[ भाष्यम् ]
स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च, परैरसंसर्गः । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृञ्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन् कथं परका(की)यै- रत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥
किञ्च-
[ सूत्रम् ]
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥
[ भाष्यम् ]
भवन्तीति वाक्यशेषः । शुचेः सत्त्वशुद्धिः, ततः सौमनस्यं, तत ऐकाग्र्यं, तत इन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥
[ सूत्रम् ]
सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥
[ विवरणम् ]
{{gap}}यमेषु सिद्धय उक्ताः । इदानीं नियमेषु वक्ष्यामः--शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः । स्वाङ्गजुगुप्सया शौचमारभमाणः कायावद्यदर्शी शरीरगर्ह्यत्वदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च-परैरसंसर्गो भवति । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृञ्जलादिभिराक्षालयन्नपि कायशुद्धि[१]मपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्यत इति ॥ ४० ॥
किं चान्यद्भवति । सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चास्य भवन्ति । पूर्वस्य पूर्वस्य स्थैर्यादुत्तरस्याविर्भावः । कथम् ? शुचेः सत्त्वशुद्धिः । ततः सौमनस्यम्, तत ऐकाग्र्यम्, ततश्चेन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्यतः शौचस्थैर्यादधिगम्यत एतत् सर्वम् । ततश्चेयं शौचसिद्धिरेव ॥ ४१ ॥
सन्तोषादनुत्तमः सुखलाभः । सन्तोषवितर्कानुत्पत्तौ अनुत्तमः न विद्यतेऽस्मादन्य उत्तमः ।
- ↑ अत्र आदर्शकोशे 'शुद्धि' इत्येतदुपरि 'फलं’ इत्यादि अत्र (219) पुटे मुद्रितं वाक्यं दृश्यते । तस्यानन्वयात्, आदर्शकोशे पुटद्वयव्यवहितं ‘मपश्यन्’ इत्यादि वाक्यं योजितम् ।