सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/413

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७१
मध्यगति वासना


 वा० वा०-अथ मध्यगतिवासनां वदति। प्रवहवायुना प्रेरित भचक्र भ्रमतीति प्रतिपादनार्थ सतवातानाह-भूवायुरिति।

 मेघाः भूवायौ तिष्ठन्तीत्याह-भूमेरिति । स्वादूदकसमुद्रान्तर्वाडवोऽग्निरस्ति । यथोध्र्वमग्ने: स्थापित भाजनस्थोदकमत्यन्तानलसंयोगेनोच्छलति तथा वाडवाग्नेरुपरिस्थं समुद्रोदकं द्वादशयोजनपर्यन्तमत्यन्तानलसंयोगेनोध्र्वं गच्छति । वाडवाग्नेनिर्गताः स्फुलिङ्गा अपि सधूमा वायुप्रेरितास्तत्रैव यान्ति ।

 एवं धूमज्योतिः सलिलमरुतां सन्निपातस्वरूपा मेघाः ।

 इति प्रसिद्धम्। मेघा लोकादृष्टेन वर्षाकाल एव जलं प्रयच्छन्ति। बहुकालघृतं जल घनीभूय करकात्वं प्रपद्यते। यद्वा भूमिस्थ जलमर्क: स्वरश्मिभिगृहीत्वा द्वादशयोजनान्तर्गतचर्मपेशीवदास्थितेषु मेघेषु स्थापयति । विरलावयवा जलधारणक्षमा जीवविशेषा वा मेघाः। दिवि भुक्तफलानां भूमौ प्रपततां यानि रूपाणि तान्युल्का इत्यादि प्रसिद्ध संहितासु । अम्बुदविद्युदाद्य भूवायौ तिष्ठति ।

 प्रवहसंस्थां तन्नियतजवं चाह--तदूर्ध्वगो यः प्रवह इति ।

 भग्रहाणां या पश्चिगतिरुपलभ्यते सा प्रवहकृतेत्याह- नक्षत्रकक्षाखचरैरिति । यस्मात् प्रवहवायुर्नक्षत्रकक्षाखचरैः समेतोऽस्त्यतस्तेन प्रवहानिलेनाहतः प्रेरितः खेचरचक्रयुक्तो भपञ्जरोऽजस्रं कुलालचक्रगकीटवद्भ्रमतीत्यर्थः । यथा तृणपर्णावसनाद्यं वाय्वाधारं वायुनैवान्तरिक्षे नीयमान दृश्यते तथा प्रवहाश्रितं खेचरचक्रयुतं भचक्र प्रवहेर्णव पराशाभिमुखं नीयते ।

 *भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः ।

 पर्यत्यजस्र तन्नद्धा ग्रहकक्षा यथा क्रमम् । इति

 सूर्यसिद्धान्तोत्तंग्रहगणितान्तगतमध्यमाधिकारे ‘तदन्ततारे च ध्रुवत्वे नियुक्त' . इत्यनेन ध्रुवाधारं भचक्रमित्युक्तम् । अत्र तु समेत इत्यनेनाधाराधेयभावः सम्बन्धः स्वीकृतः भचक्रपतनशङ्कानिरासतात्पर्येण मतद्वयस्वीकारेऽपि न कोऽपि दोषः । . . .


भूगोलवेगजनितेन समीरणेन · केत्वादयोऽप्यपरदिग्गतयः सदा स्युः ॥
१ ॥ प्रासादभूधरशिरांस्यपि सम्पतन्ति तस्माद्भ्रमत्युडुगणस्त्वचलाऽचलैव।

   सि० शे० १५ अ० १५-१७ श्लो० ।

ललल:-

यदि च भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः ।
इषवोऽभिनभः समुजिञ्झता निपतन्तः स्युरपांपतेदिशि '॥
पूर्वाभिमुखे भ्रमे भुवो वरुणाशाभिमुखो व्रजेद्धनः ।
अथ मन्दगमात् तथा भवेत् कथमेकेन दिवा परिभ्रमः ।

   शि० धी० गो० मिर्था० ४२-४३ श्लो० । ·

१. सू० सि० १२ अ० ७४ श्लो० ॥