सामग्री पर जाएँ

पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
नृसिहप्रसादे

श्रथ श्राद्धाधिकारिनिर्णयोऽभिधीयते ।

तत्र काष्णीजनि

पुत्रः शिष्योऽथवा पत्नी पिता भ्राता स्नुषा गुरुः ।
स्रीहारी धनहारी च कुर्युः पिण्डोदकक्रियाम् ।


तथा गुरु'

“ममीतस्य पितुः पुत्रैः श्राद्धं कार्यं प्रयत्नतः ।
ज्ञातिवन्धुसुहृत्पुत्रे ऋत्विक्कृत्यपुरोहिते ' । इति ।


अत्र पितुरित्यनेन मातुरपि ग्रहणम् । “मातुः पितुः प्रकुर्वीत
संस्थितस्यौरसः सुतः' इति सुमन्तुस्मरणात् । पुत्र इति श्रौरस
स्यैव ग्रहणम् ; मुख्यतमत्वात्, तदभावे दत्तक-कृत्रिमादयो
याज्ञवल्क्यप्रसिद्धा अवगन्तव्याः । तथा हि-(या.स्मृ.१२८॥१३२)

“ओोरसो धर्मपत्नीज तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ।।
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ।
अक्षतायां क्षताया वा जात: पोनर्भवः सुतः ।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ।
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः ।
दत्तात्मा तु स्वयं दत्तो गर्भ विन्नः सहोढजः ।।
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः? । इति ।