सामग्री पर जाएँ

पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/142

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4. ज्याभिविना स्फुटीकरणविधिः [उपोद्घातः]

त्रिज्याशकलैद्युसदां स्पष्टीकरणं मयेरितं विधिवत् ।
अधुना विनैव मौवींशकलैर्वक्ष्ये स्फुटीकरणम् ॥ १ ॥

[भुजांशैः पिण्डाख्यराशिसाधनम्।] चक्रार्धाशा भुजांशैविरहितनिहतास्तद्विहीनैविभक्ताः

खव्योमेष्वभ्रवेदैः [४०५००] सलिलनिधि[४]हताः पिण्डराशिः प्रदिष्टः ॥ षड्भांश[१८०]म्रा भुजांशा निजकृतिरहितास्तत्तुरीयांशहीने: 

भक्ताः स्यात्पिण्डराशिविशिखनयनभूव्योमशीतांशुभि[१०१२५]र्वा ॥ २ ॥ [ततः भुजकोटिज्ययोः मन्दशीघ्रफलयोश्च साधनम्] परफलगुणनिघ्ना स्यात्फलज्या त्रिमौर्व्या भवति हि भुजजीवा एवमन्याहतेऽपि ॥ मृदुफलमिह साध्यं प्रोक्तवद्बाहुभागैः त्वरफलमपि चैवं बाहुकोट् यंशकैः स्वैः ॥ ३ ॥ Text of Ms. A :

[1] त्रिज्पासकलैर्द्युसदां स्पष्टीकरणं मयेरितं विधिवत् ।
अधुना विनैव मौवांशिकलैर्वक्ष्पे स्फुटीकरणं ।

[2] चक्रार्धाशा भुजांशैरंविरहितनिहितास्तद्दिहीनैर्विभक्तः खव्पेमेष्वभ्रवेदैस्सलिलनिषिहताः पिष्टराणिः प्रदिष्टः

षड्भांध्रा भुजांशा निजकृतिरहितास्तुरोपांशहीनै-

-र्भक्ता स्पात्र्षिडराशिविशिखनयनभूव्योमश्रीशीतiशुभिर्वा । [3] परफलगुणनिघ्नस्स्पात्फलज्पा त्रिमौर्व्पा भवति हि भुजजीवा धैवमन्पाहत्तेपि मृदुफलमिह साध्पं प्रोक्तवद्वाहुभागैस्स्वफकलमपि चैवं वाहुकोद्यंशकैस्खै: ।। Ms. B : 1 a र्द्युष्टस 2 b खरव्पेमे