ।।17।।
अन्यत्र धर्मादित्यादिना पृष्टस्यात्मनोऽशेषविशेषरहितस्य आलम्बनत्वेन प्रतीकत्वेन चोंकारो निर्दिष्टः अपरस्य च ब्राहृणो मन्दमध्यमप्रतिपत्तॄन्प्रति। अथेदानीं तस्योङ्कारालम्बनस्यात्मनः साक्षात्स्वरूपनिर्दिधारयिषया इदमुच्यते-
1.2.18
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।।18।।
न जायते नोत्पद्यते म्रियते वा न म्रियते चोत्पत्तिमतो वस्तुनोऽनित्यस्य अनेकविक्रियाः तासामाद्यन्ते जन्मविनाशलक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वेति। विपश्चिन्मेधावी अविपरिलुप्तचैतन्यस्वभावात्।
किं च नायमात्मा कुतश्चित् कारणान्तराद् वभूव। स्वस्माच्च आत्मनो न बभूव कश्चिदर्थान्तरभूतः। अतोऽयमात्माजो नित्यः शाश्वतोऽपक्षयविवर्जितः। यो ह्रशाश्वतः सोऽपक्षीयते; अयं तु शाश्वतोऽत एव पुराणः पुरापि नव एवेति। यो ह्रवयवोपचयद्वारेणाभिनिर्वत्र्यते स इदानीं नवो यथा कुम्भादिः। तद्विपरीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः।
यत एवमतो न हन्यते न हिंस्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे। तत्स्थोऽप्याकाशवदेव ।।18।।
1.2.19
हन्ता चेन्मन्यते हन्तुँ#़हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायँ#़हन्ति न हन्यते ।।19।।
ए.1.2.19
एवं भूतमप्यात्मानं शरीरमात्रात्मदृष्टिर्हन्ता चेद्यदि मन्यते चिन्तयति हन्तुं हनिष्याम्येनम् इति योऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहम् इत्युभावपि तौ न विजानीतः; स्वमात्मानं यतो नायं हन्ति अविक्रियत्वादात्मनस्तथा न हन्यत आकाशवदविक्रियत्वादेव। अतोऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारो न ब्राहृज्ञस्य। श्रुतिप्रामाण्यान्न्यायाच्च धर्माधर्माद्यनुपपत्तेः ।।19।।
कथं पुनरात्मानं जानाति इत्युच्यते-
1.2.20
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्। तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ।।20।।
ए.1.2.20
अणोः सूक्ष्मादणीयाञ्श्यामाकादेरणुतरः। महतो महत्परिमाणान्महीयान्महत्तरः पृथिव्यादेः अणु महद्वा यदस्ति लोके वस्तु तत्तेनैवात्मना नित्येन आत्मवत्संभवति। तदात्मना विनिर्मुक्तमसत्संपद्यते। तस्मात् असावेवात्माणोरणीयान्महतो महीयान्सर्वनामरूपवस्तूपाधिकत्वात्। स चात्मास्य जन्तोब्र्राहृादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां ह्मदये निहित आत्मभूतः स्थित इत्यर्थः।
तमात्मानं दर्शनश्रवणमननविज्ञानलिङ्गिमक्रतुरकामो द्दष्टाद्दष्टबाह्रविषयोपरतबुद्धिरित्यर्थः। यदा चैवं तदा मनआदीनि करणानि धातवः शरीरस्य धारणात्प्रसीदन्तीत्येषां धातूनां प्रसादादात्मनो महीमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यत्ययम् अहमस्मीति साक्षाद्विजानाति। ततो वीतशोको भवति ।।20।।
अन्यथा दुर्विज्ञेयोऽयमात्मा कामिभिः प्राकृतपुरुषैः, यस्मात्-
1.2.21
आसीनो दूरं व्रजति शयानो याति सर्वतः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।।21।।
ए.1.2.21
आसीनोऽवस्थितोऽचल एव सन् दूरं व्रजति। शयानो याति सर्वत एवमसावात्मा देवो मदामदः समदोऽमदश्च सहर्षोऽहर्षश्च विरुद्धधर्मवानतोऽशक्यत्वाज्ज्ञातुं कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति?
अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य सुविज्ञेयोऽयमात्मा स्थितिगतिनित्यानित्यादिविरुद्धानेकधर्मोपाधिकत्वाद्विरुद्धधर्मवच्वाद्विश्वरूप इव चिन्तामणिवदवभासते। अतो दुर्विज्ञेयत्वं दर्शयति कस्तं मदन्यो ज्ञातुमर्हतीति।
करणानामुपशमः शयनं करणजनितस्यैकदेशविज्ञानस्य उपशमः शयानस्य भवति। यदा चैवं केवलसामान्यविज्ञानत्वात् सर्वतो यातीव यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन्मनआदिगतिषु तदुपाधिकत्वाद्दूरं व्रजतीव स चेहैव वर्तते ।।21।।
तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति-
1.2.22
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम्। महान्तं विभूमात्मानं मत्वा धीरो न शोचति ।।22।।
ए.1.2.22
अशरीरं स्वेन रूपेण आकाशकल्प आत्मा तमशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेषु अनवस्थेष्ववस्थितिरहितेष्ववस्थितं नित्यमवकृतमित्येतत्, महान्तं महच्वस्यापेक्षिकत्वशङ्कायामाह - विभुं व्यापिनमात्मानम् - आत्मग्रहणं स्वतोऽनन्यत्वप्रदर्शनार्थम्, आत्मशब्दः प्रत्यगात्मविषय एव मुख्यस्तमीद्दशमात्मानं मत्वा अयमहमिति धीरो धीमान्न शोचति। न ह्रेवंविधस्यात्मविदः शोकोपपत्तिः ।।22।।
यद्यपि दुर्विज्ञेयोऽयमात्मा तथाप्युपायेन सुविज्ञेय एवेत्याह-
1.2.23
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा
विवृणुते तनूँस्वाम् ।।23।।
ए.1.2.23
नायमात्मा प्रवचनेनानेकवेदस्वीकरणेन लभ्यो ज्ञेयो नापि मेधया ग्रन्थार्थधारणशक्त्या। न बहुना श्रुतेन केवलेन। केन तर्हि लभ्य इत्युच्यते-
यमेव स्वात्मानमेष साधको वृणुते प्रार्थयते तेनैवात्मना वरित्रा स्वयमात्मा लभ्यो ज्ञायत एवमित्येतत्। निष्कामस्यात्मानम् एव प्रार्थयत आत्मनैवात्मा लभ्यत इत्यर्थः।
कथं लभ्यत इत्युच्यते - तस्यात्मकामस्यैष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं तनूं स्वां स्वकीयां स्वयाथात्म्यम् इत्यर्थः ।।23।।
किं चान्यत्-
1.2.24
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ।।24।।
ए.1.2.24
न दुश्चरितात्प्रतिषिद्धाच्छुतिस्मृत्यविहितात्पापकर्मणोऽविरतः अनुपरतो नापीन्द्रियलौल्याद् अशान्तोऽनुपरतो नाप्यसमाहितोऽनेकाग्रमना विक्षिप्तचित्तः समाहितचितोऽपि सन्समाधानफलार्थित्वान्नाप्यशान्तमानसो व्यापृतचित्तः प्रज्ञानेन ब्राहृविज्ञानेनैनं प्रकृतमात्मानमाप्नुयात्। यस्तु दुश्चरिताद्विरत इन्द्रियलौल्याच्च समाहितचित्तः समाधानफलादप्युपशान्तमानसश्चाचार्यवान्प्रज्ञानेन यथोक्तम् आत्मानं प्राप्नोतीत्यर्थः ।।24।।
यस्त्वनेवंभूतः-
ए.1.2.25
यस्य ब्राहृ च क्षत्रं च उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ।।25।।
यस्यात्मनो ब्राहृक्षत्रे सर्वधर्मविध्रके अपि सर्वत्राणभूते उभे ओदनोऽशनं भवतः स्याताम्, सर्वहरोऽपि मृत्युर्यस्योपसेचनम् इवौदनस्य अशनत्वेऽप्यपर्याप्तस्तं प्राकृतबुद्धिर्यथोक्तसाधनरहितः सन् क इत्था इत्थमेवं यथोक्तसाधनवानिवेत्यर्थः, वेद विजानाति यत्र स आत्मेति ।।25।।
तृतीया वल्ली
ऋतं पिबन्तावितायस्या वल्लयाः सम्बन्धः-
विद्याविद्ये नानाविरुद्धफले इत्युपन्यस्ते न तु सफले ते यथावन्निर्णीते;तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम्। एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थं द्वावात्मानौ उपन्यस्येते-
1.3.1
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परर्धे। छायातपौ ब्राहृविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ।।1।।
ए.1.3.1
ऋतं सत्यमवश्यंभावित्वात्। कर्मफलं पिबन्तौ, एकस्तत्र कर्मफलं पिबति भुङ्क्तं नेतरः;तथापि पातृसम्बन्धात् पिबन्तौ इत्युत्यते छत्रिन्यायेन, सुकृतस्य स्वयंकृतस्य कर्मण ऋतम् इति पूर्वेण सम्बन्धः, लोकेऽस्मिन् शरीरे गुहां गुहायां बुद्धौ प्रविष्टौ, परमे बाह्रपुरुषाकाशसस्थानापेक्षया परमम्, परस्य ब्राहृणोऽर्धं स्थानं परार्धम्। तस्मिन्हि परं ब्राहृोपलभ्यते अतस्तस्मिन्परमे परार्धे हार्दाकाशे प्रविष्टावित्यर्थः।
तौ च च्छायातपाविव विलक्षणौ संसारित्वासंसारित्वेन ब्राहृविदो वदन्ति कथमन्ति। न केवलमकर्मिण एव वदन्ति, पञ्चाग्नयो गृहस्था ये च त्रिणाचिकेताः त्रिःकृत्वो नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः ।।1।।
1.3.2
यः सेतुरीजानानामक्षरं ब्राहृ यत्परम्। अभयं तितीर्षतां पारं नाचिकेतँशकेमहि ।।2।।
ए.1.3.2
यः सेतुरिव सेतुरीजानानां यजमानानां कर्मिणां दुःखसन्तरणार्थत्वान्नाचिकेतोऽग्निस्तं व्यं ज्ञातुं चेतुं च शकेमहि शक्नुवन्तः। किं च यच्चाभयं भयशून्यं संसारपारं तितीर्षतां तर्तुमिच्छतां ब्राहृविदां यत्परमाश्रयमक्षरमात्माख्यं ब्राहृ तच्च ज्ञातुं शकेमहि शक्नुवन्तः। परापरे ब्राहृणीकर्मब्राहृविदाश्रये वेदितव्ये इति वाक्यार्थः। एतयोरेव ह्रुपन्यासः कृत ऋतं पिबन्ताविति ।।2।।
तत्र य उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्षगमनाय संसारगमनाय च तस्य तदुभयगमने साधनो रथः कल्प्यते-
1.3.3
आत्मानँ#़ रथिनं विद्धि शरीरँ#़ रथमेव तु। बुदिं्ध तु सारथिं विद्धि मनः प्रग्रहमेव च ।।3।।
ए.1.3.3
तत्र तत्रात्मानमृतपं संसारिणं रथिनं रथस्वामिनं विद्धि जानीहि। शरीरं रथमेव तु रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य। बुद्धि तु अध्यवसाय लक्षणां सारथिं विद्धि बुद्धिनेतृप्रधानत्वाच्छरीरस्य सारथिनेतृप्रधान इव रथः। सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण। मनः सेकल्पविकल्पादिलक्षणं प्रग्रहं रशनां विद्धि। मनसा हि प्रगृहीतानि श्रेत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ।।3।।
1.3.4
इन्द्रियाणि हयानाहुर्विषयाँ#़स्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।।4।।
ए.1.3.4
इन्द्रियाणि चक्षुरादीनि हयान् आहू रथकल्पनाकुशलाः शरीररथाकर्षणसामान्यात्। तेष्वेव इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान्मार्गान्रूपादीन्विषयान् विद्धि। आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुक्तमात्मानं भोक्तेति संसारीत्याहुर्मनीषिणो विवेकिनः।
न हि केवलस्यात्मनो भोक्तृत्वमस्ति बुद्धयाद्युपाधिकृतमेव तस्य भोक्तृत्वम्। तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति-"ध्यायतीव लेलायतीव" (बृ.उ.4/4/7) इत्यादि। एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते नान्यथा स्वभावानतिक्रमात् ।।4।।
1.3.5
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा। तैस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः।।5।।
ए.1.3.5
तत्रैवं सति यस्तु बुद्धयाख्यः सारथिरविज्ञानवाननिपुणोऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथेतरो रथचर्यायामयुक्तेन अप्रगृहीतेनासमाहितेन मनसा प्रग्रहस्थानीयेन सदा युक्तो भवति तस्याकुशलस्य बुद्धिसारथेः इन्द्रियाण्यश्वस्थानि यान्यवश्यानि अशक्यनिवारणानि दुष्टाश्वा अदान्ताश्वा इवेतरसारथेर्भवन्ति ।।5।।
1.3.6
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा। तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ।।6।।
ए.1.3.6
यस्तु पुनः पूर्वोक्तविपरीतः सारथिर्भवति विज्ञानवानप्रगृहीतमनाः समाहितचित्तः सदा तस्याश्वस्थानीयानीन्द्रियाणि प्रवर्तयितुं निवर्तयियुं वा शक्यानि वश्यानि दान्ताः सदश्वा इवेतरसारथेः ।।6।।
तस्य पूर्वोक्तस्याविज्ञानवतो बुद्धिसारथेरिदं फलमाह-
1.3.7
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः। न स तत्पदमान्पोति सँ#़सारं चाधिगच्छति ।।7।।
ए.1.3.7
यस्त्वविज्ञानवान्भवति अमनस्कोऽप्रगृहीतमनस्कः स तत एवाशुचिः सदैव, न स रथी तत्पूर्वोक्तमक्षरं यत्परं पदम् आप्नोति तेन सारथिन। न केवलं कैवल्यं नाप्नोति संसारं च जन्ममरणलक्षणमधिगच्छति ।।7।।
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः। स तु तत्पदमान्पोति यस्माद्भूयो न जायते ।।8।।
ए.1.3.8
यस्तु द्वितीयो विज्ञानवान् वीज्ञानवत्सारथ्युपेतो स्थी विद्वान् इत्येतत्; युक्तमनाः समनस्कः स तत एव सदा शुचिः स तु तत्पदमाप्नोति, यस्मादाप्तात्पदाद् अप्रच्युतः सन्भूयः पुनर्न जायते संसारे ।।8।।
किं तत्पदमित्याह-
1.3.9
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।।9।।
ए.1.3.9
विज्ञानसारथिर्यस्तु यो विवेकबुद्धिसारथिः पूर्वोक्तो मनःप्रग्रहवान्प्रगृहीतमनाः समाहितचित्तः सञ्शुचिर्नरो विद्वान् सोऽध्वनः संसारगतेः पारं परमेव अधिगन्तव्यमित्येतदाप्नोति मुच्यते सर्वसंसारबन्धनैः तद्विष्णोः व्यापनशीलस्य ब्राहृणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानं सतच्वमित्येतद्यदसौ आप्नोति विद्वान् अधुना यत्पदं गन्तव्यं तस्य इन्द्रियाणि स्थूलान्यारभ्य सूक्ष्मतारतम्यक्रमेण प्रत्यगात्मतया अधिगमः कर्तव्य इत्येवमर्थमिदम् आरभ्यते-
1.3.10
इन्द्रियेभ्यः परा ह्रर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।।10।।
ए.1.3.10
स्थूलानि तावदिन्द्रियाणि तानि यैरर्थैरात्मप्रकाशनाय आरब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यस्ते परा ह्रर्थाः सूक्ष्मा महान्तश्च प्रत्यगात्मभूताश्च।
तेभ्योऽप्यर्थेभ्यश्च परं सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः। मनःशब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मं संकल्पविकल्पाद्यारम्भकत्वान् मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः बुद्धिशब्दवाच्यमध्यवसायाद्यारम्भकं भूतसूक्ष्मम्। बुद्धेरात्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वादात्मामहान्सर्वा महच्वात्। अव्यक्ताद्यत्प्रथमं जातं हैरण्यगर्भं तच्वं बोधाबोधात्मकं महानात्मा बुद्धेः परं इत्युच्यते ।।10।।
1.3.11
महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ।।11।।
ए.1.3.11
महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अव्यक्तं सर्वस्य जगतो बूजभूतम् अव्याकृतनामरूपसतच्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अव्यक्ताव्याकृताकाशादिनामवाच्यं परमात्मन्योतप्रोतभावेन समाश्रितं वटकणिकायामिव वटवृक्षशक्तिः।
तस्मादव्यक्तात्परः सूक्ष्मतरः सर्वकारणकारणत्वात् प्रत्यगात्मत्वाच्च महांश्च अत एव पुरुषः सर्वपूरणात्। ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह पुरुषान्न परं किंचिदिति। यस्मान्नास्ति पुरुषात् चिन्मात्राघनात् परं किंचिदपि वस्त्वन्तरं तस्मात्सूक्ष्मत्वमहच्वप्रत्यगात्मत्वानां सा काष्ठा
निष्ठा पर्यवसानम्।
अत्र हीन्द्रियेभ्य आरभ्य सूक्ष्मत्वादिपरिसमाप्तिः। अत एव च गन्तृणां सर्वगतिमतां संसारिणां परा प्रकृष्टा गतिः "यद्गत्वा न निवर्तन्ते"(गीता 8/21/15/6) इति स्मृतेः ।।11।।
ननु गतिश्चेदागत्यापि भवितव्यम्। कथं यस्माद्भूयो न जायत इति?
नैष दोषः; सर्वस्य प्रत्यगात्मत्वादवगतिरेव गतिरित्युपचर्यते। प्रत्यगात्मत्वं च दर्शतमिन्द्रियमनोबुद्धिपरत्वेन। यो हि गन्ता सोऽगतमप्रत्यग्रूपं गच्छत्यनात्मभूतं न विपर्ययेण। तथा च श्रुतिः - "अनध्वगा अध्वसु पारयिष्णवः इत्याद्या"। तथा च दर्शयति प्रत्यगात्मत्वं सर्मस्य-
1.3.12
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ।।12।।
ए.1.3.12
एष पुरुषः सर्वेषु ब्राहृांदिस्तम्बपर्यन्तेषु भूतेषु गूढः सवृतो दर्शनश्रवणादिकर्माविद्यामायाच्छन्नोऽत एवात्मा न प्रकाशत आत्मत्वेन कस्यचित्। आहो अतिगम्भीरा दुरवगाह्रा विचित्र माया चेयं यदयं सर्वो जन्तुः परमार्थतः परमार्थसतच्वोऽप्येवं बोध्यमानोऽहं परमात्मेति न गृह्णात्यनात्मानं देहेन्द्रियादिसह्घातमात्मनो दृश्यमानमपि घटादिवदात्मत्वेनाहममुष्य पुत्र इत्यनुच्यमानोऽपि गृह्णाति। नूनं परस्यैव मायया मोमुह्रमानः सर्वो लोको बम्भ्रमीति। तथा च स्मरणम्- "नाहं प्रकाशः सर्वस्य योगमायासमावृतः" (गीता 7/25) इत्यादि।
ननु विरुद्धमिदमुच्यते "मत्वा धीरो न शोचति" (क.उ.2/1/4) "न प्रकाशते" (क.उ.1/3/12) इति च।
नैतदेवम्। असंस्कृतबुद्धेरविज्ञेयत्वान्न प्रकाशत इत्युक्तम्। दृश्यते तु संस्कृतया अग्रयया अग्रमिवाग्रयया
तया, एकाग्रतयोपेतयेत्येतत्, सूक्ष्मया सूक्ष्मवस्तुनिरूपणपरया, कै? सूक्ष्मदर्शिभिः 'इन्द्रियेभ्यः परा ह्रर्थाः' इत्यादिप्रकारेण सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनस्तैः सूक्ष्मदर्शिभिः पण्डितैरित्येतत् ।।12।।
तत्प्रतिपच्युपायमाह-
1.3.13
यच्छेद्वाङ्भनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ।।13।।
ए.1.3.13
यच्छेन्नियच्छेदुपसंहरेत्प्राज्ञो विवेकी;किम्? वाग्वाचम्। वागत्रोपलक्षणार्था सर्वेषामिन्द्रियाणाम्। क्व?मनसी मनसीतिच्छान्दसं दैघ्र्यम्। तच्च मनो यच्छेज्ज्ञाने प्रकाशस्वरूपे बुद्धौ आत्मनि। बुद्धिर्हि मनआदिकरणान्याप्नोतीत्यात्मा प्रत्यक् तेषाम्। ज्ञानं बुद्धिमात्मनि महति प्रथमजे नियच्छेत् प्रथमजवत् स्वच्छस्वभावकमात्मनो विज्ञानम् आपादयेदित्यर्थः। तं च महान्तम् आत्मानं यच्छेच्छान्ते सर्वविशेषप्रत्यस्तमितरूपेऽविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्य
आत्मनि ।।13।।
एवं पुरुष आत्मनि सर्वं प्रविलाप्य नामरुपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफल्लक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तात्मा कृतकृत्यो भवति यतोऽतस्तदद्दर्शनार्थम्-
1.3.14
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ।।14।।
ए.1.3.14
अनाद्यविद्याप्रसुप्ता उत्तिष्ठत हे जन्तव आत्मज्ञानाभिमुखा भवत; जाग्रताज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत।
कथम्?प्राप्योपगम्य वरान् प्रकृष्टानाचार्यांस्तद्विदस्तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति निबोधतावगच्छत। नह्रुपेक्षितव्यमिति श्रुतिरनुकम्पयाह मातृवत्। अतिसूक्ष्मबुद्धिविषयत्वाज्ज्ञेयस्य। किमिव सूक्ष्मबुद्धिः इत्युच्यते, क्षुरस्य धाराग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया। यथा सा पद्भयां दुर्गमनीया तथा दुर्गं दुःसम्पाद्यमित्येतत् पथः पन्थानं तच्वज्ञानलक्षणं मार्गं कवयो मेधाविनो वदन्ति। ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वदन्तीत्यभिप्रायः ।।14।।
तत्कथमतिसूक्ष्मत्वं ज्ञेयस्य इत्युच्यते;स्थूला तावदियं मेदिनी शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम्। तत्रैकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्वमहच्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टमबादिषु यावदाकाशमिति ते गन्धादयः सर्व एव स्थूलत्वाद्विकाराः शब्दान्ता यत्र न सन्ति किमु तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यम् इत्येतद्दर्शयति श्रुतिः-
1.3.15
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाट¬ तन्मृत्युमुखात्प्रमुच्यते ।।15।।
ए.1.3.15
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् एतद्व्याख्यातं ब्राहृाव्ययम् - यद्धि शब्दादिमत्तद्व्येतीदं तु अशब्दादिमच्वादव्ययं न व्येति न क्षीयते, अत एव च नित्यम्। यद्धि व्येति तदनित्यमिदं तु न व्येत्यतो नित्यम्।
इतश्च नित्यम् अनाद्यविद्यमान आदिः कारणम् अस्य तदिदमनादि। यद्धयादिमत्तत्कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि। इदं तु सर्वकारणत्वादकार्यमकार्यत्वान्नित्यम्। न तस्य कारणमस्ति यस्मिन्प्रलीयते।
तथानन्तम् अविद्यमानोऽन्तः कार्यमस्य तदनन्तम्। यथा कदल्यादेः फलादिकार्योत्पादनेन अपि अनित्यत्वं दृष्टं न च तथाप्यन्तवच्वं ब्राहृणः अतोऽपि नित्यम्।
महतो महत्तच्वाद् बुद्धयाख्यात्परं विलक्षणं नित्यविज्ञाप्तिस्वरूपत्वात्सर्वसाक्षि हि सर्वभूतात्मत्वाद् ब्राहृ। उक्तं हि 'एष सर्वेषु भूतेषु' (क.उ.1/3/12) इत्यादि। ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवदापेक्षिकं नित्यत्वम्। तदेवंभूतं ब्राहृात्मानं निचाट¬ावगम्य तमात्मानं मृत्युमुखान्मृत्युगोचरादविद्याकामकर्मलक्षणात्प्रमुच्यते विमुच्यते ।।15।।
प्रस्तुतविज्ञानस्तुत्यर्थमाह श्रुतिः-
1.3.16
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ#़ सनातनम्। उक्त्वा श्रुत्वा च मेधावी ब्राहृलोके महीयते ।।16।।
ए.1.3.16
नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तमिदमाख्यानमुपाख्यानं वल्लीत्रयलक्षणं सनातनं चिरन्तनम् वैदिकत्वादुक्त्वा ब्रााहृणेभ्यः श्रुत्वाचार्येभ्यो मेधावी ब्राहृैव लोको ब्राहृलोकस्तस्मिन्महीयत आत्मभूत उपास्यो भवतीत्यर्थः ।।16।।
य इमं परमं गुह्रं श्रावयेद् ब्राहृसंसदि। प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ।।17।।
ए.1.3.17
यः कश्चिदिमं ग्रन्थं परमं प्रकृष्टं गुह्रं गोप्यं श्रावयेद् ग्रन्थतोऽर्थतश्च ब्रााहृणानां संसदि ब्राहृसंसदि प्रयतः शुचिर्भूत्वा श्राद्धकाले वा श्रावयेदु भुज्जानानां तच्छ्राद्धमस्यानन्त्यायानन्तफलाय कल्पते संपद्यते। द्विर्वचनम् अध्यायपरिसमाप्त्यर्थम् ।।17।।
द्वितीय अध्याय - प्रथमा वल्लि
एष स्त्रर्वेषु भूतेषु गूढोत्मा न प्रकाशते दृश्यते त्वग्रयया बुद्धयेत्युक्तम्। कः पुनः प्रतिबन्धोऽग्रयाया बुद्धेर्येन तदभावाद् आत्मा न दृश्यत इति तददर्शनकारणप्रदर्शनार्था वल्ल्यारभ्यते। विज्ञाते हि श्रेयःप्रतिबन्धकारणे तदपनयनाय यत्न आरब्धुं शक्यते नान्यथेति-
2.1.1
पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ।।1।।
ए.2.1.1
पराञ्चि परागञ्चन्ति गच्छन्तीति खानि तदुपलक्षितानि श्रोत्रादीनीन्द्रियाणि खानीत्युच्यन्ते। तानि पराञ्च्येव शब्दादिविषयप्रकाशनाय प्रवर्तन्ते। यस्मादेवं स्वाभाविकानि तानि व्यतृणर्द्धिसितवान्हननं कृतवान् इत्यर्थः। कोऽसौ?स्वयंभूः परमेश्वरः स्वयमेव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति। तस्मात्पराङ् पराग्रूपाननात्मभूताञ्शब्दादीन्पश्यत्युपलभत उपलब्धा, नान्तरात्मन्नान्तरात्मानमित्यर्थः।
एवंस्वभावेऽपि सति लोकस्य कश्चिन्नद्याः प्रतिस्त्रोतः प्रवर्तनमिव धीरो धीमान्विवेकी प्रत्यगात्मानं प्रत्यक्चासावात्मा चेति प्रत्यगात्मा। प्रतिच्येवात्मशब्दो रूढो लोके नान्यस्मिन्। व्युत्पत्तिपक्षेऽपि तत्रैवात्मशब्दो वर्तते।
"यच्चान्पोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य संततो भावस्तस्मादात्मेति कीत्र्यते।" (लिङ्ग. 1/70/12)
इत्यात्माशब्दव्युत्पत्तिस्मरणात्।
तं प्रत्यगात्मानं स्वं स्वभावमैक्षदपश्यत्पश्यतीत्यर्थः, छन्दसि कालानियमात्। कथं पश्यतीत्युच्यते। आवृत्तचक्षुरावृत्तं व्यावृत्तं चक्षुःश्रोत्रादिकमिन्द्रियजातम् अशेषविषयाद्यस्य स आवृत्तचक्षुः स एवं संस्कृतः प्रत्यगात्मानं पश्यति। न हि बाह्रविषया लोचनपरत्वं प्रत्यगात्मेक्षणं
चैकस्य संभवति। किमर्थं पुनरित्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यति इत्युच्यते, अमृतत्वममरणधर्मत्वं नित्यस्वभावतामिच्छन् आत्मन इत्यर्थः ।।1।।
यत्तावत्स्वाभाविकं परागेव अनात्मदर्शनं तदात्मदर्शनस्य व्रतिबन्धकारणमविद्या तत्प्रतिकूलत्वात्। या च पराक्ष्वेवाविद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्यामविद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनाः-
2.1.2
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्। अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ।।2।।
ए.2.1.2
पराचो बहिर्गतानेव कामान् काम्यान्विषयाननुयन्ति अनुगच्छन्ति बाला अल्पप्रज्ञास्ते तेन कारणेन मृत्योरविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बद्धयते येन तं पाशं देहेन्द्रियादिसंयोगवियोगलक्षणम्।
अनवरतजन्ममरणजरारोगाद्यनेकार्थव्रातं प्रतिपद्यन्त इत्यर्थः।
यत एवमथ तस्माद्धीरा विवेकिनः प्रत्यगात्मस्वरूपावस्थानलक्षणममृतत्वं ध्रुवं विदित्वा, देवाद्यमृतत्वं ह्रध्रुवमिदं तु प्रत्यगात्मस्वरूपावस्थानलक्षणं "न कर्मणा वर्धते नो कनीयान्" (बृ.उ.4/4/23) इति ध्रुवम्। तदेवंभूतं कूटस्थमविचाल्यममृतत्वं विदित्वाध्रुवेषु सर्वपदार्थेष्वनित्येषु निर्धार्य ब्रााहृणा इह संसारेऽनर्थ,प्राये न प्रार्थयन्ते किंचिदपि प्रत्यगात्मदर्शनप्रतिकूलत्वात्। पुत्रवित्तलोकैषणाभ्यो व्युत्तिष्ठन्त्येवेत्यर्थः ।।2।।
यद्विज्ञानान्न किंचिदन्यत् प्रार्थयन्ते ब्राहृणाः कथं तदधिगम इत्युच्यते-
2.1.3
येन रूपं रसं गन्धं शब्दान्स्पर्शां#़श्च मैथुनान्। एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत् ।।3।।
ए.2.1.3
येन विज्ञानस्वभावेनात्मना रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान्मैथुननिमित्तान्सुखप्रत्ययान्विजानाति विस्पष्टं जानाति सर्वो लोकः।
ननु नैवं प्रसिद्धिलोकस्य आत्मना देहादिविलक्षणेनाहं विजानामीति। देहादिसंघातोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति।
न त्वेवम्। देहादिसंघातस्यापि शब्दादिस्वरूपत्वाविशेषाद्विज्ञेयत्वाविशेषाच्च न युक्तं विज्ञातृत्वम्। यदि हि देहादिसंघातो रूपाद्यात्मकः सन्रूपादीन्विजानीयाद्बाह्रा अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च विजानीयुः। न चैतदस्ति। तस्माद् देहादिलक्षणांश्च रूपादीनेतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावेनात्मना विजानाति लोकः। यथा येन लोहो दहति सोऽग्निरिति तद्वत्।
आत्मनोऽविज्ञेयं किमत्राÏस्म#़ल्लोके परिशिष्यते न किंचित्परिशिष्यते। सर्वमेव त्वात्मना विज्ञेयम्। यस्यात्मनोऽविज्ञेयं न किंचित्परिशिष्यते स आत्मा सर्वज्ञः। एतद्वै तत्। किं तद्यत् नचिकेतसा पृष्टं देवादिभिरपि
विचिकित्सितं धर्मादिभ्योऽन्यद् विष्णोः परमं पदं यस्मात्परं नास्ति तद्वा एतदधिगतमित्यर्थः ।।3।।
अतिसूक्ष्मत्वाद् दुर्विज्ञेयमिति मत्वैतमेवार्थं पुनः पुनराह-
2.1.4
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।।4।।
ए.2.1.4
स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयमित्यर्थः तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च;उभौ स्वप्नजागरितान्तौ येन आत्मनानुपश्यति लोक इति सर्वं पूर्ववत्। तं महान्तं विभुमात्मानं मत्वावगम्यात्मभावेन साक्षात् अहमस्मि परमात्मेति धीरो न शोचति ।।4।।
किं च -
2.1.5
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्। ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै
तत् ।।5।।
ए.2.1.5
यः कश्चिदिमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयितारमात्मानं वेद विजानाति अन्तिकादन्तिके समीप ईशानम् ईशितारं भूतभव्यस्य कालत्रयस्य, ततस्तद्विज्ञानादुध्र्वमात्मानं न विजुगुप्सते न
गोपायितुम् इच्छत्यभयप्राप्तत्वात्। यावद्धि भयमध्यस्थोऽनित्यमात्मानं मन्यते, तावद्गोपायितुमिच्छत्यात्मानम्। यदा तु नित्यमद्वैतमात्मानं विजानाति तदा किं कः कुतो वा गोपायितुमिच्छेत्। एतद्वै तदिति पूर्ववत् ।।5।।
2.1.6
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत। गुहां प्रविश्य तिष्ठन्तं यो भूतेभिव्र्यपश्यत।। एतद्वै तत् ।।6।।
ए.2.1.6
यः कश्चिन्मुमुक्षुः पूर्वं प्रथमं तपसो ज्ञानादिलक्षणाद् ब्राहृण इत्येतज्जातमुत्पन्नं हिरण्यगर्भम्;किमपेक्ष्य पूर्वमित्याह - अद्भ्यः पूर्वमप्सहितेभ्यः पञ्चभूतेभ्यो न केवलाभ्योऽद्भ्य इत्यभिप्रायः; अजायत उत्पन्नो यस्तं प्रथमजं देवादिशरीराण्युत्पाद्य सर्वप्राणिगुहां ह्मदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीनुपलाभमानं भूतेभिर्भूतैः कार्यकरणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्येतत्। य एवं पश्यति स एतदेव पश्यति यत्तत्प्रकृतं ब्राहृ ।।6।।
2.1.7
या प्राणेन संभवत्यदितिर्देवतामयी।गुहां प्रविश्य तिष्ठन्तीं या भूतेभिव्र्यजायत।। एतद्वै तत् ।।7।।
ए.2.1.7
या सरवदेवतामयी सरवदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद् ब्राहृणः संभवति शब्दादीनामदनाददितिस्तां पूर्ववद् गुहां प्रविश्य तिष्ठन्तीमदितिम्। तामेव विशिनष्टि - या भूतेभिः भूतैः समन्विता व्यजायत उत्पन्ना इत्येतत्।।7।।
किं च-
2.1.8
अरण्योर्निहितो जातवेदा गर्भ इव सुमृतो गर्भणीभिः। दिवे दिव ईड¬ो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः।। एतद्वै तत् ।।8।।
ए.2.1.8
योऽधियज्ञ उत्तराधरारण्योः निहितः स्थितो जातवेदा अग्निः पुनः सर्वहविषां भोक्ताध्यात्मं च योगिभिर्गर्भ इव गर्भिणीभिः अन्तर्वत्नीभिरगर्हितान्नपानभोजनादिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोक इवेत्थमेवÐत्वग्भिर्योगिभिश्च सुमृत इत्येतत्। किं च दिवे दिवेऽहन्यहनीङ्यः स्तुत्यो वन्द्यश्च कर्मिभिर्योगिभिश्वाध्वरे ह्मदये च जागृवद्भिः जागरणशीलवद्भिरप्रमत्तैरित्येतत् हविष्मद्भिराज्यादिमद्भिध्र्यानभावनावद्भिश्च
मनुष्येभिर्मनुष्यैः अग्निः। एतद्वै तत्तदेव प्रकृतं ब्राहृ।।8।।
किं च-
2.1.9
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति। तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन।। एतद्वै तत् ।।9।।
ए.2.1.9
यतश्च यस्मात्प्राणादुदेति उत्तिष्ठति सूर्योऽस्तं निम्लोचनं यत्र यस्मिन्नेव च प्राणोऽहन्यहनि गच्छति तं प्राणमात्मानं देवा अग्रयादयोऽधिदैवं वागादयश्च अध्यात्मं सर्वे विश्वेऽरा इव स्थनाभावर्पिताः संप्रवेशिताः स्थितिकाले सोऽपि ब्राहृैव। तदेतत् सर्वात्मकं ब्राहृ तदु नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति कश्चन कश्चिदपि। एतद्वै तत् ।।9।।
यद्ब्राहृादिस्थावरान्तेषु वर्तमानं तत्तदुपाधित्वादब्राहृवदवभासमानं संसार्यन्यत्परस्माद् ब्राहृण इति मा भूत्कस्यचिदाशङ्का इतीदमाह-
2.1.10
यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेवपश्यति।।10।।
ए.2.1.10
यदेवह कार्यकरणोपाधिसमन्वितं संसारधर्मवदवभासमानमविवेकिनां तदेव स्वात्मस्थममुत्र नित्य विज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्राहृ। यच्चामुत्रामुष्मिन्नात्मनि स्थितं तदेवेह नामरूपकार्यकरणोपाधिम् अनुविभाव्यमानं नान्यत्।
तत्रैवं सत्युपाधिस्वभावभेददृष्टिलक्षणयाविद्यया मोहितः सन् य इह ब्राहृण्यनानाभूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्राहृेति नानेव भिन्नमिव पश्यत्युपलभते स मृत्योर्मरणान्मरणं मृत्युं पुनः पुनर्जन्ममरणभावमाप्नोति प्रतिपद्यते। तस्मात्तथा न पश्येत्। विज्ञानैकरसं नैरन्तर्येणाकाशवत् परिपूर्णं ब्राहृैवाहमस्मीति पश्येत् इति वाक्यार्थः ।।10।।
प्रागेकत्वविज्ञानादाचार्यागमसंस्कृतेन-
2.1.11
मनसैवेदमाप्तव्यं नेह नानास्ति किंचन। मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ।।11।।
ए.2.1.11
मनसेदं ब्राहृैकरसमाप्तव्यम् आत्मैव नान्यदस्तीति। आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वादिह ब्राहृणि नाना नास्ति किञ्चनाणुमात्रम् अपि। यस्तु पुनरविद्यातिमिरदृÏष्ट न मुञ्चति नानेव पश्यति स मृत्योर्मृत्यं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन् इत्यर्थः ।।11।।
पुनरपि तदेव प्रकृतं ब्राहृाह-
2.1.12
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते।। एतद्वै तत् ।।12।।
ए.2.1.12
अङ्गुष्ठमात्रोऽङ्गुष्ठपरिमाणः अङ्गुष्ठपरिमाणं ह्मदयपुण्डरीकं तच्छिद्रवत्र्यन्तः करणोपाधिः अङ्गुष्ठमात्रोऽङ्गुष्ठमात्रवंशपर्वमध्यवत्र्यम्बरवत् पुरुषः पूर्णमनेन सर्वमिति मध्य आत्मनि शरीरे तिष्ठति यस्तमात्मानम् ईशानं भूतभव्यस्य विदित्वा न तत् इत्यादि पीर्ववत् ।।12।।
किं च-
2.1.13
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्वः।। एतद्वै तत् ।।13।।
ए.2.1.13
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकोऽधूमकमिति युक्तं ज्योतिष्परत्वात्। यस्त्वेवं लक्षितो योगिभिह्र्मदय ईशानो भूतभव्यस्य स नित्यः कूटस्थोऽद्येदानीं प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते नान्यस्तत्समोऽन्यश्च जनिष्यत इत्यर्थः। अनेन नायमस्तीति चैक इत्ययं पक्षो न्यायतोऽप्राप्तोऽपि स्ववचनेन श्रुत्या प्रत्युक्तस्तथा क्षणभङ्गवादश्च ।।13।।
पुनरपि भेददर्शनापवादं ब्राहृण आह-
2.1.14
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ।।14।।
ए.2.1.14
यथोदकं दुर्गे दुर्गमे देश उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्वतवत्सु निन्मप्रदेशेषु विधावति विकीर्णं सद्विनश्यति एवं धर्मान् आत्मनो भिन्नान्पृथक्पश्यन्पृथक् एव प्रतिशरीरं पश्यंस्तानेव शरीरभेदानुवर्तिनोऽनुविधावति। शरीरभेदमेव पृथक्पुनः पुनः प्रतिपद्यत इत्यर्थः ।।14।।
यस्य पुनर्विद्यावतो विध्वस्तोपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघनैकरसमद्वयमात्मानं पश्यतो विजानतो मुनेर्मननशीलस्य आत्मस्वरूपं कथं सम्भवतीत्युच्यते-
2.1.15
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम ।।15।।
ए.2.1.15
यथोदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नमासिक्तं प्रक्षिप्तमेकरसमेव नान्यथा तादृगेव भवत्यात्माप्येवमेव भवत्येकत्वं विजानतो मुनेर्मननशीलस्य हे गौतम!तस्मात्कुतार्किकभेददृÏष्ट नास्तिक कुदृÏष्ट चोज्झित्वा मातृपितृसहस्त्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टम् आत्मैकत्वदर्शनं शान्तदर्पैः आदरणीयमित्यर्थः ।।15।।
द्वितीया वल्ली
पुनरपि प्रकारान्तरेण ब्राहृतच्वनिर्धारणार्थोऽयमारम्भो दुर्विज्ञेयत्वाद् ब्राहृणः-
2.2.1
पुरमेकादशद्वारमजस्यावक्रचेतसः। अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत् ।।1।।
ए.2.2.1
पुरं पुरमिव पुरम्। द्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसम्पत्तिदर्शनाच्छरीरं पुरम्। पुरं च सोपकरणं स्वात्मनासंहतस्वतन्त्रस्वाम्यर्थं दृष्टम्; तथेदं पुरसामान्यादनेकोपकरणसंहतं शरीरं स्वात्मनासंहतराजस्थानीयस्वाम्यर्थं भवितुमर्हति।
तच्चेदं शरीराख्यं पुरमेकादशद्वारमेकादशद्वाराण्यस्य सप्त शीर्षण्यानि न्भ्या सहार्वाञ्चि त्रीणि शिरस्येकंतैरेकादशद्वारं पुरम्। कस्याजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य। अवक्रचेतसः अवक्रमकुटिलमादित्यप्रकाशवन्नित्यमेवावस्थितमेकरूपं चेतो विज्ञानमस्येत्यवक्रचेतास्तस्यावक्रचेतसो रीजस्थानीयस्य ब्राहृणः।
यस्येदं पुरं तं परमेश्वरं पुरस्वामिनमनुष्ठाय ध्यात्वा-ध्यानं हि तस्यानुष्ठानं सम्यग्विज्ञानपूर्वकम् - तं सर्वैषणाविनिर्मुक्तः सन्समं सर्वभूतस्थं ध्यात्वा न शोचति। तद्विज्ञानाद् अभयप्राप्तेः शोकावसराभावात् कुतो भयेक्षा। इहैवाविद्याकृतकामकर्मबन्धनैर्विमुक्तो भवति। विमुक्तश्च सन्विमुच्यते पुनः शरीरं न गृह्णतीत्यर्थः ।।1।।
2.2.2
स तु नैकशरीरपुरवत्र्येवात्मा किं तार्हि सर्वपूरवर्ती। कथम्- हँ#़सः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसदृतसद्वयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।।2।।
ए.2.2.2
हंसो हन्ति गच्छतीति शुचिषच्छुचौ दिव्यादित्यात्मना सीदति इति। वसुर्वासयति सर्वानिति वाट्वात्मनान्तरिक्षे सीदतीत्यन्तरिक्षसत्। होताग्निः "अग्निर्वै होता" इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषद्। "इयं वेदिः परोऽन्तः पृथिव्याः" (ऋ.सं.2/3/20) इत्यादिमन्त्रवर्णात्। अतिथिः सोमः सन्दुरोणे कलशे सीदति इति दुरोणसत्। ब्रााहृणः अतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति।
तृषन्नृषु मनुष्येषु सीदतीति नृषत्। वरसद् वरेषु देवेषु सीदतीति, ऋतसदृतं सत्यं यज्ञो वा तस्मिन्सीदतीति। व्योमसद् व्योम्न्याकाशे सीदतीति व्योमसत्। अब्जा अप्सु शङ्खशुक्तिमकरादिरूपेण जायत इति। गोजा गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति। ऋतजा यज्ञाङ्गरूपेण जायत इति। अद्रिजा पर्वतेभ्यो नद्यादिरूपेण जायत इति।
सर्वात्मापि सन्नृतमवितथस्वभाव एव । बृहन्महान्सर्वकारणत्वात्। यदाप्यादित्य एव मन्त्रेणोच्यते तदाप्यस्यात्मस्व रूपत्वमादित्यस्येत्यङ्गीकृतत्वाद् ब्रााहृणव्याख्यानेऽप्यविरोधः। सर्वव्याप्येक एवात्मा जगतो नात्मभेद इति मन्त्रार्थः ।।2।।
आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते-
2.2.3
ऊध्र्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति। मध्ये वामनमासीनं विश्वे देवा उपासते।।3।।
ए.2.2.3
ऊध्र्वं ह्मदयात्प्राणं प्राणवृतिं्त वायुमुन्नयत्यूध्र्वं गमयति। तथापानं प्रत्यगधोऽस्यति क्षिपति य इति वाक्यशेषः तं मध्ये ह्मदयपुण्डरीकाकाश आसीनं बुद्धावभिव्यक्तविज्ञानप्रकाशनं वामनं संभजनीयं विश्वे सर्वे देवाश्चक्षुरादयः प्राणा रूपादिविज्ञानं बलिमुपाहरन्तो विश इव राजानमुपासते तादथ्र्येनानुपरतव्यापारा भवन्ति इत्यर्थः। यदर्था यत्प्रयुक्ताश्च सर्वे वायुकरणव्यापाराः सोऽन्यः
सिद्ध इति वाक्यार्थः।।3।।
किं च-
2.2.4
अस्य विस्त्रंसमानस्य शरीरस्थस्य देहिनः। देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत्।।4।।
ए.2.2.4
अस्य शरीरस्थस्यात्मनो विस्त्रंसमानस्यावस्त्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः;विस्त्रंसनशब्दार्थमाह-देहाद्विमुच्य मानस्येति किमत्र परिशिष्यते प्राणादिकलापे न कींचन परिशिष्यतेऽत्र देहे पुरस्वामिविद्रवण इव पुरवासिनां यस्यात्मनोपगमे क्षणमात्रात्कार्यकरणकलापरूपं सर्वमितं हतबलं विध्वस्तं भवति विनष्टं भवति सोऽन्यः सिद्धः।।4।।
स्यान्मतं प्राणापानाद्यपगमात् एवेदं विध्वस्तं भवति न तु तद्ब्यतिरिक्तात्मापगमात्प्राणादिभिरेव हि मत्र्यो जीवतीति नैतदस्ति-
2.2.5
न प्राणेन नापानेन मत्र्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ।।5।।
ए.2.2.5
न प्राणेन नापानेन चक्षुरादिना वा मत्र्यो मनुष्यो देहवान्कश्चन जीवति न कोऽपि जीवति न ह्रेषां परार्थानां संहत्यकारित्वाज्जीवनहेतुत्वमुपपद्यते। स्वार्थेनासंहतेन परेण केनचिदप्रयुक्तं संहतानामवस्थानं न दृष्टं गुहादीनां लोके;तथा प्राणादीनामपि संहतत्वाद्भवितुमर्हति।
अत इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहता सन्तो जीवन्ति प्राणान्धारयन्ति। यस्मिन्संहतविलक्षण आत्मनि सति परस्मिन्नेतौ प्राणापानौ चक्षुरादिभिः संहतावुपाश्रितौ, यस्यासंहतस्यार्थे प्राणापानादिः स्वव्यापारं कुर्वन्वर्तते संहतः सन्सः ततोऽन्यः सिद्ध
इत्यभिप्रायः।।5।।
2.2.6
हन्त त इदं प्रवक्ष्यामि गुह्रं ब्राहृ सनातनम्। यथा च मरणं प्राप्य आत्मा भवति गौतम।।6।।
ए.2.2.6
हन्तेदानीं पुनरपि ते तुभ्यम् इदं गुह्रं गोप्यं ब्राहृ मनातनं चिरन्तनं प्रवक्ष्यामि यद्विज्ञानात् सर्वसंसारोपरमो भवति, अविज्ञानाच्च यस्य मरणं प्राप्य यथात्मा भवति यथा संसरति तथा श्रृणु हे गौतम।।6।।
2.2.7
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्।।7।।
ए.2.2.7
योनिं योनिद्वारं शुक्रबूजसमन्विताः सन्तोऽन्ये केचिद् अविद्यावन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनो देहवन्तः;योनिं प्रविशन्तीत्यर्थः। स्थाणुं वृक्षादिस्थावरभावम् अन्येऽत्यन्ताधमा मरणं प्राप्यानुसंयन्त्यनुगच्छन्ति। यथाकर्म यद्यस्य कर्म तद्यथाकर्म यैर्यादृशं कर्मेह जन्मनि कृतं तद्वशेनेत्येतत्। तथा च यथाश्रुतं यादृशं च विज्ञानमुपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्त इत्यर्थः। "यथाप्रज्ञं हि संभवाः" इति श्रुत्यन्तरात्।।7।।
यत्प्रतिज्ञातं गुह्रं ब्राहृ वक्ष्यामीति तदाह-
2.2.8
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः तदेव शुक्रं तद्ब्राहृ तदेवामृतमुच्यते। तÏस्मल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्।।8।।
ए.2.2.8
य एष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति। कथम्?कामं कामं तं तमभिप्रेतं ख्याद्यर्थमविद्यया निर्मिमाणो निष्पादयञ्जागर्ति पुरुषो यस्तदेव शुक्रंशुभ्रंशुद्धं तद्ब्राहृ नान्यद्गुह्रं ब्राहृास्ति। तदेवामृतमविनाशि उच्यते सर्वशास्त्रेषु। किं च पृथिव्यादयो लोकास्तस्मिन्नेब सर्वे ब्राहृण्याश्रिताः सर्वलोककारणत्वात्तस्य। तदु नात्येति कश्चन इत्यादि पूर्ववदेव।।8।।
अनेकतार्किककुबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नम् अप्यात्मैकत्वविज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां ब्रााहृणानां चेतसि नाधीयत इति तत्प्रतिपादन आदरवती पुनः पुनराह श्रुतिः-
2.2.9
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च।।9।।
ए.2.2.9
अग्निर्यथैक एव प्रकाशात्मा सन्भुवनं भवन्त्यस्मिन्भूतानीति भूवनमयं लोकस्तमिमं प्रविष्टः अनुप्रविष्टः रूपं रूपं प्रतिदार्वादिदाह्रभेदं प्रतित्यर्थः प्रतिरूपः तत्र तत्र प्रतिरूपवान्दाह्रभेदेन बहुविधो बभूव;एक एव तथा सर्वभूतान्तरात्मा सर्वेषां भूतानाम् अभ्यन्तर आत्मातिसूक्ष्मत्वाद् दार्वादिष्विव सर्वदेहं प्रति प्रविष्टत्वात्प्रतिरूपो बभूव बहिश्च स्वेन अविकृतेन स्वरूपेणाकाशवत्।।9।।
तथान्यो दृष्टान्तः-
2.2.10
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च।।10।।
ए.2.2.10
वायुर्यथैक इत्यादि। प्राणात्मना देहेष्वनुप्रविष्टो रूपं रूपं प्रतिरूपो बभूवेत्यादि समानम्।।10।।
एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव तदिति प्राप्तमत इदमुच्यते-
2.2.11
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्रदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्रः।।11।।
ए.2.2.11
सूर्यो यथा चक्षुष आलोकेन उपकारं कुर्वन्मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुरपि सन्न लिप्यते चाक्षुषैरशुच्यादिदर्शननिमित्तैराध्यात्मिकैः पापदोषैर्बाह्रैश्चाशुच्यादिसंसर्गदोषैः। एकः संस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्रः।
लोको ह्रविद्यया स्वात्मनि अध्यस्तया कामकर्मोद्भवं दुःखम् अनुभवति। न तु सा परमार्थतः स्वात्मनि। यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति। संसर्गिणीविपरीतबुद्धयध्यासनिमित्तात्तद्दोषवद्विभाव्यन्ते। न तद्दोषैस्तेषां लेपः। विपरीतबुद्धयध्यासबाह्रा हि ते।
तथात्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखमनुभवति। न त्वात्मा सर्वलोकात्मापि सन् विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन। कुतः बाह्रः, रज्जवादिवदेव विपरीतबुद्धयध्यासबाह्रो हि स इति।।11।।
किं च-
2.2.12
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्।।12।।
ए.2.2.12
स हि परमेश्वरः सर्वगतः स्वतन्त्र एको न तत्समोऽभ्यधिको वान्योऽस्ति। वशी सर्वं ह्रस्य जगद्वशे वर्तते। कुतः?सर्वभूतान्तरात्मा। यत एकमेब सदैकरसमात्मानं विशुद्धविज्ञानरूपं नामरूपाद्यशुद्धोपाधिभेदवशेन बहुधानेकप्रकारं यः करोति स्वात्मसत्तामात्रेणचिन्त्यशक्तित्वात्। तमात्मस्थं स्वशरीरह्मदयाकाशे बुद्धौ चैतन्याकारेण अभिव्यक्तमित्येतत्।
न हि शरीरस्याधारत्वमात्मनः आकाशवदमूर्तत्वात्; आदर्शस्थं मुखमिति यद्वत्। तमेतम् ईश्वरमात्मानं ये निवृत्तबाह्रवृत्तयोऽनुपश्यन्ति आचार्यागमोपदेशमनु साक्षादनुभवन्ति धीरा विवेकिनस्तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, नेतरेषां बाह्रासक्तबुद्धीनामविवेकिनां स्वात्मभूतमप्यविद्याव्यवधानात्।।12।।
किं च-
2.2.13
नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्।।13।।
ए.2.2.13
नित्योऽविनाश्यनित्यानां विनाशिनाम्। चेतनश्चेतनानां चेतयितृणां ब्राहृादीनां प्राणिनाम् अग्निनिमित्तमिव दाहकत्वम् अनग्नीनामुदकादीनामात्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषाम्। किं च स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान्कर्मफलानि स्वानुग्रहनिमित्तांश्च कामान्य एको बहूनाम् अनेकेषामनायासेन विदधाति प्रयच्छतीत्येतत्। तमात्मस्थं ये अनुपश्यन्ति धीरास्तेषां शान्तिः उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यान्नेतरेषामनेवंविधानाम्।।13।।
2.2.14
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्। कथं नु तद्विजानीयां किमु भाति विभाति वा ।।14।।
ए.2.2.14
यत्तदात्मविज्ञानं सुखम् अनिर्देश्यं निर्देष्टुमशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्भनसयोरगोचरम् अपि सन्निवृत्तैषणा ये ब्रााहृणास्ते यत्तदेतत्प्रत्यक्षमेवेति मन्यन्ते। कथं नु केन प्रकारेण तत् सुखमहं विजानीयाम्। इदम् इत्यात्मबुद्धिविषयमापादयेयं यथा निवृत्तैषणा यतयः। किमु तद्भाति दीप्यते प्रकाशात्मकं तद्यतोऽस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किं वा नेति।।14।।
अत्रोत्तरमिदं भाति च विभाति चेति। कथम्?
2.2.15
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति।।15।।
ए.2.2.15
न तत्र तस्मिन्स्वात्मभूते ब्राहृणि सर्वावभासकोऽपि सूर्यो भाति तद्ब्राहृ न प्रकाशयतीत्यर्थः। तथा न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमस्मद्दृष्टिगोचरः अग्निः। किं बहुना यदिदमादिकं सर्वं भाति तत्तमेव परमेश्वरं भान्तं दीप्यमानमनुभात्यनुदीप्यते। यथा जलोल्मुकाद्यग्निसंयोगादÏग्न दहन्तमनुदहति न स्वतस्तद्वत्तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि विभाति।
यत एवं तदेव ब्राहृ भाति च विभाति च। कार्यगतेन विविधेन भासा तस्य ब्राहृणो भारूपत्वं स्वतोऽवगम्यते। न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम्। घटादीनाम् अन्यावभासकत्वादर्शनाद्भासनरूपाणां चादित्यादीनां तद्दर्शनात्।।15।।
तृतीया वल्ली
तूलावधारणेनैव मूलावधारणं वृक्षस्य क्रियते लोके यथा, एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रााहृणः स्वरूपावदिधारयिषयेयं षष्ठीवल्लयारभ्यते-
2.3.1
ऊध्र्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः।तदेव शुक्रं तद्ब्राहृ तदेवामृतमुच्यते। तÏस्म#़ल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्।।1।।
ए.2.3.1
ऊध्र्वमूल ऊध्र्वं मूलं यत् तद्विष्णोः परमं पदमस्येति सोऽयमव्यक्तादिस्थावरान्तः संसारवृक्ष ऊध्र्वमूलः। वृक्षश्च व्रश्चनात्। जन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणमन्यथास्वभावो मायामरीच्युदकगन्धर्वनगरादिवद्दृष्टनष्टस्वरूपत्वादवसाने च वृक्षवदभावात्मकः कदलीस्तम्भवन्निःसारोऽनेकशतपाखण्डबुद्धिविकल्पास्पदस्तच्वविजिज्ञासुभिः अनिर्धारितेदंतच्वो वेदान्तनिर्धारितपरब्राहृमूलसारोऽविद्याकामकर्माव्यक्तबीजप्रभवोऽपरब्राहृविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धस्तृष्णाजलावसेकोद्भूतदर्पो बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशो यज्ञदानतपआद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः
प्राण्युपजीव्यानन्तफलस्तत्तृष्णासलिलावसेकप्ररूढजडीकृतदृढबद्धमूलः सत्यनामादिसप्तलोकब्राहृादिभूतपक्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताक्रुष्टरुदितहाहामुञ्वमुञ्चेत्याद्यनेकशब्दकृततुमुलीभूतमहारवो वेदान्तविहितब्राहृात्मदर्शनासङ्गशस्त्रकृतोच्छेद एष संसारवृक्षोऽश्वत्थोऽश्वत्थवत्कामकर्मवातेरेतनित्यप्रचलितस्वभावः, स्वर्गनरकतिर्यक्प्रेतादिभिः शाखाभिः अवाक्शाखः;सनातनोऽनादित्वाच्चिरं प्रवृत्तः।
यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिस्वभावं तदेव ब्राहृ सर्वमहच्वात्। तदेवामृतम् अविनाशस्वभावमुच्यते कथ्यते सत्यत्वात्। वाचारम्भणं विकारो नामधेयमनृतम् अन्यदतो मत्र्यम्। तस्मिन्परमार्थसत्ये ब्राहृणि लोका गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिता आश्रिताः सर्वे समस्ता उत्पत्तिस्थितिलयेषु। तदु तद्ब्राहृ नात्येति नातिवर्तते मृदादिमिव घटादिकार्यं कश्चन कश्चिदपि विकारः। एतद्वै तत्।।1।।
यद्विज्ञानादमृता भवन्तीत्युच्यते जगतो मूलं तदेव नास्ति ब्राहृासत एवेदं निःसृतमिति।
तन्न-
2.3.2
यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति।।2।।
ए.2.3.2
यदिदं किं च यÏत्क चेदं जगत्सर्वं प्राणे परस्मिन्ब्राहृणि सत्येजति कम्पते तत एव निःसृतं निर्गतं सत्प्रचलति नियमेन चेष्टते। यदेवं जगदुत्पच्यादिकारणं ब्राहृ तन्महद्भयम्। महच्च तद्भयं च बिभेत्यस्मादिति महद्भयम्;वज्रमुद्यतमुद्यतमिव बज्रम्। यथा वज्रेद्यतकरं स्वामिनमभिमुखीभूतं दृष्ट्वा भूत्या नियमेन तच्छासने वर्तन्ते तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणम् अप्यविश्रान्तं वर्तत इत्युक्तं भवति। य एतद्विदुः स्वात्मप्रवृत्तिसाक्षिभूतमेकं ब्राहृामृता
अमरणधर्माणस्ते भवन्ति।।2।।
कथं तद्भयाज्जगद्वर्तत इत्याह-
2.3.3
भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः।। 3 ।।
ए.2.3.3
भयाद्भीत्या परमेश्वरस्याग्निः तपति भयात्तपति सूर्यो भयाद् इन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः। न हीश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद्वज्रोद्यतकरवन्न स्यात्स्वामिभयभीतानामिव भृत्यानां नियता प्रवृत्तिरुपपद्यते।।3।।
तच्च-
2.3.4
इह चेदशकद्बोद्धुं प्राक्शरीरश्य विस्त्रसः। ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते।। 4 ।।
ए.2.3.4
इह जीवन्नेव चेद्यद्यशकत् शक्नोति शक्तः सञ्जानात्येतद्भयकारणं ब्राहृ बोद्धुमवगन्तुं प्राक्पूर्वं शरीरस्य विस्त्रसोऽवस्त्रंसनात्पतनात्संसारबन्धनाद्विमुच्यते। न चेदशकद्बोद्धुं ततः अनवबोधात्सर्गेषु सृज्यन्ते येषु स्त्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकास्तेषु सर्गेषु लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति शरीरं गृह्णातीत्यर्थः। तस्माच्छरीरविस्त्रंसनात्प्रागात्मबोधाय यत्न आस्थेयः।।4।।
यस्मादिहैवात्मनो दर्शनम् आदर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते न लोकान्तरेषु ब्राहृलोकाद् अन्यत्र, स च दुष्प्रापः, कथम्? इत्युच्यते-
2.3.5
यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके। यथाप्सु परीव दद्दशे तथा गन्धर्वलोके छायातपयोरिव ब्राहृलोके।। 5 ।।
ए.2.3.5
यथादर्श प्रतिबिम्बभूतम् आत्मानं पश्यति लोकोऽत्यन्तविविक्तं तथेहात्मनि स्वबुद्धौ आदर्शवन्निर्मलीभूतायां विविक्तम् आत्मनो दर्शनं भवतीत्यर्थः।
यथा स्वप्नेऽविविक्तं जाग्रदासनोद्भूतं तथा पितृलोकेऽविविक्तम् एव दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात्। यथा चाप्सु अविभक्तावयवमात्मरूपं परीव ददृशे परिदृश्यत इव तथा गन्धर्वलोकेऽविविक्तमेव दर्शनमात्मनः। एवं च लोकान्तरेष्वपि शास्त्रप्रामाण्यादवगम्यते। छायातपयोः इवात्यन्तविविक्तम् ब्राहृलोक एव एकस्मिन्। स च दुष्प्रापोऽत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात्। तस्मादात्मसर्शनायेहैव यत्नः कर्तव्य इत्यभिप्रायः।।5।।
कथमसौ बोद्धव्यः किं वा तदवबोधे प्रयोजनमित्युच्यते-
2.3.6
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्। पृथगुत्पद्यमानानां मत्वा धीरो न शोचति।। 6 ।।
ए.2.3.6
इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगू उत्पद्यमानानामत्यन्तविशुद्धात् केवलाच्चिन्मात्रात्मस्वरूपात्पृथग्भावं स्वभावविलक्षणात्मकतां तथा तेषामेवेन्द्रियाणामुदयास्तमयौ चोत्पत्तिप्रलयौ जाग्रत्स्वापावस्थापेक्षया नात्मन इति मत्वा ज्ञात्वा विवेकलो धीरो धीमान्न शोचति। आत्मनो नित्यैकस्वभावस्य अव्यभिचाराच्छोककारणत्वानुपपत्तेः। तथा च श्रुत्यन्तरम् "तरति शोकमात्मवित्" (छा.उ.7/1/3) इति।।6।।
यस्मादात्मन इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिरधिगन्तव्यो यस्मात्प्रत्यगात्मा स सर्वस्य। तत्कथमित्युच्यते-
2.3.7
इन्द्रियेभ्यः परं मनो मनसः सच्वमुत्तमम्। सच्वादधि महानात्मा महतोऽव्यक्तमुत्तमम्।। 7 ।।
ए.2.3.7
इन्द्रियेभ्यः परं मन इत्यादि। अर्थानामिहेन्द्रियसमानजातीय- त्वादिन्द्रियग्रहणेनैव ग्रहणम्। पूर्ववदन्यत्। सच्वशब्दाद् बुद्धिरिहोच्यते।।7।।
2.3.8
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च। यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति।। 8 ।।
ए.2.3.8
अव्यक्तात्तु परः पुरुषो व्यापको व्यापकस्याप्याकाशादेः सर्वस्य कारणत्वात्। अलिङ्गो लिङ्गयते गम्यते येन तल्लिङ्गं बुद्धयादि तदविद्यमानमस्येति शोऽयमलिङ्ग एव। सर्वसंसारधर्मवर्जित इत्येतत्। यं ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अविद्यादिह्मदयग्रन्थिभिर्जीवन्नेव पतितेऽपि शरीरेऽमृतत्वं च गच्छति सोऽलिङ्गः परोऽव्यक्तात् पुरुष इति पूर्वेणैव सम्बन्धः।।8।।
कथं तह्र्रलिंङ्गस्य दर्शनम् लपपद्यत इत्युच्यते-
2.3.9
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्। ह्मदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति।। 9 ।।
ए.2.3.9
न संदृशे संदर्शनविषये न तिष्ठति प्रत्यगात्मनोऽस्य रूपम्। अतो न चक्षुषा सर्वेन्द्रियेण चक्षुग्र्रहणस्योपलाक्षणार्थत्वात्, पश्यति नोपलभते कश्चन कश्चिद् अप्येनं प्रकृतमात्मानम्।
कथं तर्हि तं पश्येदित्युच्यते। ह्मदा ह्मत्स्थया बुद्धया। मनीषा मनसः सङ्कल्पादिरूपस्येष्टे नियन्तृत्वेनेति मनीट् तया ह्मदा मनीषाविकल्पयिव्या मनसा मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तोऽभिसमर्थितोऽभिप्रकाशित इत्येतत्। आत्मा ज्ञातुं शक्यत इति वाक्यशेषः तम् आत्मानं ब्राहृैतद्ये विदुरमृतास्ते भवन्ति।।9।।
सा ह्मन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते-
2.3.10
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्।। 10 ।।
ए.2.3.10
यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितान्यात्मन्येव पञ्च ज्ञानानि ज्ञानार्थत्वाच्छ्रोत्रादीनि इन्द्रियाणि ज्ञानान्मुच्यन्ते अवतिष्ठन्ते सह मनसा यदनुगतानि तेन संकल्पादिव्यावृत्तेनान्तःकरणेन, बुद्धिश्चाध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते तामाहुः परमां गतिम्।।10।।
2.3.11
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्। अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ।। 11 ।।
ए.2.3.11
तामीदृशीं तदवस्थां योगम् इति मन्यन्ते वियोगमेब सन्तम्। सर्वानर्थसंयोगवियोगलक्षणा हीयमवस्था योगिनः। एतस्यां ह्रवस्थायामविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा। स्थिराम् इन्द्रियधारणां स्थिरामचलाम् इन्द्रियधारणां बाह्रान्तःकारणानां धारणमित्यर्थः।
अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवांस्तदा तस्मिन्काले यदैव प्रवृत्तयोगो भवतीति सामथ्र्यादवगम्यते। न हि बुद्धयादिचेष्टाभावे प्रमादसंभवोऽस्ति। तस्मात्प्रागेव बुद्धयादिचेष्टोपरमादप्रमादो विधीयते। अथवा यदैवेन्द्रियाणां स्थिरा धारणा तदानीमेव निरङ्कुशमप्रमत्तत्वमित्यतः अभिधीयतेऽप्रमत्तस्तदा भवतीति। कुतः?योगो हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मक इत्यर्थोऽतोऽपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्रायः।।11।।
बुद्धयादिचेष्टाविषयं चेद् ब्राहृेदं तदिति विशेषतो गृह्रेत बुद्धयाद्युपरमे च ग्रहणकारणाभावाद् अनुपलभ्यमानं नास्त्येव ब्राहृ। यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चासत् इत्यतश्चानर्थको योगः। अनुपलभ्यमानत्वाद्वा नास्तीत्युपलब्धव्यं ब्राहृेत्येवं प्राप्त इदमुच्यते-सत्यम्,
2.3.12
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।अस्तीति ब्राुवतोऽन्यत्र कथं तदुपलभ्यते।। 12 ।।
ए.2.3.12
नैव वाचा न मनसा न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यत इत्यर्थः। तथापि सर्वविशेषरहितोऽपि जगतो मूलम् इत्यवगतत्वादस्त्येव कार्यप्रविलापनस्य अस्तित्वनिष्ठत्वात्। तथा हीदं कार्यं सूक्ष्मतारतम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठामेवावगमयति। यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिस्तदापि सा सत्प्रत्ययगर्भैव विलीयते। बुद्धिर्हि नः प्रमाणं सदसतोर्याथात्म्यावगमे।
मूलं चेज्जगतो न स्यादसदन्वितमेवेदं कार्यमसदित्येवं गृह्रेत न त्वेतदस्ति सत्सदित्येव तु गृह्रते;यथा मृदादिकार्यं घटादिमृदाद्यन्वितम्। तस्माज्जगतो मूलमात्मास्तीत्येवोपलब्धव्यम्। कस्मात्?अस्तीति ब्राुवतोऽस्तित्ववादिन आगमार्थानुसारिणः श्रद्दधानादन्यत्र नास्तिकवादिनि नास्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि कथं तद्ब्राहृ तच्वत उपलभ्यते न कथञ्चनोपलभ्यत इत्यर्थः।।12।।
तस्मादपोह्रासद्वादिपक्षम् आसुरम्-
2.3.13
अस्तीत्येवोपलब्धव्यस्तच्वभावेन चोभयोः। अस्ती त्येवोपलब्धस्य तच्वभावः प्रसीदति।। 13 ।।
ए.2.3.13
अस्तीत्येवात्मोपलब्धव्यः सत्कार्यो बुद्धयाद्युपाधिः। यदा तु तद्रहितोऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्"(छा.उ.6/1/4) इति श्रुतेस्तदा यस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनः तच्वभावो भवति तेन च रीपेण आत्मोपलब्धव्य इत्यनुवर्तते।
तत्राप्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतच्वभावयोःनिर्धारणार्था षष्ठी-पूर्वमस्तीत्येवोपलब्धस्यात्मनः सत्कार्योपाधिकृतास्तित्वप्रत्ययेनोपलब्धस्य इत्यर्थः पश्चात्प्रत्यस्तमितसर्वोपाधिरूप आत्मन, स्तच्वभावो विदिताविदिताभ्यामन्योऽद्वयस्वभावः "अस्थूलमनण्वह्मस्वम्" (बृ.उ.3/8/8) "अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने" (तै.उ.2/7/1) इत्यादि श्रुतिनिर्दिष्टः प्रसीदत्यभिमुखीभवति आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत्।।13।।
एवं परमार्थदर्शिनः-
2.3.14
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य ह्मदि श्रिताः। अथ मत्र्योऽमृतो भवत्यत्र ब्राहृ समश्नुते।।14।।
ए.2.3.14
यदा यस्मिन्काले सर्वे कामाः कामयितव्यस्यान्यस्याभावात्प्रमुच्यन्ते विशीर्यन्ते येऽस्य प्राक्प्रतिबोधाद्विदुषो ह्मदि बुद्धौ श्रिता आश्रिताः। बुद्धिर्हि कामानामाश्रयो नात्मा। "कामः संकल्पः" (बृ.उ.1/5/3) इत्यादिश्रुत्यन्तराच्च।
अथ तदा मत्र्यः प्राक्प्रबोधात् आसीत्स प्रबोधोत्तरकालमविद्याकामकर्मलक्षणस्य मृत्योर्विनाशादमृतो भवति। गमनप्रयोजकस्य मृत्योर्विनशाद्गमनानुपपत्तेरत्रेहैव प्रदिपनिर्वाणवत्सर्वबन्धनोपशमाद् ब्राहृ समश्नुते ब्राहृैवभवतीत्यर्थः।।14।।
कदा पुनः कामानां मूलतो विनाश इत्युच्यते-
2.3.15
यदा सर्वे प्रभिद्यन्ते ह्मदयस्येह ग्रन्थयः। अथ मर्योऽमृतो भवत्येतावद्धयनुशासनम्।।15।।
ए.2.3.15
यदा सर्वे प्रभिद्यन्ते भेदम् उपयान्ति विनश्यन्ति ह्मदयस्य बुद्धेरिह जीवत एव ग्रन्थयो ग्रन्थिवद् दृढबन्धनरूपा अविद्याप्रत्यया इत्यर्थः। अहमिदं शरीरं ममेदं धनं सुखी दःखी चाहम् इत्येवमादिलक्षणास्तद्विपरीतब्राहृात्मप्रत्ययोपजननाद् ब्राहृैवाहमस्मि असंसारीति विनष्टेष्वविद्याग्रन्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति। अथ मत्र्योऽमृतो भवत्येतावद्धयेतावदेवैतावन्मात्रं नाधिकमस्तीत्याशङ्का कर्तव्या-अनुशासनमनुशिष्टिरुपदेशः सर्ववेदान्तानमिति बाक्यशेषः।।15।।
निरस्ताशेषविशेषव्यापिब्राहृात्मप्रतिपच्या प्रभिन्नसमस्ताविद्यादिग्रन्थेर्जीवत एव ब्राहृभूतस्य
विदुषो न गतिर्विद्यत इत्युक्तमत्र ब्राहृ समश्नुत इत्युक्तत्वात्। "न तस्य प्राणा उत्क्रामन्ति ब्राहृैव सन्ब्राहृाप्येति" (बृ.उ.4/4/6) इति श्रुत्यन्तराच्च।
ये पुनर्मन्दब्राहृविदो विद्यान्तरशीलिनश्च ब्राहृलोकभाजो ये च तद्विपरीताः सेसारभाजः तेषामेव गतिविशेष उच्यते-प्रकृतोत्कृष्टब्राहृविद्याफलस्तुतये।
किं चान्यदग्निविद्या पृष्टा प्रत्युक्ता च। तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः। तत्र-
2.3.16
शतं चैका च ह्मदयस्य नाड¬स्तासां मूर्धानमभिनिःसृतैका। तपोध्र्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति।।16।।
ए.2.3.16
शतं च शतसंख्याका एका च सुषुम्ना नाम पुरुषस्य ह्मदयाद्विनिःसृता नाङ्यः शिरास्तासां मध्ये मूर्धानं भिच्वा विनिःसृता निर्गता सुषुम्ना नाम। तयान्तकाले ह्मदय आत्मानं वशीकृत्य योजयेत्।
तया नाड¬ोध्र्वमुपर्यायन् गच्छन्नादित्यद्वारेणामृतत्वममरणधर्मत्वमापेक्षिकम्। "आभूतसंप्लंवं स्थानममृतत्वं हि भाष्यते"(वि.पु.2/8/17) इति स्मृतेः। ब्राहृणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्राहृलोकगतान्। विष्वङ्नानाविधगतयः अन्या नाड¬ उत्क्रमणे निमित्तं भवन्ति संसारप्रतिपत्यर्था एव भवन्तीत्यर्थाः।।16।।
इदानीं सर्ववल्ल्यर्थोपसंहारार्थमाह-
2.3.17
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां ह्मदये संनिविष्टः। तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण। तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति।।17।।
ए.2.3.17
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां सम्बन्धिनि ह्मदये संनिविष्टो यथाव्याख्यातः तं स्वादात्मीयाच्छरीरात्प्रवृहेत् उद्यच्छेन्निष्कर्षेत्पृथक्कुर्यादित्यर्थः। किमिवेत्युच्यते मुञ्जादिव इपीकामन्तःस्थां धैर्येणाप्रमादेन। तं शरीरान्निष्कृष्टं चिन्मात्रं विद्याद्विजानीयाच्छुक्रममृतं यथोक्तं ब्राहृेति द्विर्वचनमुपनिषत्परिसमाप्त्यर्थमितिशब्दश्च।।17।।
विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारोऽधुनोच्यते-
2.3.18
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्। ब्राहृप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव।।18।।
ए.2.3.18
मृत्युप्रोक्तां यथोक्तामेतां ब्राहृविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलमित्येतत्;नचिकेता वरप्रदानात् मृत्योर्लब्ध्वा प्राप्येत्यर्थः;किम्?ब्राहृप्राप्तोऽभून्मुक्तोऽभवदित्यर्थः। कथम्?विद्याप्राप्त्या विरजो विगतधर्माधर्मो विमृत्युर्विगतकामाविद्यश्च सन्पूर्वमित्यर्थः।
न केवलं नचिकेता एव अन्योऽपि नचिकेतोवदात्मविद् अध्यात्ममेव निरुपचरितं प्रत्यक् स्वरूपं
प्राप्य तच्वमेवेत्यभिप्रायः नान्यद्रूपमप्रत्यग्रूपम्। तदेवमध्यात्ममेवमुक्तप्रकारेण वेद विजानातीत्येवंवित्सोऽपि विरजः सन्ब्राहृप्राप्त्या विमृत्युर्भवतीति वाक्यशेषः।।18।।
शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्थेयं शान्तिः उच्यते-
2.3.19
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै।।19।। ॐ शान्तिः! शान्तिः!! शान्तिः!!!
ए.2.3.19
सह नावावामवतु पालयतु विद्यास्वरूपप्रकाशनेन। कः? स एव परमेश्वर उपनिषत्प्रकाशितः। किं च सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु। सहैवावां विद्याकृतं वीर्यं सामथ्र्यं करवावहै निष्पादयावहै। किं च तेजस्विनौ तेजस्विनोरावयोर्यदधीतं तत्स्वधीतमस्तु। अथवा तेजस्वि नावावाभ्यां यदधीतं तदतीव तेजस्वि वीर्यवदस्तु इत्यर्थः। मा विद्विषावहै शिष्याचार्यावन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वेषं मा करवावहै इत्यर्थः। शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं सर्वदोषोपशमनार्थमित्योमिति।।19।।