अथर्ववेदः/काण्डं २०/सूक्तम् ०४१

विकिस्रोतः तः
← सूक्तं २०.०४० अथर्ववेदः - काण्डं २०
सूक्तं २०.०४१
गोतमः।
सूक्तं २०.०४२ →
दे. इन्द्रः। गायत्री।

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ॥१॥
इच्छन् अश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
तद्विदच्छर्यणावति ॥२॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥३॥