सामग्री पर जाएँ

अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय ४१-४५

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ एकचत्वारिंशोऽध्यायः।

अउ41.1
अथातः सर्पविषविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ41.2
दिव्यभौमविभागेन द्विविधाः पन्नगाः स्मृताः।
वासुकिस्तक्षकोनन्तः सगरः सागरालयः॥

अउ41.3
तथा नन्दोपनन्दाद्याः समिद्धाग्निसमप्रभाः।
दिव्या गर्जन्ति वर्षन्ति द्योतन्ते द्योतयन्ति ते॥

अउ41.4
धारयन्ति जगत्कृत्स्नं कुर्युःक्रुद्धाश्च भस्मसात्।
दृङ्निश्वासैर्नमस्तेभ्यो नतेष्वस्ति चिकित्सितम्॥

अउ41.5
दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः।
त्रिधा समासतो भौमा भिद्यन्ते तेत्वनेकधा।
व्यासतो योनिभेदेन नोच्यन्तेऽनुपयोगतः॥

अउ41.6
विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्।
विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम्॥

अउ41.7
तारुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च।
विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु॥

अउ41.8
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः।
फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः॥

अउ41.9
ज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः।
प्रांशवो मन्दगमनाः राजीमन्तस्तु राजिभिः।
स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः॥

अउ41.10
गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः॥

अउ41.11
चतुष्पात् व्यन्तरान् विद्योदतेषामेव सङ्करात्।
व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपणाः॥

अउ41.12
दिव्यकोजगरः सर्पः पताको वृक्षशायिकः।
शकली पुष्पकः क्षीरी लासिनी सारसाहिकः॥

अउ41.13
वर्षाहिको ज्योतिरथः शुकवक्त्रो बलाहकः।
गजभक्षःप्लवोद्वाही निर्विषाः षोडशाहयः॥

अउ41.14
प्रायेणर्तुमती मासं ज्येष्ठं तिष्ठति पन्नगी।
आषाढे सर्पसंयोगादण्डानां मासि कार्तिके॥

अउ41.15
द्वेशते विंशती द्वे च सा सूते तत्र जायते।
कर्केतनसवर्णेऽण्डे समुद्भिन्ने भुजङ्गमः॥

अउ41.16
दीर्घलोहितराजीभिश्चित्रे योषिन्नपुंसकम्।
शिरीषपुष्पसदृशे दंष्ट्राः सर्पस्य सप्तमे।
चतस्रः सम्भवन्त्यह्नि विषं तासु चतुर्दशे॥

अउ41.17
वामाधरासिता पीता तदूर्ध्वा दक्षिणात्वधः।
रक्ता श्यावोत्तरैकद्वित्रिचतुर्विषबिन्दुकाः॥

अउ41.18
ताः क्रमान्मुद्गमात्रोत्रबिन्दुः एष हि भोगिनाम्।
विषे विकल्पो नान्येषां विद्यांद्दष्ट्रास्तथापराः।
चत्वारिंशद् भुजङ्गस्य विर्विषाश्चतुरुत्तराः॥

अउ41.19
आयुर्वर्षशतं विंशं पञ्चवर्षशतायुषः।
गोनसा घर्मतप्तानां गवां नासासमुद्भवाः॥

अउ41.20
तत्रोर्ध्वदृङ्महाकायनेत्रजिह्वाशिरःस्वरः।
व्यक्तभोगः पुनान्धीरः स्त्री स्यात्तस्माद्विपर्यये॥

अउ41.21
आयता चपला क्लीबः सुकुमारो जडाकृतिः।
मन्दवेगस्वनक्रोधः सिताभस्तिर्यशीर्षकः॥

अउ41.22
दिनत्रियामासन्ध्यासु प्रबलास्ते यथाक्रमम्।
तदैव चापराध्यन्ति सर्वदैव तु पन्नगी॥

अउ41.23
ब्राह्मणाः क्रोधना नीलकपिलाः श्वेतलोहिताः।
रक्तास्याः पिङ्गनयना मेध्यदेशविचारिणः॥

अउ41.24
भोगे यज्ञोपवीतादिद्विजचिह्नोपचिह्निताः।
बिल्वपुष्पहिमोशीरपद्मगुग्गुलुगन्धयः॥

अउ41.25
क्षत्रिया मानिनो धीरा रक्ताक्षा भृशकोपनाः।
पक्वजाम्बवखर्जूरद्राक्षाभिन्नाञ्जनप्रभाः॥

अउ41.26
भोगेर्द्ध चन्द्रश्रीवत्सशङ्खचक्रहलाङ्किताः।
जातीचम्पकपुन्नागपत्रजोङ्गकगन्धयः॥

अउ41.27
वैश्याः पारावताभासा वज्रगोमेदकप्रभाः।
बिन्दुमण्डलचित्राङ्गा धूम्रपाटललोहिताः।
बस्तकुष्ठविकक्षीरसर्पिषां गन्धतः समाः॥

अउ41.28
शूद्राः सवर्णा गोधूममहिषद्विपकर्दमैः।
बिन्दुरेखाचिता रूक्षाः सुराशोणितगन्धयः॥

अउ41.29
पूर्वमध्यापराह्णेषु चरन्ति ब्राह्मणादयः।
अस्तंगते रवौ शूद्राः दशन्ति ब्राह्मणाः पुरः।
संस्थिता दक्षिणे पार्श्वे क्षत्रिया वामतो विशः॥

अउ41.30
शूद्रास्तु पृष्ठतो विप्रास्त्रीनप्यनिलपूर्वकान्।
कोपयन्ति क्रमाद्दोषांस्त्रींस्त्रयः क्षत्रियादयः॥

अउ41.31
दंशगन्धोङ्गगन्धेन ज्ञेयस्तेषां यथायथम्॥

अउ41.32
वायुमूषिकमण्डूकसर्वभक्षाः क्रमेण ते॥

अउ41.33
आहारार्थं भयात् पादस्पर्शादतिविषात् क्रुधः।
पापवृत्ततया वैराद्देवर्षियमचोदनात्।
दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम्॥

अउ41.34
आविष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम्॥

अउ41.35
व्यन्तरः पापशीलत्वान्मार्गमावृत्य तिष्ठति॥

अउ41.36
यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते।
न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत्॥

अउ41.37
एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम्।
दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं त्रीणि तानि तु॥

अउ41.38
मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम्।
दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम्॥

अउ41.39
निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत्॥

अउ41.40
विषं नाहेयमप्राप्य रक्तं दूषयते वपुः।
रक्तमण्वपि तु प्राप्तं वर्धते तैलबिन्दुवत्॥

अउ41.41
भीरोः सर्पाङ्गसंस्पर्शाद् भयेन कुपितोनिलः।
कदाचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत्॥

अउ41.42
दुर्गान्धकारे विद्धस्य केनचिद्दष्टशङ्कया।
विषोद्वेगो ज्वरश्छर्द्दिर्मूर्च्छा दाहोपि वा भवेत्।
ग्लानिर्मोहोतिसारो वा तच्छङ्काविषमुच्यते॥

अउ41.43
दंआस्तु सविषः सर्वः सशोफो वेदनान्वितः।
तुद्यते ग्रथितः किञ्चित् कण्डूमान् दह्यते भृशम्।
निर्विषो विपरीतोस्मात् #॥

अउ41.44
तत्र दंशः फणावताम्।
कूर्मपृष्ठोन्नतो रूक्षः सूक्ष्मदंष्ट्रापदान्वितः॥

अउ41.45
विकाराः श्यावता वक्त्रनखमूत्राक्षिविट्त्वचाम्।
शीतज्वरः सन्धिरुजा निद्रानाशो विजृम्भिका॥

अउ41.46
मन्यास्तभ्भःसिराध्मानं पृष्ठकट्यस्थिवाग्ग्रहाः।
शिरोगुरुत्वमरुचिः कासश्वासौ हनुग्रहः॥

अउ41.47
शूलमुद्वेष्टनं कोष्ठे शोषरोधौ मलाश्रयौ।
सन्दिग्धवाक्त्वं नैश्चेष्ट्यं मृतस्येव विसंज्ञता॥

अउ41.48
फेनलालोद्गमौ हिध्मा कण्ठे घुरुघुरायणम्।
शुष्कोद्गारो मुहुस्ते ते वातजाश्चापरे गदाः॥

अउ41.49
दंशो मण्डलिनां सोष्मा सशोषः पीतलोहितः।
पृथुर्विसर्पदाहोषाक्लेदकोथैर्विशीर्यते॥

अउ41.50
विकारा वक्त्रदन्तादिपीतता तृट्श्रमो भ्रमः।
दाहो मूर्च्छा ज्वरस्तिक्तवक्त्रत्वं पीतदर्शनम्॥

अउ41.51
रक्तागमनमूर्ध्वाधःशीतेच्छा धूमको मदः।
आशुसर्वाङ्गविसृतिर्गदास्ते ते च पित्तजाः॥

अउ41.52
दंशो राजीमतां स्निग्धःस्थिरपिच्छिलशोफकृत्।
सान्द्रास्रःशिशिरः पाण्डुस्तद्विकाराःशिरोव्यथा॥

अउ41.53
अरुचिश्छर्दिरालस्यं हृल्लासो मधुरास्यता।
कण्ठे घुरुघुरः पाको कण्डूरक्ष्णोर्हिमो ज्वरः॥

अउ41.54
कृच्छ्रादुच्छ्रवसनं निद्रा कासः श्वेतनखादिता।
स्तम्भो गुरुत्वं चाङ्गानां नासिकाक्षिमुखस्रुतिः।
रोमहर्षस्तमश्वासो रोगाश्चान्ये कफोद्भवाः॥

अउ41.55
व्यन्तरे मिश्रलिङ्गत्वं दष्टः पुंसोर्ध्वमीक्षते।
प्रक्षिपेद्दक्षिणं पादं पूर्वकायसमुद्यतः॥

अउ41.56
धीरोल्पवेगः शर्वर्यां विपरीतस्तु योषिता।
हीनस्वरोतिसारार्तः कम्पते त्रस्यते ज्वरी॥

अउ41.57
नपुंसकेन तिर्यग्दृगधीरः प्रियमैथुनः।
बहुवादी च वृद्धेन चिरान्मन्दाश्च वेदनाः॥

अउ41.58
बालेन शीघ्रं तीक्ष्णाश्च कुमारेणाक्ष्णि दक्षिणे।
रोगी कुमार्या वामे तु गर्भिण्या कृष्णजिह्वदृक्॥

अउ41.59
जृम्भा क्रोधोपजिह्वार्तः स शूनोष्ठः सिताननः।
गुरूदरः शिरोरोगी सूतादष्टस्तु मेहति।
शोणितं कृच्छ्रशूलार्तः सूचीभिरिव भिद्यते॥

अउ41.60
वेगानां रक्तमांसाद्याः सप्तोक्ताः पूर्वमाश्रयाः॥

अउ41.61
दर्वीकृताथ दष्टस्य दुष्टं श्यावीभवत्यसृक्।
श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः॥

अउ41.62
द्वितीये ग्रन्थयो वेगे तृतीये मूर्द्धगौरवम्।
दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः॥

अउ41.63
सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम्।
दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम्॥

अउ41.64
मूर्च्छाविपाकोऽतीसारः प्राप्य शुक्रन्तु सप्तमे।
स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम्॥

अउ41.65
अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक्।
तेन पीताङ्गता दाहो द्वितीये श्वयथूद्भवः॥

अउ41.66
तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायेते।
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्वगात्रगः॥

अउ41.67
दज्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम्।
पाण्डुता तेन गात्राणां द्वितीये गुरुताति च॥

अउ41.68
तृतीये दंशविक्लेदनासिकाक्षिमुखस्रवाः।
चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्च पञ्चमे।
वाक्यसङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत्॥

अउ41.69
कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम्॥

अउ41.70
जलप्लुता रतिक्षीणा भीता नकुलनिर्जिताः।
शीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः॥

अउ41.71
तूर्णं देशान्तरायातां विमुक्तविषकञ्चुकाः।
कुशौषधीकण्टकवद्ये चरन्ति च काननम्।
देशं च विद्याध्युषितं सर्पास्तेल्पविषा मताः॥

अउ41.72
श्मशानचैत्यवल्मीकयज्ञाश्रयसुरालये।
चतुष्पथे जलस्थाने जीर्णोद्यानेषु कोटरे॥

अउ41.73
क्षीरिद्रुमे निम्बतरौ निर्झरे गिरिगह्वरे।
चक्रवज्रगदाकुन्तत्रिशूलाङ्कजटाधराः॥

अउ41.74
रक्तास्यनयना ये च ते स्युराशीविषोपमाः।
न तेषां कालनियमो न च वेगेष्वनुक्रमः॥

अउ41.75
मन्त्रतन्त्रबलान्नापि प्रसह्य विनिवर्तनम्।
उपहारनमस्कारजपशान्तिपरायणः।
कश्चिज्जीवति तैर्दष्टो विरूपो विकलोऽपि वा॥

अउ41.76
श्मशानचितिचैत्यादौ पञ्चमीपक्षसन्धिषु।
अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु च॥

अउ41.77
याम्याग्नेयमघाश्लेषाविशाखापूर्वनैरृते।
नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत्॥

अउ41.78
दष्टमात्रे सितास्याक्षः शीर्यमाणशिरोरुहः।
स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति॥

अउ41.79
हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः।
जायते युगपद्यस्य स हृच्छूली न जीवति॥

अउ41.80
वेपथुर्वेदनास्तीव्रा ग्रीवाभङ्गोक्षिरक्तता।
मूर्च्छा गलग्रहश्छर्दिः प्रेतराजस्यकिङ्कराः॥

अउ41.81
जाम्बवप्रतिमो दंशः कूर्मपृष्ठवदुन्नतः।
रक्तं खेभ्यः समस्तेभ्यो वर्तते न तु दंशतः॥

अउ41.82
रोम्णां न शीतलैर्हर्षः श्वयथुर्लोहितासितः।
हृष्टमेहनता वक्रवक्त्रत्वं यस्य तं त्यजेत्॥

अउ41.83
फेनं वमति निस्संज्ञः श्यावपादकराननः।
नासावसादो भङ्गोङ्गे विड्भेदः श्लथसन्धिता॥

अउ41.84
विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च।
भवन्त्येतानि रूपाणि सम्प्राप्ते जीवितक्षये॥

अउ41.85
न नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः।
दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम्॥

अउ41.86
अतोन्यथा तु त्वरया प्रदीप्तागारवद् भिषक्।
रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत्॥
।इति एकचत्वारिंशोऽध्यायः।

द्विचत्वारिंशोऽध्यायः।

अउ42.1
अथातः सर्पविषप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयोमहर्षयः॥

अउ42.2
मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः।
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत्॥

अउ42.3
एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम्।
कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहति॥

अउ42.4
दष्टमात्रो दशेदाशु तमेव पवनाशिनम्।
लोष्टं महीं वा दशनैश्छित्वा वानु ससम्भ्रमम्॥

अउ42.5
निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा।
दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले।
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित्॥

अउ42.6
बन्धो देशानुसारेण नातिगाढश्लथो हितः।
दंशपूतित्वशोफादीन् कुरुते ह्यतिपीडितः।
अशक्तः शिथिलो रोध्दुं विषं देशान्तरं व्रजत्॥

अउ42.7
अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम्।
न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः॥

अउ42.8
निष्पीड्य चोद्धरेद्दंशं मर्मसन्ध्यगतं तथा।
न जायते विषावेगो बीजनाशादिवाङ्कुरः।
मर्मगे प्राप्नुयान्मृत्युं सन्धिस्थे विकलाङ्गताम्॥

अउ42.9
दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम्।
प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा।
करोति भस्मसात् सद्यो वह्निः कि नाम न क्षणात्॥

अउ42.10
आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः।
प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः॥

अउ42.11
अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः।
चन्दनोशीरयुक्तेन सलिलेन च सेचयेत्॥

अउ42.12
विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया॥

अउ42.13
रक्ते निर्द्द्रियमाणे हि कृत्स्नं निर्द्द्रियते विषम्।
दुष्टे हि व्याप्नुयादङ्गं ध्रुवं मृत्युर्भवत्यतः॥

अउ42.14
सिराव्यधोदितैरस्रमप्रवृत्तं प्रवर्तयेत्।
स्तम्भयेदतिवृत्तं च तैरेव प्राणरक्षया॥

अउ42.15
दुर्गन्धं सविषं रक्तमग्नौ चटचटायते।
यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक्॥

अउ42.16
सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः॥

अउ42.17
शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा।
लेपसेकैः सुबहुशः स्तम्भयेद् भृशशीतलैः॥

अउ42.18
अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्रवाः।
भवन्ति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः॥

अउ42.19
विषं कर्षति तीक्ष्णत्वाद्धृदयं तस्य गुप्तये।
पिबेद् घृतं घृतक्षौद्रमगदं वा घृताप्लुतम्॥

अउ42.20
मज्जानं गोमयरसं भस्माम्भः कृष्णमृज्जलम्।
ऐकध्यं पञ्चगव्यं वा दधि गैरिकवारि वा॥

अउ42.21
खादेद्वा कोविदारार्कशिरीषकटभीच्छदान्।
छागमेषवराहासृक्शिशुस्थविरयोषितः॥

अउ42.22
पिबेयुर्गर्भिणी शीतमधुरान् पयसा गदान्।
तथा मूर्च्छादयो न स्युर्विषं चाश्वेतिनानिलम्॥

अउ42.23
हृदयावरणेनास्य श्लेष्मा हृद्युपचीयते।
प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः॥

अउ42.24
द्रवैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः।
वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः॥

अउ42.25
भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः।
सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम्॥

अउ42.26
सिन्दुवारकमूलानि रसेन स्वेन पेषयेत्।
मधुयुक्तोयमगदः पानं दर्वीकृतां विषे॥

अउ42.27
सिन्दुवारकमूलानि श्वेता च गिरिकर्णिका।
पानं दर्वीकरैर्दष्टे नस्यं मधु सपाकलम्॥

अउ42.28
कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि।
चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा॥

अउ42.29
पानं च क्षौद्रमञ्जिष्ठागृहधूमयुतं घृतम्॥

अउ42.30
तण्डुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः।
मातुलुङ्गी सिता शेलुः पाननस्याञ्जने हितः।
अगदः फणिनां घोरे विषे राजीमतामपि॥

अउ42.31
समाः सुगन्धामृद्वीकाश्वेताख्यागजकर्णिकाः।
अर्द्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमम्।
सक्षौद्रो मण्डलिविषे विशेषादगदो हितः॥

अउ42.32
पञ्चवल्कवरायष्टी नागपुष्पैलवालुकम्।
जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम्॥

अउ42.33
सक्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम्।
लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा॥

अउ42.34
काश्मर्यं वटशृङ्गाणि जीवकर्षभकौ सिताम्।
मञ्जिष्ठां मधुकं चेति दष्टो मण्डलिना पिबेत्॥

अउ42.35
वंशत्वग्बीजकटुका पाटलीबीजनागरम्।
शिरीषबीजातिविषे मूलं गावेधुकं वचाम्।
पिष्टो गोवारिणाष्टाङ्गो हन्ति गोनसजं विषम्॥

अउ42.36
कटुकातिविषाकुष्ठगृहधूमहरेणुकाः।
सक्षौद्रव्योष्Aतगरा घ्नन्ति राजमितां विषम्॥

अउ42.37
निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि।
उद्धृत्य प्रच्छितं सर्पिर्द्धान्यमृद्भ्यां प्रलेपयेत्॥

अउ42.38
पिबेत् पुराणं च घृतं वराचूर्णावचूर्णितम्।
जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम्॥

अउ42.39
करवीरार्ककुसुममूललाङ्गलिका कणाः।
कल्कयेदारनालेन पाठामरिचसंयुताः।
एष व्यन्तरदष्टानामगदः सार्वकार्मिकः॥

अउ42.40
शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम्।
भावितं सर्पदष्टानां पाननस्याञ्जने हितम्॥

अउ42.41
द्विपलं वक्रकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम्।
अपि तक्षकदष्टानां पानमेतत् सुखप्रदम्॥

अउ42.42
गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्।
अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम्॥

अउ42.43
रक्तं मांसं च गोधायाः शुष्कं चूर्णीकृतं हितम्।
विषे रसगते पानं कपित्थरससंयुतम्॥

अउ42.44
शेलुमूलत्वगग्राणि बादरोदुम्बराणि च।
कटभ्याश्च पिबेद्रक्तगते मांसगते पुनः॥

अउ42.45
सक्षौद्रं खादिरारिष्टकौटजं मूलमम्भसा।
सर्वेष्वपि बलायुग्मं मधुकं मदनं नतम्॥

अउ42.46
शिरोगते विषे मूलं नस्यकर्मणि योजयेत्।
बन्धुजीवस्य भाङ्र्ग्याश्च सुरसस्यासितस्य च॥

अउ42.47
अथवा पिप्पलीहिङ्गुवृश्चिकालीमनश्शिलाः।
शिरीषबीजापामार्गलवणं चेतनाकरम्।
कल्कश्रूर्णोथवा कृष्णाक्षवकातिविषोषणात्॥

अउ42.48
पिप्पली मरिचक्षारवचासैन्धवशिग्रुकाः।
पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्॥

अउ42.49
चन्दनं मधुकं मांसी पिप्पलीमरिचोत्पलम्।
सैन्धवं चाञ्जनं श्रेष्ठं गवां पित्तेन कल्कितम्॥

अउ42.50
नक्तमालफलं व्योषं बिल्बमूलं निशाद्वयम्।
पुष्पं च सौरासं पिष्टमञ्जनं बस्तवारिणा।
भोजवैतरणोद्दिष्टं विषसुप्तप्रबोधनम्॥

अउ42.51
वारिगुञ्जाफलोशीरं नेत्रयोर्विषदुष्टयोः।
अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम्॥

अउ42.52
समुद्रफेनं मरिचं कणासौवीरकाञ्जम्।
चूर्णाञ्जनं ससिन्धूत्थं विषोपहतचक्षुषाम्॥

अउ42.53
कपित्थमांसं ससिताक्षौद्रं कण्ठगते विषे।
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्॥

अउ42.54
विषे पक्वाशयगते मञ्जिष्ठारजनीद्वयम्।
पिप्पलीं च समं पिष्ट्वा गव्यपित्तेन पाययेत्॥

अउ42.55
पिप्पलीनागरक्षारं नवनीतेन मूर्च्छितम्।
प्रवृद्धे कण्ठगे दद्याच्छ्लेष्मणि प्रतिसारणम्॥

अउ42.56
जयेत् सङ्क्रामणैराशु विषं शिरसि संश्रितम्।
दद्यादधस्ताद्दष्टस्य मूर्ध्नि काकपदे कृते॥

अउ42.57
काकदक्षशिखिच्छागगव्यमाहिषकौक्कुटम्।
बिल्वप्रमाणं मांसास्नमूर्ध्वदष्टस्य पादयोः।
विषं सङ्क्रमते तत्र निहन्याच्छीघ्रमन्यथा॥

अउ42.58
तीक्ष्णनस्याञ्जनान्ते च भूरिमात्रं पिबेत् घृतम्।
विषं हि नेत्रं रूक्षस्य तीक्ष्णैर्हन्ति समीरितम्॥

अउ42.59
वामयेत ततश्चैनं विषशेषोपशान्तये।
श्लेष्मलं श्लेष्मलैर्दष्टं नाभेरूर्ध्वं विशेषतः॥

अउ42.60
धामार्गवः शक्रयवाः सर्षपा मदनं मधु।
सैन्धवं वमनं कोष्णं विषे श्लेष्माश्रयश्रिते॥

अउ42.61
सुरसं सर्पवेतालीमीश्वरां गौरसर्षपम्।
पटोलनिम्बपत्रं च पिबेत् सक्षौद्रसैन्धवम्॥

अउ42.62
शुकाह्वाजालिनीदन्तीमदनेक्ष्वाकुकौटजम्।
काला लाङ्गलिका तिक्ता वमनं तण्डुलांबुना॥

अउ42.63
पैत्तिकं पैत्तिकैर्दष्टमधो नाभेर्विशेषतः।
विषे पित्ताशयगते पाययेत विरेचनम्॥

अउ42.64
सनीलीफलदां दन्तीं पयसा मस्तुनाथवा।
श्लक्ष्णचूर्णीकृतं कुम्भं क्वाथेन त्रैफलेन वा।
क्षीरेण वा त्रिवृच्छ्यामासुरसानीलिनीरजः॥

अउ42.65
पिण्डीतकफलं व्योषं त्रिवृद्वेल्लं हरीतकी।
विरेचनं कफप्राये लवणं मूत्रसम्प्लुतम्॥

अउ42.66
घृताप्लुतं सलवणं मारुते नीलिनीफलम्॥

अउ42.67
शयानः शयने छिद्रे विरेच्यो विषपीडितः।
मुहुरुत्तिष्ठतो ह्यस्य विषं दूषयतेनिलम्।
पिबेद्वान्तो विरिक्तो वा यवागूं विषनाशिनीम्॥

अउ42.68
विषे वाताशयगते सर्पिषः पानमिष्यते।
आद्यपश्चिमयोर्यच्च प्रोक्तं विषनिषेधयोः॥

अउ42.69
अथ दर्वीकृतां वेगे पूर्वे विस्राव्य शोणितम्।
अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत्॥

अउ42.70
द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्।
विषापहे प्रयुञ्जीत तृतीयेञ्जननावने॥

अउ42.71
पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते।
षष्ठपञ्चमयोः शीतैर्दिग्धसिक्तमभीक्ष्णशः॥

अउ42.72
पाययेद्वमनं तीक्ष्णं यगागूं यथोदिताम्।
अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः॥

अउ42.73
कृत्वावगाढं शस्त्रेण मूर्ध्नि काकपदं ततः।
मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत्॥

अउ42.74
तृतीये वामितः पेयां वेगे मण्डलिनां पिबेत्।
अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम्॥

अउ42.75
आद्येवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः।
अलाबुना हरेद्रक्तं पूर्ववच्चाअगदं पिबेत्॥

अउ42.76
षष्ठे वेगेञ्जनं तीक्ष्णमवपीडं च योजयेत्।
अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम्॥

अउ42.77
गर्भिणीबालवृद्धेषु मृदु विध्येत् सिराञ्च न॥

अउ42.78
त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः।
तमालः केसरं शीतं पीतं तण्डुलवारिणा।
हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान्॥

अउ42.79
प्रपौण्डरीकं कटुका देवदारुसुवर्चिका।
कालानुसारी स्थौणेयशैलेयघनपद्मकम्॥

अउ42.80
कुटन्नेटलापुन्नागनतकुष्ठीप्रयङ्गुकम्।
लोध्रगुग्गुलुतालीसपिप्पलीस्वर्णगैरिकम्॥

अउ42.81
सिन्दुवारः सितः शुण्ठी ध्यामकं लवणोत्तमम्।
श्लक्ष्णचूर्णीकृतं शृङ्गे निदध्यान्माक्षिकद्रुतम्॥

अउ42.82
तार्क्ष्यस्तार्क्ष्योपमः पाननावनाभ्यञ्जनाञ्जनैः।
अगदस्तक्षकस्यापि विषवेगं निवर्तयेत्॥

अउ42.83
लोध्रं शिरीषषुष्पाणि समङ्गा हिङ्गु रेणुकाः।
कणोषणैलानेपाली वचा यष्टी मधूत्पलम्॥

अउ42.84
सिन्दुवारकमन्दारमूलं बीजं करञ्जजम्।
ज्योतिष्मती नतं कुष्ठं श्वेता च गिरिकर्णिका॥

अउ42.85
चूर्णितः कन्यया क्षौद्रगोपित्ताभ्यां च वर्तितः।
अगदो हन्ति सर्पाखुकणभं च सृगालजम्॥

अउ42.86
बिडालकाण्डचित्रोत्थं विषं भूतग्रहं ज्वरम्।
अपस्मारग्रहोन्मादगुल्माजीर्णं विषूचिकाम्॥

अउ42.87
बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम्।
फलत्रयं व्योषनिशाद्वयं च बस्तस्य मूत्रेण सुसूक्ष्मपिष्टम्॥

अउ42.88
भुजङ्गलूतोन्दुरुवृश्चिकाद्यैर्विषूचिकाजीर्णगाज्वरैश्च।
आर्त्तान् नरान् भूतविधर्षितांश्च स्वस्थीकरोत्यञ्जनपाननस्यैः॥

अउ42.89
त्रिवृद्विशल्या मधुकं निशे लवणपञ्चकम्।
मंजिष्ठा त्र्यूषणं तद्वत् कल्कयेत् स महागदः॥

अउ42.90
मांसीहरेणुत्रिफला मुरुङ्गी मधुयष्टिका।
मंजिष्टा पद्मकाशोककुष्ठतालीसचन्दनम्॥

अउ42.91
सुगन्धिकैला किणिही त्वक्पटोली मृगादिनी।
भार्ङ्गी विडङ्गं पालिन्दी पाठा क्रोष्टुकमेखला॥

अउ42.92
पुष्पमारुष्करं पत्रं सौरसं क्रमुकं पुरम्।
पित्तं नकुलमार्जारगोधाशल्यकसूकरात्॥

अउ42.93
पृषताच्चित्रपत्राच्च गोशृङ्गे पूर्ववत् स्थितः।
यत्र गेहे न तत्राहिकीटादिभ्यो भयोद्भवः॥

अउ42.94
एतेन भेरीपटहाः पताकाश्च प्रलेपिताः।
आर्षभेण विषं घ्नन्ति स्पर्शश्रवणदर्शनैः॥

अउ42.95
प्रलेपाद्यैश्च निश्शेषं दंशादप्युद्धरेद्विषम्।
भूयो वेगाय जायेत शेषं दूषीविषाय वा॥

अउ42.96
विषापायेनिलं क्रुद्धं स्नेहादिभिरुपाचरेत्।
तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः॥

अउ42.97
पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिः॥

अउ42.98
समाक्षिकेण वर्गेण कफमारग्वधादिना॥

अउ42.99
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु।
पानं समन्त्रपूताम्बुप्रोक्षणं सान्त्वहर्षणम्।
सर्पाङ्गाभिहते युञ्ज्यात्तथा शङ्काविषार्दिते॥

अउ42.100
पूतनोप्रतकूष्माण्डपिशाचाद्या नरद्विषः।
हन्युरौषधवीर्याणि रक्षाकर्मण्यवारिताः।
तस्माद्रक्षां प्रयुञ्जीत रक्षोगणनिवारिणीम्॥

अउ42.101
गोमयेन सुसम्मृष्टे धूपागरुसुधूपिते।
गन्धमाल्योपहाराद्यैर्गृहे पूजितदैवते॥

अउ42.102
सूत्रकारान् समभ्यर्च्य शङ्करास्तिककाश्यपान्।
सन्तर्प्य हव्यकव्याभ्यां समिद्धाननलद्विजान्॥

अउ42.103
प्राङ्मुखायोपविष्टाय विषार्ताय चिकित्सकः।
उत्तराभिमुखो युञ्ज्याद्विद्यां मन्त्राणि भेषजम्॥

अउ42.104
समप्रमाणैर्हरितैर्दर्भैः प्रागभिमन्त्रितैः।
अच्छिन्नाग्रैः समूलैश्च कुर्यात्तस्यापमार्जनम्॥

अउ42.105
ब्राह्माद्यै रगदैरेनं नित्यमेवानुलेपयेत्।
सञ्जीवनादीन् पानादौ दंशलेपे च योजयेत्॥

अउ42.106
पूर्णकुम्भं सकुसुमं सर्षपान् छागलं पयः।
शस्त्रं दूर्वां मधु घृतं कुर्याद्दष्टस्य मूर्द्धतः।
एवं शाम्यति सप्ताहाद्विषमात्मवतः सतः॥

अउ42.107
कर्केतनं मरकतं वज्रं वारणमौक्तिकम्।
वैडूर्यं गर्दभमणिं पिचुकां विषमुष्टिकाम्॥

अउ42.108
हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम्।
तथा द्रोणं महाद्रोणं मानसीं सर्पजं मणिम्।
विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत्॥

अउ42.109
छत्री झर्झरपाणिश्च चरेद्रात्रौ विशेषतः।
तच्छायाशब्दवित्रस्ताः प्रणश्यन्तिभुजङ्गमाः॥
।इति द्विचत्वारिंशोऽध्यायः।

अथ त्रिचत्वारिंशोऽध्यायः।

अउ43.1
अथातः कीटविषप्रतिषेधं नामाध्यायं व्याख्यास्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ43.2
सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः।
दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः॥

अउ43.3
कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः।
उच्चिटिङ्गोग्निनामा च चिच्चिटाङ्गो मयूरकः।
अहिजोरभ्रकाबर्तशारिकामुखवैदलाः॥

अउ43.4
शरावकुर्दौ परुषश्चित्रशीर्षो हि जारकः।
अष्टादशेति वायव्याः कीटा वातप्रकोपनाः॥

अउ43.5
कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः।
विनासिका ब्राह्मणिका विन्दुलो भ्रमरस्तथा॥

अउ43.6
बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोरिमेदकः।
दुन्दुभिः पद्मकीटश्च मकरः शतपादकः॥

अउ43.7
पञ्चालः पाकमत्स्यश्च सूक्ष्मतुण्डोथ गर्दभिः।
क्लीतः कृमिशरारी च यश्चाप्युत्क्लेशकः स्मृतः।
चतुर्विंशतिराग्रेयाः कीटाः पित्तविकारदाः॥

अउ43.8
विश्वम्भरः पञ्चशुष्कः पञ्चकृष्णोथ कोकिलः।
स्थैर्यकः प्रचलाकश्च वटभः किटिभो जटी॥

अउ43.9
सूचीमुखः कृष्णगोधा दभ्रः काषायवासिकः।
त्रयोदशैते निर्दिष्टाः सौम्याः श्लेष्मप्रकोपणाः॥

अउ43.10
तुङ्गनासश्चिपिलकस्तालको वाहकस्तथा।
कोष्ठागारी कृमिकरो यश्च मण्डलपुच्छकः॥

अउ43.11
तुण्डनाभः सर्षपको मद्गुलिः शम्बुकस्तथा।
अग्निकीटश्च सङ्कीर्णा द्वादश प्राणनाशनाः॥

अउ43.12
दष्टस्यकीटैर्वायव्यैर्दंशस्तोदरुजोल्बणः।
आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान्।
पक्कपीलुफलप्रख्यः खर्जूरसदृशोथ वा॥

अउ43.13
कफाधिकैर्मन्दरुजः पक्कोदुम्बरसन्निभः।
स्रावाढ्यःसर्वलिङ्गस्तुदंशः स्यात्सान्निपातिकैः॥

अउ43.14
वेगाश्च सर्पवच्छोफो वर्द्धिष्णुर्विस्ररक्तता।
शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोतिवेदना॥

अउ43.15
सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः॥

अउ43.16
वातिकः पक्षवातेन स्पर्शाद्दशति पैत्तिकः।
मुखेन श्लैष्मिकः कीटः सर्वथा सान्निपातिकः॥

अउ43.17
दष्टस्य कणभैः शोफो विसर्पो वमथुर्ज्वरः।
दंशश्च कर्णिकाकारः श्यावरक्तो विशीर्यते॥

अउ43.18
त्रिकण्टकैस्तु दष्टस्य नानावर्णोथ वा सितः।
दंशो भवेच्छ्वयथुमान् मोहो भेदश्च वर्चसः॥

अउ43.19
कृकलासेर्द्धचन्द्राभः स्राववात् भृशलोहितः।
दंशो रक्तैश्चितः स्फोटैः सशूलैर्दम्भवोद्भवः॥

अउ43.20
एकदंष्ट्रार्पितः पीतः कण्डूमान् दार्दुरः सरुक्।
दंशो दष्टः सतृण्निद्रो मूर्च्छावान् हरितं वमेत्॥

अउ43.21
मात्स्यो दंशः सरुग्दाहः प्रागेवोक्तो जलौकसाम्।
विश्वम्भरकृतो दंशः शोफकण्डूरुजान्वितः।
कफोद्वममतीसारं कुरुते कोठजन्म च॥

अउ43.22
पीतः शतपदीदंशः स्वेदरुग्रागशोफवान्।
अतसीपुष्पवर्णो वा पिटकावान् भ्रमग्रदः॥

अउ43.23
गृहगोधिकया स्घेदतोदश्वयथुदाहवान्।
क्लेदी च दंशो दष्टस्य हृस्पीडा ग्रन्थिसम्भवः॥

अउ43.24
कण्डूमान् मशकैरीषच्छ्वयथुर्मन्दवेदनः।
असाध्यकीटसदृशमसाध्यमशकक्षतम्॥

अउ43.25
प्रायेण मक्षिका नेत्रे दशन्ति श्वयथूल्वणः।
तद्दंशो दाहकण्डूमांस्तासां तु स्थालिकां त्यजेत्।
तदृष्टे पिटका श्यावा स्राविणी भूर्युपद्रवा॥

अउ43.26
रुग्वान् पिपीलिकादंशो वह्निनेव च दह्यते॥

अउ43.27
जलबिन्दुनिभैः स्फोटैर्दाहकण्डूरुजान्वितैः।
यत् गात्रमाचितं सोष्म तद्विद्यादवमूत्रितम्॥

अउ43.28
वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत्।
ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति।
दंशः सद्योतिरुक् श्यावस्तुद्यते स्फुटतीव च॥

अउ43.29
ते गवादिशकृत्कोथद्दिग्धदष्टादिकोथतः।
सर्पकोथाच्च सम्भूता मन्दमध्यमहाविषाः॥

अउ43.30
मन्दाः पीताः सिताः श्यावा रुक्षाः कर्बुरमेचकाः।
रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराः॥

अउ43.31
धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः॥

अउ43.32
पिशङ्गाः शबलाश्चित्राः शोणिताभा महाविषाः॥

अउ43.33
अग्न्याभा द्व्येकपर्याणो रक्तासितसितोदराः॥

अउ43.34
तैर्दष्टः शूनरसनः स्तब्धगात्रो रुजार्दितः।
खर्वमन् शोणितं कृष्णमिन्द्रियार्थनसंविदन्॥

अउ43.35
स्विद्यन् मूर्च्छन् विशुष्कास्यो विह्णलो वेदनातुरः।
विशीर्यमाणमांसश्च प्रायशो विजहात्यसून्॥

अउ43.36
उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः॥

अउ43.37
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्टरोमताम्।
करोति सेकमङ्गानां दंशः शीताम्बुनेव च॥

अउ43.38
उष्ट्रवर्णतया प्रोक्तः स एव ह्युष्ट्रधूमकः।
रात्रिको रात्रिचाराच्च पृथक् तु कणभादिषु।
विकारसाधनाभेदात् भेदाः सन्तोपि नोदिताः॥

अउ43.39
वातपित्तोत्तराः कीटा श्लैष्मिकाः कणभोन्दुराः।
प्रायो वातोल्बणविषा वश्चिकाः सोष्ट्रधूमकाः॥

अउ43.40
यत्र यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत्।
तत्र तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्॥

अउ43.41
हृत्पीडोर्ध्वानिलः स्तम्भाः सिरायामोस्थि पर्वरुक्।
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे॥

अउ43.42
संज्ञानाशोष्णनिश्वासौ हृदाहः कटुकास्यता।
मांसावदरणं शोफो रक्तपित्तं च पैत्तिके॥

अउ43.43
छर्द्यरोचकहृल्लासप्रसेकोत्क्लेशपीनसैः।
सशैत्यमुखमाधुर्यैर्विद्याच्छ्रलेष्माधिकंविषम्॥

अउ43.44
पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके।
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः॥

अउ43.45
पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश्चातिशीतलैः॥

अउ43.46
लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्॥

अउ43.47
कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता॥

अउ43.48
स्स्वेदालेपनसेकांस्तु कोष्णान् प्रायोवचारयेत्।
अन्यत्र मूर्च्छिताद्दंशपाकतः कोथतोपि वा॥

अउ43.49
नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम्।
विषदंशस्य सर्वस्य काश्यपः परमब्रवीत्॥

अउ43.50
विषघ्नं च विधिं सर्वं कुर्यात् संशोधनानि च॥

अउ43.51
साधयेत् सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैः॥

अस43.52। तण्डुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेन्।
याति कीटविषैः कम्पं न कैलास इवानिलैः॥

अउ43.53
क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः।
मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत्॥

अउ43.54
वचा हिङ्गुविडङ्गानि सैन्धवं गजपिप्पली।
पाठाप्रतिविषाव्योषं काश्ययेन विनिर्मितम्।
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत्॥

अउ43.55
ऐकध्यं कीटविषजिन्महास्नेहं पयो मधु।
शिखिकुक्कुटजैः पिच्छैः सतैललवणोत्तमैः।
धूपो हन्ति कृतः शीघ्रं कीटवृश्चिकजं विषम्॥

अउ43.56
विषे कणभजे कुर्यादुन्दुरोक्तमुपक्रमम्।
शिरीषबीजं मण्डूके लेपः स्नुक्क्षीरकल्कितम्।
मधु त्रिकटुकं श्वेतपिण्डामूलं च मत्स्यजे॥

अउ43.57
वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्।
द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्॥

अउ43.58
गुहामतिगुहां श्वेतामजगन्धां शिलाजतु।
कत्तृणं कटभीक्षारं गृहधूमं भनश्शिलाम्॥

अउ43.59
रोहीतकं च पित्तेन कल्कयेत् स वरोऽगदः।
विश्वम्भरादिष्वालेपनावनाञ्जनपानतः॥

अउ43.60
स्वर्जिकाजशकृत्क्षारः सुरसः साक्षिपीडकः।
मदिरामण्डसंयुक्तो हितः शतपदीविषे॥

अउ43.61
कपित्थमक्षिपीडोर्कबीजं त्रिकटुकान्वितम्।
करञ्जो द्वे हरिद्रे च गृहगोधीविषापहः॥

अउ43.62
काकाण्डयुक्तः सर्वेषां विषाणां तण्डुलीयकः।
प्रशस्तो बर्हिणोण्डेन तद्वद्वायसपीलुकः॥

अउ43.63
तगरं नागरं नागकेसरं मरिचानि च।
प्रयुक्तं पानलेपाभ्यां मक्षिकाविषनाशनम्॥

अउ43.64
सितासिते च लवणे मरिचं च सनागरम्।
फणिज्जकरसोपेतं वरटीनां विषापहम्॥

अउ43.65
सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत्।
विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा॥

अउ43.66
लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः।
सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा।
उपनाहो घृते भृष्टः कल्कोजाज्याः ससैन्धवः॥

अउ43.67
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत्।
रजनीसैन्धवव्योषशिरीषफलपुष्पजैः॥

अउ43.68
मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम्।
लेपः सुखोष्णश्च हितः पिण्याको गोमयोपि वा॥

अउ43.69
पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम्।
गुडोदकं वा सुहिमं चातुर्जातकवासितम्॥

अउ43.70
पलाशबीजं शूलघ्नो लेपोर्कक्षीरभावितम्।
पारावतशकुत्पथ्या तगरं विश्वभेषजम्।
बीज पूररसोन्मिश्रं वरोऽयं वृश्चिकागदः॥

अउ43.71
मनोह्ना सैन्धवं हिङ्गु मालतीपल्लवानि च।
गोशकृद्रसपिष्टेयं गुटिका वृश्चिकार्दिते॥

अउ43.72
लशुनो मरिचं हिङ्गु सुरसं विश्वभेषजम्।
अर्कक्षीरेण गुटिका वृश्चिकार्दितशङ्करी॥

अउ43.73
सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्॥

अउ43.74
हिङ्गुना हरितालेन मातुलुङ्गरसेन च।
लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा॥

अउ43.75
करञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च।
शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम्॥

अउ43.76
पिप्पलीं मरिचं यष्टिं श्वेतां सुरसमञ्जरीम्।
सहदेवामपामार्गं तण्डुलीयं च कल्कयेत्।
कुतलक्षारतोयेन लेपोऽलिविषनाशनः॥

अउ43.77
यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः।
तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम्।
सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम्॥

अउ43.78
आदंशे यस्य कण्डूःस्यात् कोथः कोठं च दारुणम्।
तस्य लेपस्त्रिकटुकं यवक्षारोक्षिपीडकः॥

अउ43.79
पारावतशकृत्कान्तास्वर्ज्जिकाग्निहरेणवः।
रसेन मातुलुङ्गस्य क्षीरेणार्कस्यवा द्रुताः॥

अउ43.80
हृदयं पीड्यते यस्य मूर्च्छा चिमिचिमायनम्।
दन्तौष्ठदंशो रोम्णां च हर्षस्तस्य निवर्तते।
वेगो विषस्य पञ्चाहान्नैव वा क्रियया विना॥

अउ43.81
तत्र कुर्वीत दंशस्य लेपनं मस्तुकल्कितैः।
श्वेतपाटल्यतिविषाहरिद्राहरिणीनतैः।
बिल्वमूलयवक्षारसूक्ष्ममागधिकायुतैः॥

अउ43.82
उत्कृत्यत इवादंशः शूनः क्लिन्नो हतच्छविः।
जम्बूफलनिभं रक्तं कूजन् वमति वेष्टते॥

अउ43.83
इन्द्रियार्थं न जानाति प्रस्विद्यति च यो मुहुः।
स्वर्जिकाकुष्ठतगरनाकुलीपीलुपिप्पलीः।
बृहतीं चाच्छसुरया तस्य पिष्ट्वा विलेपनम्॥

अउ43.84
सर्वत्र चोग्रालिविषे पाययेन्मधुसर्पिषी।
विध्येत् सिरां विदध्याच्च वमनाञ्जननावनम्।
उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम्॥

अउ43.85
नागरं गृहकपोतपुरीषं बीजपूरकरसो हरितालम्।
सैन्धवं च विनिहन्त्यगदोऽयं लेपतोऽलिकुलजं विषमाशु॥

अउ43.86
अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषे।
विषेणालेपयेद्दंशं स्थावरेण यथोचितम्॥

अउ43.87
क्रियेयमुच्चिटिङ्गेपि प्रतिलोमं च पांसुभिः।
उद्वर्तनं सुखाम्लोष्णैस्तथा प्रच्छादनं घनैः॥

अउ43.88
कुटजस्य फलं कुष्ठं मालती फलिनी नतम्।
तिक्तेक्ष्वाकुश्च पिष्टानि पानप्नध्द्मनादिभिः॥

अउ43.89
वृश्चिकोन्दुरुलूतानां सर्पाणां च विषापहम्।
समानममृतेनेदं गरशेषं च नाशयेत्॥

अउ43.90
अर्कस्य दुग्धेन शिरीषबीजं त्रिर्भावितं पिप्पलिचूर्णमिश्रम्।
एषोऽगदो हन्ति विषाणि कीटभुजङ्गलूतोन्दुरुवृश्चिकानाम्॥
।इति त्रिचत्वारिंशोऽध्यायः।

अथ चतुश्चत्वारिंशोऽध्यायः।

अउ44.1
अथातो लूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ44.2
विश्वामित्राय रुष्टस्य वसिष्ठस्य ललाटजाः।
स्वेदलेशाः स्मृता लूता लूने ये पतितास्तृणे॥

अउ44.3
खाण्डवे दह्यमानानामसुराणां शरीरतः।
ये स्फुलिङ्गा विनिश्चेरुस्ते लूता इति केचन॥

अउ44.4
अन्ये वदन्ति भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनात्।
सम्भवन्ति विषस्फोटा ये लूताः कीटलक्षणम्।
यथास्वं धारयन्तस्ते लूताः कीटाश्च संज्ञिताः॥

अउ44.5
तत्र घोरतमा लूता भिद्यन्ते ता अपि त्रिधा।
तक्ष्णिमध्यावरत्वेन घ्नन्ति वाश्वचिकित्सिताः।
सप्ताहेन दशाहेन पक्षेण च परं क्रमात्॥

अउ44.6
कपिलाग्निमुखी पीता पद्मा मूत्रा सितासिता।
आग्नेय्यः स्वेदजाः सप्त लूताः पित्तविकारदाः॥

अउ44.7
पाण्डुरा रक्तपदिका भृङ्गा पिङ्गा त्रिमण्डला।
पूतिर्वीराण्डजाःसप्त सौम्याः श्लेष्मविकारदाः॥

अउ44.8
कुमुदालविषा रक्ता श्चित्रा सन्ता निमेचका।
कसना चोद्भिदाः सप्त वायव्या वायुरोगदाः॥

अउ44.9
काकाण्ड्येणपदी लाजा वैदेही जालिनी तथा।
मालागुणा सुवर्णा च मिश्राः सप्तोपपादिकाः॥

अस44.10। व्याप्नुवन्त्याशु गात्राणि ज्वलत्पावकसन्निभाः।
सन्निपातकृतोऽसाध्याः साध्याः कृच्छ्रेणचेतराः॥

अउ44.11
ता दशन्ति सिते पक्षेऽसिते सन्धौ सदैव च॥

अउ44.12
दंशः सामान्यतस्तासां दद्रुमण्डलसन्निभः।
सितोऽसितोऽरुणःपीतःश्यावो वा मृदुरुन्नतः॥

अउ44.13
मध्ये कृष्णोऽथवा श्यावः पर्यन्ते जालकावृतः।
विसर्पवाञ्छोफयुतस्तप्यते बहुवेदनः॥

अउ44.14
ज्वराशुपाकविक्लेदकोथावदरणान्वितः।
क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम्॥

अउ44.15
श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः।
अष्टाभिरुद्वमन्त्येता विषं वक्त्राद्विशेषतः॥

अउ44.16
श्वासेन दंशः सहसा शूयते ज्वरदाहवान्।
दंष्ट्राकृतस्तूग्रतरो विवर्णः कठितः स्थिरः॥

अउ44.17
गम्भीरशोफवस्तोदवेदनादाहसंयुतः।
दुर्गन्धी शकृता दाहकण्डूचिमिचिमान्वितः॥

अउ44.18
पच्यते चाशु पक्वश्च पाण्डुः पीलुफलोपमः।
मूत्रेण रक्तपर्यन्तो मध्ये कृष्णो विशीर्यते॥

अउ44.19
आवर्तसदृशः शूनः पूतिः सर्पति दह्यते।
शुक्रेण ग्रन्थिसंस्थानः कठिनस्तीव्रवेदनः॥

अउ44.20
अल्पमूलोल्परुक्वोठो लालया कण्डुरो मृदुः।
नखेन चोषपिटकाकण्डूधूमायनान्वितः।
किंशुकोदरवर्णस्तु रजसा चञ्चुमालवान्॥

अउ44.21
लूता नाभेर्दशन्त्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः।
तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत्॥

अउ44.22
दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः॥

अउ44.23
सूचीव्यधवदाभाति ततोसौ प्रथमेऽहनि।
अव्यक्तवर्णः प्रचलः किञ्चित् कण्डूरुजान्वितः॥

अउ44.24
द्वितीयेऽत्युन्नतोन्तेषु पिटकैरिव चाचितः।
व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः॥

अउ44.25
तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः।
शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः॥

अउ44.26
महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः॥

अउ44.27
विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान्।
षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवित॥

अउ44.28
विषमित्यतितीक्ष्णानामितरे विभजेदतः॥

अउ44.29
विषं शाम्यति सर्वासामेकविंशतिरात्रतः॥

अउ44.30
दंशः पित्तात्मको दाहतृट्स्फोटज्वरदाहवान्।
सशोफः कठिनः पाण्डुः कण्डूमान् श्लैष्मिकोल्परुक्।
वातिकः परुषः श्यावः पर्वभेदादिरुक्करः॥

अउ44.31
सर्पज्ञानोदितैर्लिङ्गैर्द्दोषोद्रेकं च लक्षयेत्॥

अउ44.32
त्रिदोषाः प्रायशः सर्वा लूताः पित्तकफाधिकाः॥

अउ44.33
प्राणान्तिकीषु हृन्मोहश्वासहिध्माशिरोग्रहाः।
श्वेतासिताः पीतरक्ताः पिटकाः श्वयथूद्भवः॥

अउ44.34
वेपुथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता।
श्यावोष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम्।
पक्वजम्बूसवर्णं च दंशात् स्रवति शोणितम्॥

अउ44.35
अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत्।
दहेत् जांबवोष्ठाद्यैर्न तु पित्तोत्तरं दहेत्॥

अउ44.36
कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसांश्रितम्।
प्रसृतं सर्वतो दंशं न छिन्दीत दहेत् वा॥

अउ44.37
लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः।
सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः॥

अउ44.38
सर्वतोपहरेद्रक्तं शृङ्गाद्यैः सिरयापि वा।
स्रुते रक्ते परीषेको घृतक्षीरादिभिर्हितः॥

अउ44.39
प्रपौण्डरीकद्द्रीबेरसारिवोशीरजीवकाः।
लोध्रचन्दनजीवन्तीमञ्जिष्ठासर्जवञ्जुलाः॥

अउ44.40
मृणालबिसशैवालकुमुदोत्पलगैरिकाः।
न्यग्रोधोदुम्बराश्वत्थनिचुलप्लक्षवेतसाः॥

अउ44.41
समङ्गापाटलीगुन्द्राकाकोलीशतपर्विकाः।
शिरीषधातकीमूर्वाविदारीपद्मकिंशुकाः॥

अउ44.42
शृङ्गाटकं कोशवतीवायसीसोमराजयः।
मधुकांशुमतीमूर्वा यथालाभं समाहृताः।
शस्तः पर्युषितो लेपः सघृतः पैत्तिके वर्णे॥

अउ44.43
श्यामाद्वयनिशामुस्तानखरास्नामहासहाः।
वासापत्तङ्गसुवहानाकुलीगिरिकर्णिकाः॥

अउ44.44
सर्पगन्धायवफलानिर्गुण्ड्यश्मन्तकस्थिराः।
शुकाख्या महिषक्रान्ता कुष्ठेन्द्रयवकुङ्कुमम्॥

अउ44.45
करवीरागरुनतं सुगन्धा सिन्दुवारकम्।
आस्फोटगुन्द्रा च हिता प्रलेपः श्लैष्मिके विषे॥

अउ44.46
बिम्बीविदुलबन्धूककोविदारपलाशकाः।
सुवहारिष्टकब्राह्मीगुडूचीविश्वसैर्यकाः॥

अउ44.47
सिद्धार्थका देवदारु विडङ्गानीन्द्रवारुणी।
शतावरीलाङ्गलिकीराजवृक्षपुनर्नवाः॥

अउ44.48
जीवन्ती वायसी भार्ङ्गी कतकेन्द्रयवार्जुनाः।
मिसिव्याघ्रपदीसिंहपुच्छीमण्डलपर्णिकाः॥

अउ44.49
श्वदंष्ट्रा कोलबृहती रेवती श्वेतपुष्पिका।
प्रपुन्नाटः कुरवकः प्रलेपो वातिके विषे॥

अउ44.50
सर्वत्रैव च शस्यन्ते बोधिश्लेष्मातकाक्षकाः॥

अउ44.51
उदीर्णदोषान् बलिनो विषे महति वाभयेन्।
काकण्डकीकोशवती लोध्रेन्द्रयवसैन्धवैः॥

अउ44.52
पटोलपत्रमरिचकरघाटप्रियङ्गुभिः।
कृष्णाशुकनसानीपनिम्बसप्ताह्वयष्टिभिः॥

अउ44.53
विरेचयेच्च त्रिफलात्रिवृत्त्रिकटुसैन्धवैः।
सदन्तीपूगमृद्वीका विडङ्गैरथवा पचेत्।
एभिः पलार्धिकैः प्रस्थं समब्राह्मीरसं घृतात्॥

अउ44.54
पञ्चमूलशृतं क्षीरं तोयं वा शोधनौषधैः।
यथास्वं कल्कितैर्युक्तं पृथग्दद्याद्विरेचनम्॥

अउ44.55
पिप्पलीपिप्पलीमूलशुण्ठीन्द्रयवसैन्धवैः।
पाठाजमोदायष्ट्याह्वमुस्तासर्षपदारुभिः॥

अउ44.56
लघुना पञ्चमूलेन सरलेन च साधिता।
पेया संसर्जने योज्या सघृता विषनाशिनी॥

अउ44.57
आध्मानहिध्माश्वासेषु पृष्ठग्रीवावभञ्जने।
सङ्कोचस्तम्भकम्पेषु शूलेष्वर्धावभेदके॥

अउ44.58
वातरोगेषु चान्येषु पर्वभेदार्दितादिषु।
एरण्डविल्वसरलचिरिविल्वार्कपाटलीः॥

अउ44.59
शिग्रुपाठा कुशवृषं विदुलं च जले पचेत्।
कनीयः पश्चमूलं च तस्मिन् मण्डं पचेत् घृतात्॥

अउ44.60
द्विगुणे तुल्यगोक्षीरे पिष्टैर्यष्टीनिशानतैः।
सुराह्ववेल्लसरलशताह्वालोध्रगैरिकैः॥

अउ44.61
पयस्याकुष्ठागाङ्गेयीकृष्णामदनसैन्धवैः।
बस्तौ प्रत्यागतेश्नीयात् पञ्चमूलान्वितैः रसैः॥

अउ44.62
नावनं गौरवे शोफे लालास्रावे हनुग्रहे।
गिरिकर्णी फलसरो बन्धूकं किणिही सिता॥

अउ44.63
षड्ग्रन्थालशुनव्योषबृहतीवेल्लसैन्धवम्।
अपामार्गफलं भार्ङ्गी नाकुली सर्पगन्धिका॥

अउ44.64
श्यामा यवफला बीजं फणिज्जकशिरीषयोः।
वार्ताकरसपिष्टानि नस्यं विषहरं परम्॥

अउ44.65
विरिक्तशिरसश्चास्य सर्पिर्मण्डोनु नावनम्॥

अउ44.66
नेत्रोपरोधश्वयथुकण्डूनिद्रासमागमे।
वचामनोह्वात्रिकटुत्रिफलालोध्रगैरिकाः॥

अउ44.67
शङ्खो नीलोत्पलं ताम्रं हेम प्रवालकम्।
जीवन्ती लशुनं कुष्ठं कतकं मार्कवं नतम्॥

अउ44.68
प्रपैण्डरीकं मधुकं करञ्जफलसैन्धवम्।
निशे फणिज्जकं तुत्थं स्रोतोञ्जनरसाञ्जने।
मेषशृङ्गयाश्च कुसुमं पिष्टं गोवारिणाञ्जनम्॥

अउ44.69
सुरसप्रसवव्योषविल्वमूलसुराह्वयम्।
हरिद्रा छागलीमूत्रं लूताकीटघ्नमञ्जनम्॥

अउ44.70
शिरीषपद्मकोशीरपाटलीसिन्दुवारकम्।
क्षीरिशुङ्गनतोदीच्यसारिवाकुष्ठचन्दनम्॥

अउ44.71
शेलुस्वरसपिष्टोयमगदो नावनेञ्जने।
पाने प्रलेपे सेके च लूतासु परमं हितः॥

अउ44.72
पयस्या मधुमृद्वीकाश्वदंष्ट्राक्षीरमोरटाः।
गोजीविदारीयष्ट्याह्वमधुकानि च तद्गुणः॥

अउ44.73
तथा शिरीषकुसुमं चन्द्रलेखोद्भवं फलम्।
सुराला कटभी जातिः श्वेता च गिरिकर्णिका॥

अउ44.74
तद्वच्च युञ्ज्यात्तगरकुष्ठनागबलाबलाः॥

अउ44.75
हरिद्रायुगलं नागदन्ती लोध्रं च शाबरम्।
शिरीषपुष्पं तगरं सहदेवा शतावरी॥

अउ44.76
पुनर्नवा नागबला सर्पगन्धा कुटन्नटम्।
गवादनी दन्तशठसोमवल्केन्दुराजयः।
विषेषु सर्वेष्वगदः सक्षौद्रः सर्वकर्मकृत्॥

अउ44.77
सर्पाक्षी चन्दनं वक्रं मृगाक्षी गन्धनाकुली।
एला महासुगन्धा च बस्तमूत्रेण कल्कितः।
लेपे पाने च लूतासु नानेन सदृशोगदः॥

अउ44.78
कटभीमूलतगरसमङ्गोदवदारुभिः।
बृहतीद्वयगाङ्गेयीरोचनाचन्दनैर्घृतम्॥

अउ44.79
सिद्धं चतुर्गुणक्षीरं पानाभ्यञ्जनयोर्हितम्।
लूताकणभकीटानां विषे परमदारुणे॥

अउ44.80
निवृत्ते दाहशोफादौ कर्णिकां पातयेद्व्रणात्॥

अउ44.81
कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्।
त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा॥

अउ44.82
हरिद्रा गुग्गुलुः किण्वं वंशलेखः कपोतविड्।
तद्वच्च सैन्धवं कुष्ठं दन्तीकटुकदौग्धिकम्।
राजक्रोशातकीमूलं किण्वो वा मथितोद्भवः॥

अउ44.83
कर्णिकापातसमये बृंहयेत विषापहैः॥

अउ44.84
ऋतुकाले च लूतानां यावन्तः शुक्रविन्दवः।
देहे पतन्ति तावत्यो जायन्ते कर्णिकाः समम्॥

अउ44.85
गोदन्तदन्ती त्रिवृता हरिद्रे सैन्धवं तिलाः।
मधुकं निम्बपत्राणि घृतं च व्रणशोधनम्॥

अउ44.86
कान्ताविडङ्गखदिरनिम्बकम्पिल्लकाम्बुदैः।
सर्जैलाधातकीलोहैः सिद्धं सर्पिर्व्रणापहम्॥

अउ44.87
शिरीषकटभीशेलुक्षीरिवृक्षार्जुनत्वचः।
कल्कचूर्णपरीषेकैः कीटलूताव्रणापहाः॥

अउ44.88
शताह्वालोध्रकासीसदार्वीजम्ब्वस्थिरोचनाः।
हरीतकी पूगफलं चूर्णोयं व्रणरोपणः॥

अउ44.89
लाक्षा रजन्यौ मञ्जिष्ठा हरितालं मनश्शिला।
सर्पिर्मधु च लेपोयं त्वग्विशुद्धिकरः परम्॥

अउ44.90
रोमसञ्जननं कुर्याद्यदुक्तं व्रणसाधने॥

अउ44.91
स्नेहकार्यमशेषं च सर्पिषैव समाचरेत्।
विषस्य वृद्धये तैलमग्नेरिव तृणोलपम्॥
॥इति चतुश्चत्वारिंशोऽध्यायः॥

अथ पञ्चचत्वारिंशोऽध्यायः।

अउ45.1
अथातः प्रत्येकलूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ45.2
आदंशे पिटका ताम्रा भवेत् कपिलया स्थिरा।
लसीका रोमकूपेषु दाहोऽक्ष्णो मूर्ध्नि गौरवम्॥

अउ45.3
पाननस्याञ्जनालेपसेकेष्वत्र प्रयोजयेत्।
निशापद्मककुष्ठैलाकरञ्जककुभत्वचः॥

अउ45.4
स्थिरार्कपर्ण्यपामार्गब्राह्मीज्वलननाकुलीः।
अथवा कुष्ठपत्तङ्गनखजोङ्गककुङ्कुमम्॥

अउ45.5
अग्निमुख्यातिरुक्स्फोटः सम्भवत्यग्निदग्धवत्।
अग्निज्वालासमानेन प्रस्विद्यति विषोष्मणा॥

अउ45.6
तृड्दाहकम्पमूर्च्छावान् पित्तास्रमतिसार्यते।
योजयेत् पूर्ववत्तत्र प्रत्याख्याय त्वरान्वितः॥

अउ45.7
कुष्ठलामज्जकोशीरमधूकं मधुकं मधु।
लाभतः शीतवीर्याणि तालीसं गोपकन्यकाम्॥

अउ45.8
पीतया पीतविण्मूत्रदंशक्लेदाक्षिदर्शनम्।
मूर्च्छाच्छर्दिंशिरोदुःखज्वरारोचकशूलवान्॥

अउ45.9
तत्रेष्टाः कटभोशीरमुञ्जावञ्जुलपद्मकाः।
वंशकाशार्जुनकुशाः शिरीषकिणिहीत्वचः।
अथवा वन्यबाल्हीककुष्ठकेसरजोङ्गफम्॥

अउ45.10
पद्माभः पद्मया स्फोटो भिन्नोऽभिन्नः पुनर्भवेत्।
क्लिद्यत्याशु स्रवत्युष्णं क्लेदं स्पर्शेऽतिरुक्करः॥

अउ45.11
तत्र पद्मोत्पलान्नालो हिमवेतसवञ्जुलाः।
समृणालाः सकुमुदाः सक्षौद्रघृतशर्कराः॥

अउ45.12
पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः।
श्वासकासज्वरच्छर्दिंमूर्छादाहभ्रमान्वितः॥

अउ45.13
मनश्शिलालमधुकमधूकोत्पलचन्दनम्।
कुष्ठालामज्जकोशीरपद्मकं तत्र भेषजम्॥

अउ45.14
आदंशे श्वेतया श्वेता पिटका भृशकण्डुला।
दाहमूर्छाज्वररुजाविसर्पक्लेदकारिणी॥

अउ45.15
तत्रेष्टाः शीतरास्नैलाहरेणुनलवञ्जुलाः।
कुष्ठमांसीनतोशीरकान्ताध्यामकपद्मकाः॥

अउ45.16
आदंशः कृष्णया कृष्णो विङ्गन्धिः क्लेदशोफवान्।
उत्थाप्यते कृष्णमसृग्दुष्टं तत्र च भेषजम्।
महासुगन्धा सर्पक्षी वक्रैला गन्धनाकुली॥

अउ45.17
शूनः पाण्डूरया दंशः शोफो वक्त्रस्य गौरवम्।
ज्वरो विघूर्णनं जृम्भा शिरोरुक् तत्र भेषजम्।
मूलं वारुणपुष्पाया रोचना गोशकृद्रसः॥

अउ45.18
आपाण्डुपिटको दंशः शोफवान् रक्तपादया।
अस्रस्रुत्तत्र नलदसेव्योदीच्यहिमं मधु॥

अउ45.19
भृङ्गाभो भृङ्गया दंशः पिटका दाहरुक्करी।
कोठैश्च चीयते गात्रं तत्र शस्तं भिषग्जितम्।
अङ्कोलसारः फलिनी गवां पित्तं मिसिर्गदः॥

अउ45.20
पिङ्गया वह्निदग्धाभो दंशः स्फोटो बहुस्रुतिः।
तीब्रशोफज्वररुजाहृत्पीडादाहतृङ्युतः॥

अउ45.21
तत्रागदः सिता गुन्द्रा मल्लिका मधुकोत्पलम्।
जीवंकः क्षीरिणां शुङ्गा द्विहिमं नागकेसरम्॥

अउ45.22
त्रिमण्डलाया बहलो दंशः कृष्णं स्रवत्यसृक्।
अरुचिर्नेत्रयोर्दाहः कलुषस्रुतिदृष्टिता॥

अउ45.23
विविधैर्मण्डलैश्चास्य शरीरमुपचीयते।
तत्रार्कमूलद्विनिशासुरालापृश्निपर्णिकाः।
दधित्थनाकुलीब्राह्मीज्योतिष्मत्यो हितोऽगदः॥

अउ45.24
आदंशः पूतिगन्धाया विसर्पक्लेददाहवान्।
अलजीसन्निभो रुग्वान् विबद्धपिटकाचितः॥

अउ45.25
भार्ङ्गीनिदिग्धिकानिम्बपाटलीसिन्दुवारकम्।
दूर्वा हरिद्रे वासा च पूतिगन्धाविषापहम्॥

अउ45.26
चित्रमण्डलवान् दंशः पिटकाजालकावृतः।
वीराया मूर्धरुक् शीतज्वरान्नद्वेषसंयुतः॥

अउ45.27
हरिद्रे नलदं कुष्ठमेला सुरसमञ्जरी।
तगरं च श्वपित्तेन पिष्टं वीराविषापहम्॥

अउ45.28
दंशः कुमुदया दाहस्फोटस्फुरणतोदवान्।
पिच्छिलक्लेदविस्रावी सश्वासस्सगलग्रहः।
प्रत्याख्यायात्र कुर्वीत सामान्योक्तं क्रियाक्रमम्॥

अउ45.29
भवन्त्यलविषादंशे पीतलोहितमण्डलाः।
पिटकाः सर्षपप्रख्यास्तालुशोषो रुजा ज्वरः॥

अउ45.30
छर्दिर्दाहः शिरःकम्पस्तत्र सेव्यः समाक्षिकः।
सकासीसकह्रीबेरः सपिप्पलिवटाङ्कुरः॥

अउ45.31
रक्तान्तो रक्तया दंशः सपाण्डुपिटकाज्वरः।
श्वेतोतिसारः श्वसनं दाहः क्लेदः सशोणितः।
शस्तं शेल्वर्जुनाम्रातात्त्वङ्मूलं सिन्दुवारतः॥

अउ45.32
आदंशे चित्रया रक्ता पिटका विसृता स्थिरा।
पर्वभेदशिरस्तापज्वरशोफा विसर्पिणी॥

अउ45.33
भिन्ना कृष्णत्वमभ्येति पीतास्रावा महाव्रणा।
तत्रेष्टाः कुष्ठनलदशिरीषनलरेणुकाः॥

अउ45.34
दंशे च सन्तानिकया शूलमाकुलताश्रुणः।
प्रदराक्षेपकौ तत्र केसरं क्षीरिणां त्वचः।
आम्रस्य सिन्दुवारस्य मूलमश्मन्तकस्य च॥

अउ45.35
पिटका मेचका दंशमध्ये जतुकणोपमा।
ज्वरः शोफोत्र वारुण्यां रोचना रजनीद्वयम्॥

अउ45.36
राजीमान् कसनादंशः शिरोरुक् श्वासकासवान्।
शीतपिच्छिलरक्तस्रुद्रक्तोकं तत्र मेषजम्॥

अउ45.37
पाण्डुरक्तोऽतिरुग्दंशः काकाण्ड्याः स्मृतिमोषकृत्।
हिध्मा श्वसनतृण्मूर्च्छा निद्राक्षेपकहृद्गदाः॥

अउ45.38
रक्तान्तर्स्त्वेणपादाया दंशः कृष्णतिलाकृतिः।
दाहमोहाग्निवीसर्पतृङ्वमिश्वासकासवान्॥

अउ45.39
पूतिः श्यावोतिरुक् सासृगादंशो लाजवर्णया।
शीतज्वरसमुत्थानो दाहमूर्छातिसारवान्॥

अउ45.40
अग्निदग्धनिभो दंशो वैदेह्या भृशवेदनः।
गम्भीरः सज्वरस्तीक्ष्णमोहो हृदयपीडनम्॥

अउ45.41
ऊर्ध्वराजीचितो दंशो जालिन्यास्तीव्रशोफरुक्।
उदीर्णतृङ्भ्रमश्वासस्तम्भमोहविदीर्यते॥

अउ45.42
रक्तो मालागुणादंशो धूमगन्धिः सपीव्ररुक्।
दीर्यते पार्श्वतस्तैस्तैः संरब्धैर्मण्डलैर्युतः॥

अउ45.43
अन्तर्दाहो बहिः शैत्यमाध्मानं मूत्रकृच्छ्रता।
मूर्च्छाप्रलापातीसारज्वराः प्राणान्तकारिणः॥

अउ45.44
ध्मातः सौवर्णिकादंशः स्यन्दते मत्स्यगन्धिकः।
शिरोक्षिरुग्ज्वरः कासस्तृणा शोफो वमिर्भ्रमः॥

अउ45.45
आसाध्यानामपि हितं प्रत्याख्यायाशु योजयेत्।
दोषोच्छ्रायविशेषेण छेददाहादिवर्जितम्॥

अउ45.46
कपिला तत्र नासायामग्निर्दशति जत्रुणि।
पीता तु गण्डयोः पद्मा दक्षिणांसेथ कक्षयोः॥

अउ45.47
लूता मूत्रविषा श्वेता चिबुके कालिकाक्षिणि।
पाण्डुरा दक्षिणस्कन्धे करयो रक्तपादिका॥

अउ45.48
वामपार्श्वे दशेत् भृङ्गा वामांसे पिङ्गला दशेत्।
त्रिमण्डलोदरे पूतिः पृष्ठे वीरा तु दक्षिणे॥

अउ45.49
बाहौ नाभ्यां कुमुदिका वामस्कन्धेऽलसंज्ञिता।
कण्ठे रक्ता ललाटे तु चित्रा सन्तानिकौष्ठयोः॥

अउ45.50
मेचका मूर्ध्नि कसनाद्धस्तयोः कक्षमूलयोः।
काकाण्ड्येणी तु हृदये लाजवर्णा स्तनान्तरे॥

अउ45.51
बाहुसन्धिषु वैदेही लूतापाङ्गे तु जालिनी।
मालागुणाख्या ग्रीवायां सौवर्णी कर्णमूलयोः॥

अउ45.52
इति क्षेत्राणि नियतान्यत्युदीर्णविषाः पुनः।
परक्षेत्रेपि वर्तन्ते राजानोतिबला इव॥

॥इति पञ्चचत्वारिंशोऽध्यायः॥