अथर्ववेदः/काण्डं १६/सूक्तम् ०४

विकिस्रोतः तः
← सूक्तं १६.३ अथर्ववेदः - काण्डं १६
सूक्तं १६.४
ब्रह्मा।
सूक्तं १६.५ →
दे. आदित्यः। १, ३ साम्नी अनुष्टुप्, .......

नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१॥
स्वासदसि सूषा अमृतो मर्त्येश्वा ॥२॥
मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्॥३॥
सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥
प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि ॥५॥
स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥६॥
शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥७॥