आलम्बनपरीक्षावृत्तिः

विकिस्रोतः तः
आलम्बनपरीक्षावृत्तिः
आचार्यदिङ्नागः


नमः सर्वबुद्धबोधिसत्त्वेभ्यः

ये चक्षुरादिज्ञानस्यालम्बनं बाह्यार्थोऽस्तीतीच्छन्ति । ननु ते कल्पयन्ति परमाणुन्; तत्कारणात्वात्[ज्ञानस्य] । संघातं वा तदाभज्ञानस्य जायमानत्वात् । तत्र तावत्

यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः(=अणवः) कारणं भवेत् ।
अतदाभतया तस्या नाक्षवद्विषयः स तु(अणवः) ॥ १ ॥

विषय इति । ज्ञानेन स्वरूप मेव निर्धार्यते । तदाकारतया जायमानत्वात् । यद्यप्यणवः तत्कारणम् । तथापि न तादृशाः अक्षवत् । एवञ्च नाणवस्तावदालम्बनम् । संघातस्तु तदाभत्वेऽपि[ज्ञानम्य नालम्बनम् । यतः]

यदाभासा न तस्मात्सा

योऽर्थः स्वावभासिविज्ञप्तिमुत्पादयति सह्यालम्बनं युज्यते । यतः स एव ह्युत्पत्तिप्रत्यय उच्यते । संघातस्तु नैवम् ।

द्रव्याभावाद्द्विचन्द्रवत् ।

इन्द्रियवैकल्यात्द्विचन्द्रदर्शनस्य तदाभत्वेऽपि न तस्य विषयोऽस्ति । तद्वत्संघातः द्रव्यतोऽसत्त्वेन अकारणात्वात्नालम्बनम् ।

एवं बाह्यदूयञ्चैव न युक्तं मतिगोचरः ॥ २ ॥

अणुः कलापश्चेति बाह्योऽर्थः नालम्बनम्, एकाङ्गवैकल्यात् ॥ तत्र साधनं सञ्चिताकारमिच्छन्ति किल केचन ।

सर्वोऽर्थो बह्वाकारः अतः तत्र केनचिदाकारेण प्रत्यक्ष इप्यते ।
परमाणुष्वप्यस्ति सञ्चिताभज्ञानोत्पत्तिकारणभावः ।

अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत् ॥ ३ ॥

यथा कठिनतादि विद्यमानमपि न चाक्षुषबुद्धिविषयः । एवमनुत्वमपि ॥

भवेद्धटशरावादेस्तथा सति समा मतिः ।

घटशरावादिपरमाणुषु बहुष्वपि न कोऽपि विशेषोऽस्ति ।

आकारभेदाद्भेदश्चेत

यदि मन्यसे ग्रीवाद्याकारः विशेषक्रिया येन बुद्धेर्विशेषणमुपाधिर्भवेत् । इति । अयमुपाधिर्धटादावस्ति ।

नास्ति तु द्रव्यसत्यणौ ॥ ४ ॥

प्रमाणभेदाभावात्सः

परमाणुषु द्रव्यान्तरेष्वपि पारिमण्डल्ये भेदो नास्ति ।

अद्रव्येऽस्ति ततः स हि ।

आकारभेदः संवृतिसत्स्वेवास्ति न तु परमाणुषु । घटादयश्च संवृतिसन्त एव ॥

अणुनां परिहारे हि तदाभज्ञानविप्लवात् ॥ ५ ॥

द्रव्यसत्सु अपनीतसम्बन्धिष्वपि[नील-] वर्णादिवत्स्वबुद्धिर्न त्यज्यते । तथा सति इन्द्रियबुद्धीनां विषयो बहिर्नास्तीत्युपपद्यते ॥

यदन्तर्हेयरूपं तु बहिर्वदवभासते ।

सोऽर्थः

वाह्यार्थेऽविद्यमाने अन्तस्सदेव वहिर्वदवभासनमालम्बनप्रत्ययः ।

विज्ञानरूपत्वात्तत्प्रत्ययतयापि च ॥ ६ ॥

अन्तर्विज्ञान मर्थतयावभासते ततो उत्पद्यते चेति धर्मताद्वयविशिष्टमित्यतः अन्तस्सदेवालम्बनप्रत्ययः ॥

यदि तावदेवमवभास एव वेद्यते । कथं तदेकदेशः सहजातः प्रत्ययः ।

एकांशः प्रत्ययोऽवीतात्,

सहभूतोऽपि अव्यभिचारातन्यजातस्य प्रत्ययो भवती ॥ नैयायिकास्तु एवमाहुः । क्रमेण जायमानयोर्हेतुहेतुमतोः भवाभावतद्वत्ता लक्षण मिति ॥ अथवा

शक्त्यर्पणात्क्रमेण [वा] ।

क्रमेणापि सोऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानधारां करोतीत्यविरोधः ॥ यदि तर्हि स्वरूपमेवालम्बनप्रत्ययः । कथं तत्[रूपं] चक्षुश्चोपादाय चक्षुर्विज्ञानमुत्पद्यते ॥ [इति] ।

सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम् ॥ ७ ॥

इन्द्रियं स्वकार्यात्शक्तिरूपमेवानुमीयते न तु भौतिकम् ।

सा चाविरुद्धा विज्ञप्तेः

शक्तिस्तु विज्ञाने वास्तु । अनिर्देश्ये स्वस्य रूपे वास्तु कार्योत्पत्तौ न विशेषः ।

एवं विषयरूपकम् ।

प्रवर्तेतेऽनादिकालं शक्तिश्चान्योन्यहेतुके ॥ ८ ॥

चक्षुराख्यां शक्तिमन्तः रूपञ्चोपादाय विज्ञानमर्थावभासि आलम्बनादविभक्तमुत्पद्यते । इदं द्वयमपि अनादिकालमन्योन्यहेतुकम् । कदाचित्विज्ञानस्य शक्तिपरिपाकात्विषयाकारता भवति । कदाचिच्च तदाकारशक्तिः । विज्ञानं सा च उभयमन्यत्वेनानन्यत्वेन च यथेष्टमुच्यताम् । एवमन्तरालम्बनं धर्मताद्वयविशिष्टत्वात्विषयतया उपपद्यते ॥

इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षावृत्तिः समाप्ता ॥