अहोरात्रव्रतचैत्यसेवानुशंसावदानम्

विकिस्रोतः तः
अहोरात्रव्रतचैत्यसेवानुशंसावदानम्
[[लेखकः :|]]


अहोरात्रव्रतचैत्यसेवानुशंसावदानम्

ओं नमो रत्नत्रयाय ।

श्रीमद्रत्नत्रयं नत्वा त्रिधातुभुवनाधिपम् ।
अहोरात्रव्रतकथां वक्ष्ये गुरूपदेशतः ॥ १ ॥
कुक्कुटाराममासीनमुपगुप्तं यतीश्वरम् ।
कृताञ्जलिपुटोऽशोकः प्रार्थयदेवमादरात् ॥ २ ॥
____________________

{अ दिffएरेन्त्वेर्से इन् ब्च्दे अस्fओल्लोwस्:
अथाशोको महीपाल उपगुप्तं यतिं च तम् ।
कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ २* ॥}
____________________

भदन्त श्रोतुमिच्छामि चैत्यव्रतविधिं पुनः ।
अहोरात्रव्रतस्यापि विधिं पुण्यानि सद्गुरो ॥ ३ ॥
तद्भवान् सद्गुरुः शास्ता लोकपुण्यप्रवृद्धये ।
अहोरात्रव्रतस्यात्र विधिमादेष्टुमर्हति ॥ ४ ॥
इति तेन नरेन्द्रेण प्रार्थितं स सुधीर्यतिः ।
श्रुत्वा तं नृपमालोक्य पुनरेवमुपादिशत् ॥ ५ ॥
शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं समाचर ॥ ६ ॥
पुरा स भगवाञ्छास्ता शाक्यसिंहो जगद्गुरुः ।
श्रावकैर्भिक्षुभिः सार्धं चैलकैश्चाप्युपासकैः ॥ ७ ॥
भिक्षुणीभिः सुशीलाभिर्बोधिसत्त्वगणैरपि ।
विहारे जेतकारण्ये व्यहरत्सौगताश्रमे ॥ ८ ॥
तदा स भगवान् बुद्धो लोकानां पुण्यवृद्धये ।
सभामध्ये समासीनो धर्ममादेष्टुमारभत् ॥ ९ ॥
तदा सर्वेऽमरेन्द्रादिलोकपाला महर्द्धिकाः ।
तत्सद्धर्मामृतं पातुं श्रद्धया समुपागताः ॥ १० ॥
ब्रह्मादिब्राह्मणाश्चापि महर्षयस्तपस्विनः ।
चत्वारश्च महाराजाः ससैन्यपरिचारकाः ॥ ११ ॥
दैत्येन्द्रा नागराजाश्च यक्षगन्धर्वकिन्नराः ।
सिद्धा विद्याधराः साध्या ग्रहाश्च वसवस्तथा ॥ १२ ॥
राक्षसाश्च महाविरा गरुडाश्च महोरगाः ।
योगिनो यतयश्चापि राजानः क्षात्रिया अपि ॥ १३ ॥
अमात्या मन्त्रिणश्चापि वैश्या राजकुमारकाः ।
श्रेष्ठिनो धनिनः शूद्राः सार्थवाहा माहाजनाः ॥ १४ ॥
वणिजः शिल्पिनश्चापि पौरा जनपदास्तथा ।
ग्राम्याः कार्वटिकाश्चापि तथान्यदेशवासिनः ॥ १५ ॥
सर्वे ते समुपागत्य बुद्धं तं शृईघनं मुदा ।
सत्कृत्य श्रद्धयाभ्यर्च्य कृत्वा प्रदक्षिणान्यपि ॥ १६ ॥
कृताञ्जलिपुटा नत्वा निऋईक्ष्य संप्रमोदिताः ।
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ १७ ॥
तदासनात्समुत्थाय सुभूतिः स्थविरो यतिः ।
उद्वहन्नुत्तरासङ्गं जानुभ्यां भुवि संस्थितः ॥ १८ ॥
कृताञ्जलिपुटो नत्वा भगवन्तं जगद्गुरुम् ।
श्रीघनं तं समालोक्य प्रार्थयदेवमादरात् ॥ १९ ॥
भगवन्नाथ सर्वज्ञ विजानीयाद्भवान् गुरुः ।
सर्वलोका इमे शास्तुर्धर्मं श्रोतुं समास्थिताः ॥ २० ॥
तदत्र भुवने ख्यातमहोरात्रव्रतं कदा ।
प्रवर्तते तदाख्याहि तद्विधिं च कथं प्रभो ॥ २१ ॥
इति तेनार्हता पृष्टे भगवान् स मुनीश्वरः ।
तां सभां तं सुभूतिं च समालोक्यैवमब्रवीत् ॥ २२ ॥
साधु शृणु सुभूते त्वं सर्वसत्त्वहितार्थभृत् ।
अहोरात्रव्रतं पुण्यं विधिं च कथ्यते मया ॥ २३ ॥
पुरा पूर्वविदेहेऽभूत्ख्याता गन्धवती पुरी ।
तस्यां राजा महाविज्ञ इन्द्रप्ष्टाभिधः प्रभुः ॥ २४ ॥
सोऽन्तःपुरे समानीय वसुबन्धुं जिनात्मजम् ।
सभायां स्वासने स्थाप्य सत्कृत्य श्रद्धयार्चयत् ॥ २५ ॥
ततः स भूपती राजा उत्थाय समुपाश्रितः ।
कृताञ्जलिः प्रणत्वैनं प्रार्थयदेवमादरात् ॥ २६ ॥
भदन्त यदिमे लोका असद्धर्माभिमानिनः ।
तदेषां मानघाताय सद्धर्मं समुपादिश ॥ २७ ॥
यच्छ्रुत्वैव त्विमे सर्वे सद्धर्मप्रतिबोधिताः ।
सर्वपापविनिर्मुक्ता भवेयुर्बोधिलाभिनः ॥ २८ ॥
इति राज्ञार्थितं श्रुत्वा वसुबन्धुः स आत्मवित् ।
इन्द्रपृष्टं महीन्द्रं तं समालोक्यैवमब्रवीत् ॥ २९ ॥
शृणु साधु महाराजा तव पुण्यप्रवृद्धये ।
सर्वसत्त्वहितार्थं तदहोरात्रमहाव्रतम् ॥ ३० ॥
यथा मया श्रुतं पूर्वं विपश्यिना प्रभाषितम् ।
महत्पुण्यानुशंसा च तद्विधिश्च प्रचक्ष्यते ॥ ३१ ॥
संसारेऽत्र महत्पुण्यं प्राप्तुमिच्छन्ति ये नराः ।
चरितव्यमहोरात्रव्रतं तैः श्रद्धया मुदा ॥ ३२ ॥
भक्त्या चरन्ति ये मर्त्या अहोरात्रव्रतं मुदा ।
ते सर्वे विमलात्मानः परिशुद्धत्रिमण्डलाः ॥ ३३ ॥
बोधिचित्तं समासाद्य चरित्वा बोधिचारिकाम् ।
सर्वसत्त्वहितं कृत्वा पूर्य पारमिताः क्रमात् ॥ ३४ ॥
सर्वक्लेशगणाञ्जित्वा सर्वमारगणानपि ।
सम्यग्बोधिं समासाद्य भवेयुः सुगता ध्रुवम् ॥ ३५ ॥
अतीतैश्च जिनैः सर्वैः कृत्वैतद्व्रतमुत्तमम् ।
सर्वमारगणाञ्जित्वा संबोधिः साधिता खलु ॥ ३६ ॥
वर्तमानैश्च संबुद्धैः सर्वैरेतद्व्रतं कृतम् ।
एतत्पुण्यानुभावैर्हि संबोधिः साधिता द्रुतम् ॥ ३७ ॥
तथा चानागतैः सर्वैः कृत्वा चैतद्व्रतं वरम् ।
एतत्पुण्यविपाकैस्तु प्राप्स्यते बोधिरुत्तमा ॥ ३८ ॥
तथान्ये बोधिसत्त्वाश्च संबोधिव्रतचारकाः ।
एतद्व्रतवरं धृत्वा चरन्ति बोधिसंवरम् ॥ ३९ ॥
तथा सर्वेऽमरेन्द्राश्च कृत्वा चैतद्व्रतं मुदा ।
देवलोकाधिनाथास्ते भवन्ति बोधिभागिनः ॥ ४० ॥
एवं सर्वे महासत्त्वा ऋषयो मुनयोऽपि च ।
एतद्व्रतवरं कृत्वा भवन्ति ब्रह्मचारिणः ॥ ४१ ॥
एवं ये ये नराश्चापि चरन्त्येतद्व्रतं मुदा ।
ते ते सर्वेऽपि तत्पुण्यैर्भवन्ति बोधिभागिनः ॥ ४२ ॥
ये चाप्येतद्व्रतं दृष्ट्वा श्रुत्वापि चानुमोदिताः ।
प्रसीदन्ति तथा तेऽपि तत्पुण्यं प्राप्नुवन्ति हि ॥ ४३ ॥
एतत्पुण्यानुभावेन नैव गच्छन्ति दुर्गतिम् ।
सर्वदा सशुभं सौख्यं भुक्त्वा यान्ति जिनालयम् ॥ ४४ ॥
तस्मात्सर्वप्रयत्नेन सद्धर्मसुखवाञ्छिभिः ।
अहोरात्रव्रतं भक्त्या चरितव्यं नरैः सदा ॥ ४५ ।
अहोरात्रव्रतोत्पन्नपुण्यसंख्या न विद्यते ।
अप्रमेयमसंख्येयमिति बुद्धैः प्रकथ्यते ॥ ४६ ॥
सर्वैरपि मुनीन्द्रैस्तत्संख्यां कर्तुं न शक्यते ।
मयात्र शक्यमेकेन तत्पुण्यं गणितुं कथम् ॥ ४७ ॥
यस्य पुण्यानुभावेन महान्ति पातकान्यपि ।
निर्दह्य परिशुद्धात्मा तत्क्षणाद्याति सद्गतिम् ॥ ४८ ॥
यथाभिलषितं कार्यं साधयित्वा ह्यविघ्नतः ।
सर्वदा सत्सुखं भुक्त्वा संयान्त्यन्ते जिनालयम् ॥ ४९ ॥
इति मत्वा महत्पुण्यमहोरात्रव्रतं वरम् ।
धर्मार्थकाममोक्षाप्त्यै चरितव्यं सदा नरैः ॥ ५० ॥
तथा चेत्ते महत्पुण्यमिहामुत्र शुभं सदा ।
क्रमाद्बोधिव्रतं प्राप्य बोधिसत्त्वो भवेद्ध्रुवम् ॥ ५१ ॥
क्रमात्क्लेशान् विनिर्जित्य संसारसुखनन्दिनः ।
जित्वा मारगणान् सर्वान् संबुद्धपदमाप्नुयाः ॥ ५२ ॥
इति तेन समाख्यातं धीमता वसुबन्धुना ।
श्रुत्वैवं सुमहत्पुण्यमिन्द्रपृष्टो मुमोद सः ॥ ५३ ॥
ततः स इन्द्रपृष्टाख्यो महाराजोऽनुमोदितः ।
अहोरात्रव्रतं कर्तुं चारयितुं समैच्छत ॥ ५४ ॥
ततः स नृप उत्थाय साञ्जलिः समुपाचरन् ।
वसुबन्धुं तमानत्वा प्रार्थयदेवमादरात् ॥ ५५ ॥
भदन्त भवतादिष्टमहोरात्रव्रतोद्भवम् ।
महत्पुण्यं निशम्याहं कर्तुमिच्छामि सांप्रतम् ॥ ५६ ॥
तस्मात्तद्विधिमादेष्टुमर्हसि मे जगद्धिते ।
सर्वथाहं चरिष्यामि चरिष्यन्ति प्रजा अपि ॥ ५७ ॥
तदत्र सर्वसत्त्वानां हिताय पुण्यसिद्धये ।
अहोरात्रव्रतस्यैवं विधिमादेष्टुमर्हसि ॥ ५८ ॥
इति तेन नरेन्द्रेण प्रार्थितं स महामतिः ।
वसुबन्धुर्निशम्यैवमिन्द्रपृष्टं तमब्रवीत् ॥ ५९ ॥
शृणु राजन् यथाख्यातं मुनीन्द्रेण विपश्यिना ।
तथाहं ते प्रवक्ष्यामि व्रतराजविधिं क्रमात् ॥ ६० ॥
स्वयंभूचैत्यभूक्षेत्रे विहारे सुगताश्रमे ।
पुण्यक्षेत्रे नदीतीरे संगमे सरितां तथा ॥ ६१ ॥
तीर्थे समुद्रतीरे च ह्रदतीरे सरस्तटे ।
उद्याने पर्वतेऽरण्ये विविक्ते वनाश्रमे ॥ ६२ ॥
चैत्यालये शुभे स्थाने प्रासादे मन्दिरे गृहे ।
एवमन्यत्र भूदेशे शुद्धस्थाने मनोरमे ॥ ६३ ॥
एतेषु परिशुद्धेषु यत्रेप्सिते विशोधिते ।
धर्मशालां विधायादौ मृद्गोमयैर्विलेपयेत् ॥ ६४ ॥
चतुर्ध्वजान् प्रतिष्ठाप्य वितनुयाद्वितानकम् ।
पुष्पमालादिभिश्चित्रैर्दुष्यैः पट्टैश्च मण्डयेत् ॥ ६५ ॥
____________________

{ए अद्द्स वेर्से इन् थे मर्गिनस्fओल्लोwस्:
गोक्शीरैः पंचरत्नैश्च शिलाचूर्णैर्विलेपयेत् ।
दिग्माला दिग्प्रतापैश्(सिच्) च लम्बयेच्च जिनालयम् ॥ ६५* ॥}
____________________

तत्र वज्री शुभाचारः परिशुद्धत्रिमण्डलः ।
मण्डलं वर्तयेद्रम्यं धर्मधातोर्यथाविधि ॥ ६६ ॥
ततस्तन्मण्डलं वज्री प्रतिष्ठाप्य यथाविधि ।
व्रतिनां संग्रहं कृत्वा व्रतारम्भं प्रकारयेत् ॥ ६७ ॥
शुक्लपक्षे त्रयोदश्यां भोजनान्ते दिनात्यये ।
दन्तादिधावनं कृत्वा मुखादिं परिशोधयेत् ॥ ६८ ॥
चतुर्दश्यां प्रभाते च तीर्थे स्नात्वा व्रती सुधीः ।
शुचिवस्त्रावृतो भद्रशीलः श्रद्धासमन्वितः ॥ ६९ ॥
मध्याह्ने मण्डलं चैत्यं पञ्चभिरुपहारकैः ।
यथाविधि समभ्यर्च्य प्रणामं संप्रकारयेत् ॥ ७० ॥
ततो यामे तृईयेऽह्नः कारयेद्व्रतपालणम् ।
निरामिषैर्विशुद्धान्नैः स्नानं च कारयेत्ततः ॥ ७१ ॥।
ततो रात्रिमुखे चैत्यं मण्डलं च समर्चयेत् ।
दीपमालाः समुज्ज्वाल्य धर्मं च श्रावयेद्व्रतीन् ॥ ७२ ॥
पूर्णमास्यां प्रभाते तु स्नात्वा शुद्धाम्बरावृताः ।
शोधितपञ्चगव्येन कुर्युश्चाङ्गविशोधनम् ॥ ७३ ॥
ततो दत्त्वार्घमादौ ते सूर्याय व्रतिनस्तथा ।
गुरवे च प्रदायार्घं स्थित्वा स्वस्वासने क्रमात् ॥ ७४ ॥
पूजाङ्गानि च सर्वाणि शोधयेयुर्यथाविधि ।
तत्रादौ व्रतिसंघः स वज्रसत्त्वं समर्चयेत् ॥ ७५ ॥
ततो रत्नत्रयं चैव संपूजयेद्यथाविधि ।
तेषां च शरणं गत्वा प्रणमेद्रचिताञ्जलिः ॥ ७६ ॥
त्रिसमाधिं ततः कृत्वा ध्यात्वात्मनि जिनेश्वरम् ।
आवाहयेत्पुरः श्रीमद्धर्मधातुं महेश्वरम् ॥ ७७ ॥
तत्पादार्घं ततो दद्यात्ततश्चाचमनार्घकम् ।
प्रोक्षणार्घं ततो दत्त्वा मण्डले संनिवेशयेत् ॥ ७८ ॥
ततः पूजोपहारैस्तं मण्डलं सगणं मुदा ।
यथाविधि समभ्यर्च्य तद्धृन्मन्त्रं सुधीर्जपेत् ॥ ७९ ॥
____________________

{ए अद्द्स्हेरे:
ततः स्तोत्रं पठेत् ।
धर्मधातुमयं चैत्यं सर्वाकारस्वरूपिणम् ।
आलयं सर्वबुद्धानां वागीश्वरं नमाम्यहम् ॥
जिनजसकलधातुं पुण्यक्षेत्रे कृतार्थम् ।
प्रविणजनसुखार्थं सेवितार्थं प्रदत्तम् ॥
प्रणमतं मुनिराजमंजलिष्ठं प्रधानम् ।
जितसकलभयार्थं लोकनाथं महेशम् ॥}
____________________

ततः स्तोत्रं पठित्वा तु तोषयेद्रचिताञ्जलिः ।
पापानां देशनां कुर्यात्थता पुण्यानुमोदनाम् ॥ ८० ॥
प्रदक्षिणान्यतः कुर्यात्संगीतैश्च महोत्सवम् ।
अष्टाङ्गप्रणतिं कृत्वा प्रार्थयेद्बोधिसंवरम् ।
ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् ॥ ८१ ॥
यथा पूजा कृता तत्र मण्डले विधिवत्तथा ।
चैत्यबिम्बं समभ्यर्च्य प्रार्थयेदेवमादरात् ॥ ८२ ॥
तथा सर्वत्र चैत्येषु कुर्यात्पूजादिकं मुदा ।
संगीतिसहितैः स्तोत्रैः कुर्यादेवं महोत्सवम् ॥ ८३ ॥
कृत्वा प्रदक्षिणान्येव निद्रालास्यं विहाय च ।
मुदा जागरणं कुर्वन्नहोरात्रं व्रतं चरेत् ॥ ८४ ॥
चतुःसंध्यं तथा स्नात्वा चैत्यसेवां समाचरेत् ।
दुष्टजातिर्न च स्पृश्या स्पर्शिते स्नानमाचरेत् ॥ ८५ ॥
विश्रामं नैव कुर्याच्च खेदं चित्तेन वा व्रती ।
चैत्यध्यानसमाधानो जपन् स्तोत्रं पठंश्चरेत् ॥ ८६ ॥
नृत्यगीतमहोत्साहैर्नानावाद्यैः सनृत्यकैः ।
हाहाकारैः समुल्लासैः प्रचारयेन्महोत्सवम् ॥ ८७ ॥
एवं पूर्णमहोरात्रमविश्रान्तं व्रतं चरेत् ।
ततः प्रातस्तथा स्नात्वा मण्डलं चैत्यमर्चयेत् ॥ ८८ ॥
ततश्छत्रं पताकाश्च सिन्दूरपात्रया सह ।
सलाजाक्षतपुष्पांश्च प्रारोहयेत्महोत्सवैः ॥ ८९ ॥
यज्ञं कुर्यात्तथा वज्री बलिं दद्याद्यथाविधि ।
अभिषेकं ततो दत्त्वा पञ्चसूत्रघटं क्रमात् ॥ ९० ॥
साशीर्वादं व्रतिभ्योऽपि दद्याद्वज्री समाहितः ।
ततः क्षमार्थनां कृत्वा मण्डलं तद्विसर्जयेत् ॥ ९१ ॥
ततस्ते व्रतिनः सर्वे वज्राचार्यं गुरुं यतीन् ।
अभ्यर्च्य दक्षिणां दत्त्वा तोषयेयुः प्रणम्य च ॥ ९२ ॥
ततस्तद्रज आदाय तीर्थे नागान् समर्च्य च ।
प्रवाहयेत्ततो गेहं प्रायायान्मङ्गलोत्सवैः ॥ ९३ ॥
तत्र तन्मण्डलस्थानं तीर्थाम्बुनाभिषिञ्चयेत् ।
ततस्ते व्रतिनः सर्वे कुर्युस्तद्व्रतपालणम् ॥ ९४ ॥
ततस्तन्मण्डलस्थाने वज्राचार्यो यथाविधि ।
कुमारीं पूजयित्वा तां देवीं भोज्यैः प्रतोषयेत् ॥ ९५ ॥
गणचक्रं ततोऽभ्यर्च्य भोजनैः संप्रतोषयेत् ।
व्रतिनः साधकांश्चापि जनान् सर्वांश्च तोषयेत् ॥ ९६ ॥
एवं चरन्ति ये मर्त्या अहोरात्रव्रतं मुदा ।
ते भवन्ति महासत्त्वा बोधिसत्त्वाः शुभाशयाः ॥ ९७ ॥
दुर्गतिं ते न गच्छन्ति सदा गच्छन्ति सद्गतिम् ।
भुक्त्वा धर्मसुखोत्साहं संप्रयान्ति जिनालयम् ॥ ९८ ॥
एवं विपश्यिना शास्त्रा समाख्यातं श्रुतं मया ।
भूयः शृणु महाराज तत्फलानि विशेषतः ॥ ९९ ॥
पञ्चामृतैः पञ्चसुगन्धितोयैर्ये स्नापयन्तीह जिनेन्द्रचैत्यम् ।
मन्दाकिनीदिव्यसुगन्धितोये स्नात्वामरैस्ते सततं रमन्ते ॥ १०० ॥
____________________

{भस्थे fओल्लोwइन्गद्दितिओनल्वेर्से हेरे,
पञ्चामृतैः पञ्चसुगन्धिरत्नैर्दुर्वाक्षतैः कूसुमलाजतोयैः ।
ये चार्घदानं वितरन्ति चैत्ये ते प्राप्नुवन्तीह महानिधानम् ॥ १००* ॥}
____________________

कुर्वन्ति चैत्ये जलमण्डलं ये सुपिष्टवासेन तथा मनुष्याः ।
ते हेमवर्णा नृपवंशजाताः समृद्धिमन्तः सुभगा भवन्ति ॥ १०१ ॥
सुगन्धधूपं जिनचैत्यबिम्बे ये धूपयन्ति प्रतिमोदयन्तः ।
सुगन्धदेहाः सुरसंघवन्द्यास्ते शुद्धचित्ता मनुजा भवन्ति ॥ १०२ ॥
ये पञ्चगन्धैरनुलेपयन्ति संबुद्धचैत्यं मनुजाः प्रसन्नाः ।
सौगन्धिताङ्गा बलदीप्तिमन्तस्ते संभवन्ते परमार्थलोकाः ॥ १०३ ॥
यज्ञोपवीतं वररङ्गितं च सुचीवराणि प्रददन्ति चैत्ये ।
ते दिव्यवस्त्रावृतसौम्यदेहाः सर्वार्थसंपद्भरिता भवन्ति ॥ १०४ ॥
ये सर्वपुष्पैर्वरगन्धवद्भिरभ्यर्चयन्ति प्रतिनम्य चैत्यम् ।
नैरोगिणस्ते सुचिरायुषः स्युः सौभाग्यवन्तः सुविशालवंशाः ॥ १०५ ॥
ये चापि चैत्यं परिमण्डयन्ति स्रग्भिः सुपुष्पै रचिताभिरेवम् ।
ते भाग्यवन्तः परिभूषिताङ्गा देवा भवन्ति प्रथिता नृपाश्च ॥ १०६ ॥
ये दीपमाला रचयन्ति चैत्ये ते रत्नसंपत्परिपूर्णकोषाः ।
नेत्राभिरामाः सुदृशो भवन्ति ते ज्ञानदीपाहतमोहजालाः ॥ १०७ ॥
____________________
{अ हस्त्wओ अद्दितिओनल्वेर्सेस्हेरे
मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने
क्लेशारीनपि यो दुरन्तविषयानन्तश्चरान् दुर्जनान् ।
स्कन्धारातिमपि प्रसह्य सुगतो मृत्युं च निःस्वोऽवशः
प्राप्तः सर्वरसाग्रभोगवशितां क्षीरोदनाढौकनात् ॥ १०७* ॥
सौवर्णरौप्यविधधातुजमृन्मयं वा
शाल्योदनैः सुपरिपूर्णसुपिण्डपात्रम् ।
भक्त्या ददाति सुगतालयचैत्यबिम्बे
स्यात्तस्य पुण्यमसमं फलमप्रमेयम् ॥ १०७** ॥}
____________________

ये चैत्यबिम्बे सुरसं प्रणीतं नैवेद्यमग्रं प्रददन्ति भोग्यम् ।
ते लोकश्रेष्ठा बलकीर्तियुक्ता नृपा भवन्ति प्रथितानुभावाः ॥ १०८ ॥
ये चापि चैत्ये फलपत्त्रमूलस्कन्धादिकं वा प्रददन्ति भक्त्या ।
नीरोगिणस्ते सुसमृद्धिमन्तो यथेष्टभोग्याः सुखिनो भवन्ति ॥ १०९ ॥
भैषज्यमेवं प्रददन्ति ये च संबुद्धचैत्ये मनुजाः प्रसन्नाः ।
स्निग्धाननास्ते नृपतीश्वराश्च सौवंवर्णा निरुजो भवन्ति ॥ ११० ॥
____________________

{ब्, wहिछ्हद्व्स्. इइ नोतेदबोवे हेरे, अद्द्सनोथेर्वेर्से,
माहिष्यगोरसवरं घृतया समेतम्
....................................................... ये ।
तस्मै ददन्ति सततं जिनपुंगवाय
ते प्राप्नुवन्त्य्............. सराजलक्ष्मीम् ॥ ११०* ॥}
____________________

ताम्बूलपूगादिरसायनानि ये चैत्यबिम्बे परिढौकयन्ति ।
ते भूमिपालाः सुभगा भवन्ति दिव्याङ्गनानेत्रमनोहरास्याः ॥ १११ ॥
____________________

{अ अन्द्भवे थे fओल्लोwइन्गद्दितिओनल्वेर्से हेरे.
कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां
स्वादुस्पर्शसुखां सुरासुरपुरे यद्देववृन्दारकैः ।
भास्वत्काञ्चनभाजनेषु निहितामश्नन्ति दिव्यां सुधां
तद्बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात्फलम् ॥ १११* ॥}
____________________

ये चैत्यबिम्बे परिशुद्धरङ्गान् ध्वजान् विचित्रानधिरोपयन्ति ।
महीश्वरास्ते जितदुष्टसंघा धन्या भवन्ति प्रथितप्रतापाः ॥ ११२ ॥
उच्चैर्वितन्वन्ति वितानमाराद्ये चैत्यबिम्बे मनुजाः प्रसन्नाः ।
देवाधिपास्ते मनुजाधिपाश्च धन्या भवन्ति प्रथितर्द्धिमन्तः ॥ ११३ ॥
ये चापि चैत्ये मनुजा विचित्राः शुद्धाः पताका अवलम्बयन्ति ।
ते श्रीसमेता दिवि भूतले च नाथा भवन्ति त्रिदशाभिमान्याः ॥ ११४ ॥
छत्त्रं सुवर्णं मणिभिर्विचित्रं पट्टैश्च सिक्तैः कुसुमैः कृतं च ।
ये चैत्यबिम्बे मनुजाः प्रसन्ना माङ्गल्यवाद्यैरधिरोहयन्ति ॥ ११५ ॥
ते धर्मपालाः शुभकीर्तियुक्ता लक्ष्म्यालयाः श्रीगुणसौख्यवन्तः ।
देवाधिराजा मनुजाधिपाश्च संबोधिचर्याभिरता भवन्ति ॥ ११६ ॥
संगीतवाद्यैः सुमनोज्ञशब्दैः शङ्खादिमाङ्गल्यमहानुरावैः ।
वीणादिभिर्वंशमनोज्ञघोषैर्महोत्सवं ये वितरन्ति चैत्ये ॥ ११७ ॥
ते दिव्यकर्णाः सुमनोज्ञवाक्याः सौन्दर्यरूपाः परिशुद्धचित्ताः ।
महर्द्धिमन्तः सुगताभिभक्ता मर्त्यामरेन्द्राः सततं भवन्ति ॥ ११८ ॥
नृत्यैः सुलास्यैः सुमनोज्ञभावैर्ये चैत्यबिम्बं सरसा भजन्ति ।
ते पापदुष्टग्रहरोगमुक्ताः पुण्या गुणार्थानुगता भवन्ति ॥ ११९ ॥
ये चापि दुष्टानभिखेटयन्तो रक्षन्ति चैत्यं सततं मनुष्याः ।
ते भाग्यवन्तो निरुजाः सुवंशाः सौख्यं प्रभुक्त्वा प्रसरन्ति स्वर्गम् ॥ १२० ॥
सदूर्वकुन्दाक्षतलाजकादि प्राक्षिप्य चैत्यं प्रणमन्ति ये च ।
विद्याधिपास्ते सुसमृद्धिमन्तो गच्छन्ति चान्ते सुगतालयेऽपि ॥ १२१ ॥
ये वज्रमुक्तादिविशुद्धरत्नं हेमादिसद्द्रव्यवराष्टधातून् ।
ये चैत्यबिम्बे सरसा मनुष्याः श्रद्धानुरक्ता उपढौकयन्ति ॥ १२२ ॥
पूर्णेन्द्रियाः पूर्णमनोरथास्ते निर्नष्टशोकाः सुभगाः सुवंशः ।
धर्मार्थकामाः सुगुणाभिरामाः संबुद्धमार्गाभिगता भवन्ति ॥ १२३ ॥
ये शुद्धचित्ताः स्तुतिभिः सुगीतैर्भजन्ति चैत्यं मनुजाः प्रसन्नाः ।
धर्मार्थकामाभिमतर्द्धिमन्तो भवन्ति नाथा दिवि भूतले ते ॥ १२४ ॥
येऽष्टाभिरङ्गैः प्रणमन्ति चैत्यं श्रद्धाप्रसन्नाः शरणं प्रयाताः ।
भूपाधिपास्ते वरसप्तरत्नैर्युक्ताः सुधीराः कृतिनो भवन्ति ॥ १२५ ॥
प्रदक्षिणीकृत्य मुदा प्रसन्ना ये चैत्यबिम्बं प्रणता भ्रमन्ति ।
सुवर्णवर्णाः सुविशालवंशाः पूज्या नृपाणामपि ते भवन्ति ॥ १२६ ॥
शुद्धाश्मसंक्षारसुगन्धितोयैश्चैत्यं मुदा येऽभ्यनुलेपयन्ति ।
नीरोगशोकाः सुसमृद्धिमन्तो दीर्घायुषस्ते सुभगा भवन्ति ॥ १२७ ॥
चैत्याङ्गनं ये परिशोधयन्ति निर्माल्यमुद्धृत्य च मार्जयन्ति ।
ते हेमवर्णाः परिशुद्धचित्ता धर्माभिरक्ताः सुदृशो भवन्ति ॥ १२८ ॥
आलस्येनापि च स्तूपे करोति यः प्रदक्षिणाम् ।
पदे पदे सुवर्णैककर्षदानफलं लभेत् ॥ १२९ ॥
गन्धपुष्पादिभिर्विप्रैरर्चनीयं जिनालयम् ।
छत्त्रावरोहणं चैत्ये कर्तव्यं क्षत्रियैरपि ॥ १३० ॥
ध्वजावरोपणं वैश्यैः कृत्यं पताकया सह ।
नैवेद्यमेव शूद्रैस्तु दातव्यं चैत्यपुंगवे ॥ १३१ ॥
अन्यैर्विहीनजातीभिर्नार्चनीयो जिनालयः ।
धूपदीपादिभिर्नैव पूजनीयो न चान्यथा ॥ १३२ ॥
मूलस्कन्धपत्त्रफलस्तम्बशस्यादिभिस्तथा ।
धान्यादिव्रीहिभिश्चैवमौषधीभी रसायनैः ॥ १३३ ॥
तथा वाद्यैः सुगीतैश्च नृत्यैश्चापि महोत्सवैः ।
हाहाकारैः समुल्लासैरर्चनीयो जिनालयः ॥ १३४ ॥
चर्मकारप्लवम्लेच्छनियोगिलुब्धकादिभिः ।
दूरात्प्रदक्षिणीकृत्य वन्द्य एव जिनालयः ॥ १३५ ॥
एवं सर्वैस्तथा लोकैर्द्विजादिसर्वजातिभिः ।
स्वस्वजात्यर्हपूजाभिः पूजनीयो जिनालयः ॥ १३६ ॥
एवं चरन्ति ये लोका अहोरात्रव्रतं मुदा ।
ते सर्वपापनिर्मुक्ताः संप्रयायुर्जिनालयम् ॥ १३७ ॥
एवं मत्वा महाराज मासे मासे सदापि च ।
पूर्णमास्यामहोरात्रव्रतं चरितुमर्हसि ॥ १३८ ॥
विशेषादश्विनीमासे संपूर्णे चन्द्रमण्डले ।
अश्विनीभे तथा पुष्ययोगयुक्ते रवेर्दिने ॥ १३९ ॥
एतद्योगसमायुक्ते महापर्वदिने शुभे ।
अहोरात्रव्रतं कुर्याद्यथाविधि समाहितः ॥ १४० ॥
यः करोति दिने तस्मिन्नहोरात्रव्रतं तथा ।
तत्सहस्रगुणं पुण्यमाप्नुयात्स पुमान् ध्रुवम् ॥ १४१ ॥
एवं राजन्नहोरात्रव्रतपुण्यं महत्तरम् ।
अप्रमेयमसंख्येयमिति बुद्धैर्निगद्यते ॥ १४२ ॥
न हि स विद्यते राजन् सर्वत्र भुवनेष्वपि ।
अहोरात्रव्रतोत्पन्नं पुण्यं यः कुरुतेऽन्यथा ॥ १४३ ॥
यस्य श्रवणमात्रेण विमुक्तः सर्वपातकात् ।
दर्शनात्पुण्यमाप्नोति तथानुमोदनादपि ॥ १४४ ॥
ये चरन्ति महाराज व्रतराजमिदं तथा ।
तेषां पुण्यप्रमाणानि संख्यातुं को हि शक्नुयात् ॥ १४५ ॥
तत्पुण्यसप्तभागैकं भागं राजा समाप्नुयात् ।
तथैकं सर्वसत्त्वाश्च तथैकं साधका जनाः ॥ १४६ ॥
व्रतिनस्तच्चतुर्भागान् सर्वान् ते प्राप्नुवन्ति हि ।
एतत्पुण्यानुभावैस्तु सर्वत्र मङ्गलं सदा ॥ १४७ ॥
सर्वे सत्त्वाः सुखाढ्याश्च भवन्ति बोधिचारिणः ।
एवं विज्ञाय राजेन्द्र लोकानां हितसाधनम् ।
अहोरात्रव्रतं यूयं कर्तुमर्हथ सर्वथा ॥ १४८ ॥
इति तेन समाख्यातं धीमता वसुबन्धुना ।
श्रुत्वा स इन्द्रपृष्टस्तद्व्रतं कर्तुं समैच्छत ॥ १४९ ॥
अथ स भूपतिः श्रीमानिन्द्रपृष्टो नराधिपः ।
साञ्जलिस्तं पुनर्नत्वा वसुबन्धुं तथार्थयत् ॥ १५० ॥
भदन्त सर्वविच्छास्तर्भवदाज्ञां शिरोवहन् ।
अहोरात्रव्रतं कर्तुमिच्छामि सांप्रतं खलु ॥ १५१ ॥
भवाञ्छास्ता महाविज्ञः सर्वसत्त्वहिताशयः ।
सर्वहितार्थसिद्ध्यै तदनुज्ञां प्रददातु मे ॥ १५२ ॥
इति तेन नृपेन्द्रेण प्रार्थितं स महामतिः ।
वसुबन्धुः समाकर्ण्य तं भूपमेवमब्रवीत् ॥ १५३ ॥
साधु साधु महाराज यद्येवं त्वं समिच्छसि ।
तत्कुरुष्व महत्पुण्यमहोरात्रव्रतं मुदा ॥ १५४ ॥
तत्कृते ते महत्पुण्यं सर्वत्रापि भवेच्छुभम् ।
एतत्पुण्यविपाकेन संबोधिं प्राप्नुया अपि ॥ १५५ ॥
इति शास्त्रा समादिष्टमिन्द्रपृष्टः स भूपतिः ।
श्रुत्वा तं साञ्जलिर्नत्वा पुनरेवं समब्रवीत् ॥ १५६ ॥
भदन्त कर्तुमिच्छामि पुण्यक्षेत्रे जिनालयम् ।
कुत्र पुण्यतमं क्षेत्रं तत्समादेष्टुमर्हति ।११५१ ॥
इति तेन नरेन्द्रेण पृष्टे स सर्ववित्सुधीः ।
वसुबन्धुर्नरेन्द्रं तं पुनरेवमुपादिशत् ॥ १५८ ॥
शृणु साधो महाराज यथा ख्यातं मुनीश्वरैः ।
तथाहं ते प्रवक्ष्यामि श्रुत्वैवं कर्तुमर्हसि ॥ १५९ ॥
वाराणसीति विख्याता सर्वभूमी महत्तरी ।
पुण्यक्षेत्रं महापीठं सर्वबुद्धैः प्रशंसितम् ॥ १६० ॥
तत्र यत्प्रणिधानेन प्रकृतं कर्म कारितम् ।
तत्तथेह परत्रापि सिध्यते नान्यथा खलु ॥ १६१ ॥
इति विज्ञाय राजेन्द्र तत्र गत्वा यथाविधि ।
प्रतिष्ठाप्य तथा चैत्यमहोरात्रव्रतं चरेः ॥ १६२ ॥
तथा चेत्ते सदा भद्रमिहामुत्र भवेद्ध्रुवम् ।
क्रमाद्बोधिचरीः पूर्य संबुद्धपदमाप्स्यसि ॥ १६३ ॥
इति तेन समादिष्टं गुरुणा वसुबन्धुना ।
श्रुत्वा स भूपतिः श्रीमांस्तथेति चान्वमोदत ॥ १६४ ॥
ततः स इन्द्रपृष्टस्तं वसुबन्धुं गुरुं पुरः ।
कृत्वा ततः समागत्य वाराणसीमुपाचरत् ॥ १६५ ॥
तत्र प्राप्य स भूमीन्द्रो निरीक्ष्य शुभभूतले ।
आदौ भूशोधनं कृत्वा वास्तुनागं परीक्ष्य च ॥ १६६ ॥
विहारं विधिवत्कृत्वा तथा चैत्यं जिनालयम् ।
त्रिरत्नं च प्रतिष्ठाप्य यथाविधि सदाभजत् ॥ १६७ ॥
तत्र तेन यथादिष्टं गुरुणा वसुबन्धुना ।
तथा स नरराजेन्द्रस्तद्व्रतं कर्तुमारभत् ॥ १६८ ॥
ततश्च विधिवद्धृत्वा सभार्यः स नृपाधिपः ।
अहोरात्रव्रतं कृत्वा तच्चैत्यं विधिनार्चयत् ॥ १६९ ॥
तत्समाप्य पुनस्तत्र दीपंकरं ससांघिकम् ।
संनिमन्त्र्य यथार्हेन भोजनेन समार्चयत् ॥ १७० ॥
ततः स पृथिवीपालश्चिरं तच्चैत्यमादरात् ।
सेवित्वा सत्सुखं भुक्त्वा ययौ चान्ते जिनालयम् ॥ १७१ ॥
इत्येवं तन्महत्पुण्यमहोरात्रव्रतोद्भवम् ।
अप्रमेयमसंख्येयं सर्वबुद्धैः प्रचक्ष्यते ॥ १७२ ॥
तथा युष्माभिरप्यत्र तदहोरात्रसंवरम् ।
धृत्वा चैत्यं समभ्यर्च्य सेवितव्यं सदादरात् ॥ १७३ ॥
तथा वो मङ्गलं नित्यमिहामुत्र भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य निर्वृतीपदमाप्स्यथ ॥ १७४ ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा ।
तथेत्यभ्यनुमोदित्वा तद्व्रतं कर्तुमीषिरे ॥ १७५ ॥
ततस्ते भिक्षवो भूयः शास्तारं तं मुनीश्वरम् ।
कृताञ्जलिपुटा नत्वा पप्रच्छुरेवमादरात् ॥ १७६ ॥
भगवन् भवतादिष्टमिन्द्रपृष्टेन यत्कृतम् ।
तत्सर्वं श्रुतमस्माभिः पुनः श्रोतुं समिष्यते ॥ १७७ ॥
केन केन तथा पूर्वं कृतमेतद्व्रतोत्तमम् ।
अहोरात्रं महत्पुण्यं तत्समादेष्टुमर्हति ॥ १७८ ॥
इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् भिक्षून् सांघिकान् सर्वान् समालोक्यैवमब्रवीत् ॥ १७९ ॥
शृणुध्वं भिक्षवः सर्वे तथान्यैश्च कृतं पुरा ।
तत्सर्वं कथयिष्यामि युष्माकं परिबोधने ॥ १८० ॥
पुरा स्वर्गे तथेन्द्रेण प्रतिष्ठाप्य जिनालयम् ।
अहोरात्रव्रतं कृत्वा विधिवच्चैत्यमार्चयत् ॥ १८१ ॥
एतत्पुण्यानुभावैः स सर्वपारमिताः क्रमात् ।
पूरयित्वा महासत्त्वो बोधिसत्त्वोऽभवत्सुधीः ॥ १८२ ॥
____________________

{ए अद्द्स्:
ततोऽन्यः देवराजोऽभुत्कालेन समयेन स ।
देवराजसुखं भुक्त्वा चरत्यस्मिन् यथेच्छया ॥ १८२* ॥}
____________________

पाताले च महावीरो दैत्येन्द्रोऽभून्महर्द्धिमान् ।
निर्घोषदमनो नाम देवलोकभयंकरः ॥ १८३ ॥
तेन जित्वा बलेनापि त्रैलोक्यं स्ववशीकृतम् ।
सर्वेऽपि लोकपालाश्च पराजित्य वशीकृताः ॥ १८४ ॥
तदा स पृथिवीं गत्वा वाराणसीमुपाचरत् ।
इन्द्रपृष्टविहारस्थं चैत्यं दृष्ट्वान्वमोदत ॥ १८५ ॥
ततः प्रदक्षिणीकृत्य तं चैत्यं विधिनार्चयत् ।
कृताञ्जलिपुटो भुत्वा प्रार्थयदेवमानतः ॥ १८६ ॥
यावज्जीवं सुखं भुक्त्वा संस्थाप्य स्ववशे जगत् ।
संबुद्धशरणं गत्वा प्रान्ते यायां जिनालयम् ॥ १८७ ॥
इत्येवं प्रणिधिं धृत्वा नत्वा तं च जिनालयम् ।
तत एव ययौ स्वर्गं दैत्येन्द्रः स महर्द्धिकः ॥ १८८ ॥
तत्रापि चैत्यमालोक्य शक्रेण स्थापितं पुरा ।
नत्वा प्रदक्षिणीकृत्य विधिना च समार्चयत् ॥ १८९ ॥
तथैव प्रणिधिं कृत्वा नत्वा च साञ्जलिर्मुदा ।
ततश्च स समागत्य पाताले स्वं गृहं ययौ ॥ १९० ॥
____________________

{ए हस्थे fओल्लोwइन्गद्दितिओनfतेर्१९० बोन् fओलिओ १३.
एतत्पुण्यानुभावेन दैत्येन्द्रोऽसौ महर्द्धिकः ।
शक्रासनं तदा तत्र लब्धवान् विग्रहैर्बलैः ॥ १९०* ॥
तदास देवराजेन्द्रः संज्ञात्वाहो तमागतम् ।
इदानीं किंप्रकारेण विजयिष्यामि दानवम् ।
ममाश्रमेषु निर्घोषदमनो नामासौ स्थितः ॥ १९०** ॥
इति ध्यात्वा स शक्रः भुवने त्रायस्त्रिंशके ।
प्राक्तनैर्देवराजेन्द्रैः पूजार्थं चैत्यं स्थापितः ॥ १९०*** ॥
तस्मिन् चैत्ये अहोरात्रव्रतं कुर्यां यथाविधिः ।
तदुपायेन धर्मेण विजयिष्ये सुरद्विषम् ॥ १९०**** ॥
श्रुतं मयास्ति सद्धर्मं तदेषोऽपि च तद्व्रतैः ।
स्वर्गे सुरसहायेन गतोऽसौ मघवंुइईम् ॥ १९०***** ॥
तदनन्तरे च देवेन्द्रः महार्हेण व्रतार्चनम् ।
अतीव सुसमुदायेन कृतवाञ्च जिनालये ॥ १९०****** ॥
तदनन्तरेऽपि निर्घोषदमनोऽसुरनिर्जितः ।
विना युद्धेन निर्जित्यासुरं भूम्यवतारितः ॥ १९०******* ॥}
____________________

तत्र स दैत्यराजेन्द्रो यथाविधि जिनालयम् ।
महच्चैत्यं प्रतिष्ठाप्य सत्कृत्य विधिनार्चयत् ॥ १९१ ॥
ततश्चापि स दैत्येन्द्रो यथाविधि समारभन् ।
अहोरात्रव्रतं धृत्वा तच्चैत्यं समपूजयत् ॥ १९२ ॥
तत्रैवं प्रणिधिं कृत्वा सोऽसुरेन्द्रो महामतिः ।
सर्वदा विधिनाभ्यर्च्य भेजे नित्यं महोत्सवैः ॥ १९३ ॥
तथा स सुचिरं भुक्त्वा यावज्जीवं महासुखम् ।
तच्चैत्यं शरणं कृत्वा ययौ तथा जिनालयम् ॥ १९४ ॥
तथान्ये नागराजाश्च तच्चैत्यं समुपाश्रिताः ।
अहोरात्रव्रतं धृत्वा सत्कृत्य विधिनार्चयन् ॥ १९५ ॥
तथा सर्वेऽपि ते नागा यावज्जीवं महत्सुखम् ।
भुक्त्वा पुण्यानुभावैश्च प्रान्ते ययुर्जिनालयम् ॥ १९६ ॥
तथाभून्मगधे देशे चैत्यगर्भं महत्सरः ।
शुद्धाम्बुपूरितं पद्मकुमुदादिप्रशोभितम् ॥ १९७ ॥
तत्रर्षयः सरोमध्ये प्रतिष्ठिते जिनालये ।
अहोरात्रव्रतं धृत्वा सत्कृत्य विधिनार्चयन् ॥ १९८ ।
तथा तैरृषिभिश्चैत्यं पूजितं तत्सरःस्थिताः ।
नागकन्याः समीक्ष्याष्टौ तदन्तिकमुपाश्रयन् ॥ १९९ ॥
तत्र त ऋसयस्तासां सविषश्वासवायुभिः ।
प्रहता विषसंदिग्धाः क्षणमात्रं मुमूर्छिरे ॥ २०० ॥
ततस्त ऋषयः सर्वे क्षणात्प्राप्तसुचेतनाः ।
दृष्ट्वा ताः समुपासीना नागकन्या रुषाशपन् ॥ २०१ ॥
अरे दुष्टाः सुपापिन्यो यद्युष्माकं विषानलैः ।
तापिताः स्मस्तदपुण्यैर्यूयं भवत शम्बुकाः ॥ २०२ ॥
इति तैरृषिभिः सर्वैः शापितास्त भयान्विताः ।
सर्वानृषिवरान्नत्वा प्रार्थयन्नेवमादरात् ॥ २०३ ॥
नमो वोऽस्तु महाविज्ञाः क्षमध्वं नोऽपराधताम् ।
तच्छापमोचनोपायं समुपदेष्टुमर्हथ ॥ २०४ ॥
इति संप्रार्थितं ताभिर्निशम्य ते महर्षयः ।
करुणाक्रान्तचित्तास्ताः समालोक्यैवमब्रुवन् ॥ २०५ ॥
शृणुध्वं शम्बुका यूयमुपायं शापमुक्तये ।
अस्माभिर्देशितं श्रुत्वा तथा चरत सादरम् ॥ २०६ ॥
चैत्यबिम्बं समालम्ब्य तदनुस्मृत्य चेतसा ।
सदा प्रदक्षिणां कृत्वा भ्रमित्वा भजतादृताः ॥ २०७ ॥
तदा तत्पुण्यभावेन सर्वपापविमोचिताः ।
परिशुद्धाशया भद्रा भविष्यथ नृपात्मजाः ॥ २०८ ॥
तदापि हि तथा यूयं चैत्यसेवासमाहिताः ।
सद्धर्मसाधनं कृत्वा प्रयास्यथ जिनालयम् ॥ २०९ ॥
इति तैरृषिभिः सत्यं समादिष्टं निशम्य ताः ।
शम्बुकास्तानृषीन्नत्वा ततोऽगच्छन्निजालयम् ॥ २१० ॥
ततस्ताः शम्बुकाः सर्वाः शालिक्षेत्रमुपासृताः ।
चैत्यबिम्बमनुस्मृत्य प्रविचेरुः समन्ततः ॥ २११ ॥
तत्र विच्छिन्नशेषांशं शालिस्तम्बं विलोक्य ताः ।
चैत्याकारं समालम्ब्य संस्मृत्वा सुगतालयम् ॥ २१२ ॥
सदा प्रदक्षिणीकृत्य प्रणत्वा च मुहुर्मुहुः ।
चैत्यानुस्मृतिमाधाय भ्रमित्वा संप्रभेजिरे ॥ २१३ ॥
तत्र ताः शम्बुकाः सर्वास्तत्पुण्यपरिशोधिताः ।
तच्छापपरिमुक्त्यर्थं चैत्यं स्मृत्वा प्रचेरिरे ॥ २१४ ॥
कदा चित्तत्र मत्स्यार्थी धीवरः क्रूरमानसः ।
तत्सरसि स्थितान्मीनान् समाहर्तुमुपाचरत् ॥ २१५ ॥
तत्र स धीवरो दृष्ट्वा मीनाहरणलालसः ।
तीरस्थो जालमुत्क्षिप्य मीनानाहर्तुमुद्ययौ ॥ २१६ ॥
तत्र जाले प्रतिक्षिप्ते शम्बुका दैवयोगतः ।
सर्वा अपि प्रविष्टास्ता न तु मत्स्यो हि कश्चन ॥ २१७ ॥
ततः स जालमाकृष्य प्रविसार्य विलोकयन् ।
ददर्श शम्बुका एव तत्र मत्स्यं न कं चन ॥ २१८ ॥
अथ सोऽप्राप्तमत्स्यस्ताः शम्बुका एव लुब्धकः ।
आदाय परिखिन्नात्मा स्वगृहं शनकैर्ययौ ॥ २१९ ॥
तत्र स स्वगृहप्राप्तो विषन्नास्यो निराशितः ।
पत्न्याः सुन्दरिकायास्ताः शम्बुकाः पुरतोऽर्पयत् ॥ २२० ॥
ततः स धीवरोऽन्यत्र मीनानाहर्तुमुद्यतः ।
भुक्त्वाहारं यथाप्राप्तं जालमादाय निर्ययौ ॥ २२१ ॥
ततः सा धीवरी दृष्ट्वा शम्बुकास्ताः पुरोऽर्पिताः ।
बुभुक्षितानुपश्यन्ती निःश्वसन्त्येवमालपत् ॥ २२२ ॥
हा कष्टं किं करोम्यद्य भोज्यं किं चिन्न मे गृहे ।
कः क्रीणीयादिमाः शुक्तीर्जीवेयं कथमत्र हि ॥ २२३ ॥
तदिमाः शम्बुकाः सर्वाः पक्त्वा भुञ्ज्यामिहाधुना ।
एतदाहारमात्रेण यापयेयं न चान्यथा ॥ २२४ ॥
इति निश्चित्य सा नारी सर्वास्ताः शम्बुका अपि ।
रसैर्युताः स्वयं पक्त्वा बुभुजे जीवितार्थिनी ॥ २२५ ॥
ततस्ताः शम्बुकाः सर्वा दैवयोगानुचारिणः ।
तस्या एवोदरे याता बभूवुरेकपिण्डिताः ॥ २२६ ॥
ततः सापन्नसत्त्वाभूत्प्रवृद्धगर्भभारिणी ।
दिने दिनेऽभिरुष्टाङ्गी स्वल्पाहाररता कृशा ॥ २२७ ॥
ततः सा समयेऽसूत कन्यका ह्यष्ट सुन्दरीः ।
एकनाडीसमुद्भूताः समाकाराः शुभांशिकाः ॥ २२८ ॥
तत्र सा जननी दृष्ट्वा ह्यष्ट ताः सुन्दरीः शिशूः ।
समाकाराः सुभद्राङ्गीः पश्यन्ती विस्मयं ययौ ॥ २२९ ॥
ततः स जनकः श्रुत्वा जाता ह्यष्ट सुता इति ।
विस्मितः सहसोपेत्य पश्यंस्तस्थौ सुनिश्चलः ॥ २३० ॥
ततस्ता दारिकाः सर्वास्तया मात्राभिपालिताः ।
प्रवर्धिताः प्रपुष्टाङ्गा रुरुचुः पङ्कजा इव ॥ २३१ ॥
ततस्ताः कन्यकाः सर्वाः पूर्वपुण्यानुभाविकाः ।
प्रीतिविश्रम्भसंबुद्धा धर्मार्थाभिरताशयाः ॥ २३२ ॥
स्वकुलवृत्तिसंत्रस्ता दयार्द्राः करुणान्विताः ।
त्रिरत्नदर्शनोत्साहसमन्विताः प्रचेरिरे ॥ २३३ ॥
अथ माता समाहूय ताः सर्वाः कन्यका अपि ।
मत्स्यानां विक्रयार्थेन प्रैरयत्पण्यवीथिकाम् ॥ २३४ ॥
ततस्ताः कन्यकाः सर्वा आदाय मत्स्यभाजनम् ।
विक्रेतुं संचरन्त्यस्तत्पुरमार्गमुपाचरन् ॥ २३५ ॥
तत्र ताः क्रमतो गत्वा मार्गादूरसरित्तटे ।
क्षणं विश्रम्य सर्वास्तदालोक्यैव समाश्रयन् ॥ २३६ ॥
तत्र तासां प्रधान या ज्येष्ठा सा भगिनी सुधीः ।
ताः सर्वा भगिनीर्दृष्ट्वा समामन्त्र्यैतदब्रवीत् ॥ २३७ ॥
भगिन्यो यत्पुरास्माभिः पातकं दारुणं कृतम् ।
तेनात्र साम्प्रतं जाताश्चण्डालस्य कुले वयम् ॥ २३८ ॥
इति सत्यं परिज्ञाय विरम्य पापकर्मतः ।
धर्मार्थसाधने रन्तुमर्हामहे वयं सदा ॥ २३९ ॥
इहापि चेत्तथास्माभिः क्रियते पापसाधनम् ।
भूयोऽपि नरके लग्ना दुःखं भुक्त्वा चरेमहि ॥ २४० ॥
कदा वयं ततो मुक्ताः सुखं लप्स्यामहे कथम् ।
सदैवं दुर्गतौ जाताः पापेष्वेव चरेमहि ॥ २४१ ॥
पुण्यैर्विना न मानुष्ये जन्म संप्रप्स्यते क्व चित् ।
मानुष्येऽलभ्यमाने तु कुत्र धर्मे मतिश्चरेत् ॥ २४२ ॥
विना धर्ममतिं भद्रे चरितुमुत्सहेत्कथम् ।
विना भद्रचरिं लोके सद्गतिं कथमाप्नुयात् ॥ २४३ ॥
सुगतौ च सदा सौख्यं विना धर्मैर्न लप्स्यते ।
तस्माद्धर्मे मतिं धृत्वा चरितव्यं शुभे सदा ॥ २४४ ॥
शुभेन सद्गतिं याताः पापेन दुर्गतिं गताः ।
सुखदुःखानि संभुक्त्व भ्रमन्ति जन्तवो भवे ।
तदितः सद्गतिं प्राप्तुं चरेमहि शुभे सदा ॥ २४५ ॥
किं चाप्येता वयं सर्वाश्चण्डालकुलसंभवाः ।
तत्कथं कुलवृत्तिं नु त्यक्त्वा चरेमहि शुभे ॥ २४६ ॥
यद्वयं प्रेरिता मात्रा मत्स्यान् विक्रयितुं खलु ।
तस्मान्मातुर्वचोऽश्रुत्वा चरेमह्यन्यथा कथम् ॥ २४७ ॥
यद्यत्रैतानविक्रीय प्रक्षिप्त्वा च जलाशये ।
रिक्तहस्ताः कथं गेहे मातुः पुरो व्रजेमहि ॥ २४८ ॥
यद्भोग्यं नो गृहे नास्त्येतदेव हि जीवनम् ।
तत्किं सा जननी भुञ्ज्याद्विनाहारं न जीवति ॥ २४९ ॥
तदत्र किं करिष्यामो धिग्जन्म मानुषेऽपि नः ।
वरं प्राणपरित्यागं न तु पापार्थसाधनम् ॥ २५० ॥
सर्वेषामपि जन्तूनामवश्यं मरणं भवे ।
इति मत्वात्र सम्सारे वर्तयेम शुभे सदा ॥ २५१ ॥
तदत्र जीविनो मत्स्यान् प्रक्षिप्यैताञ्जलाश्रये ।
निर्जीवानेव विक्रीय मूल्यं मातुर्ददीमहि ॥ २५२ ॥
यद्येवं क्रियतेऽस्माभिः पपं नो विद्यते न हि ।
किं चित्पुण्यं तु विद्येत तस्मात्कुर्यामहे तथा ॥ २५३ ॥
इत्यत्र मे वचः श्रुत्वा तत्कर्तुमनुमोदत ।
मात्र शरिकाविषादत्वं कर्तुमर्हामहे खलु ॥ २५४ ॥
एतत्तया समाख्यातं श्रुत्वा ताः परिबोधिताः ।
तथेत्यभ्यनुमोदित्वा तदनुकर्तुमीषिरे ॥ २५५ ॥
ततस्ताः कन्यकः सर्वास्तेषां ये जीविनो झषाः ।
तान् सर्वान् सहसादाय प्राक्षिपंस्तत्सरिज्जले ॥ २५६ ॥
यावन्तो निर्गतप्राणास्तानेव सकलानपि ।
आदाय ताः पुरे गत्वा व्यक्रीणन्त यथोचितम् ॥ २५७ ॥
ततस्तत्पणमादाय सर्वास्ताः कन्यका मुदा ।
गृहमागत्य तन्मूल्यं सर्वं मातुः समर्पयन् ॥ २५८ ॥
एवं तया जनन्या ताः कन्यकाः प्रेरितास्तथा ।
सजीवांस्ताञ्जले क्षिप्त्वा निर्जीवैः पणमाददुः ॥ २५९ ॥
एवं ताः सर्वदा नित्यं कृत्वा भुक्त्वा विनोदिताः ।
तद्वृत्तिसंपरित्रस्ताः पापशङ्का विषेदिरे ॥ २६० ॥
कस्मिंश्चिद्दिवसे सर्वा मात्रा ताः प्रेरितास्तथा ।
मीनान् विक्रेतुमादाय निगमे समुपाचरन् ॥ २६१ ॥
तत्रासन् दैवयोगात्ते मीनाः सर्वे सजीविताः ।
तान् सर्वाञ्जीवितान् दृष्ट्वा सर्वास्ता विस्मयं ययुः ॥ २६२ ॥
तत्र ताः कन्यकाः सर्वाः समालोक्य परस्परम् ।
कथमद्यात्र कुर्याम इत्युक्त्वैवावतस्थिरे ॥ २६३ ॥
तत्र तासां प्रधाना सा कन्या शुद्धाशया सुधीः ।
ताः सर्वा भगिनीर्दृष्ट्वा समाश्वास्यैवमब्रवीत् ॥ २६४ ॥
भगिन्यो यदिमे मीनाः सर्वेऽपि जीविनः खलु ।
तत्कथं जीविनोऽप्यत्र विक्रीणीमहि सांप्रतम् ॥ २६५ ॥
तस्मात्सर्वानिमान्मत्स्यान् प्रक्षिप्त्वात्र सरिज्जले ।
त्रिरत्नस्मरणं कृत्वा तिष्ठेमात्रैकवासरम् ॥ २६६ ॥
यदि गृहे गमिष्यामो रिक्तहस्ता विना पणम् ।
माता रुष्टा परिक्रुश्य सर्वा नस्ताडयेत्खलु ॥ २६७ ॥
यच्चाप्यद्य गृहे किं चिद्भोज्यं न विद्यते क्व चित् ।
तत्किं मातान्नमश्नीयाद्बुभुक्षिता चरेत्क्रुधा ॥ २६८ ॥
अस्मभ्यं चापि किं दद्यादन्नं पानं च कोपिता ।
परिभाष्य मुहुर्बाला अपि निष्कासयेद्गृहात् ॥ २६९ ॥
तदद्य किं गृहे गत्वा सर्वा अपीह संगताः ।
त्रिरत्नस्मरणं कृत्व तिष्ठेमहि दिनान्ततः ॥ २७० ॥
एतत्तयोदितं श्रुत्वा सर्वास्ता दारिका अपि ।
तथेति संमतं कृत्वा सर्वान्मीनाञ्जलेऽक्षिपन् ॥ २७१ ॥
तत्र ताः कन्यकाः सर्वः सरित्तटसमाश्रिताः ।
त्रिरत्नस्मरणं कृत्वा ध्यात्वा तस्थुः समाहिताः ॥ २७२ ॥
केन चित्कथितं तासामेतद्वृत्तिं निशम्य सा ।
माता क्रोधाग्निसंतप्ता वेगात्तत्र रुषाचरत् ॥ २७३ ॥
तत्र ता दारिकाः सर्वास्तथा स्थिता निरीक्ष्य सा ।
जननी सहसोपेत्य परिभाष्यैवमब्रवीत् ॥ २७४ ॥
अरे रे दुर्भगा बालाः किमेवमिह संस्थिताः ।
प्रदोषेऽपि गृहे केन हेतुना न समागताः ॥ २७५ ॥
किमेतान् सकलान्मीनानविक्रीय विमुञ्चथ ।
किं चिदन्नं गृहे नास्ति तत्किं भोक्ष्यामहेऽधुना ॥ २७६ ॥
कस्योपदेशमाकर्ण्य कुलधर्मनिरादराः ।
पित्रोरपि वचोऽश्रुत्वा क्रीडथैवं तदुच्यताम् ॥ २७७ ॥
एवमुक्ते तया मात्रा सर्वास्ताः कन्यका अपि ।
अधोमुखस्थिताः किं चिदपि नोचुर्विषादिताः ॥ २७८ ॥
तथा स्थिताः स्वपुत्रीस्ता दृष्ट्वा सा जननी रुषा ।
सहसा समुपाक्रम्य लगुडेनाभ्यताडयत् ॥ २७९ ॥
ततः सा जननी दृष्ट्वा सर्वास्तास्त्रसिताननाः ।
बोधयित्वा प्रयत्नेन निनाय स्वगृहे निशि ॥ २८० ॥
तत्र ताः कन्यकाः सर्वाः स्वगृहे संस्थिताः निशि ।
अभुक्त्वैकान्तमाश्रित्य तस्थुः स्मृत्वा मुनीश्वरम् ॥ २८१ ॥
तत्परेद्युश्च सा माता हत्वापि जीविनो झषान् ।
दत्त्वा तान् दारिकास्ताश्च विक्रयायैरयत्पुरे ॥ २८२ ॥
मात्रा तथा कृतं मत्वा सर्वास्ताः कन्यका अपि ।
तत्कुकर्म इति ध्यात्वा तस्थुः पापविषादिताः ॥ २८३ ॥
तथा स्थिताश्च ताः सर्वा दृष्ट्वा सा जननी रुषा ।
बहुशः परिभाषित्वा प्रताड्य प्रैरयत्पुरे ॥ २८४ ॥
ततस्ता दारिकाः सर्वास्तत्ताडनरुजान्विताः ।
विषण्णास्ताञ्झषान् धृत्वा विक्रेतुं निर्ययुः शनैः ॥ २८५ ॥
ततस्ता निर्गताः सर्वास्तन्मार्गसरसीतटे ।
मातृताडनदुःखार्ता विश्रम्य क्षणमाश्रयन् ॥ २८६ ॥
तत्र ताः कन्यकाः सर्वास्तत्पापपरिशोधने ।
त्रिरत्नस्मरणं कृत्वा तस्थुर्ध्यानसमाहिताः ॥ २८७ ॥
तत्पुण्यपरिशुद्धास्ता वालुकाभिः पृथक्पृथक् ।
चैत्यं निर्माय सत्कृत्य प्रतिष्ठाप्य प्रमोदिताः ॥ २८८ ॥
तत्रोत्पन्नानि पुष्पाणि फलानि च समन्ततः ।
आदाय तैः फलैः पुष्पैः स्वस्वचैत्यं समर्चयन् ॥ २८९ ॥
ततस्ताः प्राञ्जलिं धृत्वा कृत्वा प्रदक्षिणानि च ।
अष्टाङ्गप्रणतिं कृत्वा तस्थुर्ध्यानसमाहिताः ॥ २९० ॥
तद्दिनान्तेऽपि ताः सर्वा गृहे नैवागता इति ।
माता विचिन्त्य भर्तारं सहसा चैवमब्रवीत् ॥ २९१ ॥
स्वामिंस्ता दारिकाः सर्वा अद्यापि नागता गृहे ।
कुत्र गता इति द्रष्टुं गच्छ त्वं सहसानय ॥ २९२ ॥
एतत्पत्न्योदितं श्रुत्वा स चण्डालः प्रकोपितः ।
सहसा तत्सरस्तीरे गच्छन् सर्वा ददर्श ताः ॥ २९३ ॥
तत्र ताश्चैत्यमभ्यर्च्य स्थिताः सर्वा विलोक्य सः ।
पितातिकोपसंतप्तः सहसा संमुखोऽचरत् ॥ २९४ ॥
तत्र ताः कन्यकाः सर्वा दृष्ट्वा तं संमुखागतम् ।
क्रोधसंतप्तरक्ताक्षं तस्थुर्ध्यानसमाहिताः ॥ २९५ ॥
तथा स्थिताः स आलोक्य सर्वास्ताः स्वात्मजा अपि ।
निर्दयो बहुधा भर्त्स्य लगुडेनाप्यताडयत् ॥ २९६ ॥
तथातिताडिताः सर्वा अपि ता न विचेरिरे ।
तत्पापत्रसिता एव तस्थुर्ध्यानसमाहिताः ॥ २९७ ॥
ततः स जनकः क्रूरः संताड्य परिभाष्य च ।
सर्वा आदाय तान्मीनान् सहसा तत्पुरेऽचरत् ॥ २९८ ॥
तत्र विक्रीय तान्मीनानन्नमादाय सत्वरः ।
गृहे पत्न्याः पुरो गत्वा तच्चरित्रं न्यवेदयत् ॥ २९९ ॥
तत्र तत्ताडनोद्भूतदुःसहवेदनातुराः ।
भुव्यावर्त्य रुदन्त्यस्ताः सर्वास्तस्थुर्विमूर्छिताः ॥ ३०० ॥
तदन्तिकगिरेः सानौ निषण्णः करुणानिधिः ।
प्रत्येकबुद्ध आत्मज्ञः शुश्राव तद्विलापितम् ॥ ३०१ ॥
तत्र स कृपया दृष्ट्या विलोकयन् समन्ततः ।
ताः सर्वा वेदनाक्रान्ताः समैक्षत विमूर्छिताः ॥ ३०२ ॥
ततः प्रत्येकबुद्धः स कारुण्यचोदितः कृती ।
तद्देशं सहसोपेत्य तस्थौ सुधाकरोत्सृजन् ॥ ३०३ ॥
सर्वास्तास्तत्सुधारश्मिपरिस्पृष्टाः सुखान्विताः ।
संप्राप्तचेतनाः सर्वाः प्राद्राक्षुस्तं यतीश्वरम् ॥ ३०४ ॥
ततस्तास्तं मुनिं दृष्ट्वा विस्मयाक्रान्तमानसाः ।
कोऽयं मुनिरिति ध्यात्वा सर्वास्तस्थुः प्रमोदिताः ॥ ३०५ ॥
ततस्तासां प्रधाना या भगिनी सा विचक्षणा ।
ताः सर्वा भगिनीर्दृष्ट्वा समामन्त्र्यैवमब्रवीत् ॥ ३०६ ॥
धन्या वयं तदद्य स्मो यदयं सौगतो मुनिः ।
कृपयास्मान् समुद्धर्तुं स्वयमेव समागतः ॥ ३०७ ॥
यद्ययं नागतो बुद्धः सुधारश्मिर्दयानिधिः ।
निस्त्राणा वयमत्रैव सर्वा मृत्युं व्रजेमहि ॥ ३०८ ॥
धन्योऽयं सुगतो नाथः सर्वसत्त्वानुकम्पकः ।
को ह्यस्ति त्रिजगल्लोके बुद्धादन्यो हितंकरः ॥ ३०९ ॥
बुद्ध एव जगच्छास्ता सर्वभद्रार्थसाधकः ।
दुर्गतित्रायको नाथः सद्गतेर्मार्गदर्शकः ॥ ३१० ॥
तदेतस्य वयं सर्वाः सर्वदा शरणं गताः ।
सत्कृत्य श्रद्धया भक्त्य यथाशक्ति भजेमहि ॥ ३११ ॥
ततो नूनं वयं सर्वाः सर्वपापविमोचिताः ।
परिशुद्धत्रिकाया हि सद्गतिं च व्रजेमहि ॥ ३१२ ॥
एतत्तया समाख्यातं श्रुत्वा ताः परिबोधिताः ।
सर्वा अपि मुनेस्तस्य तथा भक्तुं समीषिरे ॥ ३१३ ॥
ततस्ताः कन्यकाः सर्वाः श्रद्धाभक्तिसमन्विताः ।
यथाशक्ति मुनेस्तस्य सत्कारैः प्राभजन्मुदा ॥ ३१४ ॥
ततस्ताः शरणं गत्वा कृताञ्जलिपुटा मुदा ।
त्रिधा प्रदक्षिणीकृत्य नत्वैवं प्रार्थयंस्तथा ॥ ३१५ ॥
भगवन्नाथ सर्वज्ञ भवतां सर्वदा वयम् ।
शरणस्था यथादेशमिच्छामश्चरितुं तथा ॥ ३१६ ॥
तद्भवान् कृपया दृष्ट्या पश्यन्नस्मान् सुदुःखिताः ।
सर्वदापि तथा सर्वाः परित्रातुं समर्हति ॥ ३१७ ॥
नान्यो नो विद्यते त्राता नाथो मित्रं सुहृद्गुरुः ।
भवानेव गुरुः शास्ता सद्धर्मदेशकः प्रभुः ॥ ३१८ ॥
तदस्मान् दुःखिनीः सर्वाः संपश्यन् करुणादृशा ।
बोधिमार्गे प्रतिष्ठाप्य सदैवं त्रातुमर्हति ॥ ३१९ ॥
एतत्संप्रार्थितं ताभिः श्रुत्वा सोऽर्हन्महामतिः ।
प्रत्येकसुगतो ज्ञात्वा तासां कर्मविपाकताम् ॥ ३२० ॥
तत आकाश उत्प्लुत्य स्थित्वा वह्निरिवोज्ज्वलन् ।
तच्चित्तसंविनोदार्थं प्रातिहार्यमदर्शयत् ॥ ३२१ ॥
तस्यैतत्प्रातिहार्यं ताः सर्वा दृष्ट्वा सविस्मयाः ।
सुप्रसन्नमुखाम्भोजाः सुलब्धबोधिमानसाः ॥ ३२२ ॥
तत्र प्रदक्षिणीकृत्य कृताञ्जलिपुटा मुदा ।
अष्टाङ्गप्रणतिं कृत्वा बोधिप्रणिधिमादधुः ॥ ३२३ ॥
यदस्माभिर्मुनेरस्य सत्कृतिः प्रकृता मुदा ।
एतत्पुण्यविपाकेन लब्ध्वा च जन्म सद्गतौ ॥ ३२४ ॥
स्वपरात्महितं कृत्वा सर्वत्रापि शुभानि च ।
ईदृक्प्रत्येकसंबोधिं लब्ध्वा व्रजेम निर्वृतिम् ॥ ३२५ ॥
एवं ताः कन्यकाः सर्वाः प्रणिधाय प्रसादिताः ।
तमेव सुगतं नत्वा तस्थुर्ध्यानसमाहिताः ॥ ३२६ ॥
एवं हृद्भावितं तासां मत्वा स सुगतस्ततः ।
आकाशात्सहसोपेत्य ता एवं समुपादिशत् ॥ ३२७ ॥
भगिन्यः संप्रसीदध्वं यदितः सप्तमेऽहनि ।
सर्वा यूयं सुभाविन्यः समं कालं गमिष्यथ ॥ ३२८ ॥
ततो राजकुले जन्म वाराणस्यां शुभांशिकाः ।
लब्ध्वा यूयं समाचाराः सर्वाः शुभे चरिष्यथ ॥ ३२९ ॥
तत्र यूयं समालोक्य संसारं क्लेशसंकुलम् ।
सर्वान् परिग्रहांस्त्यक्त्वा तपोवने रमिष्यथ ॥ ३३० ॥
तत्रापि च त्रिरत्नानि स्मृत्वा सदा समाहिताः ।
प्रत्येकां बोधिमासाद्य निर्वृतिपदमाप्स्यथ ॥ ३३१ ॥
एतन्मत्वा भगिन्योऽत्र सर्वा यूयं समाहिताः ।
त्रिरत्नभजनं कृत्वा चरत सर्वदा शुभे ॥ ३३२ ॥
एतदेवमुपादिश्य स प्रत्येकजिनस्ततः ।
भासयन् खं समुत्प्लुत्य स्वाश्रमं सहसा ययौ ॥ ३३३ ॥
तमाकाशगतं दृष्ट्वा सर्वास्ताः कन्यका मुदा ।
प्रणत्वा सुप्रसादिन्यश्चिरेण स्वालयेऽचरन् ॥ ३३४ ॥
तत्र ताश्चैत्यमभ्यर्च्य स्थिताः सप्तदिने मृताः ।
वाराणस्यां कृके रज्ञः सुता आसन् समानिकाः ॥ ३३५ ॥
तासं या भगिनी ज्येष्ठा व्रतीति प्रतिश्रुता ।
द्वितीया धर्मवती ख्याता तृतीया शुभमञ्जरी ॥ ३३६ ॥
चतुर्थी धीमती नाम्ना पञ्चमी नेत्रमञ्जरी ।
षष्ठी च श्रिमती ख्याता सप्तमी च मदंजहा ॥ ३३७ ॥
अष्टमी रत्नमालाख्या इत्येता अष्टकन्यकाः ।
सुजाता नृपतेः पुत्र्यः समाचाराः समाशयाः ॥ ३३८ ॥
____________________

{ए अद्द्स्थे fओल्लोwइन्गfतेर्व्स्. ३३८ अन्द्चोन्तिनुएस्fरोम् ३३९
तत्र ताः धर्मवत्यादि सप्तकन्या शुभेचराः ।
क्लेशव्याकुलसंसारमित्यालोक्य परिग्रहान् ।
स्वान् स्वान् सर्वान् परित्यक्त्वा सर्वाः तपोवनं ययुः ॥ ३३८* ॥
तत्रापि च त्रिरत्नानि सदा स्मृत्वा समाहिताः ।
प्रत्येकां बोधिमासाद्य निर्वृतिं ताः समाययुः ॥ ३३८** ॥
तासं ज्येष्ठा स्वसा या तत्व्रतं प्रतिजन्म प्रचारिका ।
एतत्पुण्यानुभावेन सा कन्या रतिसंनिभा ॥ ३३८*** ॥
धर्मशीला व्रती नाम्नी धर्मपत्तने पुरे वरे ।}
____________________
तासां ज्येष्ठा प्रधाना या सा कन्या रतिसंनिभा ।
धर्मदक्षस्य भूपस्य भार्याभूद्धर्मचारिणी ॥ ३३९ ॥
तदापि सा व्रती कन्या चैत्यसेवानुरागिणी ।
संबोधिचरणारागा संबुद्धगुणभाविनी ॥ ३४० ॥
तत्र सा कन्यका साध्वी कर्तुं चैत्यार्चनं मुदा ।
धर्मदक्षं पतिं नत्वा प्रार्थयदेवमादरात् ॥ ३४१ ॥
स्वामिन्निच्छाम्यहं कर्तुं चैत्यबिम्बार्चनं सदा ।
अहोरात्रव्रतं चापि तदनुज्ञां प्रदेहि मे ॥ ३४२ ॥
इति तया सुभाविन्या भार्यया प्रार्थितं मुदा ।
श्रुत्वा स नृपतिर्दृष्ट्वा तां भार्यामेवमब्रवीत् ॥ ३४३ ॥
भद्रे साधुः समिच्छा ते यत्त्वयाहं प्रबोधितः ।
अहं चापि चरिष्यामि तथाहोरात्रसद्व्रतम् ॥ ३४४ ॥
इत्युक्त्वा स महीपालो धर्मदक्षः प्रमोदितः ।
भार्यया सहसैच्छत्तदहोरात्रव्रतं वरम् ॥ ३४५ ॥
ततः स नृपतिश्चैत्यं प्रतिष्ठाप्य यथाविधि ।
अहोरात्रव्रतं कृत्वा सभार्यस्तं समार्चयत् ॥ ३४६ ॥
एवं तया सुभाविन्या भार्यया सह सर्वदा ।
धर्मदक्षो नरेन्द्रोऽसौ चैत्यसेवारतोऽभवत् ॥ ३४७ ॥
ततस्तौ दम्पती चापि यावज्जीवं जिनार्चनम् ।
कृत्वा सौख्यं प्रभुक्त्वान्ते संजग्माते जिनालयम् ॥ ३४८ ॥
एवं मत्वात्र यूयं च श्रद्धया सद्व्रतं मुदा ।
अहोरात्रव्रतं धृत्वा भजत चैत्यमादरात् ॥ ३४९ ॥
एवं कृते हि वो भद्रमिहामुत्र सदा भवेत् ।
क्रमाद्बोधिपदं प्राप्य गमिष्यथ जिनालयम् ॥ ३५० ॥
इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते ।
भिक्षवोऽपि तथा चैत्यं व्रतं धृत्वा प्रभेजिरे ॥ ३५१ ॥
एवं मे गुरुणाख्यातं श्रुतं मया नराधिप ।
सर्वलोकहितार्थाय तवापि च प्रचक्ष्यते ॥ ३५२ ॥
तथा त्वं च महाराज संबोधिपदलब्धये ।
अहोरात्रव्रतं धृत्वा चैत्यसेवारतो भव ॥ ३५३ ॥
एतत्पुण्यानुभावैस्ते सर्वत्र मन्गलं भवेत् ।
सर्वदा सत्सुखं भुक्त्वा यायाश्चान्ते जिनालयम् ॥ ३५४ ॥
____________________

{ए अद्द्स्थे fओल्लोwइन्ग्बेत्wएएन् व्स्स्. ३५४ अन्द्३५५.
पुनस्च महरज
धर्मं विना न मोक्षं च दानं विना न भुक्तवान् ।
श्रोतुं विना न सत्ज्ञानं तस्माद्धर्मादिकं चर ॥
सप्तजन्मकृतं पापं तेनैव नश्यते खलु ।
कुक्षेत्रे च कुगोत्रे च जननं न भविष्यति ॥ ३५४* ॥}
____________________

इति तेनोपगुप्तेन शास्त्राख्यातं निशम्य सः ।
अशोकः सप्रजालोकस्तथेति प्राभ्यनन्दत ॥ ३५५ ॥
ये चेदं शुद्धचित्ता जिनवरकथितं चैत्यसेवानुभावम् ।
शृण्वन्ति श्रावयन्ति प्रमुदितहृदयाः श्रद्धयाभिप्रसन्नाः ।
ते सर्वक्लेशमुक्ता जिनगुणनिरताः प्राप्तसंबोधिचित्ताः ।
शुद्धात्मानः सुधीराः सकलशुभकरा बुद्धलोके प्रयान्ति ॥ ३५६ ॥

इत्यहोरात्रव्रतचैत्यसेवानुशंसावदानम् ॥

____________________

{श्वदानमशोकपृच्छितं समाप्तं. शुभनस्तु जगतां.
संवत्३२ आश्विने मासे ?कृष्णपक्षे लिख एतत्पम्. मुदा ए}
____________________