आर्यमारीचीधारणी

विकिस्रोतः तः
आर्यमारीचीधारणी
[[लेखकः :|]]

मारीचीनामधारणी

ओं नमो भगवत्यै आर्यमारीचीदेवतायै ।

एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म । जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धत्रयोदशभिक्षुशतैः संबहुलैश्च महाश्रावकबोधिसत्वमहासत्वैः । तत्र खलु भगवान् भिक्षूनामन्त्रयते स्म । अस्ति भिक्षवो मारीची नाम देवता सा सूर्यचन्द्रमासोः पुरतोऽनूपगच्छति । सा न दृश्यते न गृह्यते न बध्यते न निरुध्यते न विरुध्यते न मुष्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोरनूपगच्छति । योऽपि तस्य भिक्षवो मारीचीनामदेवताया नाम जानाति सोऽपि न दृश्यते न गृह्यते न बध्यते न निरुध्यते न विरुध्यते न मुष्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोरनूपगच्छति । सोऽहं भिक्षवो मारीचीनामदेवताया नाम जानामि । अहमपि ॰यमपि॰॰ न दृश्यते न बध्यते न निरुध्यते न विरुध्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोरनूपगच्छति । इमानि मन्त्रपदानि भवन्ति । तद्यथा ः ओं पदाक्रमसि पराक्रमसि उदयमसि नैरमसि अर्कमसि मर्कमसि उर्मसि वनमसि गुल्ममसि चीवरमसि महाचीवरमसि अन्तर्धानमसि स्वाहा ।

ओं मारीचीदेवता पथे मां गोपय । उत्पथे मां गोपय । पुरुषभयतो मां गोपय । राजभयतो मां गोपय । हस्तिभयतो मां गोपय । चौरभयतो मां गोपय । नागभयतो मां गोपय । सिंहभयतो मां गोपय । व्याघ्रभयतो मां गोपय । अश्वभयतो मां गोपय । (माध्१५८) अग्निभयतो मां गोपय । उदकभयतो मां गोपय । सर्पभयतो मां गोपय । विषभयतो मां गोपय । सर्वप्रत्यर्थिकप्रत्यमित्रभयतो मां गोपय । आकुलेषु मां गोपय । अनाकुलेषु मां गोपय । मूर्च्छितेषु मां गोपय । अमूर्च्छितेषु मां गोपय । नागतो मे रक्ष । चण्डमृगतो मे रक्ष । रक्ष २ मम सर्वसत्वानां च सर्वदुष्टप्रदुष्टेभ्यः । तद्यथा ः नमो रत्नत्रयाय ओमालो तालो कालो सच्छलो सत्वमुद्रति रक्ष रक्ष मां सपरिवारस्य सर्वसत्वानां च सर्वभयोपद्रवेभ्यः स्वाहा ।

नमो रत्नत्रयाय । नमो भगवत्यै आर्यमारीचीदेवतायै । तस्या हृदयमावर्तयिष्यामि । तद्यथा ः ओं वत्ताली वदाली वराली वराहमुखी । सर्वदुष्टप्रदुष्टानां चक्षुर्मुखं बन्ध बन्ध । बन्ध मुखं जम्भय स्तम्भय मोहय स्वाहा । ओं मारीच्यै स्वाहा । ओं वराली वदाली वत्ताली वराहमुखी सर्वदुष्टप्रदुष्टानां चक्षुर्मुखं बन्ध बन्ध जम्भय जम्भय स्तम्भय स्तम्भय मोहय मोहय भञ्जय भञ्जय तर्जय तर्जय ह्रीं ह्रीं हूं हूं फट्* स्वाहा । ओं मारीच्यै सर सर मुह्य मुह्य विमुह्य विमुह्य अपक्राम्य अपक्राम्य सर्वदुष्टसत्वान् पथे उत्पथे सर्वविध्नविनायका अपसरन्तु मा तिष्ठन्तु त्रिरत्नसत्येन स्वाहा । ओं चण्ड परमचण्ड स्वाहा । ओमगलि पगलि पञ्चगलि सर्वदुष्टप्रदुष्टानां कायवाक्चित्तं मुखं चक्षुषि बन्ध बन्ध हूं हूं हूं फट्* फट्* फट्* स्वाहा ।

इदमवोचद्भगवानात्तमनास्ते च भिक्षवस्ते च बोधिसत्वाः सा च सर्वावती पर्षत्सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ।

॥ आर्यमारीची नाम धारणी समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=आर्यमारीचीधारणी&oldid=369843" इत्यस्माद् प्रतिप्राप्तम्